प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← पटलः २७ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः २९ →




अथ वक्ष्ये विशेषेण त्रितलं शृणु सुव्रत ! ।
तस्य विस्तारतुंगं च पुरोक्तं हर्म्यमानवत् ।। १ ।।

विन्याससूत्रयोरन्तः तदष्टांशविभाजिते ।
एकांशं कूटविस्तारं विशालायामं तु तद्द्वयम् ।। २ ।।

समं त्रिपादमर्धं वा पंजरव्यासमुच्यते ।
शेषं हारान्तरं ख्यातं निष्क्रान्तादीनि पूर्ववत् ।। ३ ।।

ऊर्ध्वभूमौ रसांशेंशं कूटव्यासमुदाहृतम् ।
शालायामद्विभागं तु शेषं हारान्तरं भवेत् ।। ४ ।।

हारान्तरसमं वार्धत्रिपादं वाऽथ पंजरम् ।
ऊर्ध्वभूमिकभागैक मध्ये भद्रं विधीयते ।। ५ ।।

दण्डं सार्धद्विदण्डं वा मध्यभद्रस्य नीव्रकम् ।
प्रासादस्योच्छ्रयं भानुद्विगुणांशं विभाजिते ।। ६ ।।

द्विभागं धरातलोच्चं वै वेदांशं चरणोदयम् ।
मंचमानं द्विभागेन पादोन चतुरंशकैः ।। ७ ।।

पादायामं च सार्धांशं प्रस्तरोच्चमुदाहृतम् ।
सार्धत्रिभागं पादोच्चं सपादांशं तु मंचकम् ।। ८ ।।

अर्धांशं वेदिका मानं गलमानं शिवांशकम् ।
सार्धत्र्यंशं तु शिखरं स्तूप्युच्चं त्वेकभागया ।। ९ ।।

एवं हि कल्पितं गेहं शान्तिकं त्विति विद्यते ।
चतुर्विंशद्विमानोच्चेतलोच्चं तु द्विभागया ।। १० ।।

वेदांशं चरणायामं पक्षांशं मंच मानकम् ।
पादोन चतुरंशं तु तलीवोदयमिष्यते ।। ११ ।।

सार्धांशं प्रस्तरोत्सेधं सार्धत्र्यंशांघ्रिणोदयम् ।
अध्यर्धांशं तु मंचोच्चं अर्धांशं वेदिकोदयम् ।। १२ ।।

शिवांशं ग्रीवमानं तु गुणांशं शिखरोदयम् ।
सपादांशं शिखामानं पौष्टिकं तदुदाहृतम् ।। १३ ।।

सप्तविंशति भागं तु कृत्वा तु सदनोदयम् ।
द्विभागं धरातलोत्सेधं युगांशं चरणोदयम् ।। १४ ।।

मंचमानं द्विभागेन वेदांशं चरणोदयम् ।
पादोनद्व्यंशमंचाश्च तलीपोच्चं तु तद्द्वयम् ।। १५ ।।

सार्धांशं प्रस्तरोत्सेधं एकांशं वेदिकोदयम् ।
द्विभागं ग्रीवमानं तु वेदभागं तु शीर्षकम् ।। १६ ।।

शेषं स्तूप्युदयं ख्यातं जयदं तदुदाहृतम् ।
चत्वारिंशद्द्वयाधिक्यभागं कृत्वा गृहोच्चकम् ।। १७ ।।

अधिष्ठानं त्रिभागार्धं सप्तांशं चरणोदयम् ।
तलोच्च सदृशं मंचतलिपं सार्धषट्ककम् ।। १८ ।।

गुणांशं प्रस्तरोत्सेधं ऊर्ध्वपादं षडंशकम् ।
सार्धद्व्यंशं तु मंचोच्चं एकांशं वेदिकोदयम् ।। १९ ।।

गलमानं द्विभागं स्यात् भूतांशं शिखरोदयम् ।
द्विभागं स्तूपि तुंगं तु प्रोक्तमद्भुतहर्म्यके ।। २० ।।

प्रासादस्योच्चतुंगं तु षडष्टांशैर्विभाजिते ।
अधिष्ठानं युगांशं तु वस्वंशं चरणोदयम् ।। २१ ।।

मंचमानं तु वेदांशं तलिपं सार्धसप्तकम् ।
सार्धत्रिभागमंचोच्चं सप्तांशं चरणोदयम् ।। २२ ।।

प्रस्तरोच्चं गुणांशं तु शिवांशं वेदिकोदयम् ।
गलमानं द्विभागं स्यात् रसांशं शिखरं भवेत् ।। २३ ।।

द्विभागं तु शिखामानं एवं स्यात्सार्वकामिकम् ।
अष्टकूटाष्टशालाभं कलापंजरसंयुतम् ।। २४ ।।

षण्णवत्यल्पनास्याढ्यं जन्मादग्रं युगाश्रकम् ।
नानाधिष्ठान संयुक्तं नानापादैरलं कृतम् ।। २५ ।।

शिखरे भानुनास्याढ्यं महाल्पं चतुरष्टकम् ।
कूटकोष्ठोभतादीनि नागराद्युचितं भवेत् ।। २६ ।।

स्वस्तिकं भवनं ख्यातं तदेव शिखरे द्विज ! ।
चतुर्महानासिकोपेतं अल्पाष्टकविवर्जितम् ।। २७ ।।

स्वस्तिभद्रमिदं ख्यातं सर्वदेव प्रियावहम् ।
तदेव वृत्तशिखरं गलं वै वेदिका तथा ।। २८ ।।

रुद्रकान्तमिदं नाम्ना मम प्रीतिकरं भवेत् ।
तदेव शीर्षकोणेषु अल्पनासीद्वयं भवेत् ।। २९ ।।

कल्पितं शिवकान्तं स्यात् शिवप्रियकरं गृहम् ।
तदेव वेदिकाकण्ठं शीर्षकं च घटं तथा ।। ३० ।।

वस्वश्रं कल्पितं यत्तद् विष्णुकान्तमिदं परम् ।
विन्याससूत्रयोरन्तः नवभाग विभाजिते ।। ३१ ।।

एकांशं कूटविस्तारं द्विभागं कोष्ठदीर्घकम् ।
कोष्ठं प्रति द्विकोष्ठं स्यात् अर्धांशं पंजरस्ततम् ।। ३२ ।।

शेषं हारान्तरं ख्यातं कल्पयेत् कल्पवित्तमः ।
चतुष्कूटाष्टशाला च भानुपंजरसंयुतम् ।। ३३ ।।

हारान्तरं चतुर्विंशत् आदिभूमेवमाचरेत् ।
सप्तांशं विभजेद्भागं एकांशं कूटविस्तरम् ।। ३४ ।।

कोष्ठायतं द्विभागं स्यात् धाममध्ये प्रकल्पयेत् ।
अर्धांशं पंजरव्यासं शेषं हारान्तरं भवेत् ।। ३५ ।।

चतुष्कूटं चतुश्शाला पंजराष्टक संयुतम् ।
कल्प्यहारान्तरोपेतं द्वितीयं भूतलं कुरु ।। ३६ ।।

तदूर्ध्वभूमिविस्तारं त्र्यंशैकं मध्यभद्रकम् ।
अष्टकूटा च शाला च विंशत्पंजरसंयुतम् ।। ३७ ।।

शताष्टनासिकोपेतं वस्वश्रं शीर्षकं गलम् ।
महानास्यष्टकोपेतं शिखरन्तु द्विजोत्तम ! ।। ३८ ।।

नाम्ना शुद्धविमानं तु मम प्रीतिकरं भवेत् ।
तदेवाष्टाश्र वेदी च वृत्ताभं शिखरं गलम् ।। ३९ ।।

विमलाकृतिनाम्ना तु सर्वदेवहितं भवेत् ।
तदेव शिखरं कण्ठं युगाश्रं ब्रह्मकान्तकम् ।। ४० ।।

तदेव सायताश्रं तु सपादं सार्ध त्रिभागिकम् ।
वसुभागं तु विस्तारं आयामं दशधा भवेत् ।। ४१ ।।

एकांशं कूटविस्तारं शालान्तं द्विगुणायतम् ।
शेषं हारान्तरं ख्यातं प्रागिवैव प्रकल्पयेत् ।। ४२ ।।

षडष्टभागविस्तारं आयामं चोर्ध्वभूमिके ।
एकैकांशेन कूटं स्यात् कोष्ठदीर्घं द्वयांशकम् ।। ४३ ।।

अर्धांशं पंजरव्यासं शेषं हारान्तरं भवेत् ।
ऊर्ध्वभूविस्तृतं चाग्निभागैकं मध्यभद्रकम् ।। ४४ ।।

द्व्यश्र वृत्तं च वेदी च कण्ठं च शीर्षकं तथा ।
चतुष्कूटाष्टशाला च भानुपंजरसंयुतम् ।। ४५ ।।

हारान्तरं चतुर्विंशत् कल्पयेदादिभूतले ।
चतुष्कूटं चतुश्शाला पंजराष्टकसंयुतम् ।। ४६ ।।

षोडशान्तरसंयुक्तं शतसंख्याल्पनासिका ।
ललाटनासिका वक्त्रं पार्श्वयोर्भद्रनासिकाः ।। ४७ ।।

तथैवं नासिका प्रष्ठो शीर्षकं चैव माचरेत् ।
नानाधिष्ठानसंयुक्तं नानाचांघ्रिसमन्वितम् ।। ४८ ।।

सर्वालंकारसंयुक्तं हारान्तरमिदं भवेत् ।
मानसूत्रान्तं नवनवधा तु विभाजिते ।। ४९ ।।

गुणांशं गर्भगेहं तु शिवांशं कुड्यविस्तृतम् ।
परितोऽलिन्दमेकांशं हाराव्यासं शिवांशकम् ।। ५० ।।

एवं हि कल्पितं तेषु कर्णकूटं शिवांशकम् ।
मध्ये कोष्ठं गुणांशं स्यात् एकांशं पंजरस्तथा ।। ५१ ।।

हारान्तरं तथार्धांशं कल्प्येवं प्रथमे भुवि ।
अथवा पंजराणां तु षडंशं वा विधीयते ।। ५२ ।।

शेषं हारान्तराख्यातं परितः स्यैव माचरेत् ।
कोष्ठमध्यत्रिदण्डेन महानासी विनिर्गतम् ।। ५३ ।।

ऊर्ध्वभूमौ षडंशेंशं कूटकोष्ठाय तद्भवेत् ।
अर्धांशं पंजरव्यासं शेषं हारान्तरं भवेत् ।। ५४ ।।

ऊर्ध्वभूविस्तृतान्तं तु मध्ये दण्डेन निर्गतिः ।
चतुरश्रमधिष्ठानं वस्वश्रं शीर्षकं गलम् ।। ५५ ।।

आदौ तले चतुष्कर्णे कूटं वेदाश्रशीर्षकम् ।
अष्टाश्रशीर्षकं मध्यात् ऊर्ध्वभूमौ प्रकल्पयेत् ।। ५६ ।।

अष्टकूटाष्टकोष्ठादि कलापंजरसंयुतम् ।
शताल्पनासिकोपेतं शिखरेऽष्टं महत्तरम् ।। ५७ ।।

भद्रकोष्ठःमिदं नाम्ना सर्वदेवार्हकं परम् ।
तदेव कर्णकूटानां शीर्षकं वर्तुलाकृति ।। ५८ ।।

प्रासादशिखरं कण्ठं वृत्ताकारं प्रकल्पयेत् ।
शिखरे तु चतुर्दिक्षु भद्रनासी समन्वितम् ।। ५९ ।।

विदिक्षु ह्यल्पनासाढ्यं वृत्तकूटमिदं परम् ।
तदेव शिखरं कोणे क्षुद्रनास्यष्टकान्वितम् ।। ६० ।।

युगाश्रं कर्णकूटानां शीर्षकं वर्तुलाकृतिः ।
शेषं प्रागिव कर्तव्यं श्रीकण्ठं तदुदाहृतम् ।। ६१ ।।

तदेवाष्टांशमाधिक्यं आयामं चतुरश्रकम् ।
शालामध्ये महानासी भद्रं विना प्रकल्पयेत् ।। ६२ ।।

शालाभमस्तकं कण्ठं वृत्तायतमथापि वा ।
स्तूपि त्रयसमायुक्तं एतन्नाम्ना सुमंगलम् ।। ६८ ।।

मानसूत्रान्तरं धर्मभागं कृत्वा द्विजोत्तम ! ।
गर्भगेहं तु वेदांशं गृहपिण्ड्यंशमावृतम् ।। ६४ ।।

परितोऽलिन्दमेकांशं हाराभागेन कल्पयेत् ।
तेष्वेककूटविस्तारं मध्ये कोष्ठायतं द्वयम् ।। ६५ ।।

तयोर्मध्यैकभागेन पंजरव्यासमुच्यते ।
हारान्तरमथांशेन पंजरस्य तु पार्श्वयोः ।। ६६ ।।

अष्टांशं चोर्ध्वभूमिस्तु कृत्वांशं कूटविस्तृतम् ।
शाला तद्द्विगुणायामं तयोर्मध्ये तु पंजरम् ।। ६७ ।।

एकांशेनैव कर्तव्यं शेषं हारान्तरं भवेत् ।
ऊर्ध्व(भूम)मंचं चतुर्भागं द्विभागं मध्यभद्रकम् ।। ६८ ।।

दण्डं वाध्यर्धदण्डं वा द्विदण्डं वाथ निर्गमम् ।
वेदाश्रं च मधिष्ठानं तद्वत्कर्णं च शीर्षकम् ।। ६९ ।।

अष्टशालाष्टकूटं च पंजरं षोडशान्वितम् ।
शताल्पनासिकोपेतं वृषस्थलसमन्वितम् ।। ७० ।।

नानाधिष्ठानसंयुक्तं नानापादैरलंकृतम् ।
उन्नतौ कूटकोष्ठौ द्वौ चान्तरप्रस्तरान्वितौ ।। ७१ ।।

गान्धारमिति विख्यातं अष्टाश्रं च गलं शिरः ।
श्रीविशालमितिख्यातं वर्तुलं वेदिकागलम् ।। ७२ ।।

शीर्षकं चैव कर्तव्यं शेषं पूर्ववदाचरेत् ।
श्रीभोगमिति विख्यातं सर्वदेवार्हकं परम् ।। ७३ ।।

वृत्तायते द्वयाश्र वृताष्टाश्रे च षडश्रके ।
कूटकोष्ठादि सर्वांगं प्रागिवैव प्रकल्पयेत् ।। ७४ ।।

वृषस्थलं मण्टपं च त्यजेत्कर्णं च शीर्षकम् ।
वर्षस्थलविहीनानां कर्णं शीर्षक संयुतम् ।। ७५ ।।

कूटकोष्ठादि सर्वांगाद्युचितं नागरादिकम् ।
नानालंकारसंयुक्तं नानाचित्रैर्विचित्रितम् ।। ७६ ।।

गर्भगेहविशालं च गृहपिण्ड्याग्रमण्टपम् ।
एकभूमि विधानोक्तं द्वितलं तु विशेषतः ।। ७७ ।।

त्रितलं ह्येवमाख्यातं चतुर्भूमिमथोच्यते ।


इत्यंशुमान्काश्यपे त्रितलविधानपटलः (अष्टाविंशः) ।। २८ ।।