अंशुमत्काश्यपागमः/उत्तमदशतालविधिपटलः ५६

← पटलः ५५ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः ५७ →




उत्तमं दशतालादि लक्षणं वक्ष्यतेऽधुना ।
मृण्मयं चेत्तु बिम्बं वै शूलस्थापनमाचरेत् ॥ १ ॥

शैलजा प्रतिमा चेत्तु शिलाग्रहणं लिंगवत् ।
लोहजं सकलं चेत्तु मधूच्छिष्ठेन निर्मितम् ॥ २ ॥

स्थण्डिलं शालिभिः कुर्यादालयाग्रे तु मण्टपे ।
कुशाशयं तु संकल्प्य दर्भैः पुष्पैः परिस्तरेत् ॥ ३ ॥

तदूर्ध्वे फलकं न्यस्त्वा दारुजं प्राग्दिशाग्रकम् ।
आचार्यः शिल्पकर्ता च शुद्धमानं परिग्रहेत् ॥ ४ ॥

तन्मान सेवितांगानि त्वथ नैव तु कारयेत् ।
प्राक्शिरश्चोर्ध्व वक्त्रं तु फलकायां निधापयेत् ॥ ५ ॥

गन्धैः पुष्पैश्च धूपैश्च दीपैश्चाभ्यर्च्य देशिकः ।
तस्य दक्षिण पार्श्वे तु शिवाग्निं तु प्रकल्पयेत् ॥ ६ ॥

समिदाज्यैश्च चरुभिः हृदाचाष्टशताहुतिः ।
द्रव्यान्ते व्याहृतिं हुत्वा पूर्णाहुतिं तु मूलतः ॥ ७ ॥

ध्यात्वा बिम्बा कृति त्वग्नि मध्ये मूलमुदाहरेत् ।
आत्मना निजतद्रूपं हृदयं मन्त्रमुच्चरन् ॥ ८ ॥

अंगुष्ठाग्रं तु पार्ष्ण्यन्ततलं सप्तदशांगुलम् ॥ ९ ॥

हिक्कासूत्रादधो बाहुदीर्घं ऋक्षांगुलं भवेत् ।
कोर्परोच्चं द्विमात्रं स्यात् एकविंशत्प्रकोष्ठकम् ॥ १० ॥

सार्धत्रयोदशं तस्मात् मध्यांगुलाग्र सीमयुक् ।
ततो वै मुखविस्तारं सार्धभान्वंगुलं भवेत् ॥ ११ ॥

मुखान्तस्य तु विस्तारं सार्धत्रयोदशांगुलम् ।
ग्रिवाग्रं सार्धनन्दांशं ग्रीवामूलं दशांगुलम् ॥ १२ ॥

हिक्काधो बाहुसीमान्त चत्वारिंशच्छिवाधिकम् ।
सार्धद्वाविंशदंशं तु कक्षयोरन्तरस्ततम् ॥ १३ ॥

नवांशं चतुर्यवोपेतं बाहुमूलविशालकम् ।
एकविंशति भागं स्यात् स्तनदेशे तु विस्तरम् ॥ १४ ॥

हृदयावधिविस्तारं एकोनविंशदंशुलम् ।
कलांशं चतुर्यवोपेतं मध्यव्यासमुदाहृतम् ॥ १५ ॥

एकोन विंशदंशं तु श्रोणी तारमुदाहृतम् ।
कटिरग्रविशालं तु त्रिनवांगुलमुच्यते ॥ १६ ॥

तदधः कटिपार्श्वान्तं विस्तारार्धांश विंशतिः ।
पादोनमनुभागं तु ऊरुमूलविशालकम् ॥ १७ ॥

सपाद * * भागं तु ऊरुमध्यविशालकम् ।
पादोन धर्मभागं तु जातु व्यासमुदाहृतम् ॥ १८ ॥

स पादवसुभागं तु जंघामूलविशालकम् ।
पादोन सप्तभागं तु जंघामध्यविशालकम् ॥ १९ ॥

तयोर्मध्य ततं विप्रवस्सभागमुदाहृतम् ।
पादोन पक्षभागं तु नलकाविस्तृतं भवेत् ॥ २० ॥

त्रियवाधिकपंचांशं गुल्फव्यासमुदाहृते ।
अक्षादातवतुंगं तु सार्धवेदांगुलं भवेत् ॥ २१ ॥

पार्ष्णितारं चितत्तुल्यं पार्ष्ण्योरुच्चं तदेव हि ।
तलमध्यं षडंशं स्यात् यवद्वयसमायुतम् ॥ २२ ॥

दलाग्रविस्तृतं सप्तभागमित्यभिधीयते ।
द्वियवाधिकवेदांशं पादांगुष्ठायतं भवेत् ॥ २३ ॥

यवोपेतद्वयांशं तु तस्य विस्तारमुच्यते ।
तारार्धघनविस्तारं पादोनायतवर्तुलम् ॥ २४ ॥

त्रयवोपेत वेदांशं तर्जन्यायाममुच्यते ।
पादोन वेदभागं तु मध्यांगुलायतं भवेत् ॥ २५ ॥

यवोपेताग्निभागं तु अनामिकायाममिष्यते ।
सार्धपक्षांशमानं तु कनिष्ठांगुलि दीर्घकम् ॥ २६ ॥

प्रादेशिन्यादिक्रमात्तारं नवसप्तार्थ सप्तषट् ।
यवमानं स्वतारार्धं नखं पूर्वोक्तवद्विदुः ॥ २७ ॥

तत्तदंगुलि विस्तारं वेदांशं विभजेद्बुधः ।
त्रिभागमंगुलाग्रोच्चं शेषं स्यात्तु नखोदयम् ॥ २८ ॥

त्रियवाधिकवस्वंशं बाहुमध्यविशालकम् ।
स पादसप्तभागं तु कोर्परव्यासमुच्यते ॥ २९ ॥

पादोन रसभागं तु प्रोकोष्ठं मध्यविस्तृतम् ।
पादोन चतुरंशं तु मणिबन्ध विशालकम् ॥ ३० ॥

सप्तांशं तु तलायामं सार्धषण्मध्यमांगुलम् ।
स पादभूतभागस्यानामिकायामयुच्यते ॥ ३१ ॥

यवाधिकं तु पंचांशं तर्जन्यायाममुच्यते ।
स पादवेदभागं तु दीर्घांगुष्ठ कनिष्ठयोः ॥ ३२ ॥

अंगुष्ठमूलविस्तारं रुद्रायवमुदाहृतम् ।
तर्जन्याष्ट यवा ख्यातं नवयवाख्यमध्यमम् ॥ ३३ ॥

अनामिकाष्टयवा ख्याता कनिष्ठा सप्तसंख्यया ।
अंगुष्ठाद्यंगुलान्तं तु मूलविस्तारमेव हि ॥ ३४ ॥

तन्मूलं तु कलेशांशं हीनमग्रविशालकम् ।
अग्रतारं रसांशे तु पंचांशं नखविस्तृतम् ॥ ३५ ॥

पार्श्वयोर्मांसलं शेषं वृत्तायतनखाकृतिः ।
स पादनखतारं तु नखयाममुदाहृतम् ॥ ३६ ॥

नखायामद्वयं चाग्रपर्वदीर्घं प्रशस्यते ।
अंगुष्ठं मूलपर्वस्य दीर्घं सप्तदशायवम् ॥ ३७ ॥

तर्जनीमूलपर्वं तु अनामिकोच्चद्वयांगुलम् ।
मध्यमामूलपर्वस्य दीर्घमष्टादशा यवाः ॥ ३८ ॥

कनिष्ठमूलपर्वस्य त्रयोदशयवाः स्मृताः ।
मूलाग्रपर्वयोर्मध्य दीर्घमध्यस्थ पर्वसु ॥ ३९ ॥

अंगुष्ठं तु द्विपर्वस्या शेषा त्रिपर्वसंयुतः ।
सार्धभूतांगुलं विप्रतलाग्रं विप्रलंभवेत् ॥ ४० ॥

रसांशमध्यविस्तारं हस्तस्यैव तलस्य तु ।
तलमूलविशालं तु सार्धषड्भागमुच्यते ॥ ४१ ॥

अंगुष्ठमूलमारभ्य तर्जनीमूलमन्तकम् ।
अंगुष्ठमूलमारभ्य मणिबन्धावसानकम् ॥ ४२ ॥

दीर्घं वेदांगुलं प्रोक्तं तदर्धांशं घनं भवेत् ।
पार्ष्णिहस्तवनाग्न्यंशं अग्रमंगुष्ठवत्क्षयम् ॥ ४३ ॥

अंगुल्यानामधस्तात्तु सार्धांशं मांसलं ततम् ।
द्विभागं पार्ष्णिहस्तस्य शुकोदरविशालकम् ॥ ४४ ॥

शेषमध्यतलं निम्नं भूतवेदाग्नि वा * *? ।
सूक्ष्मरेखां लिखेत्तस्मिन्शंखं वा चक्रशूलकम् ॥ ४५ ॥

पद्माभं वा तलं रेखां * * * * प्रकल्पयेत् ।
यवाकैकर्तुनिम्नं स्यात् रेखानां तु द्विजोत्तम ! ॥ ४६ ॥

वृत्ता पेक्षितांगेषु व्यासं पंचविभाजिते ।
एकांशं तु परिग्राह्य विस्तारं द्विगुणायतम् ॥ ४७ ॥

यत्ततोहमिदं ख्यातं नाहं तेनैव कल्पितम् ।
कर्णोर्ध्वे शिरसा नाहं सास्त्रिंशांगुलं भवेत् ॥ ४८ ॥

कर्णोर्ध्वे त्वपरे भागे द्वादशं चांगुलं भवेत् ।
कर्णोर्ध्वे पूर्वभागं तु द्वाविंशांगुलकं भवेत् ॥ ४९ ॥

कर्णयोः पृष्ठनाहं तु भान्वंगुलमुदाहृतम् ।
तयोर्मध्यस्थ भागं तु कर्णयोरन्तरस्थितिः ॥ ५० ॥

शिरसो मध्यमान्मूर्ध्नि मण्डलं चतुरंगुलम् ।
गुडाग्रकेशान्तं सार्धनवांगुलमुदाहृतम् ॥ ५१ ॥

तदेव मण्डलात्कण्ठकेशान्तं च नवांगुलम् ।
मण्डलात्पृष्ठकेशान्तं सार्धधर्मांगुलं भवेत् ॥ ५२ ॥

ललाटे तिर्यजानां तु नवांगुल मुदाहृतम् ।
केशान्ता दक्षिसूत्रं स्यात् द्वयोर्मध्ये भ्रुवः स्थितिः ॥ ५३ ॥

भ्रुवाग्रौ तून्नतौ चैव चापाकारं यथा कुरु ।
द्व्यन्तरं तु भ्रुवोर्विप्र सार्धवेदयवं भवेत् ॥ ५४ ॥

पंचांगुलं भ्रुवायामं मध्यतारं यवद्वयम् ।
बालचन्द्राग्रवत्क्षीणं भ्रुवाग्रौ तस्य मध्यमम् ॥ ५५ ॥

कनीनिकायामविस्तारं यवमानमुदाहृतम् ।
कृष्णमण्डलविस्तारं चोत्सेधं षड्यवं भवेत् ॥ ५६ ॥

सितान्तं तत्समं व्यासं कृष्णमण्डलपार्श्वयोः ।
शबराकृतिकं वापि धनुराकृतिरेव वा ॥ ५७ ॥

अर्धचन्द्राकृतिर्वाथ नेत्राकारं प्रकल्पयेत् ।
तदाकारानुकूलोच्चं सितमण्डलयोर्द्विज ! ॥ ५८ ॥

नेत्रान्तेऽर्धयवं रक्तं मण्डलं तु सितांशकम् ।

तदष्टांशैकभागं तु तन्मध्ये दृष्टिमण्डलम् ।
तत्सार्धयवमानं तु ऊर्ध्ववर्मततं भवेत् ॥ ६० ॥

अधोवर्म च तत्तुल्यं दीर्घमष्टादशा यवम् ।
नेत्रयोरन्तरं विप्र ! स पादद्व्यंगुलं भवेत् ॥ ६१ ॥

अधोवर्मस्थितिर्विप्र ! नेत्रस्य तु विधीयते ।
कर्तुर्नाशमथोदृष्टिः ऊर्ध्वदृष्टिर्विपत्करम् ॥ ६२ ॥

बन्धुनाशो भवेत्पार्श्व दृष्टिश्चेद् ग्रामवासिनाम् ।
तस्मात्सर्व प्रयत्नेन सममेव निरीक्षणम् ॥ ६३ ॥

नेत्रमेवं समाख्यातं नासिका लक्षणं पुनः ।
नासिकापुट बाह्ये तु तारमष्टा दशायवम् ॥ ६४ ॥

तदर्धमग्रविस्तारं तस्यार्धं मूलविस्तृतम् ।
गोजिमूलात्तु नास्यग्रं तुंगं तद्द्व्यंगुलं भवेत् ॥ ६५ ॥

पुटयोर्मध्यभित्तिस्तु पुष्करं चेति विद्यते ।
अध्यर्धयवमालम्ब्य नासाग्रं पुटसूत्रतः ॥ ६६ ॥

सार्धवेदयवं गोजिदीर्घं तस्यार्धविस्तृतम् ।
उत्तरोष्ठस्योर्ध्वनिम्न गोजिनाम्ना प्रशंसितम् ॥ ६७ ॥

यवमानं ततं गोजि कृत्वैव नासिकां द्विज ! ।
स पाद चतुरंशं तु आस्यादीर्घं तिर्यग्विदुः ॥ ६८ ॥

उत्तरोष्ठायतं चास्यादीर्घं तुलमुदाहृतम् ।
उत्तरोष्ठस्य मध्ये तु तारं सार्धत्रयं यवम् ॥ ६९ ॥

आवृष्ठ्या कृतशांतारं आस्य सीमावसानकम् ।
यवमानघनं पली उत्तरोष्ठस्य चोपरि ॥ ७० ॥

त्रिवक्रे चोत्तरा पाली ततोष्ठ सदृशायताः ।
अष्टादशयवा प्रोक्ता अधरोष्ठस्य दीर्घकम् ॥ ७१ ॥

यवाधिकांगुलं तस्य विस्तारं द्विजसत्तम ! ।
अधरं पालिका सार्ध यवमानमथोच्यते ॥ ७२ ॥

चिबुकादधरोच्चं तु सार्धषड्यवमुच्यते ।
किंचित्प्रहसिताकारं आस्य युक्तानुकारयेत् ॥ ७३ ॥

अधराच्चिबुकालम्बं सार्धपक्षांगुलं भवेत् ।
चिबुकात्तु हनोर्वंशं सार्धाष्टयवमुच्यते ॥ ७४ ॥

सार्धद्व्यंगुलकां तस्य तारमायतवृत्तवत् ।
हनोः सन्ध्यैकर्णबन्धान्तं त्वन्तरं द्वादशांगुलम् ॥ ७५ ॥

हरोर्बाह्यं समारभ्य पादोन युगमात्रकम् ।
कर्णवेशमिति ख्यातं ततः कर्णं वदामिते ॥ ७६ ॥

नेत्रान्तात्कर्णबाह्यान्तं द्व्यन्तरं सप्तमात्रकम् ।
कर्णस्य तु विशालं तु अष्टादश यवाः स्मृताः ॥ ७७ ॥

अक्षिसूत्रोर्ध्वतः कर्णतुंगं चाष्टादशं यवम् ।
तदर्धं चोर्ध्वबन्धा तु शेषं वृत्तममूर्ध्वतः ॥ ७८ ॥

नेत्रसूत्रादधः कर्णबन्धं सप्तदशा यवा ।
सार्धवेदांगुलं तस्मात् तस्य नालं प्रलम्बयेत् ॥ ७९ ॥

पूर्वाल ततं व्योमभागं सार्धांशका परम् ।
नालयोर्व्यासमाख्यातं घनमर्धांगुलं तयोः ॥ ८० ॥

नालान्तरं त्रिपादं च वेदांशं व्रततायतम् ।
कर्णतुंगमशेषं तु यवैकोन नवांगुलम् ॥ ८१ ॥

पिप्पली घनमर्धांशं दिगुणं हिततायतम् ।
उत्सेधं सार्धमात्रं स्यात् मूलादग्रं क्षयानुगम् ॥ ८२ ॥

द्विभागं पिबुषी दीर्घं द्वियवार्धांश विस्तृतम् ।
अक्षसूत्रादयः कर्णद्वारमर्धांगुलं भवेत् ॥ ८३ ॥

कर्णद्वारंतती निम्नं सममेव हि वर्तुलम् ।
कर्णपालीघनं सार्धयवनीवं चतुर्यवम् ॥ ८४ ॥

पृष्ठकर्णस्य विस्तारं अध्यर्धांगुलमुदाहृतम् ।
केशान्तात् पृष्ठकर्णं तु द्व्यन्तं द्व्यर्धमात्रकम् ॥ ८५ ॥

पृष्ठकेशावसाने तु कृकार्धांशकं नतम् ।
तस्याधः पृष्ठदीर्घोच्चं युगांशं त्रियवाधिकम् ॥ ८६ ॥

कृकाटिकादयः पृष्ठग्रिवाग्रं तु नवांगुलम् ।
पृष्ठग्रीवस्य मूलस्य तारं सार्धदशांगुलम् ॥ ८७ ॥

मूलादग्रं क्रमात्क्षीणं ग्रीवं वृत्तांगमुच्यते ।
हिक्कासूत्रोपरि स्कन्धसंधीतुंगं युगांगुलम् ॥ ८८ ॥

कर्णबन्धादयस्सार्ध षण्मात्रं स्कन्धसीमकम् ।
सप्तांगुलघनं स्कन्धं हिक्कावधि क्रमात्क्षयम् ॥ ८९ ॥

पृष्ठग्रीवादधस्तात्तु ककुन्मानं दशांगुलम् ।
तस्मादा कटिसंधान्त वशमृक्षांशमायतम् ॥ ९० ॥

तद्वशं नत विस्तारं सार्धषोडशकं यवम् ।
वंशमानादधस्तात्तु वंशमूलं गुणांगुलम् ॥ ९१ ॥

अपरे तुंगमेवं स्यात् तस्मिन्व्यासं वदामि ते ।
सार्ध ऋक्षांगुलं प्रोक्तं कक्षयोरन्तरं द्विज ! ॥ ९२ ॥

कक्षाधोहंसफलकातुंगं सप्तांगुलं भवेत् ।
कक्षोर्ध्वे बाहुसीमान्तं सप्तांगुलमुदाहृतम् ॥ ९३ ॥

सार्धषोडशमात्रं तु मध्यव्यासमुदाहृतम् ।
नाभिसूत्रे तु विस्तारं सार्धविंशांगुलं भवेत् ॥ ९४ ॥

कटिसन्धौ तु विस्तारं त्रिषडंशमुदाहृतम् ।
पादोन धर्मभागं तु स्फिक् पिण्डं प्रतिविस्तृतम् ॥ ९५ ॥

सुत्तौ तौ समाख्यातौ तयोर्मध्ये चतुर्यवम् ।
अपरे तारमेवोक्तं पार्श्वव्यासमथोच्यते ॥ ९६ ॥

कक्षस्याग्रविशालं तु सप्तमात्रमुदाहृतम् ।
स पादषोडशमात्रं स्यात् स्तन सूत्रे तु विस्तृतम् ॥ ९७ ॥

स वेदद्वादशांशं तु मध्यपार्श्वघनं भवेत् ।
श्रोणी मध्यघनं पार्श्वे सप्तदशांगुलं भवेत् ॥ ९८ ॥

ततः श्रोण्युदयं विप्र ! सप्तमात्रमुदाहृतम् ।
नाभिसूत्रादधश्चोर्ध्वे चतुर्थं त्र्यंगुलं हि तत् ॥ ९९ ॥

श्रोण्यधस्तात् कटेरुच्चं सार्धभूतांगुलं भवेत् ।
तत्कटेस्तु घनं धीमान् सार्धभान्वंगुलं भवेत् ॥ १०० ॥

स्फिक् पिण्डं चोरुमूलात्तु नीव्रं सार्धयुगांगुलम् ।
तत्पिण्डालम्बनं चार्ध सूत्रान्दाधोगांगुलम् ॥ १०१ ॥

श्रोण्यधस्तात्कटे रुच्चं सार्धसूत्रादधोयुगांगुलम् ।
कक्षाग्रधरनिम्नं तु सार्धद्व्यंगुलकं भवेत् ॥ १०२ ॥

ग्रीवा सुवृत्ति नाहं तु रेखा द्वौ परिवेष्टितम् ।
कर्णमूलेन तत्तारं तुंगं चैव चतुर्यवम् ॥ १०३ ॥

हिक्काया स्वाक्षमात्रं तु जर्तृसूत्रमुदाहृतम् ।
हिक्कामध्यात्तु कक्षान्तं भान्वंशात्पादहीनकम् ॥ १०४ ॥

हिक्कादास्तनसूत्रान्तं स्तनान्तरसमं भवेत् ।
हृदायस्तनयोर्मध्ये निम्नमध्यर्धमात्रकम् ॥ १०५ ॥

तिलं वै कर्णमध्ये तु यवत्रयप्रमाणकम् ।
तस्यार्धं वा समावृत्तं कल्पयेत्तु त्रिपुण्ड्यवत् ॥ १०६ ॥

कर्णमूले नतं हिक्कासूत्राधस्तात्प्रकल्पयेत् ।
हिक्कासूत्रोपरिष्ठात्तु नीलकर्णं प्रकल्पयेत् ॥ १०७ ॥

हृदयास्तन पीठोच्चं द्व्यंगुलं समुदाहृतम् ।
सप्तादशयवा ख्यातं स्तनमण्डलविस्तृतम् ॥ १०८ ॥

तन्मध्ये चूचुकोच्चं तु व्यासं चैव यवद्वयम् ।
नाभेस्तु नतविस्तारं व्योमांशं द्वियवाधिकम् ॥ १०९ ॥

तन्नाभिदक्षिणावर्तं मूलतारं यवद्वयम् ।
तन्नाभ्यवटमध्यस्थं नाभिसूत्रं द्विजोत्तम ! ॥ ११० ॥

नाभेरथ पादेन श्रोण्युच्चं पंचमात्रकम् ।
तदधस्तात्कटिश्रोणी सार्धत्र्यंगुलकं भवेत् ॥ १११ ॥

तस्मादामेढ्रमूलान्तं मेढ्रपीठं युगांगुलम् ।
स पादपंचमात्रं तु लिंगदीर्घमुदाहृतम् ॥ ११२ ॥

लिंगमूलविशालं तु सप्तादशयवा तता ।
लिंगायामत्रिभागैकमग्र मण्ड्या यवं भवेत् ॥ ११३ ॥

तदग्रग्रन्थि(गण्डि ?)मूलं तु यवमानं बृहत्तरम् ।
रक्तोत्पलमुकुलाभं अग्रमण्ड्याग्रमुच्यते ॥ ११४ ॥

मुष्कायामविशालं तु सार्धवेदांगुलं भवेत् ।
घनं सार्धगुणांशं तु तन्मूलोर्ध्वोऽग्रबन्धनम् ॥ ११५ ॥

मेढ्रपीठसमूलस्य व्यासं सप्तार्धमात्रकम् ।
मेढ्रपीठस्य मूलान्तं ऊरुमूलस्य मांसलम् ॥ ११६ ॥

जानुमण्डलविस्तारं स पादं चतुरंगुलम् ।
सार्धत्र्यंगुलकं प्रोक्तं जानुमण्डलनीव्रकम् ॥ ११७ ॥

सार्धद्व्यंगुलकं प्रोक्तं पृष्ठजान्वोन्नतं भवेत् ।
मध्ये तु पाश्वयोः शेषं यथा सौन्दर्यमाचरेत् ॥ ११८ ॥


इत्यंशुमान्काश्यपे उत्तमदशतालविधिपटलः (षट्पंचाशः) ॥ ५६ ॥