सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.7 सप्तमप्रपाठकः/2.7.3 तृतीयोऽर्द्धः


अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिरायवः ।
समीचीनास ऋभवः समस्वरन्रुद्रा गृणन्त पूर्व्यं ॥ १५७३ ॥
अस्येदिन्द्रो वावृधे वृष्ण्यं शवो मदे सुतस्य विष्णवि ।
अद्या तमस्य महिमानमायवोऽनु ष्टुवन्ति पूर्वथा ॥ १५७४ ॥


प्र वामर्चन्त्युक्थिनो नीथाविदो जरितारः ।
इन्द्राग्नी इष आ वृणे ॥ १५७५ ॥
इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतं ।
साकमेकेन कर्मणा ॥ १५७६ ॥
इन्द्राग्नी अपसस्पर्युप प्र यन्ति धीतयः ।
ऋतस्य पथ्याऽऽ३ अनु ॥ १५७७ ॥
इन्द्राग्नी तविषाणी वां सधस्थानि प्रयांसि च ।
युवोरप्तूर्यं हितं ॥ १५७८ ॥


शग्ध्यू३ षु शचीपत इन्द्र विश्वाभिरूतिभिः ।
भगं न हि त्वा यशसं वसुविदमनु शूर चरामसि ॥ १५७९ ॥
पौरो अश्वस्य पुरुकृद्गवामस्युत्सो देव हिरण्ययः ।
न किर्हि दानं परि मर्धिषत्वे यद्यद्यामि तदा भर ॥ १५८० ॥


त्वं ह्येहि चेरवे विदा भगं वसुत्तये ।
उद्वावृषस्व मधवन्गविष्टय उदिन्द्राश्वमिष्टये ॥ १५८१ ॥
त्वं पुरू सहस्राणि शतानि च यूथा दानाय मंहसे ।
आ पुरन्दरं चकृम विप्रवचस इन्द्रं गायन्तोऽवसे ॥ १५८२ ॥


यो विश्वा दयते वसु होता मन्द्रो जनानां ।
मधोर्न पात्रा प्रथमान्यस्मै प्र स्तोमा यन्त्वग्नये ॥ १५८३ ॥
अश्व न गीर्भी रथ्यं सुदानवो मर्मृज्यन्ते देवयवः ।
उभे तोके तनये दस्म विस्पते पर्षि राधो मघोनां ॥ १५८४ ॥


इमं मे वरुण श्रुधी हवमद्या च मृडय ।
त्वामवस्युरा चके ॥ १५८५ ॥


कया त्वं न ऊत्याभि प्र मन्दसे वृषन् ।
कया स्तोतृभ्य आ भर ॥ १५८६ ॥


इन्द्रमिद्देवतातय इन्द्रं प्रयत्यध्वरे ।
इन्द्रं समीके वनिनो हवामह इन्द्रं धनस्य सातये ॥ १५८७ ॥
इन्द्रो मह्ना रोदसी पप्रथच्छव इन्द्रः सूर्यमरोचयत् ।
इन्द्रे ह विश्वा भुवनानि येमिर इन्द्रे सुवानास इन्दवः ॥ १५८८ ॥
महादिवाकीर्त्यानि


विश्वकर्मन्हविषा वावृधानः स्वयं यजस्व तन्वा३ं स्वा हि ते ।
मुह्यन्त्वन्ये अभितो जनास इहास्माकं मघवा सूरिरस्तु ॥ १५८९ ॥

१०
अया रुचा हरिण्या पुनानो विश्वा द्वेषांसि तरति सयुग्वभिः सूरो न सयुग्वभिः ।
धारा पृष्ठस्य रोचते पुनानो अरुषो हरिः ।
विश्वा यद्रूपा परियास्यृक्वभिः सप्तास्येभिरृक्वभिः ॥ १५९० ॥
प्राचीमनु प्रदिशं पाति चेकितत्सं रश्मिभिर्यतते दर्शतो रथो दैव्यो दर्शतो रथः ।
अग्मन्नुक्थानि पौंस्येन्द्रं जैत्राय हर्षयन् ।
वज्रश्च यद्भवथो अनपच्युता समत्स्वनपच्युता ॥ १५९१ ॥
त्वं ह त्यत्पणीनां विदो वसु सं मातृभिर्मर्जयसि स्व आ दम ऋतस्य धीतिभिर्दमे ।
परावतो न साम तद्यत्रा रणन्ति धीतयः ।
त्रिधातुभिररुषीभिर्वयो दधे रोचमानो वयो दधे । १५९२ ॥

११
उत नो गोषणिं धियमश्वसां वाजसामुत ।
नृवत्कृणुह्यूतये ॥ १५९३ ॥

१२
शशमानस्य वा नरः स्वेदस्य सत्यशवसः ।
विदा कामस्य वेनतः ॥ १५९४ ॥

१३
उप नः सूनवो गिरः शृण्वन्त्वमृतस्य ये ।
सुमृडीका भवन्तु नः ॥ १५९५ ॥

१४
प्र वां महि द्यवी अभ्युपस्तुतिं भरामहे ।
शुची उप प्रशस्तये ॥ १५९६ ॥
पुनाने तन्वा मिथः स्वेन दक्षेण राजथः ।
ऊह्याथे सनादृतं ॥ १५९७ ॥
मही मित्रस्य साधथस्तरन्ती पिप्रती ऋतं ।
परि यज्ञं नि षेदथुः ॥ १५९८ ॥

१५
अयमु ते समतसि कपोत इव गर्भधिं ।
वचस्तच्चिन्न ओहसे ॥ १५९९ ॥
स्तोत्रं राधानां पते गिर्वाहो वीर यस्य ते ।
विभूतिरस्तु सूनृता ॥ १६०० ॥
ऊर्ध्वस्तिष्ठा न ऊतयेऽस्मिन्वाजे शतक्रतो ।
समन्येषु ब्रवावहै ॥ १६०१ ॥

१६
गाव उप वदावटे मही यज्ञस्य रप्सुदा ।
उभा कर्णा हिरण्यया ॥ १६०२ ॥
अभ्यारमिदद्रयो निषिक्तं पुष्करे मधु ।
अवटस्य विसर्जने ॥ १६०३ ॥
सिञ्चन्ति नमसावटमुच्चाचक्रं परिज्मानं ।
नीचीनबारमक्षितं ॥ १६०४ ॥

१७
मा भेम मा श्रमिष्मोग्रस्य सख्ये तव ।
महत्ते वृष्णो अभिचक्ष्यं कृतं पश्येम तुर्वशं यदुं ॥ १६०५ ॥
सव्यामनु स्फिग्यं वावसे वृष्ना न दानो अस्य रोषति ।
मध्वा संपृक्ताः सारघेण धेनवस्तूयमेहि द्रवा पिब ॥ १६०६ ॥

१८
इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम ।
पावकवर्णाः शुचयो विपश्चितोऽभि स्तोमैरनूषत ॥ १६०७ ॥
अयं सहस्रमृषिभिः सहस्कृतः समुद्र इव पप्रथे ।
सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये ॥ १६०८ ॥

१९
यस्यायं विश्व आर्यो दासः शेवधिपा अरिः ।
तिरश्चिदर्ये रुशमे पवीरवि तुभ्येत्सो अज्यते रयिः ॥ १६०९ ॥
तुरण्यवो मधुमन्तं घृतश्चतं विप्रासो अर्कमानृचुः ।
अस्मे रयिः पप्रथे वृष्ण्यं शवोऽस्मे स्वानास इन्दवः ॥ १६१० ॥

२०
गोमन्न इन्दो अश्ववत्सुतः सुदक्ष धनिव ।
शुचिं च वर्णमधि गोषु धार्य ॥ १६११ ॥
स नो हरीणां पत इन्दो देवप्सरस्तमः ।
सखेव सख्ये नर्यो रुचे भव ॥ १६१२ ॥
सनेमि त्वमस्मदा अदेवं कं चिदत्रिणं ।
साह्वां इन्दो परि बाधो अप द्वयुं ॥ १६१३ ॥

२१
अञ्जते व्यञ्जते समञ्जते क्रतुं रिहन्ति मध्वाभ्यञ्जते ।
सिन्धोरुऽच्छ्वासे पतयन्तमुक्षणं हिरण्यपावाः पशुमप्सु गृभ्णते ॥ १६१४ ॥
विपश्चिते पवमानाय गायत मही न धारात्यन्धो अर्षति ।
अहिर्न जूर्णामति सर्पति त्वचमत्यो न क्रीडन्नसरद्वृषा हरिः ॥ १६१५ ॥
अग्रेगो राजाप्यस्तविष्यते विमानो अह्नां भुवनेष्वर्पितः ।
हरिर्घृतस्नुः सुदृशीको अर्णवो ज्योतीरथः पवते राय ओक्यः ॥ १६१६ ॥