प्रमुखा विकल्पसूचिः उद्घाट्यताम्

सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.5 पञ्चमप्रपाठकः/1.1.5.6 षष्ठी दशतिः

विश्वतोदावन्विश्वतो न आ भर यं त्वा शविष्ठमीमहे || ४३७ ||

१अ

एष ब्रह्मा य ऋत्विय इन्द्रो नाम श्रुतो गृणे || ४३८ ||

२अ

ब्रह्माण इन्द्रं महयन्तो अर्कैरवर्धयन्नहये हन्तवा उ || ४३९ ||

३अ

अनवस्ते रथमश्वाय तक्षुस्त्वष्टा वज्रं पुरुहूत द्युमन्तं || ४४० ||

४अ

शं पदं मघं रयीषिणो न काममव्रतो हिनोति न स्पृशद्रयिं || ४४१ ||

५अ

सदा गावः शुचयो विश्वधायसः सदा देवा अरेपसः || ४४२ ||

६अ

आ याहि वनसा सह गावः सचन्त वर्त्तनिं यदूधभिः || ४४३ ||

७अ

उप प्रक्षे मधुमति क्षियन्तः पुष्येम रयिं धीमहे त इन्द्र || ४४४ ||

८अ

अर्चन्त्यर्कं मरुतः स्वर्क्का आ स्तोभति श्रुतो युवा स इन्द्रः || ४४५ ||

९अ

प्र व इन्द्राय वृत्रहन्तमाय विप्राय गाथं गायत यं जुजोषते || ४४६ ||

१०अ