← सूक्तं ६.०६० | अथर्ववेदः - काण्डं ६ सूक्तं ६.०६१ ऋषिः - अथर्वा |
सूक्तं ६.०६२ → |
दे. रुद्रः। १ त्रिष्टुप्, २-३ भुरिक्। |
मह्यमापो मधुमदेरयन्तां मह्यं सूरो अभरज्ज्योतिषे कम् ।
मह्यं देवा उत विश्वे तपोजा मह्यं देवः सविता व्यचो धात्॥१॥
अहं विवेच पृथिवीमुत द्यामहमृतूंरजनयं सप्त साकम् ।
अहं सत्यमनृतं यद्वदाम्यहं दैवीं परि वाचं विशश्च ॥२॥
अहं जजान पृथिवीमुत द्यामहमृतूंरजनयं सप्त सिन्धून् ।
अहं सत्वमनृतं यद्वदामि यो अग्नीषोमावजुषे सखाया ॥३॥