बृहत्पाराशरहोराशास्त्रम्/अध्यायः ८६ (दर्शजन्मशान्त्यध्यायः)

← अध्यायः ८५ ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्
अध्यायः ८७ →

अथ दर्शजन्मशान्त्यध्यायः ॥ ८६॥


मैत्रेय दर्शजातानां मातापित्रोर्दरिद्रता ।
तद्दोषपरिहाराय शान्तिं कुर्याद् विचक्षणः ॥ १॥

कलशस्थापनं कृत्वा प्रथमं विधिपूर्वकम् ।
उदुम्बरटाश्वत्थचूतानां पल्लवांस्तथा ॥ २॥

सनिम्बानां च मूलनि त्वचस्तत्र विनिक्षिपेत् ।
पंचरत्नानि निक्षिप्य वस्त्रयुग्मेन चेष्टयेत् ॥ ३॥

सर्वे समुद्र इति चाऽपोहिष्ठादित्र्यृचेन च ।
आमन्त्र्य कलशे तच्च स्थापयेद् वह्निकोणके ॥ ४॥

दर्शस्य देवयोश्चाऽथ चन्द्रभास्करयोः क्रमात् ।
प्रतिमां स्वर्णजां नित्यं राजतीं ताम्रजां तथा ॥ ५॥

आप्यायस्वेति मन्त्रेनऽ सविता पश्चात्तमेव च ।
उपचारैः समाराध्य ततो होमं समाचरेत् ॥ ६॥

समिधश्च चरुं विद्वान् क्रमेण जुहुयात् व्रती ।
भक्त्या सवितृमन्त्रेण सोमो धेनुश्च मन्त्रतः ॥ ७॥

अष्टोत्तरशतं वापि अष्टविंशतिरेव वा ।
अभिषेकं तथा कुर्यात् दम्पत्योश्च सुपुत्रयोः ॥ ८॥

हिरण्यं रजतं चैव कृष्णधेनुश्च दक्षिणा ।
ब्राह्मणान् भोजयेत् शक्त्या ततः क्षेममवाप्नुयात् ॥ ९॥