← सूक्तं ६.०५९ अथर्ववेदः - काण्डं ६
सूक्तं ६.०६०
ऋषिः - अथर्वा
सूक्तं ६.०६१ →
दे. अर्यमा। अनुष्टुप्

अयमा यात्यर्यमा पुरस्ताद्विषितस्तुपः ।
अस्या इच्छन्न् अग्रुवै पतिमुत जायामजानये ॥१॥
अश्रमदियमर्यमन्न् अन्यासां समनं यती ।
अङ्गो न्वर्यमन्न् अस्या अन्याः समनमायति ॥२॥
धाता दाधार पृथिवीं धाता द्यामुत सूर्यम् ।
धातास्या अग्रुवै पतिं दधातु प्रतिकाम्यम् ॥३॥