सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.6 षष्ठप्रपाठकः/1.1.6.2 द्वितीया दशतिः

अचिक्रदद्वृषा हरिर्महान्मित्रो न दर्शतः ।
सं सूर्येण दिद्युते ॥ ४९७ ॥

आ ते दक्षं मयोभुवं वह्निमद्या वृणीमहे ।
पान्तमा पुरुस्पृहं ॥ ४९८ ॥
वार्शाणि त्रीणि

अध्वर्यो अद्रिभिः सुतं सोमं पवित्र आ नय ।
पुनीहीन्द्राय पातवे ॥ ४९९ ॥

तरत्स मन्दी धावति धारा सुतस्यान्धसः ।
तरत्स मन्दी धावति ॥ ५०० ॥

आ पवस्व सहस्रिणं रयिं सोम सुवीर्यं ।
अस्मे श्रवांसि धारय ॥ ५०१ ॥

अनु प्रत्नास आयवः पदं नवीयो अक्रमुः ।
रुचे जनन्त सूर्यं ॥ ५०२ ॥

अर्षा सोम द्युमत्तमोऽभि द्रोणानि रोरुवत् ।
सीदन्योनौ योनेष्वा ॥ ५०३ ॥

वृषा सोम द्युमां असि वृषा देव वृषव्रतः ।
वृषा धर्माणि दध्रिषे ॥ ५०४ ॥
वृषकम्

इषे पवस्व धारया मृज्यमानो मनीषिभिः ।
इन्दो रुचाभि गा इहि ॥ ५०५ ॥

मन्द्रया सोम धारया वृषा पवस्व देवयुः ।
अव्यो वारेभिरस्मयुः ॥ ५०६ ॥

अया सोम सुकृत्यया महान्त्सन्नभ्यवर्धथाः ।
मन्दान इद्वृषायसे ॥ ५०७ ॥
अयासोमीयम्

अयं विचर्षणिर्हितः पवमानः स चेतति ।
हिन्वान आप्यं बृहत् ॥५०८ ॥

प्र ण इन्दो महे तु न ऊर्मिं न बिभ्रदर्षसि ।
अभि देवां अयास्यः ॥ ५०९ ॥

अपघ्नन्पवते मृधोऽप सोमो अराव्णः ।
गच्छन्निन्द्रस्य निष्कृतं ॥ ५१० ॥