← सूक्तं ६.०६१ अथर्ववेदः - काण्डं ६
सूक्तं ६.०६२
ऋषिः - अथर्वा
सूक्तं ६.०६३ →
दे. रुद्रः, वैश्वानरः, वातः, द्यावापृथिवी। त्रिष्टुप्।

वैश्वानरो रश्मिभिर्नः पुनातु वातः प्राणेनेषिरो नभोभिः ।
द्यावापृथिवी पयसा पयस्वती ऋतावरी यज्ञिये न पुनीताम् ॥१॥
वैश्वानरीं सूनृतामा रभध्वं यस्या आशास्तन्वो वीतपृष्ठाः ।
तया गृणन्तः सधमादेषु वयं स्याम पतयो रयीनाम् ॥२॥
वैश्वानरीं वर्चस आ रभध्वं शुद्धा भवन्तः शुचयः पावकाः ।
इहेडया सधमादं मदन्तो ज्योक्पश्येम सूर्यमुच्चरन्तम् ॥३॥