← याजुषज्यौतिषम् ज्यौतिषवेदाङ्गम्
आर्चज्यौतिषम्
याजुषाचार्यः

श्रीजानकीवल्लभो विजयते ।

अथ

सुधाकरभाष्यसाहितम्-


आर्चज्यौतिषम्।


श्रीरामं सीतया सार्धं रत्नसिंहासनस्थितम् ।
नत्वा कुरु मनः कार्यं सफलं सकलं किल ॥


निर्विघ्नार्थमादौ मङ्गलमाचरति ।

पञ्चसंवत्सरमय-युगाध्यक्षं प्रजापतिम् ।
दिनर्त्त्वयनमासाङ्गं प्रणम्य शिरसा शुचिः ॥ १ ॥
अस्य भाष्यं याजुषज्यौतिषप्रथमश्लोकवदिति स्फुटम् ॥ १ ॥
प्रणम्य शिरसा कालमभिवाद्य सरस्वतीम् ।
कालज्ञानं प्रवक्ष्यामि लगधस्य महात्मनः ॥ २ ॥

 शिरसा कालं कालपुरुषं रविं प्रणम्य सरस्वतीमभिवाद्य अभिवन्द्य लगधस्य महात्मनो महर्षेः कालज्ञानमहं शुचिः प्रवक्ष्यामि वच्मीति । लगधः कश्चित् प्राचीनो महर्षिस्तेन पञ्चवर्षात्मके युगे यथा कालानां रविचन्द्रसावनदिनादीनां ज्ञानं कृतं तथा तदानयनमहं शुचिर्वच्मीत्यर्थः ॥ २ ॥

इदानीं किं ब्रवीमीत्याह ।

ज्योतिषामयनं कृत्स्नं प्रवक्ष्याम्यनुपूर्वशः ।
विप्राणां सम्मतं लोके यज्ञकालार्थसिद्धये ॥ ३ ॥

 ज्योतिषां सूर्यचन्द्रनक्षत्राणामयनं चलनं कृत्स्नं सकलं विप्राणां ज्योतिर्विदां सम्मतं स्वीकृतमनुपूर्वशो यथाक्रमं लोके संसारे यज्ञकालार्थसिद्धये वक्ष्यामीति स्फुटम् । याजुषात् किञ्चित् पाठभेदः ॥ ३ ॥

इदानीं पर्वगणानयनमाह ।

निरेकं द्वादशाभ्यस्तं द्विगुणं गतसंयुतम् ।
षष्ट्या षष्ट्या युतं द्वाभ्यां पर्वणां राशिरुच्यते ॥ ४ ॥
याजुषत्रयोदशश्लोकोऽयमतस्तदेव भाष्यादिकं स्फुटम् ॥ ४ ॥ इदानीं युगादिमाह ।
स्वराक्रमेते सोमार्कौ यदा साकं सवासवौ ।
स्यात् तदादियुगं माघस्तपःशुक्लोऽयनं ह्युदक् ॥ ५ ॥
याजुषस्य षष्ठश्लोकोऽयमतस्तद्भाष्यमेव द्रष्टव्यम् ॥ ५ ॥

इदानीमयनयोरादिमाह ।

प्रपद्येते श्रविष्ठादौ सूर्याचन्द्रमसावुदक् ।
सार्पार्धे दक्षिणाऽर्कस्य माघश्रावणयोः सदा ॥ ६ ॥
याजुषसप्तमश्लोकेन सर्वं स्फुटमिति ॥ ६ ॥

इदानीं दिनरात्रिमानमाह ।

धर्मवृद्धिरपां प्रस्थः क्षपाह्रास उदग्गतौ ।
दक्षिणेतौ विपर्यासः षण्मुहूर्त्त्ययनेन तु ॥ ७ ॥
याजुषाष्टमश्लोकेन भाष्यादिकं स्फुटम् ॥ ७ ॥

इदानीमयनाद्यमाह ।

प्रथमं सप्तमं चाहुरयनाद्यं त्रयोदशम् ।
चतुर्थं दशमं चैव द्विर्युग्मं बहुलेऽप्यृतौ ॥ ८ ॥
याजुषनवमश्लोकभाष्यादिना स्फुटम् ॥ ८ ॥

इदानीमयनादिनक्षत्रदेवता ऋतुभानयनं चाह ।

वसुस्त्वष्टा भवोऽजश्च मित्रः सर्पोऽश्विनौ जलम् ।
अर्यमा कोऽयनाद्याः स्युरर्धपञ्चमभस्त्वृतुः ॥ ९ ॥
याजुषदशमश्लोकभाष्यादिना सर्वं स्फुटम् ॥ ९ ॥

इदानीमभीष्टपर्वणि चन्द्रभांशानयनमाह ।

भांशाः स्युरिष्टकाः कार्याः पक्षा द्वादशकोद्गताः ।
एकादशगुणाश्चेन्दोः शुक्लेऽर्धं चैन्दवा यदि ॥ १० ॥
याजुषपञ्चदशश्लोकभाष्यादिना सर्वं स्फुटम् ॥ १० ॥

इदानीं पर्वणि भांशकलानयनमाह ।
कार्या भांशाष्टकास्थाने कला एकान्नविंशतिःऊनस्थाने द्विसप्ततिमावहेदिनसंयुताम् ॥ ११ ॥

याजुषैकोनविंशतिश्लोकभाष्यादिना सर्वं स्फुटम् ॥ ११ ॥

इदानीं नक्षत्रसम्बन्धिभूदिनान्याह ।

त्र्यंशो भशेषो दिवसस्य भाग-
श्चतुर्दशस्याप्यपनीय भिन्नम् ।
भार्धेऽधिके वाऽल्पगते परोऽंशो
द्यावुक्तमेतन्नवकैर्भवेद्यः ॥ १२ ॥

याजुषसप्तविंशतिश्लोकभाष्यादिना सर्वं स्फुटम् ॥ १२ ॥

इदानीं तिथिनक्षत्रे संस्कारविशेषमाह ।

पक्षात् पञ्चदशाच्चोर्ध्वं तद्भुक्तमिति निर्दिशेत् ।
नवभिस्तूद्गतोऽंशः स्याद्युक्तांशो द्व्यद्रिकेन तु ॥ १३ ॥

 पक्षात् पञ्चदशात् पञ्चदशतिथ्यात्मकादूर्ध्वं शुक्लपक्षावसान इत्यर्थः । पूर्वप्रकारेण योऽंशस्तिथिभांशः समागतः स नवभिरंशैरुद्गतो वर्धनीयस्तदा युक्तांशो वास्तवभांशः स्यात् तद्भांशमानं च भुक्तमिति निर्दिशेत् कथयेद्गणक इति शेषः । यदि नक्षत्रवशेन सावनदिनमपेक्षितं तदा तु द्यद्रिकेन द्युना एकेन कुदिनेन तथाऽद्रिकेन सप्तकलामितेन प्रतिनक्षत्रसम्बन्धि कुदिनं ज्ञेयमिति ।

 अत्रोपपत्तिः । ससप्तैकमिति याजुषत्रयस्त्रिंशश्लोकोपपत्त्या तथा “नवकैरुद्गतोऽंशः स्याद्युक्तः सप्तगुणो भवेत्” -इति याजुषद्वाविंशश्लोकभाष्यादिना स्फुटेति ॥ १३ ॥

इदानीं भांशज्ञानतश्चन्द्रपर्वणि नक्षत्राण्याह
जौ द्रा गः खे श्वे ही रो षा-
श्चिन्मू ष ण्यः सू मा धा णः ।
रो मृ (म्रे) घाः स्वाऽऽपो जः कृ ष्यो
ह ज्ये ष्ठा इत्यृक्षा लिङ्गैः ॥ १४ ॥
याजुषषोडशश्लोकभाष्यादिना सर्वं स्फुटम् ॥ १४ ॥
इदानीं पूर्वोदितनक्षत्रानयनं पर्वणि विशेषं चाह ।
जावाद्यंशैः समं विद्यात् पूर्वार्धे पर्व तूत्तरे ।
भादानं स्याच्चतुर्दश्यां द्विभागेभ्योऽधिके यदि ॥ १५ ॥
याजुषसप्तदशश्लोकभाष्यादिना स्फुटम् ॥ १५ ॥
इदानीं नाडिकादिपरिभाषा आह ।
कला दश च विंशा स्याद् द्वे मुहूर्त्तस्य नाडिके ।
तत्त्रिंशद् द्यु कलानां तु षट्शती त्र्यधिका भवेत् ॥ १६ ॥

 दश कला विंशा च एककलाविंशतिभागाधिका इत्यर्थः । शेषं याजुषद्वात्रिंशश्लोकभाष्येण स्फुटम् ॥ १६ ॥

पुनः परिभाषान्तरमाह ।
नाडिके द्वे मुहूर्त्तस्तु पञ्चाशत्पलमाढकम् ।
आढकात् कुम्भिका द्रोणः कुडवैर्वर्धते त्रिभिः ॥ १७ ॥

 द्वे नाडिके एको मुहूर्त्तो भवति । आढकं तु पञ्चाशत्पलं भवति । आढकात् प्रसिद्धप्राचीनपरिभाषया कुम्भिका घटिका ज्ञेया । द्रोणश्च कुम्भिकातस्त्रिभिः कुडवैर्वर्धतेऽर्थात् कुम्भिकाप्रमाणत् त्रिभिः कुडवैरधिकं द्रोणप्रमाणं भवति । अतो द्रोणस्त्रिभिः कुडवैर्हीनो घटिका वा नाडिका भवतीति याजुषचतुर्विंशतिश्लोकभाष्येण सर्वं स्फुटम् ॥ १७ ॥

इदानीं चन्द्रसूर्यैकनक्षत्रे भूदिनान्याह ।
ससप्तैकं भयुक् सोमः सूर्यो द्यूनि त्रयोदश ।
नवमानि च पञ्चाह्नः काष्ठा पञ्चाक्षरा स्मृता ॥ १८ ॥
याजुषत्रयस्त्रिंशश्लोकभाष्यादिना स्फुटम् ॥ १८ ॥
इदानीं लग्नानयनं चन्द्रर्त्तुसाधनं चाह ।

श्रविष्ठाभ्यो गणाभ्यस्तान् प्राग्विलग्नान् विनिर्दिशेत् ।

स्वार्क्षान्मासान् षडभ्यस्तान् विद्याच्चान्द्रमसानृतून् ॥ १९ ॥

 गणो भगणः सप्तविंशतिस्तेन श्रविष्ठोदयतो ये इष्टकालभागास्ते गुणनीयास्तान् भांशान् श्रविष्ठाभ्यो धनिष्ठाभ्यो गणयित्वा प्राक् प्राग्दिशि विलग्नान् विनिर्दिशेत् कथयेद्गणक इति शेषः । स्वार्क्षान् षडभ्यस्तान् षड्गुणितान् नाक्षत्रान् मासानेव चान्द्रमसान् चन्द्रसम्बन्धिनो गणक ऋतून् विद्याज्जानीयादिति ।  अत्रोपपत्तिः । अत्रैकस्य नक्षत्रस्य चतुर्विंशत्यधिकशतभागाः कृतास्तेऽंशा नक्षत्रांशा वा भांशा उच्यन्ते । एवं दिनस्यापि चतुर्विंशत्यधिकशतमिता भागास्ते दिनभागांशाः कथ्यन्ते । श्रविष्ठातो ये इष्टकालगा अंशा भागास्त एवेष्टकालांशा ज्ञेयाः । एकस्मिन् दिने वा चतुर्विंशत्यधिकशतसमेषु दिनभागेषु भचक्रैकभ्रमणेन प्राग्दिशि सर्वेषां नक्षत्राणां वा २७x१२४ भांशानामुदयोऽतोऽनुपातो यदि १२४ दिनभागेषु

 २७ × १२४ नक्षत्रभागानामुदयस्तदेष्टदिनभागेषु किं लब्धाः श्रविष्ठातो भांशा = (२७ x १२४ x इदिभां)/१२४ = २७ x इदिभां । अत उपपन्नं लग्नानयनम् । अत्र बार्हस्पत्यादीनां व्याख्यानं न साधु । कुत्रापि-अभ्यस्तपदेन योगो न गृह्यत इति । चन्द्रैकभगणकालो हि नक्षत्रमास इति याजुषैकत्रिंशश्लोकेन स्फुटम् । एकस्मिन् चन्द्रभगणकाले च तत्षड्-ऋतवोऽतो नक्षत्रमासा: षड्गुणास्तदृतवो भवन्तीति सर्वं निरवद्यम् ॥ १९ ॥

इदानीं तिथिमानमाह।
अतीतपर्वभागेभ्यः शोधयेद्द्विगुणां तिथिम् ।
तेषु मण्डलभागेषु तिथिनिष्ठां गतो रविः ॥ २० ॥
याजुषत्रयोविंशश्लोकभाष्यादिना स्फुटम् ॥ २० ॥

इदानीमिष्टतिथिसमे नक्षत्रे भकला आनयति ।

याः पर्वभादानकलास्तासु सप्तगुणां तिथिम् ।
प्रक्षिपेत् तत्समूहं तु विद्याद्भादानिकाः कलाः ॥ २१ ॥
याजुषविंशश्लोकभाष्यादिना सर्वं स्फुटम् । अत्र किञ्चित्पाठभेदो नार्थान्तरकर इति ॥ २१ ॥
इदानीं दिनमानमाह ।
यदुत्तरस्यायनतो गतं स्या-
च्छेषं तु यद्दक्षिणतोऽयनस्य ।
तदेकषष्ट्या द्विगुणं विभक्तं
सद्वादशं स्याद्दिवसप्रमाणम् ॥ २२ ॥

याजुषचतुस्त्रिंशश्लोकभाष्यादिना स्फुटं सर्वम् ॥ २२ ॥ इदानीमृतुशेषमधिशेषं चाह ।

यदर्धं दिनभागानां सदा पर्वणि पर्वणि ।
ऋतुशेषं तु तद्विद्यात् संख्यया सह पर्वणाम् ॥ २३ ॥
याजुषसप्तत्रिंशश्लोकभाष्यादिना सर्वं स्फुटम् ॥ २३ ।

इदानीं वेधोपायमाह ।

इत्युपायसमुद्देशो भूयोऽप्येवं प्रकल्पयेत् ।
ज्ञेयराशिं गताभ्यस्तं विभजेञ्ज्ञानराशिना ॥ २४ ॥
याजुषत्रिचत्वारिंशश्लोकभाष्यादिना सर्वं स्फुटम् ॥ २४ ॥

इदानीं नक्षत्रदेवता आह ।

अग्निः प्रजापतिः सोमो रुद्रोऽदितिबृहस्पती ।
सर्पाश्च पितरश्चैव भगश्चैवार्यमाऽपि च ॥ २५ ॥
सविता त्वष्टाऽथ वायुश्चेन्द्राग्नी मित्र एव च ।
इन्द्रो निर्ऋतिरापो वै विश्वेदेवास्तथैव च ॥ २६ ॥
विष्णुर्वसवो वरुणोऽज एकपात् तथैव च ।
अहिर्बुध्न्यस्तथा पूषा अश्विनौ यम एव च ॥ २७ ॥
नक्षत्रदेवता एता एताभिर्यज्ञकर्मणि ।
यजमानस्य शास्त्रज्ञैर्नाम नक्षत्रजं स्मृतम् ॥ २८ ॥
याजुषस्य ३८-४१ श्लोकभाष्येण सर्वं स्फुटम् ॥ २५-२८ ॥

इदानीमुपसंहारमाह ।

इत्येतन्मासवर्षाणां मुहूर्त्तोदयपर्वणाम् ।
दिनर्त्त्वयनमासानां व्याख्यानं लगधोऽब्रवीत् ॥ २९ ॥
याजुषचतुश्चत्वारिंशश्लोकभाष्येण स्फुटम् ॥ २९ ॥

इदानीं फलस्तुतिमाह ।

सोमसूर्यस्तृचरितं लोकं लोके च सन्ततिम् ।
सोमसूर्यस्तृचरितं विद्वान् वेद विदश्नुते ॥ ३० ॥

 याजुषपञ्चचत्वारिंशश्लोकभाष्येणे स्फुटम् । अत्र पूर्वोत्तरार्धयोर्वैपरीत्यं लेखकदोषत इति स्पष्टम् ॥ ३० ॥ इदानीमिष्टविषुवति तिथ्यानयनमाह ।

विषुवत् तद्गुणं द्वाभ्यां रूपहीनं तु षड्गुणम् ।
यल्लब्धं तानि पर्वाणि तदर्धं सा तिथिर्भवेत् ॥ ३१ ॥
याजुषद्वितीयत्रयोविंशश्लोकभाष्यादिना सर्वं स्फुटम् । अत्र

किञ्चित्पाठभेदस्तदर्थस्यैव दातेति न दोषाय ॥ ३१ ॥

इदानीं कस्य युगस्य कालज्ञानमित्याशङ्क्याह ।
माघशुक्लप्रवृत्तस्य पौषकृष्णसमापिनः ।
युगस्य पञ्चवर्षस्य कालज्ञानं प्रचक्षते ॥ ३२ ॥
याजुषपञ्चमश्लोकभाष्येण स्फुटम् । अत्र किञ्चित्पाठभेदो न दोषायेति ॥ ३२ ॥
इदानीं दशसु विषुवत्सु तिथीनाह ।
तृतीयायां नवम्यां च पौर्णमास्यां त्रिकद्विके ।
द्वादश्यां विषुवान् प्रोक्तोद्वादश्यां दशमं भवेत् ॥ ३३ ॥

 ३१ श्लोकोक्तक्रियाया उदाहरणरूपोऽयं श्लोकः । यथा यदि विषुवत् = १ । तदा तदुक्तप्रकारेण सपर्वतिथिमानम् ।

 = ६ (२×१-१) प+(२×१-१) ति= ६ पर्वाणि + ३ तिथय: । पर्वणां प्रयोजनाभावात् तृतीया तिथिरेव पठिता । एवमन्यास्तिथयः समायान्ति । अतस्तृतीयायां प्रथमो नवम्यां द्वितीयः पौर्णमास्यां तृतीयस्त्रिकद्विके षष्ठ्यां चतुर्थो द्वादश्यां पञ्चमश्च विषुवान् प्रोक्त आचार्यैरिति शेषः । एवं पुनस्तृतीयादावन्यानि विषुवन्ति भूत्वा द्वादश्यां तिथौ दशमं विषुवद्भवेदिति । अत्र बार्हस्पत्यादिव्याख्यानं न रुचिकरमिति तथात्र "तृतीयां नवमीं चैव पौर्णमासीं त्रयोदशीम्"-इत्यादि पाठो न साधुरिति ॥ ३३ ॥

इदानीं कदा चतुर्दश्यां यज्ञार्थमुपवासः कार्य इति कथयति ।
चतुर्दशीमुपवसथस्तथा भवे-
द्यथोदितो दिवसमुपौति चन्द्रमाः ।
यथोदितश्चन्द्रमाश्चतुर्दशीं दिवसमुपैति तथोपवसथो भवति ।
अत्रैतदुक्तं भवति । यथा शुक्लद्वितीयादेः क्रमेणोदितश्चन्द्रश्चतुर्दशीं दिनं प्राप्नोति तथा सा चतुर्दशी यज्ञार्थं वेदोक्तविधिनोपवसथो यागपूर्वदिवसो भवति । अत्र मन्मते श्लोकोत्तरार्धस्य त्रुटिः । अत्र परम्परात उत्तरार्धस्यानुष्टुप्छन्दोऽर्धेन पूर्त्तिरिति न युक्तं छन्दसोर्भेदादिति सुज्ञैर्भृशं विचिन्त्यमिति ॥
इदानीं द्वितीयवर्षप्रवेशकालमाह ।

माघशुक्लाह्निको भुङ्क्ते श्रविष्ठायां च वार्षिकीम् ॥ ३४ ॥

 माघशुक्लाह्निको द्वितीयमाघशुक्लप्रतिपत्तिथावाह्निकः कर्मकर्त्ता श्रविष्ठायां धनिष्ठायां सर्वां वार्षिकीमेकवर्षसम्बन्धिनीं यज्ञक्रियां भुङ्क्तेऽश्नुते । तस्माद्दिनादन्यवर्षारम्भोऽतो द्वितीयवर्षाह्निकक्रियारम्भो भवतीत्यर्थः । अत्रापि मन्मते पूर्वार्धश्लोकस्य त्रुटिरिति वैदिकैर्भृशं विचिन्त्यमिति ॥ ३४ ॥

इदानीं गणितप्रशंसामाह ।
यथा शिखा मयूराणां नागानां मणयो यथा ।
तद्वद्वेदाङ्गशास्त्राणां ज्यौतिषं मूर्धनि स्थितम् ॥ ३५ ॥

 याजुषचतुर्थश्लोकभाष्येण स्फुटम् । अत्र ‘गणितं' स्थाने 'ज्यौतिषम्' इति पाठो न विशेषार्थप्रद इति ॥ ३५ ॥

इदानीं ज्यौतिषस्य वेदाङ्गत्वे सद्युक्तिमाह ।
वेदा हि यज्ञार्थमभिप्रवृत्ताः
कालानुपूर्वा विहिताश्च यज्ञाः ।
तस्मादिदं कालविधानशास्त्रं
यो ज्यौतिषं वेद स वेद यज्ञान् ॥ ३६ ॥

 याजुषतृतीयश्लोकभाष्येण सर्वं स्फुटम् ॥ ३६ ॥

गुणरसाङ्गधरामितवत्सरे-
ऽकृत निरीक्ष्य मतान्तरसंग्रहम् ।
असितपौषदलाद्यसिते वरं
रघुवरस्य बलेन सुधाकरः
इति सुधाकरभाष्यसहितमार्चज्यौतिषं समाप्तम् ।