बृहत्पाराशरहोराशास्त्रम्/अध्यायः ५१ (अथाऽन्तर्दशाध्यायः)

← अध्यायः ५० ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्
अध्यायः ५२ →


 
अथाऽन्तर्दशाध्यायः ||५१||

दशाब्दाः स्वस्वमानघ्नाः सर्वायुर्योगभाजिताः |
पृथगन्तर्दशा एवं प्रत्यन्तरदशादिकाः ||१||

आदावन्तर्दशा पाकपतेस्तत्क्रमतोऽपराः |
एवं प्रत्यन्तरादौ च क्रमो ज्ञेयो विचक्षणैः ||२||

भुक्तिर्नवानां तुल्या स्याद् विभाज्या नवधा दशा |
आदौ दशापतेर्भुक्तिस्तत्केन्द्रादियुजां ततः ||३||

विद्यात् क्रमेण भुक्त्यंशानेवं सूक्ष्मदशादिकम् |
बलक्रमात् फलं विज्ञैर्वक्तव्यं पूर्वरीतितः ||४||

कृत्वाऽर्कधा राशिदशां राशेर्भुक्तिं क्रमाद् वदेत् |
प्रत्यन्तर्दशाद्येवं कृत्वा तत्तत्फलं वदेत् ||५||

आद्यसप्तमयोर्मध्ये यो राशिर्बलवांस्ततः |
ओजे दशाश्रये गण्याः क्रमादुत्क्रमतः समे ||६||

अत्राऽपरो विशेषोऽस्ति ब्रवीमि तमहं द्विज |
चरेऽनुज्झितमार्गः स्यात् षष्ठषष्ठादिकाः स्थिरे ||७||

उभये कण्टकाज् ज्ञेया लग्नपञ्चमभाग्यतः |
चरस्थिरद्विस्वभावेष्वोजेषुः प्राक् क्रमो मतः ||८||

तेष्वेव त्रिषु युग्मेषु ग्राह्यं व्युत्क्रमतोऽखिलम् |
एवमुल्लिखितो राशि पाकराशिरुदीर्युते ||९||

स एव भोगराशिः स्यात् पर्याये प्रथमे स्मृतः |
आद्याद् यावतिथः पाकः पर्याये यत्र दृश्यते ||१०||

तस्मात् तावतिथो भोगः पर्याये तत्र गृह्यताम् |
तदिदं चरपर्यायस्थिरपर्याययोर्द्वयोः ||११||

त्रिकोणाख्यदशायां च पाकभोगप्रकल्पनम् |
पाके भोगे च पापाढ्ये देपपीडा नमोव्यथा ||१२||

पिण्डत्रिकदशायां तु ब्रविम्यन्तर्दशाविधिम् |
पूर्ण दशापतिर्दद्यात् तदर्धं तेन संयुतः ||१३||

त्रिकोणगस्तृतीयांशं तुर्यांशश्चतुरस्रगः |
स्मरगः सप्तमं भागं बहुष्वेको बली ग्रहः ||१४||

एवं सलग्नकाः खेटाः पाचयन्ति मिथः स्थिताः |
समच्छेदीकृताः प्राप्ता अंसाश्छेदविवर्जिताः ||१५||

दशाब्दाः पृथगंशघ्ना अंशयोगविभाजिताः |
अन्तर्दशा भवन्त्येवं तत्प्रत्यन्तर्दशादिकाः ||१६||

-