बृहत्पाराशरहोराशास्त्रम्/अध्यायः ७६ (पंचमहाभूतफलाध्यायः)

← अध्यायः ७५ ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्
अध्यायः ७७ →

अथ पंचमहाभूतफलाध्यायः ॥ ७६॥


अथ पञ्चमहाभूतच्छायाज्ञानं वदामि ते ।
ज्ञायते येन खेटानां वर्तमानदशा बुधैः ॥ १॥

शिखिभूखाम्बुवातानामधिपा मङ्गलादयः ।
तत्तद्बलावशाज्ज्ञेयं तत्तद्भूतभवं फलम् ॥ २॥

सबले मङ्गले वह्निस्वभावो जायते नरः ।
बुधे महीस्वभावः स्यादाकाशप्रकृतिर्गुरौ ॥ ३॥

शुक्रे जलस्वभावश्च मारुतप्रकृतिः शनौ ।
मिश्रैर्मिश्रस्वभावश्च विज्ञेयो द्विजसत्तम ॥ ४॥

सूर्ये वह्निस्वभावश्च जलप्रकृतिको विधौ ।
स्वदशायां ग्रहाश्छायां व्यंजयन्ति स्वभूतजाम् ॥ ५॥

क्षुधार्तश्चपलः शूरः कृशः प्राज्ञोऽतिभक्षणः ।
तीक्ष्नो गौरतनुर्मानी वह्निप्रकृतिको नरः ॥ ६॥

कर्पूरोत्पलफ़न्धाढ्यो भोगी स्थिरसुखी बली ।
क्षमावान् सिंहनादश्च महीप्रकृतिको नरः ॥ ७॥

शब्दार्थवित् सुनीतिज्ञो प्रगल्भो ज्ञानसंयुतः ।
विवृतास्योऽतिदीर्घश्च व्योमप्रकृतिसम्भवः ॥ ८॥

कान्तिमान् भारवाही च प्रियवाक् पृथिवीपतिः ।
बहुमित्रा मृदुर्विद्वान् जलप्रकृतिसम्भवः ॥ ९॥

वायुतत्त्वाधिको दाता क्रोधी गौरोऽटनप्रियः ।
भूपतिश्च दुराधर्षः कृशाङ्गो जायते जनः ॥ १०॥

स्वर्णदीप्तिः शुभा दृष्टिः सर्वकार्यार्थसिद्धिता ।
विजयो धनलाभश्च वह्निभायां प्रजायते ॥ ११॥

इष्टगन्धः शरीरे स्यात् सुस्निग्धनखदन्तता ।
धर्मार्थसुखलाभश्च भूमिच्छाया यदा भवेत् ॥ १२॥

स्वच्चा गगनजा छाया वाक्पटुत्वप्रदा भवेत् ।
सुशब्दश्रवणोद्भूतं सुखं तत्र प्रजायते ॥ १३॥

मृदुता स्वस्थता देहे जलच्छाया यदा भवेत् ।
तदाऽभिष्टरसस्वादसुखं भवति देहिनः ॥ १४॥

मालिन्यं मूढता दैत्यं रोगश्च पवनोद्भवाः ।
तदा च शोकसन्तापौ वायुच्छाया यदा भवेत् ॥ १५॥

एवं फलं बुधैर्ज्ञेयं सबलेषु कुजादिषु ।
निर्बलेषु तथा तेषु वक्तव्यं व्यत्ययाद् द्विज ॥ १६॥

नीचशत्रुभगैश्चापि विपरीतं फलं वदेत् ।
फलाप्तिरबलैः खेटैः स्वप्नचिन्तासु जायते ॥ १७॥

तद्दुष्टफलशान्त्यर्थमपि चाज्ञातजन्मनाम् ।
फलपक्त्या दशा ज्ञेया वर्तमाना नभःसदाम् ॥ १८॥