अथर्ववेदः/काण्डं २०/सूक्तम् १०२

← सूक्तं २०.१०१ अथर्ववेदः - काण्डं २०
सूक्तं २०.१०२
ऋ. विश्वामित्रः।
सूक्तं २०.१०३ →
दे. अग्निः। गायत्री।

ईलेन्यो नमस्यस्तिरस्तमांसि दर्शतः ।
समग्निरिध्यते वृषा ॥१॥
वृषो अग्निः समिध्यतेऽश्वो न देववाहनः ।
तं हविष्मन्तः ईलते ॥२॥
वृषणं त्वा वयं वृषन् वृषणः समिधीमहि ।
अग्ने दीद्यतं बृहत्॥३॥