जयति मैथिलपालकलायुतः
कनकसद्मनृपद्मदलायुतः ।
इह सहस्रमुखेन सुपालितः
किल कुलोककुलालकलालितः ॥ १ ॥
ज्यौतिषं वैदिकैः स्वीयकण्ठे धृतं
बुद्धिवृद्ध्यै चिरात् तत् सुखादाश्रितम् ।
केनचिद्दुर्धियाऽऽकर्ण्य पत्राक्षरै-
र्द्योतितं याजुषं चार्चमेवं भ्रमात् ॥ २॥
स्खलितानि पदानि तानि दृष्ट्वा
त्वपरैस्तत्र पराणि योजितानि ।
अत एव परम्पराऽऽगतानि
बहुधा सन्त्यधुना निरर्थकानि ॥ ३ ॥
सदाचारा नष्टाः कविकुलमुखे कालकविता
सदर्थाः सत्कोशे गुणिजनमुखे भोजनकथा ।
कराम्भोजे मद्यं बहु च निरवद्यं विलसति
श्रुतेश्छिन्नान्यङ्गान्यहह निखिलं कालकुकृतम् ॥ ४ ॥
नयनै रहिता हिताहितानि
न हि जानन्ति जना निजान्यजानि ।
सहसा यदि ते चलन्ति तर्हि
कुपथं यान्ति पतन्ति चान्धकूपे ॥ ५ ॥
|
वेदचक्षुश्च तेजोविहीनं परै-
र्मौक्तिकाविन्दुरोगेण वीक्ष्य द्रुतम् ।
यूरपीयैर्बुधैर्यत्नयन्त्रादिना
मुद्रितं शोधितं मुद्रितं च श्रमात् ॥ ६ ॥
चक्षुः किलामयमयं विकलं निरीक्ष्य
तद्यत्नतोऽपि मनसेति विचिन्त्य कश्चित् ।
तद्दुष्टरोगमपनेतुमथोद्यतो बा-
र्हस्पत्यनामकविरस्ति च यः प्रसिद्धः ॥ ७ ॥
तेनेह सूक्ष्मविधिना कविनाऽपनीय
रोगव्रजं सकलवैदिकरञ्जनाय ।
चक्षुः प्रकाशितमपि श्रमतस्तथाऽपि
तेजो न जातमिह शुद्धसुधाद्यभावात् ॥ ८ ॥
तेषां च रीतिमवलम्ब्य विभूष्य वर्णैः
सम्मार्ज्य रोगवलयं च कनीनिकायाः ।
तेजोमयं निजसुधाक्षरयोगयुक्त्या
चक्षुः श्रुतेः कृतमिदं हि सुधाकरेण ॥ ९ ॥
|
संप्रतीह शुचौ काश्यां प्रायो नानामुद्रणालययन्त्रितायामेव सत्यां सद्यःसमुद्धाटितस्यास्य प्राभाकरी-कम्पनी-नामकमुद्रणालयस्य सर्वथा सुष्ठु कार्यपाटवं विशदशुद्धमुद्रणं विशेषतो जनतादुर्लभप्रकाशनोद्देशं चावगम्याहमपीमां स्तोकामात्मकृतिमेतद्यन्त्रालयाधीशायैव समर्प्य सहर्षं स्वोद्देशपूर्तिमगममिति ।
काशी
१-१२-०६
सुधाकरद्विवेदी ।