अलङ्कारमणिहारः (भागः ३)/लेशालङ्कारः (७५)


भवद्भवनदेहळीविकटतण्डुदण्डाहति-
स्फुटन्मकुटकोटिभिर्मघवदादिभिर्भूयते ॥

 इति तदुदाहृते पद्ये तिरस्कारस्य स्फुरणानापत्तेः" इत्यभाणीत् ॥

इत्यलंकारमणिहारे तिरस्कारसरश्चतुस्सप्ततितमः.


अथ लेशालंकारसरः (७५)


गुणो दोषतया दोषो गुणत्वेनाथवा यदि ।
वर्ण्यते तमलंकारं लेशमाहुर्मनीषिणः ॥

 यत्र गुणोऽनिष्टसाधनतया दोषत्वेन, दोषश्चेष्टसाधनतया गुणत्वेन वर्ण्यते स लेशो नामालंकारः ॥

 यथा--

 भूयस्सु समुल्लासिषु भूभृत्सु धरातले निरातङ्कम् । हरिधृतिफलमिदमहिधर तव यत्सर्वे शिरोऽधिरोहन्ति ॥ १७३० ॥

 अत्र प्रथमार्धे शैलान्तराणां भगवद्धारणाभावदोषस्य निरातङ्कोल्लासानुकूलतया गुणत्वं कल्पितम् । द्वितीयार्धे श्रीनिवासधारणगुणस्य सर्वजनकर्तृकशिरोधिरोहणकारणतया दोषत्वं कल्पितम् । अयं च निर्गुणेषु भूयस्सु भूपालेषु सुखवत्तयाऽवस्थितेषु निरतिशयौदार्यादिसुगुणशालिनो राज्ञः अर्थिजनकर्तृकसंमर्दादिक्लेशो भविष्यतीत्यप्रस्तुतव्यवहारपरिस्फूर्तिरूपसमासोक्त्यास्तुत्या

निन्दाभिव्यक्तिरूपया निन्दया स्तुत्यभिव्यक्तिरूपया व्याजस्तुत्या च पूर्वोत्तरार्धगतया संकीर्यते ॥

 असहनमेव ज्यायस्सहिष्णुतावैभवं धिगस्तु रमे । सुखिनोऽन्ये तव तु सखी सर्वैस्सर्वंसहेत्यधः क्रियते ॥ १७३१ ॥

 अत्रापि दोषगुणयोगुर्णदोषत्वेन वर्णनं, अर्थान्तरन्यासपरिष्कृतत्वं तु विशेषः ॥

 यथावा--

 सर्वगुणानां निधिरिति गर्वं मा गाः पयोनिधेस्तनये । यैरेव स्वजनयितुस्स्वच्छतमस्यापि मथनहेतुरभूः ॥ १७३२ ॥

 अत्र गुणस्य दोषत्वेन वर्णनं शुद्धम् । न चायमलंकारः व्याजस्तुत्या उभयरूपया गतार्थ इति शङ्क्यं, मुखप्रतिपादितार्थवैपरीत्येनात्र सर्वत्र पर्यवसानविरहात् । न हि 'सर्वगुणानां निधिः' इत्यस्मिन् पद्ये दारिद्र्यात् खिन्नस्य कस्यचिल्लक्ष्मीगुणोपालम्भरूपे श्रियस्स्तुतौ तस्य तात्पर्यम् । अपितु स्वजनकमथनहेतुत्वेन निन्दायामेव । एवं 'असहनमेव ज्यायः' इति श्लोके भूमीतरेषां निन्दा न विवक्षिता किंतु सुखावस्थानं, सर्वंसहाखेददर्शनदुःखितस्य वाक्येऽस्मिन् तदन्येषां निन्दाया अवक्तव्यत्वात् । प्रत्युतस्तुतेरेव वक्तुमुचितत्वात् । 'भूयस्सु समुल्लासिषु' इति श्लोकेव्याजस्तुतिरस्तिचेदस्तु नाम, तस्यास्सावकाशत्वेन एतद्बाधनायोगात् ॥

 प्रियतम एव भवत्यास्त्रिभुवनभिक्षौ स्थिते कुचेलसखे । सर्वजगद्दुर्विधतानिर्वापणतोऽम्ब गर्विताऽसि कथम् ॥ १७३३ ॥

 अत्र पर्यन्ते प्रतीयमानस्य भगवदतिरिक्तसकलजगद्दारिद्र्यनिर्वापणरूपस्य गुणस्य दोषत्वेनावर्णनात् दोषत्वेन वर्णयमानस्य भगवतस्त्रैलोक्यभिक्षुत्वकुचेलसखत्वानिराकरणदोषस्य गुणत्वेनाकल्पनाद्गुणदोषयोर्भिन्नविषयतयाऽवस्थानेन लेशस्पर्शलेशरहिता व्याजस्तुतिरिति व्यक्तमेव सावकाशत्वम् । अतएव लेशोऽपि न व्याजस्तुतेर्बाधक इति प्रागुदाहृते ‘भूयस्सु समुल्लासिषु’ इति पद्ये द्वयोरपि समावेश इत्यवधातव्यम् ॥

इत्यलंकारमणिहारे लेशसरः पञ्चसप्ततितमः.



अथ मुद्रालंकारसरः (७६)


 प्रकृतार्थपरैश्शब्दैर्मुद्रा सूच्यार्थसूचनम् ।

 विवक्षितार्थप्रतिपादनपरैश्शब्दैस्सूचनीयस्यार्थस्य सूचनं मुद्रालंकारः । अयमपि दीक्षितोपज्ञमेव । प्रकृतार्थपरेण पदेन तदेकदेशेन वा पदसमुदायेन पदैकदेशसमुदायेन वा तदुभयसमुदायेन वा याथाकथंचित् ज्ञापनीयार्थविशेषस्य ज्ञापनं मुद्रेति निर्गळितोऽर्थः । पदैकदेशस्तु प्रकृते अर्थवान्वा निरर्थकोवाऽस्तु । सूच्यार्थश्च प्रकृतोऽप्रकृतोवाऽस्तु । न तत्राभिनिवेष्टव्यम् ॥