← सूक्तं ६.१०१ अथर्ववेदः - काण्डं ६
सूक्तं ६.१०२
ऋषिः - जमदग्निः।
सूक्तं ६.१०३ →
दे. अश्विनौ। अनुष्टुप्

यथायं वाहो अश्विना समैति सं च वर्तते ।
एवा मामभि ते मनः समैतु सं च वर्तताम् ॥१॥
आहं खिदामि ते मनो राजाश्वः पृष्ट्यामिव ।
रेष्मछिन्नं यथा तृणं मयि ते वेष्टतां मनः ॥२॥
आञ्जनस्य मदुघस्य कुष्ठस्य नलदस्य च ।
तुरो भगस्य हस्ताभ्यामनुरोधनमुद्भरे ॥३॥