← सूक्तं ६.०५३ अथर्ववेदः - काण्डं ६
सूक्तं ६.०५४
ऋषिः - ब्रह्मा
सूक्तं ६.०५५ →
दे. अग्नीषोमौ। अनुष्टुप्

इदं तद्युज उत्तरमिन्द्रं शुम्भाम्यष्टये ।
अस्य क्षत्रं श्रियं महीं वृष्टिरिव वर्धया तृणम् ॥१॥
अस्मै क्षत्रमग्नीषोमावस्मै धारयतं रयिम् ।
इमं राष्ट्रस्याभीवर्गे कृणुतं युज उत्तरम् ॥२॥
सबन्धुश्चासबन्धुश्च यो अस्माँ अभिदासति ।
सर्वं तं रन्धयासि मे यजमानाय सुन्वते ॥३॥