बृहत्पाराशरहोराशास्त्रम्/अध्यायः ८५ (अथऽशुभजन्मकथनाध्यायः)

← अध्यायः ८४ ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्
अध्यायः ८६ →

अथऽशुभजन्मकथनाध्यायः ॥ ८५॥


अथाऽन्यत् संप्रवक्ष्यामि सुलग्ने सुग्रहेष्वपि ।
यदन्यकारणेनापि भवेज्जन्माऽशुभप्रदम् ॥ १॥

दर्शे कृष्णाचतुर्दश्यां विष्ट्यां सोदरभे तथा ।
पितृभे सूर्यसंक्रान्तौ पातेऽर्केन्दुग्रहे तथा ॥ २॥

व्यतीपातादिदुर्योगे गण्डान्ते त्रिविधेऽपि वा ।
यमघण्टेऽवभे दग्धयोगे त्रीतरजन्म च ॥ ३॥

प्रसवस्य त्रिकारेऽपि ज्ञेयं जन्माऽशुभप्रदम् ।
शान्त्या भवति कल्याणं तदुपायं च वच्म्यहम् ॥ ४॥