← सूक्तं ६.०५२ अथर्ववेदः - काण्डं ६
सूक्तं ६.०५३
बृहच्छुक्रः।
सूक्तं ६.०५४ →
दे. १ द्यौः, पृथिवी, शुक्रः, सोमः, अग्निः, वायुः, सविता, १ भगः, २ वैश्वानरः, ३ त्वष्टा। त्रिष्टुप्, १ जगती।

द्यौश्च म इदं पृथिवी च प्रचेतसौ शुक्रो बृहन् दक्षिणया पिपर्तु ।
अनु स्वधा चिकितां सोमो अग्निर्वायुर्नः पातु सविता भगश्च ॥१॥
पुनः प्राणः पुनरात्मा न ऐतु पुनश्चक्षुः पुनरसुर्न ऐतु ।
वैश्वानरो नो अदब्धस्तनूपा अन्तस्तिष्ठाति दुरितानि विश्वा ॥२॥
सं वर्चसा पयसा सं तनूभिरगन्महि मनसा सं शिवेन ।
त्वष्टा नो अत्र वरीयः कृणोत्वनु नो मार्ष्टु तन्वो यद्विरिष्टम् ॥३॥