अष्टाध्यायी १
पाणिनि
द्वितीयः अध्यायः →
  1. अष्टाध्यायी १
  2. अष्टाध्यायी २
  3. अष्टाध्यायी ३
  4. अष्टाध्यायी ४
  5. अष्टाध्यायी ५
  6. अष्टाध्यायी ६
  7. अष्टाध्यायी ७
  8. अष्टाध्यायी ८

शीर्षकपाठ्यांशः सम्पाद्यताम्

प्रत्याहार सूत्र सम्पाद्यताम्

अइउण् ।
ऋऌक् ।
एओङ् ।
ऐऔच् ।
हयवरट् ।
लण् ।
ञमङणनम् ।
झभञ् ।
घढधष् ।
जबगडदश् ।
खफछठथचटतव् ।
कपय् ।
शषसर् ।
हल् ।

भाग १.१ सम्पाद्यताम्

१.१.१ वृद्धिरादैच् ।
१.१.२ अदेङ् गुणः ।
१.१.३ इको गुणवृद्धी ।
१.१.४ न धातुलोप आर्धधातुके ।
१.१.५ ग्क्ङिति च ।
१.१.६ दीधीवेवीटाम् ।
१.१.७ हलोऽनन्तराः संयोगः ।
१.१.८ मुखनासिकावचनोऽनुनासिकः ।
१.१.९ तुल्यास्यप्रयत्नम् सवर्णम् ।
१.१.१० नाज्झलौ ।
१.१.११ ईदूदेद्द्विवचनं प्रगृह्यम् ।
१.१.१२ अदसो मात् ।
१.१.१३ शे ।
१.१.१४ निपात एकाजनाङ् ।
१.१.१५ ओत् ।
१.१.१६ सम्बुद्धौ शाकल्यस्येतावनार्षे ।
१.१.१७ उञः ।
१.१.१८ ऊँ ।
१.१.१९ ईदूतौ च सप्तम्यर्थे ।
१.१.२० दाधा घ्वदाप् ।
१.१.२१ आद्यन्तवदेकस्मिन् ।
१.१.२२ तरप्तमपौ घः ।
१.१.२३ बहुगणवतुडति संख्या ।
१.१.२४ ष्णान्ता षट् ।
१.१.२५ डति च ।
१.१.२६ क्तक्तवतू निष्ठा ।
१.१.२७ सर्वादीनि सर्वनामानि ।
१.१.२८ विभाषा दिक्समासे बहुव्रीहौ ।
१.१.२९ न बहुव्रीहौ ।
१.१.३० तृतीयासमासे ।
१.१.३१ द्वन्द्वे च ।
१.१.३२ विभाषा जसि ।
१.१.३३ प्रथमचरमतयाल्पर्धकतिपयनेमाश्च ।
१.१.३४ पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् ।
१.१.३५ स्वमज्ञातिधनाख्यायाम् ।
१.१.३६ अन्तरं बहिर्योगोपसंव्यानयोः ।
१.१.३७ स्वरादिनिपातमव्ययम् ।
१.१.३८ तद्धितश्चासर्वविभक्तिः ।
१.१.३९ कृत्मेजन्तः ।
१.१.४० क्त्वातोसुन्कसुनः ।
१.१.४१ अव्ययीभावश्च ।
१.१.४२ शि सर्वनामस्थानम् ।
१.१.४३ सुडनपुंसकस्य ।
१.१.४४ न वेति विभाषा ।
१.१.४५ इग्यणः सम्प्रसारणम् ।
१.१.४६ आद्यन्तौ टकितौ ।
१.१.४७ मिदचोऽन्त्यात्परः ।
१.१.४८ एच इग्घ्रस्वादेशे ।
१.१.४९ षष्ठी स्थानेयोगा ।
१.१.५० स्थानेऽन्तरतमः ।
१.१.५१ उरण् रपरः ।
१.१.५२ अलोऽन्त्यस्य ।
१.१.५३ ङिच्च ।
१.१.५४ आदेः परस्य ।
१.१.५५ अनेकाल्शित्सर्वस्य ।
१.१.५६ स्थानिवदादेशोऽनल्विधौ ।
१.१.५७ अचः परस्मिन् पूर्वविधौ ।
१.१.५८ न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु ।
१.१.५९ द्विर्वचनेऽचि ।
१.१.६० अदर्शनं लोपः ।
१.१.६१ प्रत्ययस्य लुक्श्लुलुपः ।
१.१.६२ प्रत्ययलोपे प्रत्ययलक्षणम् ।
१.१.६३ न लुमताऽङ्गस्य ।
१.१.६४ अचोऽन्त्यादि टि ।
१.१.६५ अलोऽन्त्यात् पूर्व उपधा ।
१.१.६६ तस्मिन्निति निर्दिष्टे पूर्वस्य ।
१.१.६७ तस्मादित्युत्तरस्य ।
१.१.६८ स्वं रूपं शब्दस्याशब्दसंज्ञा ।
१.१.६९ अणुदित् सवर्णस्य चाप्रत्ययः ।
१.१.७० तपरस्तत्कालस्य ।
१.१.७१ आदिरन्त्येन सहेता ।
१.१.७२ येन विधिस्तदन्तस्य ।
१.१.७३ वृद्धिर्यस्याचामादिस्तद् वृद्धम् ।
१.१.७४ त्यदादीनि च ।
१.१.७५ एङ् प्राचां देशे ।

भाग १.२ सम्पाद्यताम्

१.२.१ गाङ्-कुटादिभ्यः=अ-ञ्-ण्-इत्=ङ्-इत् ।
१.२.२ विज इट् ।
१.२.३ विभाषा=ऊर्णोः ।
१.२.४ सार्वधातुकम् अ-प्-इत् ।
१.२.५ अ-संयोगात्=लिट् क्-इत् ।
१.२.६ इन्धि-भवतिभ्यां च ।
१.२.७ मृडः-मृदः-गुधः-कुषः-क्लिश-वदः-वसः क्त्वा ।
१.२.८ रुद-विदः-मुषः-ग्रहि-स्वपि-प्रच्छः सन्=च ।
१.२.९ इको झल् ।
१.२.१० हल्-अन्तात्=च ।
१.२.११ लिङ्-सिचौ=आत्मनेपदेषु ।
१.२.१२ उस् च ।
१.२.१३ वा गमः ।
१.२.१४ हनः सिच् ।
१.२.१५ यमो गन्धने ।
१.२.१६ विभाषा=उपयमने ।
१.२.१७ स्था-घ्वोर् इत्=च ।
१.२.१८ न क्त्वा स=इट् ।
१.२.१९ निष्ठा शीङ्-स्विदि-मिदि-क्ष्विदि-धृषः ।
१.२.२० मृषस् तितिक्षायाम् ।
१.२.२१ उत्=उपधात्=भाव=आदिकर्मणोर् अन्यतरस्याम् ।
१.२.२२ पूङः क्त्वा च ।
१.२.२३ न=उपधात् थ-फ=अन्तात्=वा ।
१.२.२४ वन्चि=लुन्चि=ऋतस् च ।
१.२.२५ तृषि-मृषि-कृशेः काश्यपस्य ।
१.२.२६ रलो उ=इ=उपधात्=हल्-आदेः सन्=च ।
१.२.२७ ऊ-कालः=अच्=ह्रस्व-दीर्घ-प्लुतः ।
१.२.२८ अचश् च ।
१.२.२९ उच्चैर् उदात्तः ।
१.२.३० नीचैर् अनुदात्तः ।
१.२.३१ समाहारः स्वरितः ।
१.२.३२ तस्य=आदित उदात्तम् अर्ध-ह्रस्वम् ।
१.२.३३ एक-श्रुति दूरात् सम्बुद्धौ ।
१.२.३४ यज्ञ-कर्मणि=अ-जप-न्यूऋख-सामसु ।
१.२.३५ उच्चैस्तरां वा वषट्कारः ।
१.२.३६ विभाषा छन्दसि ।
१.२.३७ न सुब्रह्मण्यायाम् स्वरितस्य तु=उदात्तः ।
१.२.३८ देव-ब्रह्मणोर् अनुदात्तः ।
१.२.३९ स्वरितात् संहितायाम् अनुदात्तानाम् ।
१.२.४० उदात्त-स्वरित-परस्य सन्नतरः ।
१.२.४१ अपृक्त एक=अल् प्रत्ययः ।
१.२.४२ तत्पुरुषः समान=अधिकरणः कर्मधारयः ।
१.२.४३ प्रथमा-निर्दिष्टं समास उपसर्जनम् ।
१.२.४४ एक-विभक्ति च=अ-ऊर्व-निपाते ।
१.२.४५ अर्थवद् अ-धातुर् अ-प्रत्ययः प्रातिपदिकम् ।
१.२.४६ कृत्-तद्धित-समासाश् च ।
१.२.४७ ह्रस्वो नपुंसके प्रातिपदिकस्य ।
१.२.४८ गो-स्त्रियोर् उपसर्जनस्य ।
१.२.४९ लुक् तद्धित-लुकि ।
१.२.५० इत्=गोण्याः ।
१.२.५१ लुपि युक्तवत्=व्यक्ति-वचने ।
१.२.५२ विशेषणानां च=अ-जातेः ।
१.२.५३ तद् अशिष्यं संज्ञा-प्रमाणत्वात् ।
१.२.५४ लुप्=योग=अ-प्रख्यानात् ।
१.२.५५ योग-प्रमाणे च तद्-अभावे=अ-दर्शनं स्यात् ।
१.२.५६ प्रधान-प्रत्यय=अर्थ-वचनम् अर्थस्य=अन्य-प्रमाणत्वात् ।
१.२.५७ काल=उपसर्जने च तुल्यम् ।
१.२.५८ जात्य्-आख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम् ।
१.२.५९ अस्मदो द्वायोश् च ।
१.२.६० फल्गुनी-प्रोष्ठपदानां च नक्षत्रे ।
१.२.६१ छन्दसि पुनर्वस्वोर् एकवचनम् ।
१.२.६२ विसाखयोस् च ।
१.२.६३ तिष्य-पुनर्वस्वोर् नक्षत्र-द्वंद्वे बहुवचनस्य द्विवचनम् नित्यम् ।
१.२.६४ सरूपाणाम् एकशेष एक-विभक्तौ ।
१.२.६५ वृद्धो यूना तद्=लक्षणश् चेद्-एव विशेषः ।
१.२.६६ स्त्री पुंवत्=च ।
१.२.६७ पुमान् स्त्रिया ।
१.२.६८ भ्रातृ-पुत्रौ स्वसृ-दुहितृभ्याम् ।
१.२.६९ नपुंसकम् अ-नपुंसकेन=एकवत्=अ=अस्य=न्यतरस्याम् ।
१.२.७० पिता मात्रा ।
१.२.७१ श्वशुरः श्वश्र्वा ।
१.२.७२ त्यद्-आदीनि सर्वैर् नित्यम् ।
१.२.७३ ग्राम्य-पशु-संघेषु=अ-तरुणेषु स्त्री ।

भाग १.३ सम्पाद्यताम्

१.३.१ भूवादयो धातवः ।
१.३.२ उपदेशे=अच्=अनुनासिक इत् ।
१.३.३ हल् अन्त्यम् ।
१.३.४ न विभक्तौ तु-स्-माः ।
१.३.५ आदिर् ञि-टु-डव्-अः ।
१.३.६ षः प्रत्ययस्य ।
१.३.७ चु-टू ।
१.३.८ ल-श-कु=अ-तद्धिते ।
१.३.९ तस्य लोपः ।
१.३.१० यथा-संख्यम् अनुदेशः समानाम् ।
१.३.११ स्वरितेन=अधिकारः ।
१.३.१२ अनुदात्त-ङ्-इत आत्मनेपदम् ।
१.३.१३ भाव-कर्मणोः ।
१.३.१४ कर्तरि कर्म-व्यतिहारे ।
१.३.१५ न गति-हिंसा=अर्थेभ्यः ।
१.३.१६ इतरेतर=अन्योन्य=उपपदात्=च ।
१.३.१७ नेर् विशः ।
१.३.१८ परि-वि=अवेभ्यः क्रियः ।
१.३.१९ वि-परा-भ्यां जेः? ।
१.३.२० आङो दः=अन्-आस्य-विहरणे ।
१.३.२१ क्रीडः=अनु-सम्-परिभ्यश् च ।
१.३.२२ सम्=अव-प्र-विभ्यः स्ह्तः ।
१.३.२३ प्रकाशन=स्थेय=आख्ययोः ।
१.३.२४ उदः=अन्-ऊर्ध्व-कर्मणि ।
१.३.२५ उपात्=मन्त्र-करणे ।
१.३.२६ अ-कर्मकात्=च ।
१.३.२७ उद्-विभ्याम् तपः ।
१.३.२८ आङो यम-हनः ।
१.३.२९ समो गमि=ऋच्छि-प्रच्छि-स्वरति=अर्ति-श्रु-विदिभ्यः ।
१.३.३० नि-सम्-उप-विभ्यो ह्वः ।
१.३.३१ स्पर्धायाम् आङः ।
१.३.३२ गन्धन=अवक्षेपण-सेवन-साहसिक्य-प्रतियत्न-प्रकथन=उपयोगेषु कृञः ।
१.३.३३ अधेः प्रसहने ।
१.३.३४ वेः शब्द-कर्मणः ।
१.३.३५ अकर्मकात्=च ।
१.३.३६ सम्मानन=उत्सञ्जन=आचार्यकरण-ज्ञान-भृति-विगणन-व्ययेषु नियः ।
१.३.३७ कर्तृस्थे च=अ-शरीरे कर्मणि ।
१.३.३८ वृत्ति-सर्ग-तात्यनेषु क्रमः ।
१.३.३९ उप-पराभ्याम् ।
१.३.४० आङ उद्गमने ।
१.३.४१ वेः पाद-विहरणे ।
१.३.४२ प्र=उपाभ्याम् सम्-अर्था-भ्याम् ।
१.३.४३ अन्-उपसर्गाद् वा ।
१.३.४४ अपह्नवे ज्ञः ।
१.३.४५ अ-कर्मका=च ।
१.३.४६ सम्-प्रतिभ्याम् अन्-आ-ध्याने ।
१.३.४७ भासन=उपसम्भाषा-ज्ञान-यत्न-विमति-उपमन्त्रणेषु वदः ।
१.३.४८ व्यक्तवाचाम् समुच्चारणे ।
१.३.४९ अनोर् अ-कर्मकात् ।
१.३.५० विभाषा वि-प्र-लापे ।
१.३.५१ अवाद् ग्रः ।
१.३.५२ समः प्रतिज्ञाने ।
१.३.५३ उदश् चरः स-कर्मकात् ।
१.३.५४ समस् तृतीया-युक्तात् ।
१.३.५५ दाणस् च सा चेत्=चतुर्त्य्-अर्थे ।
१.३.५६ उपाद् यमः स्व-करणे ।
१.३.५७ ज्ञा-श्रु-स्मृ-दृशाम् सनः ।
१.३.५८ न=अनोर् ज्ञः ।
१.३.५९ प्रति=आङ्भ्याम् श्रुवः ।
१.३.६० शदेः श्-इत्-अः ।
१.३.६१ म्रियतेर् लुङ्-लिङोश् च ।
१.३.६२ पूर्ववत् सनः ।
१.३.६३ आम्-प्रत्ययवत् कृञः=अनुप्रयोगस्य ।
१.३.६४ प्र=उपाभ्यां युजेर् अ-यज्ञ-पात्रेषु ।
१.३.६५ समः क्ष्णुवः ।
१.३.६६ भुजः=अन्-अवने ।
१.३.६७ णेर् अणौ यत् कर्म णौ चेत् स कर्ता अनाध्याने ।
१.३.६८ भी-स्म्योर् हेतु-भये ।
१.३.६९ गृधि-वन्च्योह् प्रलम्भने ।
१.३.७० लियः सम्-मानन-शालिनी-करणयोश् च ।
१.३.७१ मिथ्योपपदात् कृञः=अभ्यासे ।
१.३.७२ स्वरित-ञ्-इतः कर्त्र्=अभिप्राये क्रिया-फले ।
१.३.७३ अपाद् वदः ।
१.३.७४ णिचश् च ।
१.३.७५ सम्-उद्=आङ्भ्यह्=अमः=अ-ग्रन्थे ।
१.३.७६ अन्-उपसर्गात्=ज्ञः ।
१.३.७७ विभाषा=उपपदेन प्रतीयमाने ।
१.३.७८ शेषात् कर्तरि परस्मैपदम् ।
१.३.७९ अनु-पराभ्यां कृञः ।
१.३.८० अभि-प्रति=अतिभ्यः क्षिपः ।
१.३.८१ प्राद् वहः ।
१.३.८२ परेर् मृषः ।
१.३.८३ वि-आङ्-परिभ्यः=रमः ।
१.३.८४ उपात्=च ।
१.३.८५ विभाषा=अ-कर्मकात् ।
१.३.८६ बुधः-युध-नशः-जन-इङ्-प्रु-द्रु-स्रुभ्यो णेः ।
१.३.८७ निगरण-चलन=अर्थेभ्यः ।
१.३.८८ अणौ=अ-कर्मकात्=चित्तवत्-कर्तृकात् ।
१.३.८९ न पा-दमि=आङ्-यम-आङ्-यस-परि-मुह-रुचि-नृति-वद-वसः ।
१.३.९० वा क्यषः ।
१.३.९१ द्युद्भ्यो लुङि ।
१.३.९२ वृद्भ्यः स्य-सनोः ।
१.३.९३ लुटि च कॢप्-अः ।

भाग १.४ सम्पाद्यताम्

१.४.१ आ कडारात्=एका संज्ञा ।
१.४.२ विप्रतिषेधे परम् कार्यम् ।
१.४.३ यू स्त्री=अख्यौ नदी ।
१.४.४ न=इयङ्=उवङ्-स्थानौ=अ-स्त्री ।
१.४.५ वा=आमि ।
१.४.६ ङित्-इ ह्रस्वश् च ।
१.४.७ शेषो घि=अ-सखि ।
१.४.८ पतिः समासे=एव ।
१.४.९ षष्ठी-युक्तश् छन्दसि वा ।
१.४.१० ह्रस्वम् लघु ।
१.४.११ संयोगे गुरु ।
१.४.१२ दीर्घं च ।
१.४.१३ यस्मात् प्रत्यय-विधिस् तद्-आदि प्रत्यये=अङ्गम् ।
१.४.१४ सुप्-तिङ्=अन्तम् पदम् ।
१.४.१५ नः क्ये ।
१.४.१६ स्-इत्-इ च ।
१.४.१७ सः=आदिषु=अ-सर्वनामस्थाने ।
१.४.१८ य्-अचि भम् ।
१.४.१९ त-सौ मतु=अर्थे ।
१.४.२० अयस्मय=आदीनि छन्दसि ।
१.४.२१ बहुषु बहु-वचनम् ।
१.४.२२ द्वि=एकयोर् द्वि-वचन=एक-वचने ।
१.४.२३ कारके ।
१.४.२४ ध्रुवम् अपाये=अपादानम् ।
१.४.२५ भी-त्रा-अर्थानाम् भय-हेतुः ।
१.४.२६ परा-जेर् अ-सोढः ।
१.४.२७ वारण=अर्थानाम् ईप्सितः ।
१.४.२८ अन्तर्धौ येन अ-दर्शनम् इच्छति ।
१.४.२९ आख्याता=उपयोगे ।
१.४.३० जनि-कर्तुः प्रकृतिः ।
१.४.३१ भुवः प्रभवः ।
१.४.३२ कर्मणा यम् अभि-प्रैति स सम्प्रदानम् ।
१.४.३३ रुचि=अर्थानाम् प्रीयमाणः ।
१.४.३४ श्लाघ-ह्नुङ्-स्था-शपाम् ज्ञीप्स्यमानः ।
१.४.३५ धारेर् उत्तमर्णः ।
१.४.३६ स्पृहेर् ईप्सितः ।
१.४.३७ क्रुधः-द्रुहः-ईर्ष्यः=असूयान् आम् ।
१.४.३८ क्रुधः-द्रुहोर् उपसृष्टयोः कर्म ।
१.४.३९ राध्-ईक्ष्योर् यस्य विप्रश्नः ।
१.४.४० प्रति=आङ्भ्यां श्रुवः पूर्वस्य कर्ता ।
१.४.४१ अनु-प्रति-गृणश् च ।
१.४.४२ साधकतमम् करणम् ।
१.४.४३ दिवः कर्म च ।
१.४.४४ परि-क्रयणे सम्प्रदानन् अन्यतरस्याम् ।
१.४.४५ आधारः=अधिकरणम् ।
१.४.४६ अधि-शीङ्-स्था=आसां कर्म ।
१.४.४७ अभि-नि-विशश् च ।
१.४.४८ उप=अनु=अधि-आङ्-असः ।
१.४.४९ कर्तुर् ईप्सिततमम् कर्म ।
१.४.५० तथा-युक्तं च=अन्-इप्सीतम् ।
१.४.५१ अ-कथितं च ।
१.४.५२ गति-बुद्धि-प्रत्यवसान=अर्थ-शब्द-कर्म=अ-कर्मकाणाम् अणि कर्ता स णौ ।
१.४.५३ हृ-क्रोर् अन्यतरस्याम् ।
१.४.५४ स्वतन्त्रः कर्ता ।
१.४.५५ तत्-प्रयोजको हेतुश् च ।
१.४.५६ प्राक्=इश्वरात्=निपा तः ।
१.४.५७ च=आदयो=अ-सत्त्वे ।
१.४.५८ प्र=आदयः ।
१.४.५९ उपसर्गाः क्रिया-योगे ।
१.४.६० गतिश् च ।
१.४.६१ ऊरी=आदि-च्वि-डाचश् च ।
१.४.६२ अनुकरणम् च=अन्=इति-परम् ।
१.४.६३ आदर=अन्-आदरयोः सत्-असत्-ई ।
१.४.६४ भूषणे=अलम् ।
१.४.६५ अन्तर् अ-परिग्रहे ।
१.४.६६ कणे-मनस्-ई श्रद्धा-प्रतीघाते ।
१.४.६७ पुरस्=अव्ययम् ।
१.४.६८ अस्तं च ।
१.४.६९ अच्छ गति=अर्थ-वदेषु ।
१.४.७० अदः=अन्-उप-देशे ।
१.४.७१ तिरः=अन्तर्धौ ।
१.४.७२ विभाषा कृञ्-इ ।
१.४.७३ उपाजे=अन्वाजे ।
१.४.७४ साक्षात्-प्रभृतीनि च ।
१.४.७५ अन्-अत्याधाने=उरसि-मनसी ।
१.४.७६ मध्ये-पदे-निवचने च ।
१.४.७७ नित्यं हस्ते पाणौ=उपयमने ।
१.४.७८ प्राध्वम् बन्धने ।
१.४.७९ जीविका-उपनिषदौ=औपम्ये ।
१.४.८० ते प्राग् धातोः ।
१.४.८१ छन्दसि परे=अपि ।
१.४.८२ व्यवहिताश् च ।
१.४.८३ कर्म-प्रवचनीयाः ।
१.४.८४ अनुर् लक्षणे ।
१.४.८५ तृतीया=अर्थे ।
१.४.८६ हीने ।
१.४.८७ उपः=अधिके च ।
१.४.८८ अप-परी वर्जने ।
१.४.८९ आङ् मर्यादा-वचने ।
१.४.९० लक्षण=इत्थम्-भूत=आख्यान-भाग-वीप्सासु प्रति-परि-अनवः ।
१.४.९१ अभिर् अ-भागे ।
१.४.९२ प्रतिः प्रतिनिधि-प्रतिदानयोः ।
१.४.९३ अधि-परी अनर्थकौ ।
१.४.९४ सुः पूजायाम् ।
१.४.९५ अतिर् अतिक्रमणे च ।
१.४.९६ अपिः पदार्थ-सम्भावन=अन्ववसर्ग-गर्हा-समुच्चयेषु ।
१.४.९७ अधिर् ईश्वरे ।
१.४.९८ विभाषा कृञ्-इ ।
१.४.९९ लः परस्मैपदम् ।
१.४.१०० तङ्-आमौ=आत्मनेपदम् ।
१.४.१०१ तिङस् त्रीणि त्रीणि प्रथम-मध्यम=उत्तमाः ।
१.४.१०२ तानि=एकवचन-द्विवचन-बहुवचनानि एकशः ।
१.४.१०३ सुपः ।
१.४.१०४ विभक्तिश् च ।
१.४.१०५ युष्मदि=उपपदे समान=धिकरणे स्थानिन्य्=अपि मध्यमः ।
१.४.१०६ प्रहासे च मन्य=उपपदे मन्यतेर् उत्तम एकवत्=च ।
१.४.१०७ अस्मद्य् उत्तमः ।
१.४.१०८ शेषे प्रथमः ।
१.४.१०९ परः संनिकर्षः संहिता ।
१.४.११० विरामः अवसानम् ।