← सूक्तं ६.१०३ अथर्ववेदः - काण्डं ६
सूक्तं ६.१०४
ऋषिः -प्रशोचनः।
सूक्तं ६.१०५ →
दे. इन्द्राग्नी, ३ इन्द्राग्नी, सोम इन्द्रश्च। अनुष्टुप्।

आदानेन संदानेनामित्रान् आ द्यामसि ।
अपाना ये चैषां प्राणा असुनासून्त्समछिदन् ॥१॥
इदमादानमकरं तपसेन्द्रेण संशितम् ।
अमित्रा येऽत्र नः सन्ति तान् अग्न आ द्या त्वम् ॥२॥
ऐनान् द्यतामिन्द्राग्नी सोमो राजा च मेदिनौ ।
इन्द्रो मरुत्वान् आदानममित्रेभ्यः कृणोतु नः ॥३॥