बृहत्पाराशरहोराशास्त्रम्/अध्यायः ७७ (सत्त्वादिगुणफलाध्यायः)

← अध्यायः ७६ ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्
अध्यायः ७८ →

अथ सत्त्वादिगुणफलाध्यायः ॥ ७७॥


अथो गुणवशेनाहं कथयामि फलं द्विज ।
सत्त्वग्रहोदये जातो भवेत्सत्त्वाधिकः सुधीः ॥ १॥

रजःखेटोदये विज्ञो रजोगुणसमन्वितः ।
तमःखेटोदये मूर्खो भवेज्जातस्तमोऽधिकः ॥ २॥

गुणसाम्ययुतो जातो गुणसाम्यखगोदये ।
एवं चतुर्विधा विप्र जायन्तो जन्तवो भुवि ॥ ३॥

उत्तमो मध्यमो नीच उदासीन इति क्रमात् ।
तेषां गुणानहं वक्ष्ये नारदारिप्रभाषितान् ॥ ४॥

शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च ।
अलोभः सत्यवादित्वं जने सत्त्वाधिके गुणाः ॥ ५॥

शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाऽप्यपलायनम् ।
साधूनां रक्षणं चेति गुणा ज्ञेया रजोऽधिके ॥ ६॥

लोभश्चासत्यवादित्वं जाड्यमालस्यमेव च ।
सेवाकर्मपटुत्वंच गुणा एते तमोऽधिके ॥ ७॥

कृषिकर्मणि वाणिज्ये पटुत्वं पशुपालने ।
सत्यासत्यप्रभाषित्वं गुणसाम्ये गुणा इमे ॥ ८॥

गतैश्च लक्षणैर्लक्ष्य उत्तमो मध्यमोऽधमः ।
उदासीनश्च विप्रेन्द तं तत्कर्मणि योजयेत् ॥ ९॥

द्वाभ्यामेकोऽधिको यश्च तस्याधिक्यं निगद्यते ।
अन्यथा गुणसाम्यं च विज्ञेयं द्विजसत्तम ॥ १०॥

सेव्यसेवकयोरेवं कन्यकावरयोरपि ।
गुणैः सदृशयोरेव प्रीतिर्भवति निश्चला ॥ ११॥

उदासीनोऽधमस्यैवमुदासीनस्य मध्यमः ।
मध्यमस्योत्तमो विप्र प्रभवत्याश्रयो मुदे ॥ १२॥

अतोऽवरा वरात् कन्य सेव्यतः सेवकोऽवरः ।
गुणैस्ततः सुखोत्पत्तिरन्यथा हानिरेव हि ॥ १३॥

वीर्यं क्षेत्रं प्रसूतेश्च समयः सङ्गतिस्तथा ।
उत्तमादिगुणे हेतुर्बलवानुत्तरोत्तरम् ॥ १४॥

अतः प्रसूतिकालस्य सदृशो जातके गुणः ।
जायते तं परीक्ष्यैव फलं वाच्यं विचक्षणैः ॥ १५॥

कालः सृजति भूतनि पात्यथो संहरत्यपि ।
इश्वरः सर्वलोकानामव्ययो भगवान् विभु ॥ १६॥

तच्छक्तिः प्रकृतिः प्रोक्ता मुनिभिस्त्रिगुणात्मिका ।
तथा विभक्तोऽव्यक्तोऽपि व्यक्तो भवति देहिनाम् ॥ १७॥

चतुर्धाऽवयवास्तस्य स्वगुणैश्च चतुर्विधः ।
जायन्ते ह्युत्तमो मध्ये उदासीनोऽधमः क्रमात् ॥ १८॥

उत्तमे तूत्तमो जन्तुर्मध्येऽङ्गे च मध्यमः ।
उदासीने ह्यदासीनो जायते चाऽधमेऽधमः ॥ १९॥

उत्तमाङ्गं शरिस्तस्य मध्यमाङ्गमुरःस्थलम् ।
जंघाद्वयौदासीनमधमं पदमुच्यते ॥ २०॥

एवं गुणवशादेव कालभेदः प्रजायते ।
जातिभेदस्तु तद्भेदाज्जायतेऽत्र चराचरे ॥ २१॥

एवं भगवता सृष्टं विभुना स्वगुणैः समम् ।
चतुर्विधेन कालेन जगदेतच्चतुर्विधम् ॥ २२॥