सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.6 षष्ठप्रपाठकः/2.6.3 तृतीयोऽर्द्धः
१
पवस्व वृष्टिमा सु नोऽपामूर्मिं दिवस्परि ।
अयक्ष्मा बृहतीरिषः ।। १४३५ ।।
तया पवस्व धारया यया गाव इहागमन् ।
जन्यास उप नो गृहं ।। १४३६ ।।
घृतं पवस्व धारया यज्ञेषु देववीतमः ।
अस्मभ्यं वृष्टिमा पव ।। १४३७ ।।
स न ऊर्जे व्या३व्ययं पवित्रं धाव धारया ।
देवासः शृणवन्हि कं ।। १४३८ ।।
पवमानो असिष्यदद्रक्षांस्यपजङ्घनत् ।
प्रत्नवद्रोचयन्रुचः ।। १४३९ ।।
२
प्रत्यस्मै पिपीषते विश्वानि विदुषे भर ।
अरङ्गमाय जग्मयेऽपश्चादध्वने नरः ।। १४४० ।।
एमेनं प्रत्येतन सोमेभिः सोमपातमं ।
अमत्रेभिरृजीषिणमिन्द्रं सुतेभिरिन्दुभिः ।। १४४१ ।।
यदी सुतेभिरिन्दुभिः सोमेभिः प्रतिभूषथ ।
वेदा विश्वस्य मेधिरो धृषत्तन्तमिदेषते ।। १४४२ ।।
अस्माअस्मा इदन्धसोऽध्वर्यो प्र भरा सुतं ।
कुवित्समस्य जेन्यस्य शर्धतोऽभिशस्तेरवस्वरत् ।।१४४३ ।।
नानदम्
३
बभ्रवे नु स्वतवसेऽरुणाय दिविस्पृशे ।
सोमाय गाथमर्चत ।। १४४४ ।।
हस्तच्युतेभिरद्रिभिः सुतं सोमं पुनीतन ।
मधावा धावता मधु ।। १४४५ ।।
नमसेदुप सीदत दध्नेदभि श्रीणीतन ।
इन्दुमिन्द्रे दधातन ।। १४४६ ।।
अमित्रहा विचर्षणिः पवस्व सोम शं गवे ।
देवेभ्यो अनुकामकृत् ।।१४४७ ।।
इन्द्राय सोम पातवे मदाय परि षिच्यसे ।
मनश्चिन्मनसस्पतिः ।। १४४८ ।।
पवमान सुवीर्यं रयिं सोम रिरीहि नः ।
इन्दविन्द्रेण नो युजा ।। १४४९ ।।
४
उद्धेदभि श्रुतामघं वृषमं नर्यापसं ।
अस्तारमेषि सूर्य ।। १४५० ।।
नव यो नवतिं पुरो बिभेद बाह्वोजसा ।
अहिं च वृत्रहावधीत् ।।१४५१ ।।
स न इन्द्रः शिवः सखाश्वावद्गोमद्यवमत् ।
उरुधारेव दोहते ।। १४५२ ।।
५
विभ्राड्बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतं ।
वातजूतो यो अभिरक्षति त्मना प्रजाः पिपर्ति बहुधा वि राजति ।। १४५३ ।।
विभ्राड्बृहत्सुभृतं वाजसातमं धर्मं दिवो धरुणे सत्यमर्पितं ।
अमित्रहा वृत्रहा दस्युहन्तमं ज्योतिर्जज्ञे असुरहा सपत्नहा ।। १४५४ ।।
इदं श्रेष्ठं ज्योतिषां ज्योतिरुत्तमं विश्वजिद्धनजिदुच्यते बृहत् ।
विश्वभ्राड्भ्राजो महि सूर्यो दृश उरु पप्रथे सह ओजो अच्युतं ।। १४५५ ।।
महादिवाकीर्त्यानि
६
इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा ।
शिक्षा णो अस्मिन्पुरुहूत यामनि जीव ज्योतिरशीमहि ।। १४५६ ।।
मा नो अज्ञाता वृजना दुराध्यो३ माशिवासोऽव क्रमुः ।
त्वया वयं प्रवतः शश्वतीरपोऽति शूर तरामसि ।। १४५७ ।।
विकर्णम्
७
अद्याद्या श्वःश्व इन्द्र त्रास्व परे च नः ।
विश्वा च नो जरित्ऱीन्त्सत्पते अहा दिवा नक्तं च रक्षिषः ।। १४५८ ।।
प्रभङ्गी शूरो मघवा तुवीमघः सम्मिश्लो विर्याय कं ।
उभा ते बाहू वृषणा शतक्रतो नि या वज्रं मिमिक्षतुः ।। १४५९ ।।
८
जनीयन्तो न्वग्रवः पुत्रीयन्तः सुदानवः ।
सरस्वन्तं हवामहे ।। १४६० ।।
९
उत नः प्रिया प्रियासु सप्तस्वसा सुजुष्टा ।
सरस्वती स्तोम्या भूत् ।।१४६१ ।।
१०
तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।
धियो यो नः प्रचोदयात् ।।१४६२ ।।
गायत्रं साम
सोमानां स्वरणं कृणुहि ब्रह्मणस्पते ।
कक्षीवन्तं य औशिजः ।। १४६३ ।।
अग्न आयूंषि पवसे आ सुवोर्जं इषं च नः ।
आरे बाधस्व दुच्छुनां ।। १४६४ ।।
११
ता नः शक्तं पार्थिवस्य महो रायो दिव्यस्य ।
महि वा क्षत्रं देवेषु ।। १४६५ ।।
ऋतमृतेन सपन्तेषिरं दक्षमाशाते ।
अद्रुहा देवौ वर्धेते ।। १४६६ ।।
वृष्टिद्यावा रीत्यापेषस्पती दानुमत्याः ।
बृहन्तं गर्त्तमाशाते ।। १४६७ ।।
१२
युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः ।
रोचन्ते रोचना दिवि ।। १४६८ ।।
युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे ।
शोणा धृष्णू नृवाहसा ।। १४६९ ।।
केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे ।
समुषद्भिरजायथाः ।। १४७० ।।
१३
अयं सोम इन्द्र तुभ्यं सुन्वे तुभ्यं पवते त्वमस्य पाहि ।
त्वं ह यं चकृषे त्वं ववृष इन्दुं मदाय युज्याय सोमं ।। १४७१ ।।
स ईं रथो न भुरिषाडयोजि महः पुरूणि सातये वसूनि ।
आदीं विश्वा नहुष्याणि जाता स्वर्षाता वन ऊर्ध्वा नवन्त ।। १४७२ ।।
शुष्मी शर्धो न मारुतं पवस्वानभिशस्ता दिव्या यथा विट् ।
आपो न मक्षू सुमतिर्भवा नः सहस्राप्साः पृतनाषाण्न यज्ञः ।। १४७३ ।।
१४
त्वमग्ने यज्ञानां होता विश्वेषां हितः ।
देवेभिर्मानुषे जने ।। १४७४ ।।
स नो मन्द्राभिरध्वरे जिह्वाभिर्यजा महः ।
आ देवान्वक्षि यक्षि च ।। १४७५ ।।
वेत्था हि वेधो अध्वनः पथश्च देवाञ्जसा ।
अग्ने यज्ञेषु सुक्रतो ।। १४७६ ।।
बृहत्
१५
होता देवो अमर्त्यः पुरस्तादेति मायया ।
विदथानि प्रचोदयन् ।।१४७७ ।।
वाजी वाजेषु धीयतेऽध्वरेषु प्र णीयते ।
विप्रो यज्ञस्य साधनः ।। १४७८ ।।
धिया चक्रे वरेण्यो भूतानां गर्भमा दधे ।
दक्षस्य पितरं तना ।। १४७९ ।।
१६
आ सुते सिञ्चत श्रियं रोदस्योरभिश्रियं ।
रसा दधीत वृषभं ।। १४८० ।।
ते जानत स्वमोक्या३ं सं वत्सासो न मातृभिः ।
मिथो नसन्त जामिभिः ।। १४८१ ।।
उप स्रक्वेषु बप्सतः कृण्वते धरुणं दिवि ।
इन्द्रे अग्ना नमः स्वः ।। १४८२ ।।
१७
तदिदास भुवनेषु ज्येष्ठं यतो जज्ञ उग्रस्त्वेषनृम्णः ।
सद्यो जज्ञानो नि रिणाति शत्रूननु यं विश्वे मदन्त्यूमाः ।। १४८३ ।।
वावृधानः शवसा भूर्योजाः शत्रुर्दासाय भियसं दधाति ।
अव्यनच्च व्यनच्च सस्नि सं ते नवन्त प्रभृता मदेषु ।। १४८४ ।।
त्वे क्रतुमपि वृञ्जन्ति विश्वे द्विर्यदेते त्रिर्भवन्त्यूमाः ।
स्वादोः स्वादीयः स्वादुना सृजा समदः सु मधु मधुनाभि योधीः ।। १४८५ ।।
राजनम्
१८
त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृम्पत्सोममपिबद्विष्णुना सुतं यथावशं ।
स ईं ममाद महि कर्म कर्तवे महामुरुं सैनं सश्चद्देवो देवं सत्य इन्दुः सत्यमिन्द्रम् ।। १४८६ ।।
साकं जातः क्रतुना साकमोजसा ववक्षिथ साकं वृद्धो वीर्यैः सासहिर्मृधो विचर्षणिः ।
दाता राध स्तुवते काम्यं वसु प्रचेतन सैनं सश्चद्देवो देवं सत्य इन्दुः सत्यमिन्द्रम् ।। १४८७ ।।
अध त्विषीमां अभ्योजसा कृविं युधाभवदा रोदसी अपृणदस्य मज्मना प्र वावृधे ।
अधत्तान्यं जठरे प्रेमरिच्यत प्र चेतय सैनं सश्चद्देवो देवं सत्य इन्दुः सत्यमिन्द्रम् ।। १४८८ ।।
भरद्वाजः
{{टिप्पणी। १४६२ तत्सवितुर्वरेण्यम् इति
गायत्री उपरि पौराणिक-वैदिक संदर्भाः
}}