← सूक्तं ६.०७२ अथर्ववेदः - काण्डं ६
सूक्तं ६.०७३
ऋषिः - अथर्वा।
सूक्तं ६.०७४ →
दे. सांमनस्यम्, वरुणसोमाग्निबृहस्पतिवसवः, ३ वास्तोष्पतिः। १, ३ भुरिक्, २ त्रिष्टुप्।

सांमनस्यम्

एह यातु वरुणः सोमो अग्निर्बृहस्पतिर्वसुभिरेह यातु ।
अस्य श्रियमुपसंयात सर्व उग्रस्य चेत्तुः संमनसः सजाताः ॥१॥
यो वः शुष्मो हृदयेष्वन्तराकूतिर्या वो मनसि प्रविष्टा ।
तान्त्सीवयामि हविषा घृतेन मयि सजाता रमतिर्वो अस्तु ॥२॥
इहैव स्त माप याताध्यस्मत्पूषा परस्तादपथं वः कृणोतु ।
वास्तोष्पतिरनु वो जोहवीतु मयि सजाता रमतिः वो अस्तु ॥३॥