प्रमुखा विकल्पसूचिः उद्घाट्यताम्

सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.2 द्वितीयप्रपाठकः/2.2.1 प्रथमोऽर्द्धः

पवस्व वाचो अग्रियः सोम चित्राभिरूतिभिः |
अभि विश्वानि काव्या || ७७५ ||

१अ
१छ्

त्वं समुद्रिया अपोऽग्रियो वाच ईरयन् |
पवस्व विश्वचर्षणे || ७७६ ||

२अ
२छ्

तुभ्येमा भुवना कवे महिम्ने सोम तस्थिरे |
तुभ्यं धावन्ति धेनवः || ७७७ ||

३अ
३छ्

पवस्वेन्दो वृषा सुतः कृधी नो यशसो जने |
विश्वा अप द्विषो जहि || ७७८ ||

१अ
१छ्

यस्य ते सख्ये वयं सासह्याम पृतन्यतः |
तवेन्दो द्युम्न उत्तमे || ७७९ ||

२अ
२छ्

या ते भीमान्यायुधा तिग्मानि सन्ति धूर्वणे |
रक्षा समस्य नो निदः || ७८० ||

३अ
३छ्

वृषा सोम द्युमां असि वृषा देव वृषव्रतः |
वृषा धर्माणि दध्रिषे || ७८१ ||

१अ
१छ्

वृष्णस्ते वृष्ण्यं शवो वृषा वनं वृषा सुतः |
स त्वं वृषन्वृषेदसि || ७८२ ||

२अ
२छ्

अश्वो न चक्रदो वृषा सं गा इन्दो समर्वतः |
वि नो राये दुरो वृधि || ७८३ ||

३अ
३छ्

वृषा ह्यसि भानुना द्युमन्तं त्वा हवामहे |
पवमान स्वर्दृशं || ७८४ ||

१अ
१छ्

यदद्भिः परिशिच्यसे मर्मृज्यमान आयुभिः |
द्रोणे सधस्थमश्नुषे || ७८५ ||

२अ
२छ्

आ पवस्व सुवीर्यं मन्दमानः स्वायुध |
इहो ष्विन्दवा गहि || ७८६ ||

३अ
३छ्

पवमानस्य ते वयं पवित्रमभ्युन्दतः |
सखित्वमा वृणीमहे || ७८७ ||

१अ
१छ्

ये ते पवित्रमूर्मयोऽभिक्षरन्ति धारया |
तेभिर्नः सोम मृडय || ७८८ ||

२अ
२छ्

स नः पुनान आ भर रयिं वीरवतीमिषम्
ईशानः सोम विश्वतः || ७८९ ||

३अ
३छ्

अग्निं दूतं वृणीमहे होतारं विश्ववेदसं |
अस्य यज्ञस्य सुक्रतुं || ७९० ||

१अ
१छ्

अग्निमग्निं हवीमभिः सदा हवन्त विश्पतिं |
हव्यवाहं पुरुप्रियं || ७९१ ||

२अ
२छ्

अग्ने देवां इहा वह जज्ञानो वृक्तबर्हिषे |
असि होता न ईड्यः || ७९२ ||

३अ
३छ्

मित्रं वयं हवामहे वरुणं सोमपीतये |
य जाता पूतदक्षसा || ७९३ ||

१अ
१छ्

ऋतेन यावृतावृधावृतस्य ज्योतिषस्पती |
ता मित्रावरुणा हुवे || ७९४ ||

२अ
२छ्

वरुणः प्राविता भुवन्मित्रो विश्वाभिरूतिभिः |
करतां नः सुराधसः || ७९५ ||

३अ
३छ्

इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः |
इन्द्रं वाणीरनूषत || ७९६ ||

१अ
१छ्

इन्द्र इद्धर्योः सचा सम्मिश्ल आ वचोयुजा |
इन्द्रो वज्री हिरण्ययः || ७९७ ||

२अ
२छ्

इन्द्र वाजेषु नोऽव सहस्रप्रधनेषु च |
उग्र उग्राभिरूतिभिः || ७९८ ||

३अ
३छ्

इन्द्रो दीर्धाय चक्षस आ सूर्यं रोहयद्दिवि |

इन्द्रे अग्ना नमो बृहत्सुवृक्तिमेरयामहे |
धिया धेना अवस्यवः || ८०० ||

१अ
१छ्

ता हि शश्वन्त ईडत इत्था विप्रास ऊतये |
सबाधो वाजसातये || ८०१ ||

२अ
२छ्

ता वां गीर्भिर्विपन्युवः प्रयस्वन्तो हवामहे |
मेधसाता सनिष्यवः || ८०२ ||

३अ
३छ्

१०

वृषा पवस्व धारया मरुत्वते च मत्सरः |
दिश्वा दधान ओजसा || ८०३ ||

१अ
१छ्

तं त्वा धर्त्तारमोण्यो३ः पवमान स्वर्दृशं |
हिन्वे वाजेषु वाजिनं || ८०४ ||

२अ
२छ्

अया चित्तो विपानया हरिः पवस्व धारया |
युजं वाजेषु चोदय || ८०५ ||

३अ
३छ्

११

वृषा शोणो अभिकनिक्रदद्गा नदयन्नेषि पृथिवीमुत द्यां |
इन्द्रस्येव वग्नुरा शृण्व आजौ प्रचोदयन्नर्षसि वाचमेमां || ८०६ ||

१अ
१छ्

रसाय्यः पयसा पिन्वमान ईरयन्नेषि मधुमन्तमंशुं |
पवमान सन्तनिमेषि कृण्वन्निन्द्राय सोम परिषिच्यमानः || ८०७ ||

२अ
२छ्

एवा पवस्व मदिरो मदायोदग्राभस्य नमयन्वधस्नुं |
परि वर्णं भरमाणो रुशन्तं गव्युर्नो अर्ष परि सोम सिक्तः || ८०८ ||

३अ
३छ्

१२

त्वामिद्धि हवामहे सातौ वाजस्य कारवः |
त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः || ८०९ ||

१अ
१छ्

स त्वं नश्चित्र वज्रहस्त धृष्णुया मह स्तवानो अद्रिवः |
गामश्वं रथ्यमिन्द्र सं किर सत्रा वाजं न जिग्युषे || ८१० ||

२अ
२छ्

१३

अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे |
यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति || ८११ ||

१अ
१छ्

शतानीकेव प्र जिगाति धृष्णुया हन्ति वृत्राणि दाशुषे |
गिरेरिव प्र रसा अस्य पिन्विरे दत्राणि पुरुभोजसः || ८१२ ||

२अ
२छ्

१४

त्वामिदा ह्यो नरोऽपीप्यन्वज्रिन्भूर्णयः |
स इन्द्र स्तोमवाहस इह श्रुध्युप स्वसरमा गहि || ८१३ ||

१अ
१छ्

मत्स्वा सुशिप्रिन्हरिवस्तमीमहे त्वया भूषन्ति वेधसः |
तव श्रवांस्युपमान्युक्थ्य सुतेष्विन्द्र गिर्वणः || ८१४ ||

२अ
२छ्

१५

यस्ते मदो वरेण्यस्तेना पवस्वान्धसा |
देवावीरघशंसहा || ८१५ ||

१अ
१छ्

जघ्निर्वृत्रममित्रियं सस्निर्वाजं दिवेदिवे |
गोषातिरश्वसा असि || ८१६ ||

२अ
२छ्

सम्मिश्लो अरुषो भुवः सूपस्थाभिर्न धेनुभि |
सीदं च्छ्येनो न योनिमा || ८१७ ||

३अ
३छ्

१६

अयं पूषा रयिर्भगः सोमः पुनानो अर्षति |
पतिर्विश्वस्य भूमनो व्यख्यद्रोदसी उभे || ८१८ ||

१अ
१छ्

समु प्रिया अनूषत गावो मदाय घृष्वयः |
सोमासः कृण्वते पथः पवमानास इन्दवः || ८१९ ||

२अ
२छ्

य ओजिष्ठस्तमा भर पवमान श्रवाय्यं |
यः पञ्च चर्षणीरभि रयिं येन वनामहे || ८२० ||

३अ
३छ्

१७

वृषा मतीनां पवते विचक्षणः सोमो अह्नां प्रतरीतोषसां दिवः |
प्राणा सिन्धूनां कलशां अचिक्रददिन्द्रस्य हार्द्याविशन्मनीषिभिः || ८२१ ||

१अ
१छ्

मनीषिभिः पवते पूर्व्यः कविर्नृभिर्यतः परि कोशां असिष्यदत् |
त्रितस्य नाम जनयन्मधु क्षरन्निन्द्रस्य वायूं सख्याय वर्धयन् ||८२२ ||

२अ
२छ्

अयं पुनान उषसो अरोचयदयं सिन्धुभ्यो अभवदु लोककृत् |
अयं त्रिः सप्त दुदुहान आशिरं सोमो हृदे पवते चारु मत्सरः || ८२३ ||

३अ
३छ्

१८

एवा ह्यसि वीरयुरेवा शूर उत स्थिरह् |
एवा ते राध्यं मनः || ८२४ ||

१अ
१छ्

एवा रातिस्तुवीमघ विश्वेभिर्धायि धातृभिः |
अधा चिदिन्द्र नः सचा || ८२५ ||

२अ
२छ्

मो षु ब्रह्मेव तदिन्द्रयुर्भुवो वाजानां पते |
मत्स्वा सुतस्य गोमतः || ८२६ ||

३अ
३छ्

१९

इन्द्रं विश्वा अवीवृधन्त्समुद्रव्यचसं गिरः |
रथीतमं रथीनां वाजानां सत्पतिं पतिं || ८२७ ||

१अ
१छ्

सख्ये त इन्द्र वाजिनो मा भेम शवसस्पते |
त्वामभि प्र नोनुमो जेतारमपराजितं || ८२८ ||

२अ
२छ्

पूर्वीरिन्द्रस्य रातयो न वि दस्यन्त्यूतयः |
यदा वाजस्य गोमत स्तोतृभ्यो मंहते मघं || ८२९ ||

३अ
३छ्