Jyautisha Vedangam/उपोद्घातः
← भूमिका | ज्यौतिषवेदाङ्गम् उपोद्घातः याजुषाचार्यः |
याजुषज्यौतिषम् → |
याजुषमार्चं च ज्यौतिषं वैदिकानां प्रसिद्धम् । यथा वैदिकैः प्रायोऽर्थं विनैव श्रुतिमन्त्राः कण्ठेन पठ्यन्ते तथेदमपि तैस्तथैव पठ्यते । एवमर्थं विनैव पाठपरम्परातोऽशुद्धपाठप्रचारात् संप्रति सर्वाणि ज्यौतिषपुस्तकानि महाभ्रष्टान्यनर्थजनकान्युपलभ्यन्ते। जर्मनीदेशे वेबरमहाशयेन बहूनि पुस्तकानि सङ्गृह्य यथामति तेभ्यः साधुपाठान् संस्कृत्य मुद्रायितं चैकं पुस्तकं तत्र कतिपयश्लोकानां व्याख्या च कृता । ततो डा. थिबो-महाशयेन च यथाबुद्धि संशोध्यापरे कतिपयश्लोका व्यख्याताः । ततः शङ्करबालकृष्णदीक्षित-बालगङ्गाधरतिलकादिभिश्च निजनिजधिया वेबर-डा. थिबोमहाशयानां व्याख्यानं विविच्यान्येषां कतिपयश्लोकानामर्थाः प्रकाशिताः । संप्रति केनचिद्बार्हस्पत्यनाम्ना कविना च पूर्वोदितानामर्थान् विविच्य प्रायः सर्वेषां श्लोकानां व्याख्यानं हिन्दुस्तान रिव्यू ( Hindustan Review) नामकमासिकपत्रस्य ( सन्. १९०६ ) मार्चमासात्-नोवेम्बरमासपर्यन्तं निजधियाऽतिपरिश्रमेणाङ्गलभाषायां प्रकाशितं यस्य चर्चा च प्रायः सर्वत्रैव तत्पत्रग्राहकजनेभ्यो वर्त्तते । प्रयागे महामहोपाध्यायादित्यरामभट्टाचार्य-झोपाख्यश्रीगङ्गानाथ- डा. थिबोमहाशयमुखेभ्यः काश्यां च निजसुहृन्महाराजनारायणशिवपुरीयमुखाच्चाहं तच्चर्चां श्रुत्वा महाराजनारायणशिवपुरीयानुग्रहेण तन्मासिकपत्रस्य तानि खण्डानि समवाप्यापश्यं च सकलं सगणितं सप्रमाणं तद्व्याख्यानम् । तत्राशुद्धिप्राचुर्यं समीक्ष्य संशोधनस्यावश्यकं च विचार्य व्यरचि मया सोपपत्तिकमिदं भाष्यम् ।
अथात्र विद्वज्जनविनोदाय बार्हस्पत्यशोधितपाठादिषु प्रदर्श्यन्ते त्रुटयः।
१. श्लोके ‘पञ्चसंवत्सरमयं' इति पाठे इदं पदं प्रजापतिविशेषणं निर
र्थकं स्यात् । (द्रष्टव्यं सन्. १९०६ मार्चमासस्य हिन्दुस्तानरिव्यू पृ. २४५) अत: साधु मद्भाष्यं विलोक्यम्।
२. श्लो. यद्यपि न कश्चिद्विशेषस्तथाऽपि याजुष आर्चे चोभयत्र मद्भाष्यम् विलोक्यम् । बार्हस्पत्यस्य शङ्करबालकृष्णदीक्षितव्याख्यानुरूपं व्याख्यानं च शोभनम् ।
३-४.श्लो. न कश्चिद्विशेषस्तथाऽपि मद्भाष्यं द्रष्टव्यम् । बार्हस्पत्यादिव्याख्यानं च समीचीनम् । ‘ये बृहस्पतिना भुक्ता'-इत्यस्य क्षेपकत्वे द्रष्टव्यं मद्भाष्ये कारणं च ।
५. श्लो. न कश्चिद्विशेषः ।
६-८. श्लो. अत्र ‘अर्कस्तु' इति पाठो न शोभनोऽतः सोपपत्तिकं मदीयं भाष्यं द्रष्टव्यम् ।
९. श्लो. 'द्विर्युग्माद्यम्' इति पाठो न शोभनः । ऋतुशब्दस्य विलक्षणं दुर्ग्राह्यं च बार्हस्पत्यव्याख्यानम् । (द्रष्टव्यं मे, जून मास- हिन्दु०रिव्यू पृ. ४३६) अत्र मद्भाष्यं विलोक्यम् ।
१०.श्लो. अत्र यद्यपि न विशेषस्तथाऽपि न हि कुत्रापि धातृ-शब्देनार्थमग्रहणमतो द्रष्टव्यो मच्छोधितः पाठः ।
११.श्लो. अत्र बार्हस्पत्यव्याख्यानमसारं न तत्त्वार्थप्रतिपादकम् । (द्रष्टव्ये सेपटेम्बरमासस्य हिन्दुस्तानरिव्यू पृ.२६६–२६७) अत: सोपपत्तिकं मद्भाष्यं विलोक्यम् ।
१२. श्लो. अत्र वेबरपाठो बार्हस्पत्यपाठो वा 'दुर्हेयम्' इति न वास्तवार्थदस्ततो मत्पाठो विचिन्त्यः सुधीभिः ।
१३.श्लो. अत्र बार्हस्पत्यव्याख्यानं समीचीनं परन्तु तद्गणितेन सावयवः पर्वराशिरायाति (द्रष्टव्यं जुलाई मा. हि. रि. पृ. ५९) अत्र सोपपत्तिकं मद्भाष्यं विलोक्यम् ।१४ .श्लो. ‘त्रिपद्यायाः’ इति बार्हस्पत्यपाठो न शोभनः । (द्रष्टव्यं सेप्टेम्बरमा. हि. रि. पृ. २६१) मद्भाष्यमिह विलोक्यम् ।
१५.श्लो. बार्हस्पत्यव्याख्यानं दूरतो भ्रष्टम् (द्र. अगस्तमा. हि.रि. पृ. १५७) तदर्थं मद्भाष्यं विलोक्यम् ।
१६.श्लो. डा. थिबोमहाशयव्याख्यानं समीचीनम् । अत्र बार्हस्पत्योपपत्तिः समीचीना तथाऽपि प्राचीनै: कुट्टकेन कथमानीतं भांशज्ञानतो नक्षत्रमित्यत्र मदुपपत्तिर्विचिन्त्या ।
१७ .श्लो. बार्हस्पत्यव्याख्यानं न स्फुटम् (द्र.सेपटेम्बरमा.हि.रि. पृ. २६५-२६६) अत्र मद्भाष्यं विलोक्यम् ।
१९ .श्लो. बार्हस्पत्यव्याख्यानं तद्गणितं न साधु । (अगस्तमा.हि.रि. पृ. १६६-१६७) अत्र सोपपत्तिकं मद्भाष्यं विलोक्यम्।
२०. श्लो. बार्हस्पत्येन तिथिशब्दस्यार्थान्तरं कृत्वा निजव्याख्यानं नाशितमिव (द्र. अगस्तमा. हि. रि. पृ. १६७) अतो मदीयं भाष्यमुपपादनं च द्रष्टव्यम् ।
२१.श्लो. बार्हस्पत्यस्य व्याख्यानं गणितं च न सम्यक् (द्र.अगस्तमा. हि. रि. पृ. १६७-१६८) अत्र सोपपत्तिकं मद्भाष्यं विलोक्यम् ।
२२ .श्लो. बार्हस्पत्यव्याख्यानं न साधु (द्र. अगस्तमा. हि. रि. पृ. १६३ ) अत्र मद्भाष्यं विलोक्यम् ।
२३ .श्लो. बार्हस्पत्यव्याख्यानं न स्फुटम् । (द्र. जुलाईमा. हि. रि. पृ. ६२) अतो मदीयं भाष्यं गणितं च द्रष्टव्यम् ।
२३. श्लो. बार्हस्पत्यस्य व्याख्यानं गणितं च समीचीनं तथाऽपि
मद्भाष्यं विलोक्यम् ।२४. श्लो. न कश्चिद्विशेषस्तथाऽपि मद्भाष्यं बार्हस्पत्यस्य व्याख्यानमपि साधु विलोक्यम् ।
२५. श्लो. बार्हस्पत्यस्य व्याख्यानं न समीचीनम् । तेन गणितेन भांशा आनीतास्ते केवलं नोपयुक्ताः । (द्र. जुलाईमा. हि. रि. पृ. ६२) किन्त्विह शङ्करबालकृष्णदीक्षितेन यथा व्याख्यातं तथैव मन्मतमतः सोपपत्तिकं मद्भाष्यं विलोक्यम् ।
२६. श्लो. बार्हस्पत्यस्य व्याख्यानं गणितं च मन्मते न शुद्धम् । (द्र. जुलाईमा. हि. रि. पृ. ६३--६४) अत्र मदीयं भाष्यं सोपपत्तिकं विलोक्यम् ।
२७. श्लो. बार्हस्पत्यस्य शोधितपाठो न शोभनस्तथा तस्य व्याख्यानं गणितं च न साधु । (द्र. जु.मा. हि. रि. पृ. ६४--६५) अतः सोपपत्तिकं मद्भाष्यं विलोक्यम् ।
२८-३१.श्लो. न कश्चिद्विशेषः । कुत्रचित् पाठवैलक्षण्यान्मद्भाष्यं विलोक्यम् । बार्हस्पत्यमतं च सम्यक् ।
३२-३४. श्लो. न कश्चिद्विशेषः । तथाऽपि शोभनपाठार्थं मद्भाष्यं विलोक्यम् । बार्हस्पत्यादिव्याख्यानमपि समीचीनम् ।
३५. श्लो. बार्हस्पत्यव्याख्यानं न शोभनम् । मद्भाष्यं विलोक्यमिह ।
३७. श्लो. बार्हस्पत्यव्याख्यानं साधुकल्पमतो मद्भाष्यं विलोक्यम् ।
३८-४१. श्लो. न विशेषः ।
४२. श्लो. न कश्चिद्विशेषस्तथाऽपि संप्रत्युग्रादौ नक्षत्रान्तरत्वान्मद्भाष्यं विलोक्यम् ।
४५. श्लो. अत्र बार्हस्पत्यस्य 'वेदविद्' इति पदे 'वेद विद्' इति पदद्वयं शोभनमेतदर्थं मद्भाष्यं विलोक्यम् ।
अथार्चज्यौतिषे श्लोका याजुषोक्ता एव विशेषाश्च--
१३. श्लो. अत्र बाहेस्पत्यस्य व्याख्यानं गणितं शोधनं च न समीचीनम् । (द्र. अगस्तमा, हि. रि. पृ १६३-१६५) अतो मदीयं भाष्यं गणितं च विलोक्यम् ।
१७.श्लो. अत्र वेबर-बार्हस्पत्ययोः ‘कुम्भका' ‘कुटपै:' इति पाठद्वयं न साधु । बार्हस्पत्येन (अप्रिलमा. हि. रि. पृ. ३१९) याजुषार्चयोः श्लोकसाम्यं प्रदर्शितं तदपि न श्लोकयोर्वैषम्यात् । अतो मदीयं भाष्यं विलेक्यम् ।
१९.श्लो. अत्र बालगङ्गाधरतिलक-बार्हस्पत्यादीनां व्याख्यानमशुद्धम् । न हि कुत्राप्यभ्यस्तपदेन योजनं दृश्यते । तथा मन्मते 'गुण'स्थाने ‘गण'पाठः ‘सूर्यात्' स्थाने च ‘स्वार्क्षात्' पाठः साधीयान् । (द्र. मे-जूनमा. हि. रि. पृ ४४०-- ४४३ )अत्र सोपपत्तिकं मदीयं भाष्यं विलोक्यम् ।
३३. श्लो. वेबर-बार्हस्पत्यसंशोधितपाठे तिथीनां क्रमभङ्गो व्याकरणाशुद्धिश्च तदर्थं मदीयः पाठो भाष्यं च विलोक्यम् ।
३४.श्लो. अत्र वेबरबार्हस्पत्यादिशोधितपाठो न युक्तस्तत्र त्रुटिश्च विभाति । बार्हस्पत्यव्याख्यानं च न साधु । (द्र. मे., जून. मा.हि.रि.पृ. ४३९-४४०) अतो मद्भाष्यं विलोक्यम् ।
- श्रुतिः कामदुघा वेदरूपमार्चं च याजुषम् ।
- ज्यौतिषं तत्र चेदर्थान्तरं माधूपपादनैः ॥ १ ॥
- अध्याहारवशेन स्यान्मान्यं तदपि विद्वरैः ।
- तेन हानिर्न कुत्रापि चेदर्थासङ्गतिर्न हि ॥ २ ॥
- अस्तीह याजुषे चार्चे भेदः शब्दस्य कुत्र चित् ।
- आश्लेषार्धायनादस्य कालज्ञानं न दुर्लभम् ॥ ३ ॥
- मुद्रणे शोधने यत्र कुत्राप्यातुरतावशात् ।
- अशुद्धिः शोध्यतां धीरैर्वदतीति सुधाकरः ॥ ४ ॥