← सूक्तं ६.१०० अथर्ववेदः - काण्डं ६
सूक्तं ६.१०१
ऋषिः - अथर्वाङ्गिराः।
सूक्तं ६.१०२ →
दे. ब्रह्मणस्पतिः। अनुष्टुप्

आ वृषायस्व श्वसिहि वर्धस्व प्रथयस्व च ।
यथाङ्गं वर्धतां शेपस्तेन योषितमिज्जहि ॥१॥
येन कृषं वाजयन्ति येन हिन्वन्त्यातुरम् ।
तेनास्य ब्रह्मणस्पते धनुरिवा तानया पसः ॥२॥
आहं तनोमि ते पसो अधि ज्यामिव धन्वनि ।
क्रमस्व ऋष इव रोहितमनवग्लायता सदा ॥३॥