← सूक्तं ६.०६२ अथर्ववेदः - काण्डं ६
सूक्तं ६.०६३
ऋषिः - द्रुह्वणः।
सूक्तं ६.०६४ →
दे. १ निर्ऋतिः, २ यमः, ३ मृत्युः, ४ अग्निः। १-३ जगती, २ अतिजगतीगर्भा, ४ अनुष्टुप्।

यत्ते देवी निर्ऋतिराबबन्ध दाम ग्रीवास्वविमोक्यं यत्।
तत्ते वि ष्याम्यायुषे वर्चसे बलायादोमदमन्नमद्धि प्रसूतः ॥१॥
नमोऽस्तु ते निर्ऋते तिग्मतेजोऽयस्मयान् वि चृता बन्धपाशान् ।
यमो मह्यं पुनरित्त्वां ददाति तस्मै यमाय नमो अस्तु मृत्यवे ॥२॥
अयस्मये द्रुपदे बेधिष इहाभिहितो मृत्युभिर्ये सहस्रम् ।
यमेन त्वं पितृभिः संविदान उत्तमं नाकमधि रोहयेमम् ॥३॥
संसमिद्युवसे वृषन्न् अग्ने विश्वान्यर्य आ ।
इडस्पदे समिध्यसे स नो वसून्या भर ॥४॥