← सूक्तं १३.०४ अथर्ववेदः - काण्डं १३
सूक्तं १३.५
ब्रह्मा
सूक्तं १३.०६ →
दे. अध्यात्मम्, रोहितादित्यदैवत्यम्। त्रिष्टुप् (षट् पर्यायेषु द्वितीयः पर्यायसूक्तम्)। - - - - -- -

१३.५
कीर्तिश्च यशश्चाम्भश्च नभश्च ब्राह्मणवर्चसं चान्नं चान्नाद्यं च ॥१४॥
य एतं देवमेकवृतं वेद ॥१५॥
न द्वितीयो न तृतीयश्चतुर्थो नाप्युच्यते ॥१६॥
न पञ्चमो न षष्ठः सप्तमो नाप्युच्यते ॥१७॥
नाष्टमो न नवमो दशमो नाप्युच्यते ॥१८॥
स सर्वस्मै वि पश्यति यच्च प्राणति यच्च न ॥१९॥
तमिदं निगतं सहः स एष एक एकवृदेक एव ॥२०॥
सर्वे अस्मिन् देवा एकवृतो भवन्ति ॥२१॥ {१६}

इति चतुर्थेऽनुवाके द्वितीयं पर्यायसूक्तम्।