← सूक्तं ६.१०२ अथर्ववेदः - काण्डं ६
सूक्तं ६.१०३
ऋषिः - उच्छोचनः।
सूक्तं ६.१०४ →
दे. इन्द्राग्नी, १ बृहस्पतिः, सविता, मित्रोः, अर्यमा, भगः, अश्विनौ, २-३ इन्द्रः,अग्निः। अनुष्टुप्

संदानं वो बृहस्पतिः संदानं सविता करत्।
संदानं मित्रो अर्यमा संदानं भगो अश्विना ॥१॥
सं परमान्त्समवमान् अथो सं द्यामि मध्यमान् ।
इन्द्रस्तान् पर्यहार्दाम्ना तान् अग्ने सं द्या त्वम् ॥२॥
अमी ये युधमायन्ति केतून् कृत्वानीकशः ।
इन्द्रस्तान् पर्यहार्दाम्न तान् अग्ने सं द्या त्वम् ॥३॥