प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← उपोद्घातः ज्यौतिषवेदाङ्गम्
याजुषज्यौतिषम्
याजुषाचार्यः
आर्चज्यौतिषम् →

श्रीजानकीवल्लभो विजयते ।

अथ
सुधाकरभाष्यसहितं
याजुषज्यौतिषम् ।

रमन्ते योगिनो यत्र श्रमं ते स्वं हरन्ति च ।
नमन्ते भोगिनो यं च तमन्ते वासिनं स्मर ॥

 तत्र तावन्निर्विघ्नपूर्वकग्रन्थसमाप्त्यर्थं मङ्गलं स्वकर्त्तव्यं चाह शुचिनामा कश्चिदृषिः ।

पञ्चसंवत्सरमययुगाध्यक्षं प्रजापतिम् ।
दिनर्त्त्वयनमासाङ्गं प्रणम्य शिरसा शुचिः ॥ १ ॥
ज्योतिषामयनं पुण्यं प्रवक्ष्याम्यनुपूर्वशः ।
सम्मतं ब्राह्मणेन्द्राणां यज्ञकालार्थसिद्धये ॥ २ ॥

 अहं शुचिः पवित्रो भूत्वा वा शुचिनामा ज्योतिषां ज्यौतिषशास्त्राणामयनं स्थानमर्थात् निधिरूपं निबन्धमनुपूर्वशो यथाक्रमं प्रवक्ष्यामि । किमर्थम् । यज्ञकालार्थसिद्धये । ज्योतिष्टोमादीनां यज्ञानां ये कालास्तदर्थानां या सिद्धिस्तस्यै । किं कृत्वा । प्रजापतिं ब्रह्माणं शिरसा मूर्ध्ना प्रणम्य प्रणिपातपूर्वकं नमस्कृत्य । किंविशिष्टं ब्रह्माणम् । पञ्चसंवत्सरमययुगाध्यक्षम् । पञ्चसंवत्सरात्मकं यद्युगं तदध्यक्षं तदधिपतिम् । पुनः किंविशिष्टम्। दिनर्त्त्वयनमासाङ्गम् । दिनानि, ऋतवः, अयने, मासाश्चैवाङ्गानि यस्य तम् । किंविशिष्टं ज्योतिषामयनम् । पुण्यं पवित्रमर्थात् पुण्योत्पादकम् । पुनः किंविशिष्टम् । ब्राह्मणेन्द्राणां ब्राह्मणेषु श्रेष्ठानां ज्योतिर्विदां सम्मतं स्वीकृतमिति ॥ १-२ ॥

 अस्य ज्यौतिषशास्त्रस्य कथं वेदाङ्गत्वमित्याशङ्कयाह ।

वेदा हि यज्ञार्थमभिप्रवृत्ताः
कालानुपूर्वा विहिताश्च यज्ञाः ।
तस्मादिदं कालविधानशास्त्रं
यो ज्योतिषं वेद स वेद यज्ञान् ॥ ३ ॥

 हि यतो वेदा यज्ञार्थमभिप्रवृत्ताः सन्ति । यज्ञाश्च कालानुपूर्वा अर्थात् कालाधीनाः सन्ति । तस्मादिदं ज्यौतिषं कालविधानशास्त्रं कालविधिशिक्षकं यो वेद जानाति स वेदाङ्गज्ञानात् यज्ञान् दर्शपौर्णमासादीन् वेद जानाति कालविधायकत्वादस्य वेदाङ्गत्वं सिद्धम् । वेदाङ्गत्वादवश्यमध्येतव्यमिति ।

 तथा च सिद्धान्तशिरोमणौ भास्करः ।

"वेदास्तावद्यज्ञकर्मप्रवृत्ता
यज्ञाः प्रोक्तास्ते तु कालाश्रयेण ।
शास्त्रादस्मात् कालबोधो यतः स्याद्-
वेदाङ्गत्वं ज्यौतिषस्योक्तमस्मात्”- इति ॥ ३ ॥

इदानीं स्कन्धत्रयात्मकज्यौतिषशास्त्रे गणितं प्रशंसते ।

यथा शिखा मयूराणां नागानां मणयो यथा ।
तद्वद्वेदाङ्गशास्त्राणां गणितं मूर्धनि स्थितम् ॥ ४ ॥
यथा मयूराणां शिखा मयूरशिरसि स्थिता । यथा नागानां सर्पाणां मणयस्तच्छिरोरूपफणासु स्थिताः सन्ति । तद्वत् तथा वेदाङ्गशास्त्राणां व्याकरण-निरुक्त-कल्प-शिक्षा-छन्दसां शिरसि गणितं ज्यौतिषं स्थितमस्ति । सर्वत्र वेदाङ्गेषु सङ्ख्याव्यवहारात् सङ्ख्याविधानप्रतिपादकं गणितशास्त्रमेव प्रधानमिति ॥ ४ ॥

 इदानीं पञ्चवर्षात्मकयुगे संवत्सरानयनमाह ।

( ये बृहस्पतिना भुक्ता मीनात् प्रभृति राशयः ।
ते हृताः पञ्चभिर्याता यः शेषः स परिग्रहः ॥ )

 बृहस्पतिना गुरुणा ये मीनात् प्रभृति मीनराशेः सकाशात् राशयो भुक्तास्ते पञ्चभिर्हृता लब्धा याता युगसंख्या ज्ञेया । यः शेषः स वर्तमाने युगे परिग्रहो ग्राह्य इति । अत्र पञ्चवर्षात्मकयुग एव सर्वा गणनाऽत इदं पद्यं क्षेपकम् । बृहस्पतिभुक्तराशीनां पञ्चाल्पत्वादिति स्फुटं ज्योतिर्विदामिति ।

 इदानीमनाद्यन्तकालेऽत्र कियत्कालपर्यन्तं गणनेत्याशङ्क्याह ।

माघशुक्लप्रपन्नस्य पौषकृष्णसमापिनः ।
युगस्य पञ्चवर्षस्य कालज्ञानं प्रचक्षते ॥ ५ ॥

 अत्र दैवज्ञाः पञ्चवर्षात्मकयुगस्य मध्ये कालानां चान्द्रसौरसावननाक्षत्राणां ज्ञानं प्रचक्षते कथयन्ति । किंविशिष्टस्य । माघशुक्लप्रपन्नस्य माघशुक्लप्रतिपदि समुद्भूतस्य । पुनः किंविशिष्टस्य । पञ्चमे वर्षे पौषकृष्णसमापिनः पौषकृष्णामायां यस्य समाप्तिर्भवति तस्य । अत्र चान्द्रा मासा गृह्यन्ते येषामारम्भः शुक्लादिः समाप्तिस्तु दर्शान्ते ॥ ५ ॥

 इदानीं कस्य माघस्य शुक्लप्रतिपदि पञ्चवर्षात्मकयुगस्यारम्भ इत्याह ।

स्वराक्रमेते सेामार्कौ यदा साकं सवासवौ । स्यात् तदाऽऽदियुगं माघस्तपः शुक्लोऽयनं ह्युदक् ॥ ६ ॥

 यदा स... धनिष्ठानक्षत्रसहितौ सोमार्कौ चन्द्रसूर्यौ साकं सह स्वराकाशे आक्रमते गच्छतस्तदाऽऽदियुगं भवति । अत्रैतदुक्तं भवति “यदा रविचन्द्रधनिष्ठानां क्रान्तिवृत्ते ह्येकमेव स्थानं तदाऽऽदिर्युगस्य । न ह्यत्र धनिष्ठाचन्द्रसूर्यबिम्बानां युतिरपेक्षिता । ज्यौतिषसिद्दान्ते सर्वत्र दर्शादिशब्देन स्थानीययुतिग्रहणात्"-इति बार्हस्पत्यमतम् । कस्य चिद्विशिष्टकालस्य नाम युगमिति प्रसिद्धम् । अतो यस्मिन् काले बिम्बाभिप्रायेण त्रयाणां युतिर्जाता स एव युगादिरिति बहूनां मतम् । क्रान्तिवृत्तस्य समाः सप्तविंशतिभागा एव ज्यौतिषवेदाङ्गे नक्षत्राणि । अतोऽग्रिमश्लोकेन श्रविष्ठापदेन क्रान्तिवृत्ते तत्स्थानमेवापेक्षितमतोऽत्र बार्हस्पत्यमतमेव समीचीनमिति मन्मतम् । यदा युगादिस्तदैव माघो माघादिः । य एव माघः स एव तपः । अर्थात् माघस्तपश्चैकार्थवाचिनौ शब्दौ । तपःशब्देन तपो नाम ऋतुरिति बार्हस्पत्यमतं मन्मते न साधु । यदा युगादिस्तदैव शुक्लपक्षादिस्तथा हीति निश्चयेनोदगयनमुदगयनादिश्चेति ॥ ६ ॥

इदानीमयने आह ।
प्रपद्येते श्रविष्ठादौ सूर्याचन्द्रमसावुदक् ।
सार्पार्धे दक्षिणाऽर्कस्य माघश्रावणयोः सदा ॥ ७ ॥

 सूर्याचन्द्रमसौ यदा श्रविष्ठादौ धनिष्ठादौ प्रपद्येते तदोदग् उत्तरमयनं तथा तौ यदा सार्पार्धे श्लेषार्धे तदा दक्षिणा दक्षिणमयनं भवति । सदा सर्वदाऽर्कस्य सूर्यस्य माघश्रावणयोस्ते उदग्दक्षिणायने भवतः ।

 अत्रोपपत्त्यर्थं तावज्ज्यौतिषवेदाङ्गसम्बन्धिनो रविभगणादयः प्रदर्श्यन्ते। वराहमिहिरकृतपञ्चसिध्दान्तिकायां पैतामहसिद्धान्ते ये रविभगणादयो विलिखितास्त एव ज्यौतिषवेदाङ्गीया इति (मत्कृता पञ्चसिद्धान्तिकाटीका विलोक्या) ।"

तत्रैकस्मिन् युगे रविवर्षाणि = ५ । एतावन्त एव रविभगणाः = ५ ।
 सौरमासाः = ६० । सौरदिनानि =१८०० ।
 चान्द्रमासाः = ६२ । चान्द्रदिनानि = १८६०
 क्षयाहाः = ३०
 सावनदिनानि =१८३०
 भभ्रमा वा नक्षत्रोदयाः = १८३५
 चन्द्रभगणाः = ६७
 चन्द्रसावनदिनानि =१७६८
 एकस्मिन् सौरवर्षे सावनदिनानि = ३६६
 एकस्मिन् सौरवर्षे चान्द्रदिनानि = ३७२
 एकस्मिन् सौरवर्षे नक्षत्रोदयाः = ३६७
 अथैकस्मादयनाद्द्वितीयायनपर्यन्तं सौरदिनानि = १८० ।

 एते सौरांशा एकनक्षत्रभोगेन त्रयोदशांशैः सत्र्यंशाधिकै- = र्भक्ता लब्धान्ययनयोरन्तरे नक्षत्राणि = = = । श्रविष्ठादिगणनया जातं द्वितीयमयनं श्लेषार्धेऽतउपपन्नम् । यद्वाऽयनाद्द्वितीयमयनपर्यन्तं सौरवर्षार्धं तत्र रवेः सप्तविंशत्यर्धमितानि नक्षत्राणि पूर्वागतनक्षत्रसमानि । माघे धनिष्ठागतत्वाद्रवेरुत्तरमयनम् । श्लेषार्धगतत्वेन कर्किराशिगतत्वाच्च श्रावणे मासि तस्य दक्षिणमयनमिति स्फुटम् ॥ ७ ॥

इदानीमयनयोर्दिनरात्रिमाने आह ।

धर्मवृद्धिरपां प्रस्थः क्षपाह्रास उदग्गतौ ।
दक्षिणेतौ विपर्यासः षण्मुहूर्त्त्ययनेन तु ॥ ८ ॥  उदग्गतावुत्तरायणे रवावपां पयसां प्रस्थमात्रं प्रत्यहं घर्मवृद्धिर्दिनवृद्धिर्भवति तथा तदैव प्रस्थमात्रं क्षपाह्रासो रात्र्यपचयो भवति । दक्षिणेतौ दक्षिणायने च विपर्यासो भवति अर्थात् प्रत्यहं जलप्रस्थसमो दिनह्रासस्तथा रात्र्युपचयो भवति । अयनेन तु अर्थादेकस्मादयनाद्द्वितीयायनेन दिनरात्रयः षण्मुहूर्ती । मुहूर्त्तो घटिकाद्वयमित्यनेन द्वादशघटिकातुल्यौ दिनरात्र्योर्वृद्धिक्षयौ भवतः । अत उत्तरायणे परमाल्पं दिनमानम् = २४ । दक्षिणायने च परमाधिकं दिनमानम् = ३६ । एवं विपयर्याद्रात्रिमाने च ।

 अत्रोपपत्ति: ।

"पलानि पञ्चाशदपां धृतानि तदाढकं द्रोणमत: प्रमेयम् ।
त्रिभिर्विहीनं कुडवैस्तु कार्यं तन्नाडिकायास्तु भवेत् प्रमाणम्" ॥

 इति ज्यौतिषवेदाङ्गीय-२४-तमेन श्लोकेन त्रिभिः कुडवैर्विहीनं द्रोणं नाडिकायाः प्रमाणम् ।

 तथा ।

 ५० प = १ आढकः ।

 ४ आ = १ द्रो = २०० प ।

 ४ प्र = १ आ = ५० प .. प्र = प ।

 ४ कु = १ प्र = प .. कु = प ।

 अतः ३ कु= पलानि। एका नाडिका च = १ द्रो - ३ कु = २०० प- प= = प्र = प्र= प्र द्वादशघटिकासु प्रस्थमानम्=12X प्र = 183 प्र । अथायनयोर्मध्ये सौरदिनानि सौरवर्षादिनार्धसमानि = = 183 । ततोऽनुपातो यदि १८३ सौरदिनैः १८३ प्रस्था लभ्यन्ते तदैकेन सौरदिनेन किं लब्धिः प्रस्थमितौ प्रत्यहं दिनरात्र्योर्वृद्धिक्षयौ भवत इत्युपपन्नम् । यथा पयसां षष्टिपलै: पूर्णा जलघटी प्राचीनैर्निर्मिता यत्राधश्छिद्रेण प्रतिपलं पलमात्रं जलं निःसरति तथा ज्यौतिषवेदाङ्गसमये तथैकं जलयन्त्रं विनिर्मितमासीत् यत्र प्रस्थमितं जलमधश्छिद्रेणैकघटीतुल्येन कालेन निरसरत् । तत्र प्रस्थमितजलनिःसरणकालश्च पानीयपलकालवत् प्रस्थसंज्ञ उच्यते । एवमाढकतुल्यजलनिःसरणकाल आढकसंज्ञः । एवमन्येऽपि कालसंज्ञका बोध्या इति । एवमत्र ज्यौतिषवेदाङ्गस्य यत्र रचना जाता तत्र परमं चरघटीमानं घटिकात्रयं सिध्यति ततो ‘दिग्नागसत्र्यंशगुणैर्विनिघ्नी'-इत्यादिभास्करप्रकारवैपरीत्येन तत्र देशे स्वल्पान्तरात् पलभाऽङ्गुलात्मिका = = = = । अथ चापीयत्रिभुजेन चरज्या = (अक्षांशस्पर्शरेखा × क्रान्तिस्पर्शरेखा) / त्रिज्या । अत्र नाडीत्रयं परमं चरं क्रान्तिं च परमां जिनांशसमां गृहीत्वा सूक्ष्मज्याविधिना लघुरिक्थग्रहणेन लास्पअ = लाज्याच-लास्पकां+ १० अनेन समीकरणेन सूक्ष्मा अक्षांशाः = ३४|४५|४७ ॥ ८ ॥

अथैकस्मिन् युगे दशसु रव्ययनेषु तिथीराह ।
प्रथमं सप्तमं चाहुरयनाद्यं त्रयोदशम् ।
चतुर्थं दशमं चैव द्विर्युग्मं बहुलेऽप्यृतौ ॥ ९ ॥

 प्रथमं सप्तमं त्रयोदशं चतुर्थं दशमं तिथिं द्विर्द्विबारमाचार्या अयनाद्यमाहुः । अत्रैतदुक्तं भवति । १ । ७ । १३ । ४ । १० एतास्तिथयो द्वि: स्थाप्यास्तदा अयनाद्यास्तिथयः स्युः । प्रथममयनं प्रतिपदि द्वितीयं सप्तम्यां तृतीयं त्रयोदश्यां चतुर्थं चतुर्थ्यां पञ्चमं दशम्यां पुनः षष्ठाद्यं प्रतिपदादिषु भवतीत्यर्थः । तत्र युग्मं तिथिमानं चतुर्थी दशमी च बहुले कृष्णपक्षे ज्ञेयमन्यानि चानुक्तत्वात् शुक्लपक्षे बोध्यानीति । अपि निश्चयेनैवमृतौ षडधिके तिथावेकायनतिथेरपरायनतिथिर्भवतीत्यर्थः ।

 अत्रोपपत्तिः । एकायनादपरायनपर्यन्तं वर्षचान्द्रदिनार्धसमास्तिथयो भवन्ति । वर्षे चान्द्रतिथयः = ३७२ । एतदर्धमानम् = १८६ । अत्र मासानां प्रयोजनाभावादेकायनतिथेरपरायनतिथिः षडधिका । तथा कृते जाता अयनाद्यास्तिथयः। १ । ७ । १३ । १९ । २५ ॥ १। ७ । १३ । १९ । २५ ।

 अत्र चतुर्थी च पञ्चमी संख्या तथा नवमी दशमीसंख्या च पञ्चदशतिथिवियोजनेन जाता कृष्णपक्षीया चतुर्थी दशमी च । अत्र शुक्लपक्षादिमासो ग्राह्यः । सप्तमश्लोके ‘माघश्रावणयोः सदा'-इति वाक्यात् । प्रथममयनाद्यं माघशुक्लप्रतिपदि । द्वितीयमयनं श्रावणशुक्लसप्तम्याम् । चतुर्थमयनं श्रावणकृष्णचतुर्थ्याम् । पञ्चमं च माघकृष्णदशम्यां भवति । एवं नवमदशमे अपि श्रावणकृष्णचतुर्थीमाघकृष्णदशम्योः क्रमेण भवत इति सर्वं निरवद्यम् । इदं बार्हस्पत्यव्याख्यानमतीव समीचीनम् । तत्र ऋतुशब्देन मासो मन्मते न समीचीनः किन्तु ऋतुशब्देन षट्संख्या ग्राह्येति ॥ ९ ॥

 इदानीमयनेषु नक्षत्राणि ऋतुनक्षत्राणि चाह ।

वसुस्त्वष्टा भवोऽजश्च मित्रः सर्पोऽश्विनौ जलम् ।
अर्यमा कोऽयनाद्याः स्युरर्धपञ्चमभस्त्वृतुः ॥ १० ॥

 वसुर्धनिष्ठा । त्वष्टा चित्रा । भवो रुद्र आर्द्रा । अज एकपात् । मित्रोऽनुराधा । सर्पः श्लेषाः । अश्विनावश्विनी । जलं पूर्वाषाढा । अर्यमा उत्तरफाल्गुन्य: । को रोहिणी । एता अयनाद्याश्चन्द्रोडवः स्युः । ऋतुश्चार्धपञ्चमभः । पञ्चमभस्य यदर्धमर्थात् सूर्यनक्षत्राणि चैकर्तौ भवन्ति । 









इदानीं मासान्तरे दिनानयनं पर्वविशेषं चाह ।
एकान्तरेऽह्नि मासे च पूर्वान् कृत्वाऽऽदिमुत्तरः ।
अर्धयोः पञ्चपर्वाणां मृदू पञ्चदशाष्टमौ ॥ ११ ॥

 पूर्वान् वारानादिं कृत्वा एकान्तरेऽह्नि मासे चोत्तरो दिवसो ज्ञेयः । यस्मिन् चान्द्रे मासे यो वारस्तदग्रिमे चान्द्रे मासे तदुत्तरो वारो ज्ञेयः । यथा यदि प्रथमचान्द्रमासारम्भे रविवारस्तदा द्वितीयमासारम्भे चन्द्रवारो भविष्यति चान्द्रमासस्यैकोनत्रिंशत्सावनदिनात्मकत्वादिति स्फुटम् ।

 १४ श्लोके यानि दिवसस्य पञ्चभागात्मकानि पञ्चपर्वाणि तेषामर्धयोः खण्डयोर्यौ पञ्चदशाष्टमौ खण्डौ तत्र रवेस्तेजोमन्दात् मृदू ज्ञेयौ । तौ द्वौ मृदुसंज्ञौ ज्ञेयावित्यर्थः ॥ ११ ॥  अत्रोपपत्तिः । एकस्मिम् युगे चन्द्रनक्षत्राणि = ६७X२७ = १८०९ । दशभिर्हृतानि लब्धान्येकस्मिन्नयने नक्षत्राणि = सप्तविंशतितष्टानि = एकद्वित्र्यादिगुणानि । 189 ।

 एतानि सप्तविंशतितष्टानि जातानि

। ० धनिष्ठात एतत्संख्यान्तरचन्द्रनक्षत्रेषु अयनानि भवन्ति । यथा धनिष्ठात एकोनविंशतितमनक्षत्रे चित्रायामन्यदयनम् । । धनिष्ठात एकादशे नक्षत्रे आर्द्रायां ततोऽन्यत् । धनिष्ठातस्तृतीये नक्षत्रे पूर्वभाद्रपदायां ततोऽप्यन्यदयनम् । एवमन्यान्यानीतचन्द्रनक्षत्रेषु भवन्ति । अथैकस्मिन् वर्षे सूर्यनक्षत्राणि = २७ षड्भिर्हृतानि लब्धान्येकर्तौ सूर्यनक्षत्राणि = अत उपपन्नं सर्वम् ॥ १० ॥

अथ पर्वणि अंशसाधनमाह ।
द्योर्ज्ञेयं पर्व चेत् पादे पादस्त्रिंशत् तु सैकिका ।
भागात्मनाऽपवृज्यांशान् निर्दिशेदधिकं यदि ॥ १२ ॥

 चेद्द्योर्दिनस्य पादे पर्व भवेत् तर्हि गणितागतमेवांमानं ज्ञेयम् । यद्यंशमानं पादतोऽधिकं तदा तेभ्योऽशेभ्य: पादांशानपवृज्य वर्जयित्वा शेषानंशान् गणको निर्दिशेत् । पादे कियन्तोऽंशा इत्याह । पादस्त्रिंशत् तु सैकिकेति । भागात्मना विभागावयवेन पाद एकत्रिंशद्भवति । अत्रैतदुक्तं भवति । अत्र ज्यौतिषवेदाङ्गे सावनदिनस्य नक्षत्रादिमानस्य च चतुर्विंशत्यधिकशततमभागाः कृताः सन्ति । ते च भागा अंशा वोच्यन्ते । अतो दिनादिचतुर्थांशे एकत्रिंशद्भागा भवन्ति । सावनदिनेन सावनमहोरात्रं गृह्यते । अतः पादांशा मध्याह्नपर्यन्तं भवन्ति । ततोऽधि केभ्यो भागेभ्यः पादांशान् विशोध्य शेषांशा दिनोत्तरदले बोध्याः । एवं रात्रावपि निजपादीया भागाः साधनीयाः । यदि रात्रिपूर्वार्धे पर्वमानं दशभागमितं तदा पादद्वयमिते दशभागाधिके पर्वमाने पादयोः स्वतो ज्ञानात् पर्वणोऽंशा दशसमा इत्येव गणका वदन्तीति । अत्र 'दुहेयं' वा बार्हस्पत्यशोधितं 'दुर्हेय'मिति मन्मते न समीचीनमिति ॥ १२ ॥

इदानी युगादेरिष्टपर्वपर्यन्तं पर्वगणानयनमाह ।
निरेकं द्वादशाभ्यस्तं द्विगुणं गतसंयुतम् ।
षष्ट्या षष्ट्या युतं द्वाभ्यां पर्वणां राशिरुच्यते ॥ १३ ॥

 अत्र पूर्णान्तदर्शान्तयोः पर्वसंज्ञा ज्ञेया । वर्त्तमानसौराब्दमानं चाध्याहार्यम् । ततोऽस्य श्लोकस्यैवं व्याख्यानं कार्यम् । वर्त्तमानसौराब्दमानं निरेकं शेषं द्वादशभिरभ्यस्तं गुण्यं गुणनफलं च द्विगुणं कर्त्तव्यं तच्च गतैः पर्वभिः संयुतं कार्यम् । संयुतं च षष्ठ्या षष्ट्या द्वाभ्यां युतं कार्यमर्थात् संयुतमानं द्विगुणं षष्ट्या विभक्तं निरग्रलब्धं च संयुतमान एव योज्यं तदेव पर्वणां चान्द्रपर्वणां राशिर्गण उच्यते आचार्यैरिति ।

 अत्रोपपत्ति: । मासार्धं स्वस्वपर्वेति एकयुगे सौराब्दाः = ५ । सौरमासाः = ६० । सौरपर्वाणि = १२० । चान्द्रमासाः = ६२ । चान्द्रपर्वाणि = १२४ । सौरचान्द्रपर्वान्तरं युगेऽधिपर्वाणि = ४ । एतानि विंशत्यधिकशतसौरपर्वसु जातानि तेन षष्टिमितसौरपर्वसु अधिपर्वमानम् = २ । अथ वर्त्तमानसौराब्दमानं निरेकं गतसौराब्दमानं जातम् । तद्द्वादशगुणं जाता गतसौरमासास्ते द्विगुणा जातो गताब्दान्ते गतसौरपर्वगणस्तत्र वर्त्तमानचान्द्राब्दीयगतचान्द्रपर्वसंख्यासमा गतरविपर्वसंख्यैव योजिता । एवं गतचान्द्रपर्वाग्रे यद्रविपर्व तत्पर्यन्तं रविपर्वगणो जातः । तस्य चान्द्रपर्व करणार्थमधिपर्वानयनम् । यदि षष्टिमितैः सौरपर्वभिरधिपर्वमानं द्वयं लभ्यते तदा गतसौरपर्वगणेन किं लब्धमधिपर्वमानं तच्छेषं च यदि गतरविपर्वगणे योज्यते तदा गतसौरपर्वान्ते चान्द्रपर्वगणो भवेत् । तत्र चान्द्ररविपर्वान्तरमधिपर्वशेषं समं वियोज्यं तदा निरवयवो गतचान्द्रपर्वगणो भवेत् । एवं स्थितौ निरग्रमधिपर्वमानमेव गतरविपर्वगणे योज्यं तदा लाघवेन गतचान्द्रपर्वगणो भवतीति । यथा सिद्धान्तशिरोमण्यादौ ज्योतिषसिद्धान्तग्रन्थे चान्द्रमासानयनार्थमधिशेषत्यागकारणं विलिखितं तथैवात्रापि बोध्यमिति स्फुटं ज्योतिर्विदाम् । अत्र बार्हस्पत्यव्याख्यानं तच्छोधितं पद्यं च शङ्करबालकृष्णदीक्षितशोधितानुरूपं समीचीनम् । परन्तु तदुपपत्तौ च सशेषमधिपर्वमानमागच्छति तेन गतरविपर्वान्ते सावयवो गतचान्द्रपर्वराशिरायाति तन्न समीचीनं चान्द्रपर्वगणस्य निरवयवत्वादिति स्फुटमेव विदाम् ॥ १३ ॥

इदानीं दिनस्याष्टयामेषु पर्वणि गते यामसंज्ञामाह ।
स्युः पादार्घास्त्रिपद्या ये त्रिद्व्येकेऽह्नः कृतस्थितेः ।
साम्येनेन्दोस्त्रयोऽन्ये तु पञ्चकाः पर्वसम्मिताः ॥ १४ ॥

 अहो दिनस्य ये त्रयस्त्रिद्व्येके पादार्धास्ते त्रिपद्याः पादार्धाः स्युः, अर्थात् तत्र कृतस्थितेः कृता स्थितिर्येन तस्येन्दोश्चन्द्रस्य साम्येन कारणेन पर्वदिने त्रिपदी योगविशेषो भवति । पादार्धद्वितीये यदि पर्व तदा तत्पूर्वापरयोः पादार्धयोरपि पर्वसान्निध्यात् स्नानदानादौ विशेषतः पुण्यमतः पादत्रयस्य त्रिपादी योगवैशिष्ट्यात् पूर्वैः संज्ञा कृतेति । एवं तस्मिन् पर्वणि येऽन्ये पञ्च पादार्धा अवशिष्टास्ते पर्वसम्मिता अर्थात् तेषु स्नानदानादिजन्यं तथैव पुण्यं यथाऽन्यसाधारणपर्वसु भवतीत्यर्थः ॥ १४ ॥

इदानीं पर्वणि चन्द्रनक्षत्रानयनार्थं भांशानयनमाह ।
भांशाः स्युरिष्टकाः कार्याः पक्षा द्वादशकोद्गताः ।
एकादशगुणाश्चेन्दोः शुक्लेऽर्धं चैन्दवा यदि ॥ १५ ॥

 वर्त्तमानाब्दे द्वादशकेषु मासेषु उद्गताः प्राप्ता इष्टका अभीष्टाः पक्षाः कार्याः । निरेकं द्वादशाभ्यस्तमित्यादिना पूर्वोदितेन प्रकारेणाभीष्टपर्वणि पर्वगणं आनेयस्त एवात्रेष्टकाः पक्षा भवन्ति । पक्षा एकादशगुणा इन्दोश्चन्द्रस्य भांशाः स्युः । यदि ऐन्दवाश्चान्द्राः पक्षाः शुक्ले शुक्लपक्षे तदा पूर्वगतभांशेषु अर्धं च शब्दाद्योज्यमर्थात् भांशानां चतुर्विशत्यधिकैकशतमितानामर्धं द्विषष्टिर्योज्या तदा चन्द्रस्य भांशाः स्युरित्यर्थः ।

 अत्रोपपत्तिः । एकस्मिन् युगे चान्द्रामासाः = ६२ । तत्पक्षाः = १२४ । चन्द्रभगणाः = ६७ । एते सप्तविंशतिगुणाश्चन्द्रभुक्तनक्षत्राणि = १८०९ । ततोऽनुपातो यदि १२४ पक्षैः पर्वभिर्वा १८०९ नक्षत्राणि तदैकपक्षेण किं जातान्येकपक्षे नक्षत्राणि = = =

 = १४ नक्षत्राणि + ७३ भांशाः । यत एकस्मिन् नक्षत्रे भांशाः = १२४ । इति पूर्वमेव प्रतिपादितम् । अथ ७३ भांशाः = ६२ + ११ । ततोऽनुपातो यद्येकस्मिन् पक्षे चैते भांशास्तदा पक्षगणे कियन्तः । लब्धा इष्टपक्षेषु भांशाः = ६२ इप + ११ इप अत्र यदि पक्षाः समा अर्थात् कृष्णपक्षे तदा प्रथमखण्डे पूर्णानि नक्षत्राणि लभ्यन्ते तेषां त्यागेन तदा भांशाः = ११ इप । अथ यदि पक्षा विषमा अर्थात् शुक्लपक्षे तदा प्रथमखण्डे पूर्णनक्षत्राणां त्यागात् भांशाः = ६२ । अतस्तदा वास्तवा भांशाः = ६२ + ११ इप । एवमत्राभीष्टे पक्षान्ते यत् किमपि नक्षत्रं तस्य भुक्ता भांशा आगच्छन्तीति सर्वं निरवद्यम् । अत्र बार्हस्पत्यव्याख्यानं तदुपपतिश्च निरर्थेति ॥ १५ ॥  इदानीं पक्षान्ते पूर्वागतभांशतो नक्षत्रज्ञानार्थमादौ लाघवेन नक्षत्रनामस्मरणार्थं भांशक्रमतो नक्षत्राणां लघुनामन्याह ।

जौ द्रा गः खे श्वे ही रो षाश्चिन्मू षक् ण्य: सू मा धा णः।
रे मृ (म्रे) घा: स्वा पो जः कृ ष्यो ह ज्ये ष्ठा इत्यृक्षा लिङ्गैः ॥

 जौ (आश्वयुजौ अश्विनौ) । द्रा (आर्द्रा) । गः (भगः=पूर्वफल्गुन्यौ) । खे (विशाखे) । श्वे (उत्तराषाढा = विश्वे) । हिर् (उत्तरभाद्रपदा = अहिर्बुध्न्यम्) । रो (रोहिणी) । षाः (आश्लेषाः) । चित् (चित्त्रा)। मू (मूलम्) । षक् (शतभिषक्)। ण्यः (भरण्यः) । सू (पुनर्वसू) । मा (उत्तरफल्गुन्यौ = अर्यमा) । धाः (अनुराधाः) । णः (श्रवणः) । रे (रेवती) । मृ (म्रे ) (मृगशिरः) । घाः (मघाः) । स्वा (स्वाती) । पः (पूर्वाषाढा = आपः) । जः (पूर्वभद्रपदा = अजः = एकपात्)। कृ (कृत्तिकाः) । ष्यः (पुष्यः) । (हस्तः) । ज्ये (ज्येष्ठा) । ष्ठाः (श्रविष्ठाः = धनिष्ठाः) । इति लिङ्गैः सङ्केतैः ऋक्षा नक्षत्राणि द्राक्स्मरणार्थं ज्ञेया इति । इदं विद्युन्मालानाम छन्दः । तत्र सर्वे वर्णा दीर्घा भवन्ति । लाघवेनैकाक्षरेण नामग्रहणे सर्वेषां नामानि भिन्नानि यथा भवेयुर्यथा च छन्दोभङ्गोऽपि न भवेत् तथा स्वेच्छया नक्षत्रनामतः, पूर्वात्रये उत्तरात्रये च तुल्याक्षरग्रहणे नामैक्यदोषात् तत्तद्देवतानामतोऽक्षराणि गृहीतानि आचार्येण । मन्मते चित्त्रायामाचार्येण चित्-इति गृहीतम् तेन ‘चिन्मू' इति पाठः साधुः । एवं वैदिकव्याकरणानुसारेण 'मृ' इत्यस्योच्चारणं 'म्रे' इति भवति तेन न छन्दोभङ्गदोष इति । अत्र बार्हस्पत्यव्याख्यानं समीचीनम् । युक्तपरो हि वर्णो दीर्घो भवेदिति बुद्ध्याऽऽचार्येण नक्षत्रनामसु आदिमध्यान्ताक्षराणि गृहीतानि यतो नामाक्षराणां कस्याप्यक्षरस्य ग्रहणेन न कश्चिद्विशेषस्तदक्षरेण तस्यैव नक्षत्रस्य ग्रहणादित्यलम् ॥ १६ ॥

इदानीमनन्तरोक्तसङ्केतेन पक्षान्ते भांशज्ञानतो नक्षत्रमाह ।
जावाद्यंशैः समं विद्यात् पूर्वार्धे पर्व तूत्तरे ।
भादानं स्याच्चतुर्दश्यां द्विभागेभ्योऽधिके यदि ॥ १७ ॥

 पर्वसमये अंशैर्भांशैः समं तुल्यं जौ-आदि नक्षत्रं गणको विद्यात् जानीयात् । अत्रैतदुक्तं भवति । पर्वकाले “भांशाः स्युरिष्टकाः कार्याः पक्षा द्वादशकोद्गताः” इति पूर्वोदितप्रकारेण ये भांशाः समागतास्तत्संख्या ‘जौ द्रा गः खे'-इत्यादि क्रमेण गणनया यस्मिन् नक्षत्रे स्यात् तदेव पर्वणि नक्षत्रं स्यात् । यथा यदि भांशमानम् = २ । तदा क्रमगणनया द्वितीयं द्रा आर्द्राभं स्यात् । एवं यदि भांशमानम् = २७ । तदा क्रमगणनया सप्तविंशतिसंख्याकं ष्ठाः श्रविष्ठाभं स्यात् । यदि भांशमानम् = २८ तदेदं सप्तविंशतितष्टं शेषेणैकेन समं पुनर्गणनया जौ अश्विनीभं स्यात् । एवं कस्मिँश्चिद्भांशमाने सप्तविंशतितष्टतो नक्षत्रं स्यात् । तस्य वर्त्तमानस्य भस्य चानीता भांशा गताः स्युरित्यर्थः । अथ दिनस्य रविसावनदिनस्य पूर्वार्धे मध्याह्नात् प्राक् पर्व भवेत् तदा तस्मिन्नेव दिने पर्व ज्ञेयं तदैव स्नानदानादिकं कार्यमिति । यदि तूत्तरे दिनस्योत्तरार्धे पर्व तथा द्विभागेभ्यो द्विपादभगेभ्योऽधिके भांशमाने तदा तद्दिने चतुर्दश्यामेव पूर्वविधिनाऽऽगतस्य भस्यादानं ग्रहणं कार्यम् । अत्रैतदुक्तं भवति । भागद्वयमतिक्रम्य मध्याह्नानन्तरं यदि पर्व तदा तद्दिने न दर्शपौर्णमासप्रारम्भः किन्तु स्नानदानादिकर्मणि तद्दिने उदये चर्तुदशी ज्ञेया पूर्वविधिनाऽऽगतनक्षत्रस्य ग्रहणं च तस्यां चतुर्दश्यामेव कार्यम् । ज्यौतिषवेदाङ्गेऽयं श्लोकः ‘जौ द्रा ग'-इत्यादि श्लोकस्य प्राक् प्रमादतो विलिखतः ।

 अत्रोपपत्तिः । एकस्मिन् युगे चान्द्रपर्वाणि वा पक्षाः = १२४ । चान्द्रनक्षत्राणि = १८०९ पूर्वमेव १५ श्लोक-भाष्ये लिखितानि । अथ यदि पर्वगणमानम् = प, तत्रत्यगतनक्षत्रमानम् = न । वर्त्तमाननक्षत्रस्य गता भांशाश्च = भा, तदा यदि १२४ पक्षैः पर्वभिर्वा १८०९ नक्षत्राणि लभ्यन्ते तदा प-पर्वभिः किमिति लब्धानि न-नक्षत्राणि शेषाणि भा-भांशाः । अतो लब्धिगुणो हरः शेषयुतो भाज्यराशिसमः । तेन १८०९ प =

१२४ न + भा, अतः
Jyautisha Vedangam.pdf
। अत्र पमानमभिन्नम् । अतः कुट्टकेन रूपक्षेपे ।
Jyautisha Vedangam.pdf

नक्षत्राणां सप्तविंशतेरल्पत्वात् भा-वशेन गतनक्षत्राणि = ५ भा । अत्र भा-मानस्य हरा-२२४ ल्पत्वात् भा-मानं १,२,३, ............ , १२४ । इत्यादिभिरुत्थाप्य श्रविष्ठादिगणनया जावादिनक्षत्रक्रमाण्युत्पद्यन्ते ।

 यथा यदि भांशमानम् = भा = १ तदा गतनक्षत्रसंख्या = न = ५ श्रविष्ठातः क्रमगणनया गतभं रेवती वर्त्तमाननक्षत्रं चाश्विनौ ”’जौ”’ वा । एवं यदि भा = २ तदा गतनक्षत्रसंख्या = १० । श्रविष्ठातः क्रमगणनया गतनक्षत्रं मृगशिरो वर्त्तमानं चार्द्रा वा द्रा-इति । एवमन्यानि पाठपठितान्यायान्तीति । अथ यदि भा = २७ इ + शे तदा गतनक्षत्रसंख्या = २७ × ५ × इ + ५ शे सप्तविंशतितष्टेन गतनक्षत्रसंख्या = ५ शे । अतः सप्तविंशतितष्ट-भांशमानेन एकद्व्यादिसमेन पुनःपुनस्तान्येव नक्षत्राणि समायान्ति । एवं लब्धिमानम् “१७ भा” अस्मिन् भास्थाने १,२,३,....१२४ उत्थापनेन पर्वमानं समायाति । यथा यदि भा= १ तदा पर्वमानम् = १७ । अर्थाद्युगादितः १७ मिते पर्वगणे भांशमानं रूपं तत्रस्थं नक्षत्रं च जौ भवतीति । एवं वास्तवभांशमानतः पर्वसंख्या तत्र स्थितं नक्षत्रं च सुलभेन ज्ञायते । पूर्वेदितेनैव प्रकारेण डा.थिबो-विलिखिता पर्वनक्षत्रसूची- उत्पद्यते । इदं सर्वं हि प्रकारान्तरेण बार्हस्पत्येन साधु प्रतिपादितं परन्तु ‘जावाद्यंशै'रित्यादि श्लोकस्य तदीयं व्याख्यानं न साध्विति सुजनैर्निपुणं विलोक्यमित्यलं पल्लवितेन ॥ १७ ॥

इदानी पर्वभांशतः कलानयनमाह ।
कार्या भांशाष्टकास्थाने कला एकान्नविंशतिः ।
ऊनस्थाने द्विसप्ततिमावपेदिनसंयुताम् ॥ १९ ॥

 एकस्मिन् वर्षे अष्टकाश्चतस्रो भवन्ति (अश्नन्ति पितरोऽस्यामित्यष्टका)ताश्च वेदे प्र[१]सिद्धास्तेनाष्टकाशब्देन चत्वारि गृह्यन्ते । ततोऽस्य श्लोकस्य व्याख्यानम् । भांशानामष्टका भांशाष्टका तत्स्थाने एकोनविंशतिः कलाः कार्याः । तथा ऊनस्थाने हीनस्थानेऽर्थाद्धीनजातीयकाष्ठास्थाने गणक इनैः सूर्यैरर्थाद्द्वादशभिः संयुतां द्विसप्ततिमर्थाच्चतुरशीतिमावपेत् प्रक्षिपेत् । अत्रैतदुक्तं भवति । भांशानां प्रतिचतुष्कं एकविंशति: कलाश्चतुरशीतिः काष्ठाश्च कार्या इति ।

 अत्रोपपत्तिः । यदि युगचन्द्रनक्षत्रैः १८०९ युगकुदिनानि १८३० लभ्यन्ते तदैकेन चन्द्रनक्षत्रेण किं लब्धम् = = =1+ =एकं कुदिनं कुदिनशेषं च । तत्रैकस्य कुदिनस्य हरसमान्’ त्र्यधिकषट्शतमितान् भागान् कृत्वैकस्य भागस्य संज्ञा कला कृता । तत एकस्मिन् चन्द्रनक्षत्रे एकं कुदिनं सप्तकला वा ६०३ + ७ = ६१० कला भवन्ति । वक्ष्यति चांऽऽचार्यः “ससप्तैकं भयुक् सोमः”-इति । पुनरेककलायां चतुर्विंशत्यधिकशतसमान् भागान् कृत्वा एकभागस्य काष्ठासंज्ञा कृता । इदमपि वक्ष्यति चाचार्यः “काष्ठानां चैव ताः कला"-इति । ततोऽनुपातो यद्येकचन्द्रनक्षत्रेण वा चतुर्विंशत्यधिकशतभांशैः ६१० कला लभ्यन्ते तदा चतुर्भिर्भांशैः किम् । लब्धा एकाष्टकायां कलाः = = = =१९ कलाः + ८४ काष्ठाः । अत उपपन्नं सर्वम् । अत्र बार्हस्पत्यव्याख्यानं तदुपपत्तिश्च न साध्वीति ॥ १९ ॥

इदानीमिष्टतिथितुल्ये गतनक्षत्रे तत्कलानयनमाह ।
या: पर्वभादानकलास्तासु सप्तगुणा तिथिः ।
युक्ता ताश्च विजानीयात् तिथिभादानिकाः कलाः ॥ २० ॥

 पूर्वप्रकारेण पर्वसमये या भादानकला आगतास्तासु सप्तगुणतिथिर्युक्ता ताश्च गणकस्तिथिभादानकलास्तिथितुल्ये गतभे सति आदानकला ग्रहणयोग्याः कला विजानीयात् । यदि पर्वतो गततिथिसंख्यासममेव गतनक्षत्रमानं तदा पर्वभादानकलासु सप्तगुणा तिथिर्योज्या । योगसमास्तिथितुल्ये पर्वतो गतभे तस्यादानकला भवन्ति ।

 अत्रोपपत्तिः । तिथितुल्ये पर्वतो गतभे तिथिसंख्यासमा गतनक्षत्रसंख्या । एकैकस्मिन् नक्षत्रे तु एकं कुदिनं सप्तकलाधिकं भवति “ससप्तैकं भयुक् सोमः”-इति वक्ष्यमाणवचनात् । अतो दिनस्य प्रयोजनाभावात् पर्वभादानकलासु सप्तगुणा तिथिर्युक्ता ताश्च तिथिदिने भस्यादानकला भवन्तीति स्फुटम् । अत्र बार्हस्पत्यव्याख्यानं न स्फुटमिति ॥ २० ॥

इदानीमिष्टतिथौ नक्षत्रानयनमाह ।
तिथिमर्कदशाभ्यस्तां पर्वभांशसमन्विताम् ।
विभज्य भसमूहेन तिथिनक्षत्रमादिशेत् ॥ २१ ॥

 अर्कैर्द्वादशभिर्दशभिश्चाभ्यस्तां गुणितां तिथिं किंविशिष्टाम् । पर्वभांशसमन्विताम् । पर्वणि ‘भांशाः स्युरिष्टकाः कार्याः पक्षा द्वादशकोद्गताः' -इति विधिना ये भांशाः स्युस्तैः समन्विता युक्तेति तां भसमूहेन भांशसमूहेन चतुर्विंशत्यधिकशतेन विभज्य लब्धं गणकस्तिथिनक्षत्रं तिथिसम्बन्धि नक्षत्रमादिशेत् कथयेदिति ।

 अत्रोपपत्तिः । एकयुगे चन्द्रदिनानि वा तिथयः = १८६० । चन्द्रनक्षत्राणि च = १८०९ । ततोऽनुपातो यदि युगतिथिभिर्युगनक्षत्राणि तदेष्टतिथिभिः किम् । लब्धानि नक्षत्राणि = १८०९xति/१८६० वा नक्षत्रांशाः = १२४ × १८०९ ति/ १८६० ति = १८०९ ति/१५ = ()ति = १२० ति + ति । अत्र द्वितीयखण्डं त्यक्तं तदर्थमग्रे संस्कारविशेषं वक्ष्यति चाचार्यः । अत्र पर्वभांशयुतेनेष्टतिथौ भांशमानमेकनक्षत्रभांशमानेन भक्तं तिथिनक्षत्रमानं स्फुटमत उपपन्नम् । अत्र बार्हस्पत्यशोधितपाठो न साधुस्तथा तद्व्याख्या तदुपपत्तिश्चेति सुधीभिर्भृशं विचिन्त्यम् ॥ २१ ॥

 अधुना पूर्वप्रकारागततिथिनक्षत्रभांशेषु द्वितीयखण्डजन्यं संस्कारविशेषं कथयति ।

नवकैरुद्गतोऽंशः स्याद्युतः सप्तगुणो भवेत् ।
आवापस्त्वयुजे द्यु स्यात् पौलस्त्येऽस्तं गतेऽपरम् ॥ २२॥

 अयुजे विषमे पक्षे शुक्लपक्षावसाने पञ्चदशतिथौ आवापः-तिथि- मर्कदशाभ्यस्तास्’ इत्यादिविधिना लब्धोंऽशो भांशो नवकैर्नवभिर्भांशैरुद्गतो वर्धितः कार्यस्तदा वास्तवभांशमानं भवेदित्यर्थः । अथ तदा ‘‘कार्या भांशाष्टकास्थाने”-इत्यादिविधिना या भादानकलास्तत्र ऋक्षः सप्तगुणो युतः तदा द्यु, रविसावनदिनं सावयवं स्यात् । पौलस्त्ये चन्द्रेऽस्तं गते दर्शान्ते तु अपरं मानं कुदिनमानमेव साधयेत् । तत्र नवकैरुद्गतोऽंशो न कार्य इत्यर्थः ।

 अत्रोपपत्तिः । पूर्वप्रतिपादितनक्षत्रानयने द्वितीयखण्डं ९ति/१५ यत् त्यक्तं तत्र पञ्चदशतिथिषु नव भांशा उत्पद्यन्ते । दर्शान्ते च तिथ्यभावादयं शून्यसमो भवत्यतः शुक्लपक्षान्ते पूर्वागतभांशा नवभिर्भांशैर्वर्धनीयाः । दर्शान्ते च यथागतास्तथैव ज्ञेयाः । अथैकस्मिन् नक्षत्रे एकं भूदिनं सप्तकलाधिकं भवत्यतो नक्षत्रसंख्या सप्तगुणा तत्रत्यभादानकलासु युता रविसावनं दिनं स्यात् । दर्शान्ते च भांशसंस्काराभावात् सावनं द्युमानमेव साध्यं तच्च तिथिनक्षत्राभावात् पर्वभादानसमं भवतीति । बार्हस्पत्येन पौलस्त्यपदेन सोमाकरसम्मतोऽर्थश्चन्द्रवाचकः साधुर्गृहीतस्तथाऽप्यत्र मन्मते न तद्व्याख्यानं समीचीनमिति ॥ २२ ॥

 इदानीं तिथिमानमानयति ।

अतीतपर्वभागेभ्यः शोधयेद्विगुणां तिथिम् ।
तेषु मण्डलभागेषु तिथिनिष्ठां गतो रविः ॥ २३ ॥

 सूर्योदयादतीतपवर्णो गतपर्वणो ये भागा भोगभागा उन्नतांशा ये चैकसावनदिने चतुर्विंशत्यधिकशतमिता भवन्ति तेभ्यो द्विगुणां तिथिं गणकः शोधयेत् । शेषेषु तेषु मण्डलभागेषु स्वाहोरात्रवृत्तभागेषु यदा रविरागच्छति तदा स रविस्तिथिनिष्ठां तिथिमानान्तं गतो भवति । द्विगुणतिथिशोधनेन येऽहोरात्रवृत्तभागा आागतास्त एव तिथिभोगभागास्तद्भागसमो यदा रविरुन्नतस्तदा तिथ्यन्ते स्थितो भवतीत्यर्थः ।  अत्रोपपत्तिः । अतीतपर्वभागास्तद्दिने पर्वणो भोगभागाः । अथैकतिथौ रविसावनभागानयनार्थमनुपातो यदि १८६० तिथिभिः १८३० सावनदिनानि लभ्यन्ते तदैकतिथौ किमिति लब्धः सावनदिनावयव: = १८३० ति/१८६० = ६१ति/६२ = ति- ति/६२ वा ति- समानि दिनानि-२ ति - भागाः । अत्र दिनानां प्रयोजनाभावात् द्विगुणतिथिसमा भागाः पर्वभागेभ्यो विशोधितास्ते वर्त्तमानतिथेर्भोगभागा भवन्तीति बार्हस्पत्यव्याख्यानं गणितं च समीचीनमिति ॥ २३ ॥

इदानीमभीष्टविपुवत्समये युगादितः पक्षतिथ्यानयनमाह ।
विषुवत् तद्द्विरभ्यस्तं रूपोनं षड्गुणीकृतम् ।
पक्षा यदर्धं पक्षाणां तिथिः स विषुवान् स्मृतः ॥ २३ ॥

 “समरात्रिदिवं कालं विषुवद्विषुवं च तत्"- इत्यमरः । विषुवच्चैकस्मिन् सौरवर्षे सायनमेषादौ सायनतुलादौ भवतीति वर्षमध्ये वारद्वयं भवति । ज्यौतिषवेदाङ्गे रविचन्द्रादीनां समानवेगेन चलनाद्द्वयोर्द्वयोर्विपुवतोर्मध्ये समानान्येव सौरचान्द्रदिनानि भवन्तीति प्रसिद्धम् । विषुवत् युगादितोऽभीष्टविषुवतः संख्यात्मकं यन्मानं भवेत् तद्द्विर्द्विकेनाभ्यस्तं गुण्यं गुणितफलं रूपेणैकेनोनं शेषं षड्गुणीकृतं षड्गुणं कार्यम् । इदं गुणनफलं स्वविषुवति युगादितः पक्षा भवन्ति तथाऽऽगतानां पक्षाणां यदर्धं यद्दलं स एव विषुवान् तिथिः स्मृत आचार्यैरिति । “तिथिर्द्वयोः”-इति लिङ्गानुशासनात् तिथिशब्दः पुंलिङ्गेऽपि ।

 अत्रोपपत्तिः । माघशुक्लादेर्युगादेः सौरमासत्रयान्तरे प्रथमं विषुवत् । अतो युगादिप्रथमविषुवतोर्मध्ये यदि ६० सौरैर्मासैर्युगचान्द्रपक्षा १२४ लभ्यन्ते तदा सौरमासत्रयेण किमित्यनुपातेन लब्धाः पक्षाः = = क्षेपाख्याः । अथ द्वयोर्विषुवतोर्मध्ये षट् सौरा मासाः अतस्तदन्तर्गताः पक्षाः = । द्वयोर्विषुवतोर्मध्ये ह्येकगुणा विषुवत्त्रयमध्ये च द्विगुणाः अभीष्टविषुवन्मध्ये च (वि-१) एतद्गुणाः पक्षाः भवन्ति यद्यभीष्टविषुवत्संख्या = वि । ततो विषुवदन्तर्गताः--

पक्षाः = (वि – १) = ६२ वि/५ - । क्षेपाख्ययोजनेन जाता युगादितः-

  पक्षाः = ६२ वि/५ - +

=१२ वि + २ वि/५ - १२ - +६+

=१२ वि - ६+ २ वि/५-

=६ (२ वि - १) पक्षाः + (२ वि/५-) x १५ तिथयः

=६ (२ वि - १) पक्षाः + ३(२ वि - १) तिथयः

=६ (२ वि - १) पक्षाः + ६(२ वि - १)/२ तिथयः ।

 अत उपपद्यते सर्वम् । अत्र बार्हस्पत्यकृतं व्याख्यानं गणितं च सर्वमतीव समीचीनं शङ्करबालकृष्णदीक्षितगणितानुरूपमिति ॥ २३ ॥

इदानीं नाडिकाप्रमाणमाह ।
पलानि पञ्चाशदपां धृतानि
तदाढकं द्रोणमतः प्रमेयम् ।
त्रिभिर्विहीनं कुडवैस्तु कार्यं
तन्नाडिकायास्तु भवेत् प्रमाणम् ॥ २४ ॥

 अपां जलस्य पञ्चाशत् पलानि यस्मिन् पात्रे धृतानि स्थापितानि तत् पात्त्रमाढकं कथ्यते । अतोऽस्मादाढकमानात् पूर्वाचार्यमतेभ्यो द्रोणं द्रोणमानं प्रमेयं प्रमातव्यम् । तद्द्रोणं त्रिभिः कुडवैर्विहीनं शेषं नाडिका-प्रमाणं भवेदिति सर्वं विस्तरतोऽष्टमश्लोकभाष्ये पूर्वं व्याख्यातमिह किं पिष्टपेषणेनेति ॥ २४ ॥

इदानीमिष्टतिथौ रविनक्षत्रानयनमाह ।
एकादशभिरभ्यस्य पर्वाणि नवभिस्तिथिम् ।
युगलब्धं सपर्व स्याद्वर्त्तमानार्कभं क्रमात् ॥ २५ ॥

 युगादितो वर्त्तमानपर्वपर्यन्तं यावन्ति पर्वणि “निरेकं द्वादशाभ्यस्तम्'-इत्यादिना स्युस्तान्येकादशभिरभ्यस्य संगुण्य तथा पर्वानन्तरं या तिथिस्तां तिथिं तिथिसंख्यां नवभिः संगुण्य द्वयमेकीकृत्य युगलब्धं युगे यावन्ति पर्वाणि तत्संख्यया चतुर्विंशत्यधिकशतेन लब्धं फलं सपर्व पर्वमानेन सहितं कार्यं तदा तत् क्रमात् युगादिभवश्रविष्ठादितो वर्त्तमानार्कभं वर्त्तमानसूर्यनक्षत्रं स्यात् । इदं शङ्करबालकृष्णदीक्षितव्याख्यानं समीचीनम् ।

 अत्रोपपत्तिः । युगे सूर्यनक्षत्राणि = ५ x २७ = १३५ । चान्द्र पर्वाणि च = १२४ । ततोऽनुपातो यदि युगपर्वभिर्युगरविनक्षत्राणि तदेष्टपर्वभिः किमिति लब्धानि नक्षत्राणि = १३५ प/१२४ = प+११प/१२४ । अथैकेन पर्वणा वा पञ्चदशतिथिभिर्यदि रविनक्षत्रमानम् इदं तदेष्टतिथिभिः किमिति लब्धं तिथिसम्बन्धिरविनक्षत्रमानम् = (१३५ ति/१५ x १२४) = ९ ति/१२४ । द्वयोर्योगेन जातं युगादितो रविमानम् = प + (११ प+९ ति/१२४) । अतः श्रविष्ठादिगणनया वर्त्तमानतिथावर्कनक्षत्रं स्यादित्युपपन्नम् । अत्र बार्हस्पत्यव्याख्यानं न समीचीनं तद्गणितेनापि न वर्त्तमानार्कभमायातीति गणकैर्निपुणं विलोक्यम् ॥ २५ ॥

इदानीं कदा वर्त्तमाननक्षत्रादौ रवे: प्रवेशो जात इत्याह ।
सूर्यर्क्षभागान् नवभिर्विभज्य
शेषं द्विरभ्यस्य दिनोपभुक्तिः ।
तिथेर्युतेर्भुक्तिदिनेषु कालो
योगो दिनैकादशकेन तद्भम् ॥ २६ ॥

 अनन्तरोक्तप्रकारेण सूर्यर्क्षस्य वर्त्तमानसूर्यनक्षत्रस्य ये भुक्ता भागा भवन्ति तान् नवभिर्विभज्य फलं ग्राह्यम् । तत् फलं द्विर्द्विवारं द्वाभ्यामभ्यस्य संगुण्य गुणितफलेन दिनांशमानेन पूर्वागतं फलं दिनात्मकं हीनं कृत्वा शेषं ग्राह्यम् । तदेव शेषं सूर्यस्य दिनोपभुक्तिर्भवति । शेषसमेन सावनदिनाद्येन ते भागा रविणा भुक्ताः । अतस्तत्सावनदिनाद्येन वर्त्तमानकालात् प्रागेव तन्नक्षत्रादौ रवेः प्रवेश इति । एवं तिथेर्वर्त्तमानतिथिगतभुक्तभांशेभ्यो वा युतेः पर्वगणभवभुक्तभांशेभ्यश्च यानि भुक्तिदिनानि तेषु प्राक् यः काल: स एव योगो नक्षत्रादेरर्कस्य च योगकालो भवति । अथ योगकालज्ञाने सति दिनैकादशकेन दिने एकादशकेन “एकादशभिरभ्यस्य”-इत्यादिभानयनप्रकारेण तद् भं योगसम्बन्धि नक्षत्रं च ज्ञेयमिति ।

 अत्रोपपत्तिः । युगरविनक्षत्रै १३५ र्युगसावनदिनानि १८३० लभ्यन्ते तदैकेन नक्षत्रेण किम् । लब्धमेकनक्षत्रे सावनदिनमानम् = = = एतदेव मानं वक्ष्यति चाचार्यः “सूर्यो द्यूनि त्रयोदश । नवमानि च पञ्चाह्नः" इति । अथाऽन्योऽनुपातो यद्येकेन नक्ष त्रेण वा चतुर्विंशत्यधिकशतभांशैरिदं सावनमानं लभ्यते तदा रविभुक्तभांशैः किमिति लब्धं भुक्तभांशसम्बन्धि

सावनदिनमानम् =
Jyautisha Vedangam.pdf
=()x भुभां/९ = भुभां/९-*भुभां/९ = भुभां/९ सावनदिनमान - २ x भुभां/९ दिनांशमानम् । अस्यैव संज्ञा दिनोपभुक्तिः कृता यत एतावद्दिनपर्यन्तं रविणा तन्नक्षत्रभागा भुक्ता इति । उत्तरार्धोपपत्तिरतिसुगमा पूर्वार्धप्रकारागतभुक्तिदिनज्ञानत इति । अत्र मन्मते बार्हस्पत्यव्याख्यानं तद्गणितं च न समीचीनमिति ॥ २६ ॥
इदानीं रविभुक्तनक्षत्रेषु सावनदिनान्याह ।
त्र्यंशो भशेषो दिवसस्य भाग-
श्चतुर्दशस्याप्यपनीय भिन्नम् ।
भार्धेऽधिके वाऽल्पगते परोऽंशो
द्यावुक्तमेतन्नवकैर्भवेद्यः ॥ २७ ॥

 चतुर्दशस्य सावनदिवसस्य योऽन्तिमस्त्र्यंशः स भशेष इति कथ्यते । भस्य नक्षत्रस्य सम्बन्धेन यः शेषः स भशेष इत्यन्वर्थकं नाम तदस्ति । अतस्तद्भिन्नं खण्डात्मकं मानं चतुर्दशस्य सावनदिवसस्य मध्येऽपनीयं हित्वा शेषमिते चतुर्दशदिनभागे रवेरेकस्य भस्य भोगो भवति । १४– = एतेषु सावनदिनेषु रविरेकनक्षत्रं भुङ्क्ते । परन्त्वत्र मानेऽन्तरं पतति तदर्थं विशेषं कथयति "भार्धेऽधिके”-इति । रवौ भार्धे वाऽधिके भार्धाधिके वाऽल्पगते भार्धाल्पगते नवकैर्नक्षत्रैर्यः परोऽपर एकोंऽशो भवेत् एतदपि मानं द्यौ पूर्वप्रकारागतनक्षत्रसम्बन्धिसावनदिनमानेऽपनयनार्थं शोधनार्थमुक्तम् । अत्रैतदुक्तं भवति । एकनक्षत्रभोगसावनमानं “त्र्यंशो भशेषः”-इत्यादिविधिनाऽऽगतमभीष्टनक्षत्रसंख्यागुण मभीष्टनक्षत्रसम्बन्धि सावनदिनमानमागच्छति तत्र नवभिर्नवभिर्नक्षत्रैरेकैकं दिनमपनेयं तदा तद्वास्तवं मानं ज्ञेयमन्यथा स्थूलमित्यर्थः ।

 अत्रोपपत्तिः । रवियुगनक्षत्रैः ५ x २७ = १३५ युगसावनदिनानि १८३० लभ्यन्ते तदैकेन किमिति लब्धमेकरविनक्षत्रे सावनमानम्= = = = १३ ६/९ =१३+ - =१३+ - =(१४-१/३)-१/९ इदमभीष्टनक्षत्रमानगुणमभीष्टनक्षत्रमानसम्बन्धि सावनदिनमानम् = (१४-) न – न/९ । अत्राचार्येण प्रथमं प्रथमखण्डभवं फलं साधितं तत्र द्वितीयखण्डफलं यन्नवभिर्नवभिर्नक्षत्रैरेकमेकमुपलभ्यते तस्य शोधनं साधूक्तम् । अत्र बार्हस्पत्यव्याख्यानादिकं न साध्विति । तत्र "द्वावुत्तमे” तथा ‘अवेद्यः' इति पाठोऽपि न साधीयानिति ॥ २७ ॥

इदानीं पूर्वोदितानां साधनानां मूलरूपमब्ददिनाद्याह ।
त्रिशत्यह्नां सषट्षष्टिरब्दः षट् चर्त्तवोऽयने ।
मासा द्वादश सौराः स्युरेतत् पञ्चगुणं युगे ॥ २८ ॥
उदया वासवस्य स्युर्दिनराशिः सपञ्चकः ।
ऋषेर्द्विषष्ट्या हीनः स्याद्विंशत्या सैकया स्तृणाम् ॥ २९ ॥
पञ्चत्रिंशं शतं पौष्णमेकोनमयनान्यृषेः ।
पर्वणां स्याच्चतुष्पादी काष्ठानां चैव ताः कला ॥ ३० ॥ :
सावनेन्दुस्तृमासानां षष्टिः सैकद्विसप्तिका ।
द्युत्रिंशत् सावनस्याब्दः सौरः स्तॄणां स पर्ययः ॥ ३१ ॥

 सषट्षष्टिः षट्षष्टिसहिता अह्नां रविसावनदिनानां त्रिशती अब्दः । सौराब्दो भवति । तस्मिन् सौराब्दे ऋतवः षट् अयने द्वे अयने सौरा मासाश्च द्वादश भवन्ति । एतत् सर्वं पञ्चगुणं तदा युगे तेषां मानानि भवन्ति ॥ पूर्वविधिना युगे यो दिनराशिः सूर्यसावनार्हगणः स सपञ्चकः पञ्चभिः सहितस्तदा युगे वासवस्य धनिष्ठाया उदयाः स्युः । अत्र धनिष्ठाग्रहणमुपलक्षणार्थम् । तेन पूर्वागता संख्या सर्वेषां नक्षत्राणामुदया भभ्रमा भवन्ति क्रान्तिवृत्तस्थानां सर्वेषां नक्षत्राणां समानकालेन भ्रमणात् । स दिनराशिर्द्विषष्ट्या हीनस्तदा ऋषेश्चन्द्रस्योदयाः सावनदिवसा भवन्ति । स एव दिनराशिः सैकया विंशत्या एकविंशत्या हीनस्तदा स्तृणां नक्षत्राणामर्थाच्चन्द्रनक्षत्राणां मानानि स्युः ॥ पौष्णं सौरं नक्षत्रमानं युगे पञ्चत्रिंशं शतं पञ्चत्रिंशदधिकं शतं १३५ भवति । तदिदं १३५ मान- मेकोनं तत्प्रमाणानि युगे ऋषेश्चन्द्रस्यायनानि भवन्ति । युगे यानि चन्द्रपर्वाणि चतुर्विंशत्यधिकशतमितानि भवन्ति तेषां चतुर्थांशः पर्वपादः कथ्यते तेन युगे पर्वणां चतुष्पादी चतुर्विंशत्यधिकशतमितानि एतन्मितानां काष्ठानां चैका कला भवतीत्यर्थः ॥ षष्टिः क्रमेण एकेन द्विकेन सप्तभिर्युता तदा क्रमेण सावनमाससंख्या = ६१ । चान्द्रमाससंख्या = ६२ । स्तृमासानां नक्षत्रमासानां संख्या = ६७ । द्युत्रिंशत् सावनदिनानां त्रिंशत् सावनो मासो भवति । यः सौरोऽब्दः स एव स्तॄणां नक्षत्राणां पर्ययो भ्रमोऽर्थात् सौराब्दकालेन रविरेकं नक्षत्रगणं भुनक्ति ॥

 अत्रोपपत्तिः । अत्र वेधेन सौरवर्षे स्थूलाः ३६६ सावनदिवसा आनीताः । ते पञ्चगुणा युगे सावना दिवसाः = १८३० । “भभ्रमास्तु भगणैर्विवर्जिता यस्य तस्य कुदिनानि तानि वा" - इति भास्करोक्तिवैपरीत्येन युगे भभ्रमाः = १८३० + ५ = १८३५ । युगे चान्द्रमासाः = ६२ । एते रविचन्द्रभगणान्तरसमा अतो विलोमेन युगे चन्द्रभगणाः = ६२+ ५= ६७ । अथोक्तभास्करविधिनैव चन्द्रसावनदिवसाः = भभ्र - चंभ = १८३५ - ६७ = १८३० - ६२ = १७६८ । युगे चन्द्रभगणाः सप्तविंशतिगुणास्तन्नक्षत्राणां मानम् = ६७ x २७ = १८०९ = १८३० - २१ । युगे रविभगणाः सप्तविंशतिगुणास्तन्नक्षत्रमानम् = ५ x २७ = १३५ । युगे चन्द्रभगणा द्विगुणास्तान्ययनमानानि = ६७ × २ = १३४ = १३५ - १ । चन्द्रो यावता कालेनैकं नक्षत्रगणं भुनक्ति स एव कालो नक्षत्रमास इति सांहितिका वदन्ति । तथा च सिद्धान्ततत्त्वविवेके कमलाकरः “भचक्रैकभोगाद्विधोः केचिदार्क्षं वदन्त्यत्र मासं बुधाः संहितासु” - इति । तेन चन्द्रभगणा एव युगे नक्षत्रमासाः । एतेन सर्वमुपयोग्युपपद्यते । अन्यत् स्फुटम् । अत्र सर्वं बार्हस्पत्यव्याख्यानं समीचीनं तच्च पञ्चसिद्धान्तिकायां पैतामहसिद्धान्ते लिखितसममिति । एतेषु बहु मया ६-८ श्लोकानां भाष्ये व्यलेखीति ॥ २८-३१ ॥

इदानीमन्या: परिभाषा आह ।
कला दश सविंशा स्याद् द्वे र्मुहूत्तस्य नाडिके ।
तत्त्रिंशद् द्यु कलानां तु षट्शती त्र्यधिका भवेत् ॥ ३२ ॥

 सविंशा एकस्य विंशतिभागेन सहिता दश कला एका नाडिका भवति । अत्र नाडिकाया अध्याहारः साहचर्यात् । मुहूर्त्तस्यैकमुहूर्त्तस्य मध्ये द्वे नाडिके भवतः । तत्त्रिंशत् तेषां मुहूर्त्तानां त्रिंशद् द्यु भूदिनं भवति । तत्र भूदिने तु कलानां त्र्यधिका षट्शती भवेदिति परिभाषा

 अत्रोपपत्तिः । एका नाडिका = क । मुहूर्त्त एकः = २ नाडिके = २०+ कलाः । सावनदिनमेकम् = ३० मुहू = ६० नाडिका: = ६०० + = ६०३ कलाः । एकस्मिन् चन्द्रनक्षत्रे रविसावनदिनमानम् = =१+ = १ + इति प्रथममनुपातेन प्रदर्शितम् । तत्र शेषावयवे- ऽस्मिन् गुणहरयोर्दृढत्वादाचार्येणैकरविसावनदिनस्य हरतुल्यो विभागः कृतस्तस्यैकविभागस्य कला संज्ञा । एवं दिनकलाभिर्वैपरीत्येनैकनाडिकायां सविंशा दशकला आयान्तीति । अत्र बार्हस्पत्यव्याख्यानं साधु परन्तु ‘च विंशा'-इति तच्छोधितपाठस्तु मन्मते न युक्तः । अत्र शङ्करबालकृष्णदीक्षितादीनामपि व्याख्यानमेवमेव ॥ ३२ ॥

इदानीं पुनरन्याः परिभाषा आह ।
ससप्तैकं भयुक् सोमः सूर्यो द्यूनि त्रयोदश ।
नवमानि तु पञ्चाह्नः काष्ठा पञ्चाक्षरा भवेत् ॥ ३३ ॥

 सोमश्चन्द्रो यावता कालेन भयुक् भेन नक्षत्रेण सह युक्तो भवति स कालश्च ससप्तैकं सप्तकलाधिकमेकं रविसावनदिनम् । चन्द्रः सप्तकला धिकेनैकेन रविसावनदिनेनैकं नक्षत्रं भुनक्तीत्यर्थः । एवं सूर्यश्च यावता कालेनैकं नक्षत्रं भुनक्ति स कालश्च त्रयोदश द्यूनि रविसावनदिनानि अह्नो दिनस्य पञ्च नवभागाश्च । एतैः सावनदिनै रविरकेभं भुनक्तीत्यर्थः । पञ्चभिर्गुर्वक्षरैश्चैका काष्ठा भवति ।

 अत्रोपपत्तिः । यदि युगचन्द्रनक्षत्रैः १८०९ युगभूदिनानि १८३० लभ्यन्ते तदैकेन नक्षत्रेण किम् । लब्धमेकनक्षत्रे सावनदिनमानम्= = 1+ = 1+= १ दिनम् + ७ कलाः । एवं युगरविनक्षत्रैः १३५ युगसावनदिवसास्तदैकेन रविनक्षत्रेण किं लब्धान्येकनक्षत्रे भूदिनानि = = =। पञ्चगुर्वक्षरैरेका काष्ठेति परिभाषा काष्ठातोऽपि सूक्ष्मगणनार्थं कृताऽऽचार्येणेति सर्वमुपपन्नम् । अत्र बार्हस्पत्यव्याख्यानं सर्वं समीचीनं किन्तु तच्छोधितः “ससप्तकम्" -इति पाठो मन्मते न साधुरिति ॥ ३३॥

इदानीं दिनमानमानयति ।
यदुत्तरस्यायनतो गतं स्यात्
शेषं तु यद्दक्षिणतोऽयनस्य ।
तदेकषष्ट्या द्विगुणं विभक्तं
सद्वादशं स्याद् दिवसप्रमाणम् ॥ ३४ ॥

 अयनतोऽयनारम्भदिनादुत्तरस्यायनस्य यद्गतं भूदिनमानं भवेत् । तथा दक्षिणतो दक्षिणायनारम्भदिनादयनस्य दक्षिणायनस्य यद्गतं भूदिनमानं तदयनान्तर्गतकुदिनमानात् प्रोह्य यच्छेषं दिनमानं तद्द्विगुणं फलमेकषष्ट्या विभक्तं लब्धं सद्वादशं द्वादशमुहूर्त्तसहितं तदा मुहूर्त्तात्मकं दिनमानं भवति ।

 अत्रोपपत्तिः । अष्टमश्लोकभाष्ये पूर्वमेव प्रतिपादितं यदुत्तरायणारम्भे द्वादशमुहूर्त्ततुल्यं दिनमानं षण्मासान्तरे दक्षिणायनारम्भे चाष्टादशमुहूर्त्तमानं तदन्तरं षड्मुहूर्त्तास्ततोऽनुपातो यदि षण्मासकुदिनै -१८३ रेतैः षड्मुहूर्त्तसममन्तरं तदोत्तरायणगतकुदिनैर्वा दक्षिणायनशेषकुदिनैः किं लब्धमन्तरम् = (६ x अंदि)/१८३ = (२ अंदि)/६१ इदं द्वादशयुक्तं जातं दिवसमानम् । इत्युपपन्नम् । इदं सर्वं पञ्चसिद्धान्तिकाप्रकाशिकायां पैतामहसिद्धान्तप्रकरणेऽस्माभिः प्रदर्शितमेवेति ॥ ३४ ॥

इदानीं चन्द्रपर्वगणात् सूर्यपर्वगणसाधनमाह ।
द्व्यूनं द्विषष्टिभागेन ज्ञेयं सौरं सपार्वणम् ।
यत्कृतावुपजायेते मध्येऽन्ते चाधिमासकौ ॥ ३५ ॥

 सपार्वणं युगादेर्वर्त्तमानपर्वपर्यन्तं पर्वगणमानं तच्च द्विषष्टिभागेन व्द्यूनं कार्यमर्थात् तद्द्विगुणं द्विषष्ट्या भक्तं फलेन तदेवोनं कर्त्तव्यम् । एवं यच्छेषं तत् सौरं पर्वगणमानं स्यात् । इयं सा कृतिः प्रकारो यत्कृतौ च युगपर्वणां मध्ये त्रिंशत्सौरपर्वान्ते ह्येकस्तथाऽन्ते षष्टितमसौरपर्वान्ते चान्य इत्यधिमासौ द्वावुपजायेते उत्पद्येते इत्यर्थः ।

 अत्रोपपत्तिः । त्रयोदशश्लोकभाष्ये प्रदर्शितं यदेकस्मिन् युगे सूर्यपर्वाणि = १२० । चन्द्रपर्वाणि = १२४ । अधिपर्वाणि = ४ । अतो द्विषष्टिपर्वसु अधिपर्वद्वयम् । ततोऽनुपातो यदि ६२ चन्द्रपर्वभिरधिपर्वद्वयं तदेष्टचन्द्रपर्वभिः किमिति लब्धं सौरचान्द्रपर्वान्तररूपमधिपर्वमानम् = (२चंप)/६२ । इदं चन्द्रपर्वगणे विहीनं शेषं सूर्यपर्वगणमानं स्यात् । अत्रापि अधिशेषं त्याज्यम् । त्यागकारणं च तत्रैव त्रयोदशश्लोकभाष्येऽभिहितम् । चन्द्रपर्वगणात् सौरपर्वगणानयनार्थं वा सौरपर्वगणाच्चन्द्रपर्वगणानयनार्थं याऽधिपर्वसंख्या सोभयत्र समानैव तथाऽधिशेषं च यत् तदप्युभयत्र सममेव किन्तु एकत्र द्विषष्टिर्हरोऽन्यत्र षष्टिर्हर इति सर्वं भास्करेण निजे गोलाध्याये "सौरेभ्यः साधितास्ते चेदधिमासास्तदैन्दवाः" इत्यादौ स्फुटं प्रदर्शितमतो लेखप्रयासेन किम् ॥ अत्र बार्हस्पत्यादिव्याख्यानं मन्मते न समीचीनमिति ॥ ३६ ॥

इदानीमृतुशेषानयनमाह ।
यदर्धं दिनभागानां सदा पर्वणि पर्वणि ।
ऋतुशेषं तु तद्विद्यात् संख्यया सह पर्वणाम् ॥ ३७ ॥

 पर्वणि पर्वणि सदा दिनभागानां चान्द्रदिनभागानामर्धं यच्छेषं तच्चान्द्रसौरपर्वान्तरं पर्वणां संख्यया पर्वगणेन सह यदागच्छेत् तदिष्टपर्वसमये रविचन्द्रपर्वान्तरसममृतुशेषं विद्याज्जानीयाद्गणक इति शेषः । पर्वगण एकपर्वभवेन रविचन्द्रपर्वान्तरेण दिनार्धतुल्येन गुण्यः फलमभिष्टसमये ऋतुशेषं भवतीत्यर्थः । यदि ऋतुशेषस्थाने “अधिशेष" -इति पाठो भवेत् तर्हि भवेदिहातिसमीचीनः । ऋतुशेषमिति नामकरणे फले विशेषाभावात् ऋतुशेषपाठोऽपि न काचिद्धानिरिति ।

 अत्रोपपत्तिः । त्रयोदशश्लोकेन रूपतुल्ये पर्वणि पर्वात्मकमधिशेषमानम् = । इदं पञ्चदशगुणं जातं चान्द्रदिनात्मकमधिशेषम् = = इदं पर्वगणगुणमभीष्टचान्द्रसौरपर्वान्तररूपमधिशेषं भवतीति । सौरपर्वान्ते ऋतुसमाप्तिः । चन्द्रपर्वतोऽग्रेऽधिशेषान्तरे रविपर्वसमाप्तिरतः पूर्वागतमधिशेषं चान्द्रदिनात्मकमृतुशेषं भवितुं योग्यमिति । अत्र बार्हस्पत्यव्याख्यानं प्रायः समीचीनमेव ॥ ३७ ॥

इदानीं यज्ञेऽर्चनाय नक्षत्रदेवता आह ।
अग्नि: प्रजापतिः सोमो रुद्रोऽदितिबृहस्पती ।
सर्पाश्च पितरश्चैव भगश्चैवार्यमाऽपि च ॥ ३८ ॥
सविता त्वष्टाऽथ वायुश्चेन्द्राग्नी मित्र एव च ।
इन्द्रो निर्ऋतिरापो वै विश्वेदेवास्तथैव च ॥ ३९ ॥
विष्णुर्वसवो वरुणोऽज एकपात् तथैव च ।
अहिर्बुध्न्यस्तथा पूषा अश्विनौ यम एव च ॥ ४० ॥
नक्षत्रदेवता ह्येता एताभिर्यज्ञकर्मणि ।
यजमानस्य शास्त्रज्ञैर्नाम नक्षत्रजं स्मृतम् ॥ ४१ ॥

 कृत्तिकादेरेता नक्षत्रदेवताः संहिताग्रन्थेषु सर्वत्र प्रसिद्धाः । अत्र पूर्वभद्रपदाया अजो वैकपादिति देवताद्वयं वा एकदेवताया नामद्वयम् । एताभिर्देवताभिः शास्त्रज्ञैर्दैवविद्भिर्यज्ञकर्मणि यजमानस्य नक्षत्रजं नाम स्मृतं कथितम् । यस्मिन् नक्षत्रे यजमानस्य जन्म तद्देवताबोधकं यजमानस्य यन्नाम तन्नक्षत्रजं नामेति । संप्रति दैवज्ञैर्नक्षत्राणां चत्वारः पादाः क्रियन्ते । यस्मिन् पादे जातस्य जन्म भवति तत्पादबोधकाक्षरादिकं नाम जन्मनाम च कथ्यते ॥ ३८-४१ ॥

इदानीं शुभकर्मणि वर्ज्यानि उग्राणि क्रूराणि च नक्षत्राण्याह ।
उग्राण्यार्द्रा च चित्रा च विशाखा श्रवणोऽश्वयुक् ।
क्रूराणि तु मघा स्वाती ज्येष्ठा मूलं यमस्य यत् ॥४२॥

 आर्द्रा । चित्रा । विशाखा । श्रवणः । अश्वयुक् अश्विनी । एतानि षट् नक्षत्राणि उग्राणि सन्ति । मघा । स्वाती । ज्येष्ठा । मूलम् । यमस्य नक्षत्रं भरणी । एतानि कूराणि नक्षत्राणि सन्ति ।

 मुहूर्त्तचिन्तामणौ रामेण च “पूर्वात्रयं याम्यमघे उग्रं क्रूरं कुजस्तथा"-इत्यनेन उग्रमेव क्रूरं कथ्यते । तथैतद्गणे ज्योतिषवेदाङ्गोक्तेभ्यो बहूनि भिन्नानि पठितानीति ॥ ४२ ॥

इदानीं वेधोपायमाह ।

इत्युपायसमुद्देशो भूयोऽप्येवं प्रकल्पयेत् ।
ज्ञेयराशिं गताभ्यस्तं विभजेज्ज्ञानराशिना ॥ ४३ ॥

 इत्येव पूर्वोदितविधिना उपायसमुद्देशो वेधोपायोपदेश एव बोध्यः । वेधेन ज्ञातराशौ गतं प्राप्तं कमपि पदार्थं विज्ञाय ततो ज्ञेयराशौ तत्पदार्थानयनार्थं गणको ज्ञानराशिसम्बन्धिगतेन पदार्थेनाभ्यस्तं गुणितं ज्ञेयराशिं ज्ञानराशिना विभजेत् फलं ज्ञेयराशिसम्बधि तत्पदार्थमानं भवति । एवं ज्ञानराशिना भूयः पुनः पुनः सर्वान् सावनदिवसादीन् प्रकल्पयेदिति ।

 अत्रोपपत्तिः । ज्ञेयराशिरिच्छाराशिस्ततस्त्रैराशिकेन वासना स्फुटा ॥ ४३ ॥

इदानीमुपसंहरति ।

इत्येतन्मासवर्षाणां मुहूर्त्तोदयपर्वणाम् ।
दिनर्त्त्वयनमासानां व्याख्यानं लगधोऽब्रवीत् ॥ ४४ ॥

 इति एवमेतत् पूर्वोक्तं मासवर्षाणां मुहूर्त्तानामुदयपर्वणां चन्द्रादीनामुदयानां सावनदिनानां पर्वणां दिन-ऋतु-अयनानां मासानां चान्द्रार्क्षाणां च व्याख्यानं लगधोऽब्रवीत् । तदेवाहं चोक्तवानिति ज्यौतिषवेदाङ्गरचयितुरुक्तिरिति ॥ ४४ ॥

इदानीं ज्यौतिषवेदाङ्गविदं स्तौति ।

सोमसूर्यस्तृचरितं विद्वान् वेद विदश्नुते ।
सोमसूर्यस्तृचरितं लोकं लोके च सन्ततिम् ॥ ४५ ॥

 सोमसूर्यस्तृचरितं चन्द्रसूर्यनक्षत्रचरितं यो विद्वान् वेद जानाति स विद् विद्वान् सोमसूर्यस्तृचरितं चन्द्रसूर्यनक्षत्रैश्चरितं प्रचरितं प्रसिद्धं लोकं सूर्यलोकं चन्द्रलोकं नक्षत्रलोकं चाश्नुते तत्र गत्वा तत्सुखं भुङ्क्ते लोके इह संसारे च सन्ततिमश्नुते पुत्त्रपौत्त्रादिकं च लभते-इति ॥ ४५ ॥

श्रीरामं जनकामनाकरमरं सीतासमेतं वरं
श्रीमल्लक्ष्मणलाललालितपदं कन्दर्पमायाहरम् ।
नत्वा कोशलपालमेव विमलं दृग्ज्यौतिषस्य श्रुते-
र्बार्हस्पत्यमतं विचिन्त्य सकलं भाष्यं मयैतत् कृतम् ॥ १ ॥

इति सुधाकरभाष्यसहितं याजुषज्यौतिषं समाप्तम् ।

  1.  “हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीष्वष्टका एकस्यां वा"-इति-आश्वलायनसूत्रम् । “माध्याः पूर्णमास्या उपरि द्व्यष्टका तस्यामष्टमी ज्येष्ठया संपद्यते तामेवाष्टकेत्याचक्षते” इति आपस्तम्बसूत्रम् ।
     “ऊर्ध्वमाग्रहायण्यास्तिस्रोऽष्टकाः । ऐन्द्री वैश्वदेवी प्राजापत्या पित्र्या"-इति पारस्करगृह्यसूत्रम् । “मध्या वर्षे च तुरीया शाकाष्टका"-इति तत्रैव ।