बृहत्पाराशरहोराशास्त्रम्/अध्यायः ५२ (विंशोत्तरीमतेन सूर्यदशान्तर्दशाफलाध्यायः)

← अध्यायः ५१ ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्
अध्यायः ५३ →



 
 अथ विंशोत्तरीमतेन सूर्यदशान्तर्दशाफलाध्यायः ||५२||

स्वोच्चे स्व्भे स्थितः सूर्यो लाभे केन्द्रे त्रिकोणके |
स्वदशायां स्वभुक्तौ च धनधान्यादिलाभकृत् ||१||

नीचाद्यशुभराशिस्थो विपरीतं फलं दिशेत् |
द्वितीयद्यूननाथेऽर्के त्वपमृत्युभयं वदेत् ||२||

तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् |
सूर्यप्रीतिकरीं शान्तिं कुर्यादारोग्यलब्धये ||३||

सूर्यस्याऽन्तर्गते चन्द्रे लग्नात्केन्द्रत्रिकोणगे |
विवाहं शुभकार्यं च धनधान्यसमृद्धिकृत् ||४||

गृहक्षेत्राभिवृद्धिं च पशुवाहनसम्पदाम् |
तुङ्गे वा स्वर्क्षगे वाऽपि दारसौख्यं धनागमम् ||५||

पुत्रलाभसुखं चैव सौख्यं राजसमागमम् |
महाराजप्रसादेन इष्टसिद्धिसुखवाहम् ||६||

क्षीणे वा पापसंयुक्ते दारपुत्रादिपोडनम् |
वैषम्यं जनसंवादं भृत्यवर्गविनाशनम् ||७||

विरोधं राजकलहं धनधान्यपशुक्षयम् |
षष्ठाष्टमव्यये चन्द्रे जलभीतिं मनोरुजम् ||८||

बन्धनं रोगपीडां च स्थानविच्युतिकारकम् |
दुःस्थानं चापि चित्तेन दायादजनविग्रहम् ||९||

निर्दिशेत् कुत्सितान्नं च चौरादिनृपपीडनम् |
मूत्रकृच्छादिरोगश्च देहपीडा तथा भवेत् ||१०||

दायेशाल्लभभाग्ये च केन्द्रे वा शुभसंयुते |
भोगभाग्यादिसन्तोषदारपुत्रादिवर्द्धनम् ||११||

राज्यप्राप्तिं महत्सौख्यं स्थानप्राप्तिं च शाश्वर्ताम् |
विविआहं यज्ञदीक्षां च सुमाल्यामबरभूषणम् ||१२||

वाहनं पुत्रपौत्रादि लभते सुखवर्द्धनम् |
दायेशाद्रिपुरन्ध्रस्थे व्यये वा बलवर्जिते ||१३||

अकाले भोजनं चैव देशाद्देशं गमिष्यति |
द्वितीयद्यूननाथे च ह्यपमृत्युर्भविष्यति |
श्वेतां गां महिषीं गद्याच्छान्ति कुर्यात्सुखाप्तये ||१४||

सूर्यस्यान्तर्गते भौमे स्वोच्चे स्वक्षेत्रलाभगे |
लग्नात्केन्द्रत्रिकोणे वा शुभकार्यं समादिशेत् ||१५||

भूलाभं कृषिलाभं च धनधान्यविवर्धनम् |
गृहक्षेत्रादि लाभं च रक्तवस्त्रादिलाभकृत् ||१६||

लग्नाधिपेन संयुक्ते सौख्यं राजप्रियं वदेत् |
भाग्यलाभाधिपैर्युक्ते लाभश्चैव भविष्यति ||१७||

बहुसेनाधिपत्यं च शत्रुनाशं मनोदृढम् |
आत्मबन्धुसुखम् चैव भ्रातृवर्द्धनकं तथा ||१८||

दायेशाद्व्ययरन्ध्रस्थे पापैर्युक्ते च वीक्षिते |
आधिपत्यबलैर्हीने क्रूरबुद्धिं मनोरुजम् ||१९||

कारागृहे प्रवेशं च कथयेद् बन्धुनाशनम् |
भ्राऋवगविरोधं च कर्मनाशमथापि वा ||२०||

नीचे वा दुर्बले भौमे राजमूलाद्धनक्षयः |
द्वितीयद्यूननाथे तु देहे जाड्यं मनोरुजम् ||२१||

सुब्रह्मजपदानं च वृषोत्सर्गं तथैव च |
शान्तिं कुर्वीत विद्यिवदायुरारोग्यसिद्धिदाम् ||२२||

सूर्यस्यान्तर्गते राहौ लग्नात्केन्द्रत्रिकोणगे |
आदौ द्विमासपर्यन्तं धननाशो महद्भयम् ||२३||

चौरादिव्रणभीतिश्च दारपुत्रादिपीडनम् |
तत्परं सुखमाप्नोति शुभयुक्ते शुभांशके ||२४||

देहारोग्यं मनस्तुष्टि राजप्रीतिकरं सुखम् |
लग्नादुपचये राहौ योगकारकसंयुते ||२५||

दायेशाच्छुभराशिस्थे राजसन्मानमादिशेत् |
भाग्यवृद्धिं यशोलाभं दारपुत्रादिपीडनम् ||२६||

पुत्रोत्सवादिसन्तोषं गृहे कल्याणशोभनं |
दायेशादथ रिष्फस्थे रन्ध्रे वा बलवर्जिते ||२७||

बन्धनं स्थाननाशश्च कारागृहनिवेशनम् |
चौरादिव्रणभीतिश्च दारपुत्रादिवर्द्धनम् ||२८||

चतुष्पाज्जीवनाशश्च गृहक्षेत्रादिनाशनं |
गुल्मक्षयादिरोगश्च ह्यतिसारादिपीडनं ||२९||

द्विस्फस्थे तथा राहौ तत्स्थानाधिपसंयुते |
अपमृत्युभयं चैव सर्पभीतिश्च सम्भवेत् ||३०||

दुर्गाजपं च कुर्वीत् छागदानं समाचरेत् |
कृष्णां गां महिषीं दद्यच्छान्तिमाप्नोत्यसंशयम् ||३१||

सूर्यस्यान्तर्गते जीवे लग्नात्केन्द्रत्रिकोणगे |
स्वोच्चे मित्रस्य वर्गस्थे विवाहं राजदर्शनम् ||३२||

धनधान्यादिलाभ च पुत्रलाभं महत्सुखं |
महाराजप्रसादेन इष्टकार्यार्थलाभकृत् ||३३||

ब्राह्मण्प्रियसन्मानं प्रियवस्त्रादिलाभकृत् |
भाग्यकर्माधिपवशाद्राज्यलाभं वदेद् द्विज ||३४||

नरवाहनयोगश्च स्थानाधिक्यं महत्सुखम् |
दायेशाच्छुभराशिस्थे भाग्यवृद्धिः सुखावहा ||३५||

दीनधर्मक्रियायुक्तो देवताराधनप्रियः |
गुरुभक्तिर्मनःसिद्धिः पुण्युकर्मादिसंग्रहः ||३६||

राशेशाद्रिपुरन्ध्रस्थे नीचे वा पापसंयुते |
दारपुत्रादिपीडा च देहपीडा महद्भयम् ||३७||

राजकोपं प्रकुरुतेऽभीष्टवस्तुविनाश्नम् |
पापमूलद्द्रव्यनाशं देहभ्रष्टं मनोरुजम् ||३८||

स्वर्णदानं प्रकुर्वीत स्वेष्टजाप्यं च कारयेत् |
गवां कपिलवर्णानां दानेनारोग्यमादिशेत् ||३९||

सूर्यस्यान्तर्गते मन्दे लग्नात्केन्द्रत्रिकोणगे |
शत्रुनाशो महत्सौख्यं स्वल्पधान्यार्थलाभकृत् ||४०||

विवाहादिसुकार्यञ्च गृहे तस्य शुभावहम् |
स्वोच्चे स्वक्षेत्रगे मन्दे सुहृद्ग्रहसमन्विते ||४१||

गृहे कल्याणसम्पत्तिर्विवाहादिषु सत्क्रिया |
राजसन्मानकीर्तिश्च नानावस्त्रधनागमम् ||४२||

दायेशादथ रन्ध्रस्थे व्यये वा पापसंयुते |
वातशूलमहाव्याधिज्वरातीसारपीडनम् ||४३||

बन्धनं कार्यहानिश्च वित्तनाशो महद्भयम् |
अकश्मात्कलहश्चैव दायादजनविग्रहः ||४४||

भुक्त्यादौ मित्रहानिःस्यान्मध्ये किञ्चित्सुखावहम् |
अन्ते क्लेशकरं चैव नीचे तेषां तथैव च ||४५||

पितृमातृवियोगश्च गमनागममं तथा |
द्वितीयद्यूननाथे तु अपमृत्युभयं भवेत् ||४६||

कृष्णां गां महिषीं दद्यान्मृत्युञ्जयजपं चरेत् |
छागदानं प्रकुर्वीत सर्वसम्पत्प्रदायकम् ||४७||

सूर्यास्यान्तर्गते सौम्ये स्वोच्चे वा स्वर्क्षगेऽपि वा |
केन्द्रत्रिकोणलाभस्थे बुधे वर्गबलैर्युते ||४८||

राज्यलाभो महोत्साहो दारपुत्रादिसौख्यकृत् |
महारजप्रसादेन वाहनाम्बरभूषणं ||४९||

पुण्यतीर्थफलावाप्तिर्गृहे गोधनसंकुलम् |
भाग्यलाभाधिपैर्युक्ते लाभवृद्धिकोरो भवेत् ||५०||

भाग्यपंचमकर्मस्थे सन्मानो भवति ध्रुवम् |
सुकर्मधर्मबुद्धिश्च गुरुदेवद्विजार्जनम् ||५१||

धनधान्यादिसंयुक्तो विवाहः पुत्रसम्भवः |
दायेशाच्छुभराशिस्थे सौम्ययुक्ते महत्सुखम् ||५२||

वैवाहिकं यज्ञकर्म दानधर्मजपादिकम् |
स्वनामाङ्कितपद्यानि नामद्वयमथाऽपि वा ||५३||

भोजनाम्बरभूषाप्तिरमरेशो भवेन्नरः |
दायेशाद्रिपुरन्ध्रस्थे रिष्फगे नीचगेऽपि वा ||५४||

देहपीडा मनस्तापो दारपुत्रादिपीडनम् |
भुक्त्यादौ दुःखमाप्नोति मध्ये किञ्चित्सुखावहम् ||५५||

अन्ते तु राजभीतिश्च गमनागमनं तथा |
द्वितीये द्यूननाथे तु देहजाड्यं ज्वरादिकम् ||५६||

विष्णुनामसहस्रं च ह्यन्नदानं च कारयेत् |
रजतप्रतिमादानं कुर्यादारोग्यसिद्धये ||५७||

सूर्यस्यान्तर्गते केतौ देहपीडा मनोव्यथा |
अर्थव्ययं राजकोपं स्वजनादेरुपद्रवम् ||५८||

लग्नाधिपेन संयुक्ते आदौ सौख्यं धनागमम् |
मध्ये तत्क्लेशमाप्नोति मृतवार्तागमं वदेत् ||५९||

अथाष्टमव्यये चैवं दायेशात्पापसंयुते |
कपोलदन्तरोगश्च मूत्रकृर्च्छस्य सम्भवः ||६०||

स्थानविच्युतिरर्थस्य मित्रहानिः पितुर्मृतिः |
विदेशगमनं चैव शत्रुपीडा महद्भयम् ||६१||

लग्नादुपचये केतौ योगकारकसंयुते |
शुभांशे शुभवर्गे च शुभकर्मफलोदयः ||६२||

पुत्रदारादिसौख्यं च सन्तोषं प्रियवर्द्धनम् |
विचित्रवस्त्रलाभश्च यशोवृद्धिः सुखावहा ||६३||

द्वितीयाद्यूननाथे वा ह्यपमृत्युभयं वदेत् |
दुर्गाजपं च कुर्वीत छागदानं सुखाप्तये ||६४||

सूर्यस्यान्तर्गते शुक्रे त्रिकोणे केन्द्रगेऽपि वा |
स्वोच्चे मित्रस्ववर्गस्थेऽभीष्टस्त्रीभोग्यसम्पदः ||६५||

ग्रामान्तरप्रयाणं च भाह्मणप्रभुदर्शनम् |
राज्यलाभो महोत्साहश्छत्रचामरवैभवम् ||६६||

गृहे कल्याणसम्पत्तिर्नित्यं मिष्ठान्नभोजनम् |
विद्रुमादिरत्नलाभो मुक्तावस्त्रादि लाभकृत् ||६७||

चतुष्पाज्जीवलाभः स्याद्बहुधान्यधनादिकम् |
उत्साहः कीर्तिसम्पत्तिर्नरवाहनसम्पदः ||६८||

षष्ठाष्टमव्यये शुक्रे दायेशाद्बलवर्जिते |
राजकोपो मनःक्लेशः पुत्रस्त्रीधननाशनम् ||६९||

भुक्त्यादौ मध्यमं मध्ये लाभः शुभकरो भवेत् |
अन्ते यशोनाशनं च स्थानभ्रंशमथापि वा ||७०||

बन्धुद्वेषं वदेद् वापि स्वकुलाद्भोगनाशनम् |
भार्गवे द्यूननाथे तु देहे जाड्यं रुजोभयम् ||७१||

रन्ध्ररिष्फसमायुक्ते ह्यपमृत्युर्भविष्यति |
तद्दोषपरिहारार्थं मृत्युर्जयजपं चरेत् ||७२||

श्वेतां गां महिषीं दद्याद्रुद्रजाप्यं च कारयेत् |
ततः शान्तिभवाप्नोति शङ्करस्य प्रसादतः ||७३||

-