प्रमुखा विकल्पसूचिः उद्घाट्यताम्

सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.7 सप्तमप्रपाठकः/2.7.2 द्वितीयोऽर्द्धः

कस्ते जामिर्जनानामग्ने को दाश्वध्वरः |
को ह कस्मिन्नसि श्रितः || १५३५ ||

१अ
१छ्

त्वं जामिर्जनानामग्ने मित्रो असि प्रियः |
सखा सखिभ्य ईड्यः || १५३६ ||

२अ
२छ्

यजा नो मित्रावरुणा यजा देवां ऋतं बृहत् |
अग्ने यक्षि स्वं दमं || १५३७ ||

३अ
३छ्

ईडेन्यो नमस्यस्तिरस्तमांसि दर्शतः |
समग्निरिध्यते वृषा || १५३८ ||

१अ
१छ्

वृषो अग्निः समिध्यतेऽश्वो न देववाहनः |
तं हविष्मन्त ईडते || १५३९ ||

२अ
२छ्

वृषणं त्वा वयं वृषन्वृषणः समिधीमहि |
अग्ने दीद्यतं बृहत् ||१५४० ||

३अ
३छ्

उत्ते बृहन्तो अर्चयः समिधानस्य दीदिवः |
अग्ने शुक्रास ईरते || १५४१ ||

१अ
१छ्

उप त्वा जुह्वो३ मम घृताचीर्यन्तु हर्यत |
अग्ने हव्या जुषस्व नः || १५४२ ||

२अ
२छ्

मन्द्रं होतारमृत्विजं चित्रभानुं विभावसुं |
अग्निमीडे स उ श्रवत् ||१५४३ ||

३अ
३छ्

पाहि नो अग्न एकया पाह्यू३त द्वितीयया |
पाहि गीर्भिस्तिसृभिरूर्जां पते पाहि चतसृभिर्वसो || १५४४ ||

१अ
१छ्

पाहि विश्वस्माद्रक्षसो अराव्णः प्र स्म वाजेषु नोऽव |
त्वामिद्धि नेदिष्ठं देवतातय आपिं नक्षामहे वृधे || १५४५ ||

२अ
२छ्

इनो राजन्नरतिः समिद्धो रौद्रो दक्षाय सुषुमां अदर्शि |
चिकिद्वि भाति भासा बृहतासिक्नीमेति रुशतीमपाजन् ||१५४६ ||

१अ
१छ्

कृष्णां यदेनीमभि वर्पसाभूज्जनयन्योषां बृहतः पितुर्जां |
ऊर्ध्वं भानुं सूर्यस्य स्तभायन्दिवो वसुभिररतिर्वि भाति || १५४७ ||

२अ
२छ्

भद्रो भद्रया सचमान आगात्स्वसारं जारो अभ्येति पश्चात् |
सुप्रकेतैर्द्युभिरग्निर्वितिष्ठन्रुशद्भिर्वर्णैरभि राममस्थात् ||१५४८ ||

३अ
३छ्

कया ते अग्ने अङ्गिर ऊर्जो नपादुपस्तुतिं |
वराय देव मन्यवे || १५४९ ||

१अ
१छ्

दाशेम कस्य मनसा यज्ञस्य सहसो यहो |
कदु वोच इदं नमः || १५५० ||

२अ
२छ्

अधा त्वं हि नस्करो विश्वा अस्मभ्यं सुक्षितीः |
वाजद्रविणसो गिरः || १५५१ ||

३अ
३छ्

अग्न आ याह्यग्निभिर्होतारं त्वा वृणीमहे |
आ त्वामनक्तु प्रयता हविष्मती यजिष्ठं बर्हिरासदे || १५५२ ||

१अ
१छ्

अच्छा हि त्वा सहसः सूनो अङ्गिरः स्रुचश्चरन्त्यध्वरे |
ऊर्जो नपातं घृतकेशमीमहेऽग्निं यज्ञेषु पूर्व्यं || १५५३ ||

२अ
२छ्

अच्छा नः शीरशोचिषं गिरो यन्तु दर्शतं |
अच्छा यज्ञासो नमसा पुरूवसुं पुरुप्रशस्तमूतये || १५५४ ||

१अ
१छ्

अग्निं सूनुं सहसो जातवेदसं दानाय वार्याणां |
द्विता यो भूदमृतो मर्त्येष्वा होता मन्द्रतमो विशि || १५५५ ||

२अ
२छ्

अदाभ्यः पुरएता विशामग्निर्मानुषीणां |
तूर्णी रथः सदा नवः || १५५६ ||

१अ
१छ्

अभि प्रयांसि वाहसा दाश्वां अश्नोति मर्त्यः |
क्षयं पावकशोचिषः || १५५७ ||

२अ
२छ्

साह्वान्विश्वा अभियुजः क्रतुर्देवानाममृक्तः |
अग्निस्तुविश्रवस्तमः || १५५८ ||

३अ
३छ्

१०

भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः |
भद्रा उत प्रशस्तयः || १५५९ ||

१अ
१छ्

भद्रं मनः कृणुष्व वृत्रतूर्ये येना समत्सु सासहिः |
अव स्थिरा तनुहि भूरि शर्धतां वनेमा ते अभिष्टये || १५६० ||

२अ
२छ्

११

अग्ने वाजस्य गोमत ईशानः सहसो यहो |
अस्मे देहि जातवेदो महि श्रवः || १५६१ ||

१अ
१छ्

स इधानो वसुष्कविरग्निरीडेन्यो गिरा |
रेवदस्मभ्यं पुर्वणीक दीदिहि || १५६२ ||

२अ
२छ्

क्षपो राजन्नुत त्मनाग्ने वस्तोरुतोषसः |
स तिग्मजम्भ रक्षसो दह प्रति || १५६३ ||

३अ
३छ्

१२

विशोविशो वो अतिथिं वाजयन्तः पुरुप्रियं |
अग्निं वो दुर्यं वच स्तुषे शूषस्य मन्मभिः || १५६४ ||

१अ
१छ्

यं जनासो हविष्मन्तो मित्रं न सर्पिरासुतिं |
प्रशंसन्ति प्रशस्तिभिः || १५६५ ||

२अ
२छ्

पन्यांसं जातवेदसं यो देवतात्युद्यता |
हव्यान्यैरयद्दिवि || १५६६ ||

३अ
३छ्

१३

समिद्धमग्निं समिधा गिरा गृणे शुचिं पावकं पुरो अध्वरे ध्रुवं |
विप्रं होतारं पुरुवारमद्रुहं कविं सुम्नैरीमहे जातवेदसं || १५६७ ||

१अ
१छ्

त्वां दूतमग्ने अमृतं युगेयुगे हव्यवाहं दधिरे पायुमीड्यम् |
देवासश्च मर्त्तासश्च जागृविं विभुं विश्पतिं नमसा नि षेदिरे || १५६८ ||

२अ
२छ्

विभूषन्नग्न उभयां अनु व्रता दूतो देवानां रजसी समीयसे |
यत्ते धीतिं सुमतिमावृणीमहेऽध स्मा नस्त्रिवरूथः शिवो भव || १५६९ ||

३अ
३छ्

१४

उप त्वा जामयो गिरो देदिशतीर्हविष्कृतः |
वायोरनीके अस्थिरन् ||१५७० ||

१अ
१छ्

यस्य त्रिधात्ववृतं बर्हिस्तस्थावसन्दिनं |
आपश्चिन्नि दधा पदं || १५७१ ||

२अ
२छ्

पदं देवस्य मीढुषोऽनाधृष्टाभिरूतिभिः |
भद्रा सूर्य इवोपदृक् ||१५७२ ||

३अ
३छ्