प्रमुखा विकल्पसूचिः उद्घाट्यताम्


← पटलः ५४ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः ५६ →



प्रतिमालक्षणं वक्ष्ये शृणुत्वैकाग्रमानसः ।
अचलं च चलं चैव चलाचलमिति त्रिधा ॥ १ ॥

मृण्मयं शर्करां चैव सौधजं च चलं स्मृतम् ।
शैलजं दारुजं चैव धातुजं रत्नजं तथा ॥ २ ॥

चलाचलमिति ख्यातं चलमेवं तु लोहजम् ।
अर्धचित्रं च चित्रं च चित्राभासमिति त्रिधा ॥ ३ ॥

अर्धांगदर्शनं बिम्बं अर्धचित्रमिति स्मृतम् ।
सर्वावयव दृष्टं यत् तच्चित्रं हि विधीयते ॥ ४ ॥

निम्नोन्नतविहीनेन पटभित्त्यादिकल्पना ।
अर्धचित्रं तु सुधया चान्यैश्चित्रवदर्धकम् ॥ ५ ॥

आभासं धातुभिः कुर्यात् चित्रकर्मविधानतः ।
चित्रं चित्रार्धमाभासं फलं श्रेष्ठान्तराधमम् ॥ ६ ॥

इष्टकायाः पटं श्रेष्ठं पटादाभासकं वरम् ।
आभासादर्ध चित्रं तु तस्माद्वै मृण्मयं वरम् ॥ ७ ॥

मृण्मयाद्दारुजं श्रेष्ठं दारुजाच्छैलजं वरम् ।
शैलजाल्लोहजं श्रेष्ठं कर्तॄणां च फलं तथा ॥ ८ ॥

लोहजेषूत्तमं स्वर्णं मध्यमं रजतं भवेत् ।
ताम्रजं कन्यसं ख्यातं तेषु तेषु फलं तथा ॥ ९ ॥

बिम्बमानं च द्रव्यं च श्रेष्ठान्तराधमं भवेत् ।
सर्वद्रव्येषु दैवत्यं सममेवेति विद्यते ॥ १० ॥

समं चेद्दिव्यदेवेशं फलं श्रेष्ठादयं कथम् ।
ऊषरे सुन्धभूमौ च मार्दवे च महीतले ॥ ११ ॥

पृथगेकजातिवृक्षं तु स्थापने तु विशेषतः ।
फलस्थलानुसारेण यथालाभं तथा भजेत् ॥ १२ ॥

स्थलभेदेन वृक्षस्यं भेदमात्रं न विद्यते ।
तथा द्रव्यफलं तुल्यं द्रव्यभेदे फलप्रदम् ॥ १३ ॥

तस्मात्तेषु यथा लाभं द्रव्येण सकलं कुरु ।
यो नरः कृतवान्भूमौ पुत्रमित्रकलत्र युक् ॥ १४ ॥

यथेष्टविषयोपेतः शक्रादि विषयं सुखम् ।
न नश्यते ततो विप्र ! सालोद्यादि पदाश्रितम् ॥ १५ ॥

मनसा कर्मणा वाचा यो नरः सहकारिणा ।
असौ वित्तानुसारेण कर्तृलब्धफलानुभाक् ॥ १६ ॥

तस्मादन्येन कर्तव्यं स कर्तुं शिवात्मकम् ।
सुखासनं तु प्रथमं उमा स्कन्दं द्वितीयकम् ॥ १७ ॥

तृतीयं चन्द्रमौलिं च चतुर्थं वृषवाहनम् ।
पंचमं नृत्तमूर्तिं च गंगाधरमतः परम् ॥ १८ ॥

सप्तमं त्रिपुरारिं च वैवाह्यं त्वष्ठमं तथा ।
नवमं चार्धनारिं च दशमं गजहारिणम् ॥ १९ ॥

ततो पाशुपतं विद्यात् कंकालं द्वादशं स्मृतम् ।
त्रयोदशं हरेरर्धं भिक्षाटनं चतुर्दश ॥ २० ॥

चण्डेश्वर प्रसादं तु पंचादशमुदाहृतम् ।
षोडशं दक्षिणामूर्तिं ततः कालारिमुच्यते ॥ २१ ॥

ततो वै लिंगमुद्भूतं मूर्तिरष्टादशा भवेत् ।
सर्वासां प्रतिमानां तु मानमादौ वदाम्यहम् ॥ २२ ॥

सर्वेषामपि लिंगानां शिरोमानं विनोदयम् ।
गृहीतं विद्यमानेषु अन्येषु शिरसा सह ॥ २३ ॥

स्थूलदेशे परीणाहं विस्तारं चैव तत्रैव ।
पूजांश द्विगुणं ग्राह्य द्वात्रिंशद्विभजेत्समम् ॥ २४ ॥

तेषु वै सप्तविंशांशं पंचविंशांशमेव वा ।
त्रिभागाधिकविंशच्च एकविंशतिरेव वा ॥ २५ ॥

एकोन विंशदंशं वा षोडशं वा त्रयोदश ।
रुद्रांशं नन्दभागं वा सप्तांशं पंच एव वा ॥ २६ ॥

अथवा रुद्रभागोच्चं नवभागविभाजिते ।
तेष्वेकांशं समारभ्य एकैकांश विवर्धनात् ॥ २७ ॥

यावद्वै सप्तविंशांशं तावद्वै सप्तविंशतिः ।
रुद्रांशोच्चे तु बिम्बोच्चं साष्टत्रिंशति भेदकम् ॥ २८ ॥

तथैव लिंगतारे च लिंगनाहे च कल्पयेत् ।
लिंगे बिम्बोच्च भेदं तु मन्वाधिकशतं भवेत् ॥ २९ ॥

गर्भगेहं तदाद्यं तु भागे नन्दविधोन्नतम् ।
अथवा गर्भगेहं तु त्रिन्नवांशविभाजिते ॥ ३० ॥

सप्तविंशतिमानं स्युरेकादेकांशवर्धनात् ।
अथवा गर्भगेहं तु द्विनवांशं विभाजिते ॥ ३१ ॥

एकांशदेकवृद्ध्या तु बिम्बमष्टादशान्वितम् ।
शुद्धद्वारस्य चोत्सेधं चतुर्भागविभाजिते ॥ ३२ ॥

पंचांशमुत्तमोत्सेधं मध्यमं चतुरंशकम् ।
अधमं तु गुणांशं स्यात् त्रिविधं द्वारमानकम् ॥ ३३ ॥

अधमोत्तमयोर्मध्ये वसुभागविभाजिते ।
नवधा स गलोत्तुंगं द्वारमाने विधीयते ॥ ३४ ॥

अथवा द्वारतुंगं तु सप्तविंशति भाजिते ।
एकैकांशविहीनेन बिम्बोच्चं सप्तविंशतिः ॥ ३५ ॥

एवं हि द्वारमानेन षट्त्रिंशत्कौतुकोदयम् ।
तथाधिष्ठानमाने च स्तम्भमानविभाजिते ॥ ३६ ॥

सद्मबाह्यस्य विस्तारे हस्ते चैव प्रकल्पयेत् ।
एकादिनवहस्तान्तं नवधा हस्तमानकम् ॥ ३७ ॥

तलादि नवतालान्तं तथा नवविधं भवेत् ।
कर्तुश्च हृदयान्तं वा स्तनान्तं बाहुसीमकम् ॥ ३८ ॥

हन्वन्तं चास्य सीमान्तं नेत्र सूत्रावसानकम् ।
कर्तुश्चोदयतुल्यं वा यजमानवशादिमे ॥ ३९ ॥

अथवा कर्तृतुंगं तु नवभागविभाजिते ।
एकैकांशविहीनेन नवधा सकलोदयम् ॥ ४० ॥

चतुर्विंशच्छतं भागं पूजांशं तु विभाजिते ।
एकांशमंगुलं ख्यातं मूललिंगांगुलान्वितम् ॥ ४१ ॥

मानांगुलं पुराप्रोक्तं नव प्रासादमानके ।
कर्तुर्दक्षिणहस्ते तु मध्यमांगुलिमध्यमे ॥ ४२ ॥

पर्वदीर्घं तु तारं वा मात्रांगुलविधिः स्मृतः ।
सप्तांगुलं समारभ्य द्विद्व्यंगुलविवर्धनात् ॥ ४३ ॥

त्रयोविंशतिकं यावत् शतान्तत्रिभिरंगुलैः ।
बिम्बमानं तु कर्तव्यं मानौ द्वाभ्यां परार्थकम् ॥ ४४ ॥

गृहे त्वात्मार्थ बिम्बानां मानं मात्रांगुलेन तु ।
कर्तव्यमन्यथा चेत्तु कर्तव्ये कर्तृनाशनम् ॥ ४५ ॥

अंगुलैनिर्मितं बिम्बं सर्वजात्यर्हकं शुभम् ।
अंगुलें गुलसंख्याभिशायादीषच्छुभेक्षणम् ॥ ४६ ॥

त्रिष्वंगुलि प्रमाणेषु जात्यंशं च न रोपयेत् ।
अंगुलादन्यद्यन्मानं वेदाशीति विभज्य च ॥ ४७ ॥

एकांशं रोपयेत्तस्मात् जात्यंशं तद्द्विजादिभम् ।
द्विभागाधिकषष्ट्यंशं भज्यैकांशसमन्वितम् ॥ ४८ ॥

नृपजात्यंशकं ह्येवं नृपाणामृद्धिकारणम् ।
चतुर्विंशति भागं तु कृत्वैकांशसमन्वितम् ॥ ४९ ॥

वैश्यजात्यंशकं ख्यातं वैश्यानामभिवृद्धिदम् ।
षोडशांशेंशमारोप्य शूद्र-ऋद्धिकरं भवेत् ॥ ५० ॥

एवं जात्यंशसंयुक्तं अंशमष्टगुणीकृतम् ।
सप्तविंशतिभिर्ह्रासे शेषमश्वादिमं भवेत् ॥ ५१ ॥

तद्दिनं जाति ऋक्षं स्यान्नृपवास्तुदिनान्वितम् ।
सुशोभनेन युक्तं चेत् कर्तृवास्तु नृपादिनाम् ॥ ५२ ॥

त्रिंशाद्या शतभागान्तं बिम्बोच्चं तु विभाजिते ।
शश्यंशं रोपयेद्यावत् शुभायादीनि संभवम् ॥ ५३ ॥

तन्मानं कौतुकोच्चं स्यात्पादादुष्णीषकावधि ।
आयांशकमिदं ख्यातं चैकांशायादिकल्पयेत् ॥ ५४ ॥

अष्टाभिर्वर्धयेद्यंशं भानुभिर्ह्रासयेद्द्विज ! ।
शेषमायमिति ख्यातं अंशमष्टगुणीकृतम् ॥ ५५ ॥

सप्तविंशतिभिर्ह्रासे शेषमश्वादिभं भवेत् ।
नवभिर्गुणिते त्वंशं नाडिभिर्ह्रासयेत्ततः ॥ ५६ ॥

सेषं व्ययमिति ख्यातं अंशं वै त्वनलेन तु ।
वर्धयेद्वसुभिर्ह्रासे शेषं ध्वजादयो भवेत् ॥ ५७ ॥

नवभिर्वर्धयेत्त्वंशं सप्तभिर्ह्रासवारकम् ।
वर्धयेद्वेदसंख्या तु ह्रासयेन्नवसंख्यया ॥ ५८ ॥

शेषमंशकमित्युक्तं एवमायादिषड्भवेत् ।
आयाधिक्यं व्ययं क्षीणं पुष्कलायं सुशोभनम् ॥ ५९ ॥

ध्वजधूमश्च सिंहश्च श्वावृषोखरहस्तिकाकयः ।
योनयश्चाष्ट ते तेषु तेषु केतुहरी वृषम् ॥ ६० ॥

गजश्च शुभदा ज्ञेया गर्हिताः शेषयोनयः ।
विपत्तिः प्रत्यरं चैव वर्ज्यं वैनाशिकं तथा ॥ ६१ ॥

षष्ठाष्ट द्वादशं लग्नं वर्ज्यं शेषाः शुभावहाः ।
कर्तुश्च ग्रामनक्षत्रात् नृपवास्तुदिनं तथा ॥ ६२ ॥

गणयेद्बिम्ब-ऋक्षान्तं शोभनं तु परिग्रहेत् ।
वारं सूर्यादि संख्या तु भौमवारं विवर्जयेत् ॥ ६३ ॥

सूर्यारवारसौरिश्च मध्यमं च इति स्मृतम् ।
भानु वारादि संयुक्तं विशाखादि चतुश्चतुः ॥ ६४ ॥

योगं तु मरणं नाशं अमृतं च यथा क्रमम् ।
तस्करं भुक्तिशक्तिश्च धन्यं राजं च षण्डकम् ॥ ६५ ॥

अभयं रथनं प्रेष्य नवांशकमुदाहृतम् ।
तेषु तस्कर षण्डं च ऋणं चैव तु वर्जयेत् ॥ ६६ ॥

गणेषु सुरमानुष्यं योगमात्र विवर्जयेत् ।
एवं परीक्ष्य शोभाढ्यं आयामं तु सुयोजयेत् ॥ ६७ ॥

चातुर्वर्णाभिवृध्यर्थं जात्यंशकं प्रयोजयेत् ।
तस्मादुभयभागोऽपि प्रशस्ता वेशकाण्डपा ॥ ६८ ॥


इत्यंशुमान्काश्यपे प्रतिमालक्षणपटलः (पंचपंचाशः) ॥ ५५ ॥