प्रमुखा विकल्पसूचिः उद्घाट्यताम्

आयुर्वेदे चतुर्थप्रश्नः


 ननु रसादीनां धातुपोषकत्वं वक्तुमशक्यम् कुण्डलिनीस्थितश्वासोछ्वासपवनस्यैव अमृतप्रदत्वेन प्रतिपादितत्वात् । रसादीनां धातुपोषकत्वं कथं स्यादित्यस्वरसादाह-- गतेति ।

 गतागतामृतवशादागतसमाधिक्रियया योगसान्निध्यम्[१] ॥ १ ॥

 कुण्डलिन्याः अनिलानलचक्रात्मकत्वादेव श्वासपवनस्य अनिलचक्रात्मकस्य प्रथमप्रयाणगतस्य ऊष्मरूपत्वादेव शिरःकमलस्थामृतमाहर्तुं शक्यत्वादित्यर्थः । तस्मादमृतवशाद्धातुपोषकत्वं समाधिहेतुकमिति कृत्वा तत्क्रियया योगानां सान्निध्यं भवतीत्यर्थः । तस्माद्योगस्य धातुपोषकत्वं परम्परया प्रतिपादितमिति भावः ।

 धातूनां पोषणंप्रति रसादि हेतुर्भवतीति रसादीनां हेतुत्वप्रतिपादनं रसवद्द्रव्यादनेन भाव्यम्, तदन्नाद्यदनस्य अन्वयव्यतिरेकाभ्यां धातुपोषणंप्रति हेतुत्वप्रतिपादनात् । समाधयो धातुपोषका इति कथं प्रतिपद्यत इत्यस्वरसादाह-- तीव्रेति ।

 तीव्रसंयोगाख्यामासन्नः समाधिः[२] ॥ २ ॥

 मनस आत्मनिदिध्यासनस्य तीव्रसंयोगत्वं नाम इतरार्थज्ञानज्ञापकसामग्र्यसमर्थितत्वे सति आत्मसमवेतत्वम् । तेषामात्मवि षयकविषयेतरज्ञानंप्रति हेतुरेव समाधिरित्यर्थः । ननु परमात्मनो विभुत्वेन मनस आत्मना साकं धृढतरसंस्कारस्य स्वत एव सिद्धत्वादित्यस्वरसादाह-- संवेग इति ।

 संवेगः क्रियाहेतुर्दृढतरसंस्कारः ॥ ३ ॥

 संवेगो नाम कारणम् । तस्य लक्षणं क्रियाविशेषमात्रवैलक्षण्यं तदवच्छेदकम् । स एव क्रियाहेतुर्भवति दृढतरसंस्कारोऽपि भवतीत्यर्थः । तरशब्देन सुतरां हेतुरिति भावः ।

 ननु एतत्समाधानमनुपपन्नं, तथा च श्रुतिः--

 "अन्नाद्भूतानि जायन्ते जातान्यन्नेन वर्धन्ते । अद्यतेऽत्ति च भूतानि तस्मादन्नं तदुच्यत इति । अन्नममृतं तमु जीवातुमाहुः" इति श्रुतेः विद्यमानत्वात् । एतत्प्रमाणप्रतिपादितसमाधेरदृष्टत्वादित्यस्वरसादाह-- गतेति ।

 गतागतोपायभेदवतां समाधिफलं चासन्नम् ॥

 अत्र गतागतविषयकज्ञानमात्रं न विवक्षितम् । अन्नादनाभावे सति धातुपोषकशरीरपुष्टिर्यस्यास्ति तस्येदं विवक्षितम् । ते तु परमयोगिनो भवन्ति । तेषामवच्छेदकं गतागतोपायभेदज्ञानवत्त्वम् । गतागतरूपश्वासोछ्वासाभ्यां शरीरदार्ढ्योपायं, भिद्यत इति भेदः अन्नादनाज्जातजनकयोगजन्यभेद इत्यर्थः । समाधेः फलं शरीरदार्ढ्यकरणम् । शरीरेण सर्वकर्माधिकारी भवति । शरीरं सत्कर्मादिमोक्षहेतुकं भवतीति भावः ।

 ननु श्वासोछ्वासानिलयोर्गतागतत्वस्य शरीरिणां स्वत एव सिद्धत्वात् स्वतस्सिद्धकर्मणः विशेषविधिं विना कथं शरीरदार्ढ्यकारकत्वं कथं वा मोक्षोपयोगिकत्वं भवतीत्याशङ्क्याह--मृद्विति ।

 मृदुमध्यातिमात्रत्वात्ततो विशेषः[३] ॥ ५ ॥

 श्वासानिलः इडामार्गं गत्वा मन्दंमन्दं सञ्चरन् शरीरं नीरोगं करोति । स एव मोक्षहेतुको भवति । तदनन्तरं मध्यमार्गं गत्वा नाभिप्रदेशपर्यन्तं मन्दंमन्दं सञ्चरन् शरीरदार्ढ्यकारको मोक्षहेतुकश्च भवति । अतिमात्रगमनेन सुषुम्नामार्गं गत्वा अत्यन्तमुदरमापूर्यते चेत् तस्य शरीरपिङ्गलामार्गं गत्वा शरीरस्य निरतिशयमोक्षहेतुको भवति । तेभ्यो विशेषादभ्यासवशात् प्रयत्नाभावेऽपि सर्वदा यः कुंभकं करोति सः अरोगी भूत्वा राजयोगमार्गसम्पादनेन सर्वकर्मपरित्यागवान् भवति । तेनैव मोक्षफलमश्नुते । तत्र श्रुतिः--

 "संन्यासयोगाद्यतयः शुद्धसत्वाः ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे" इति श्रुतिप्रमाणेन असंशयज्ञानगोचरवान्भूत्वा शरीरदार्ढ्यकर्मकरणद्वारेण सर्वविषयभोगानुपभुज्य तद्भोगविषयकपदार्थान्नश्वरानिति विज्ञाय सर्वदा आत्मविषयकज्ञानं इहलोकेऽपि सर्वदा परमानन्दानुभवहेतुकम् । स एव ततो विशेष इत्यर्थः । राजयोगोऽपि भवति । तस्य उपायेभ्यो मृद्वादिभेदभिन्नस्य उपायवतां विशेषो भवतीत्याह-- मृद्विति ।

 मृदुमध्यातिमात्रा इत्युपायभेदाः ॥ ६ ॥

 पूर्वोक्तरीत्या मृदुमध्यातिमात्रगमनं रोगनिवर्तकद्रव्यानिवृत्तरोगनिवृत्त्यर्थम् । अयमेवोपायः शरीरदार्ढ्यकर्मकरणद्वारा मोक्षफलप्रापको भवतीत्यर्थः ।

 ननु यत्तु त्रयाणां मार्गाणां शरीरदार्ढ्यकर्मकरणपर्यन्तमपि उपायो भवतीत्युक्तं ततोऽधिकमार्गपर्यन्तगमनमपि उपायो भवतीत्याह-- मृद्विति ।

 मृदुसंयागो मध्यमसंयोगस्तीव्रसंयोगश्च ॥ ७ ॥

 इडामार्गगमनमन्दानिलेनापि कुण्डल्युद्बोधकरणं उपायो भवति । एवं सुषुम्नामार्गगमनपवनेन कुण्डलीसंसर्गजातकुण्डल्युद्बोधकर्मणा च माक्षोपायो भवति । तच्छरीरदार्ढ्यसम्पादनसामग्री उपायो भवतीत्यर्थः । तत्त्रिगुणहेतुकानिलानां शरीरदार्ढ्यकरणमात्रस्याप्रयोजकत्वात् तद्गुणोपायव्यतिरिक्तकर्मणा योगाग्निसन्धुक्षणेन बहुजन्मार्जितपापसङ्घातं भस्मीकृत्य मोक्षहेतुर्भवतीत्याह-- त्रिधेति ।

 त्रिधा भेदनेन वायोर्नवयोगिनो भवन्ति ॥ ८ ॥

 पवनस्य त्रिविधविकारत्वफलं क्रियते । मृदुपवनस्य संयोगः मृदुपवनकुण्डलीसंयोगः । मध्यमवेगपवनस्य कुण्डलीसंयोगः । तीव्रगतिमार्गानिलस्य कुण्डलीसंयोगः तीव्रसंयोगः । मध्यमानिलस्य संयोगः नाभेरूर्ध्वप्रदेशस्थं हृत्कमलपर्यन्तं आगत्य तत्रस्थस्य निरुद्धपवनस्य अन्तःपदमार्गमवलम्ब्य गच्छतः आत्मनि समवस्थानम् । स एव समाधिः । आत्मज्ञानसम्भवाल्लभ्यते । स एव मध्यमसंयोगः । तीव्रसंयोगः तदुपरि शिरःकमलपर्यन्तम् । तदुपरि सुषुम्नामार्गादागतपवनगतिहेतुकं सिरामार्गपूरणं सकलशरीराणामायुष्कारकम् , तत्कर्मणः सकलशरीरोपकारकत्वात् । शरीरारोग्यकरणार्थं नवप्रकारो भूत्वा शरीरं संरक्षतीत्यर्थः ।

 ननु बहिःपवनं इडापिङ्गलासुषुम्नामार्गमावृत्य उदरमापूर्य शरीरारोग्यमात्रोपकारकः समाधिः तस्य चलनस्य प्रधानाङ्गोपकारकत्वाभावात् । चलनात्मकपवनस्य सिरापूरणमात्रप्रयोजकत्वेन "एते जङ्गमाः" इति कथं वक्तुं शक्यत इत्यस्वरसादाह-- पञ्चेति ।

 पञ्चदशकमलं जङ्घादेशगतं सहस्रसिराधारकं पञ्चाशन्मर्मगतम् ॥ ९ ॥

 गतागतसंस्कारोपकारकपवनयोगस्समाधिः । कुण्डल्याधारभूतपञ्चदशकमलं जङ्घाप्रदेशस्थं सहस्रसिरावृतं सत् मर्मस्थानानुसन्धानकारकं जङ्घाभ्यां चलनोपकारकमिति वक्तुं शक्यत्वादिति । तस्मादेते जङ्गमा इति प्रदर्शिताः । जङ्घापद्मप्रदेशस्थपञ्चदशदलपद्मवच्छरीराङ्गं चलनात्मककर्मोपकारकं, जङ्गमशरीराङ्गकत्वात् यन्नैवं तन्नैवं यथा स्थाणुः । तत्पञ्चदशपद्मकं पादसहस्रावलम्बकसहस्रसिरावृतं द्विशतपञ्चाशत्सिरावृतैकाङ्गत्वात्, यन्नैवं तन्नैवं यथा स्थाणुशरीराङ्गम् । पञ्चाशन्मर्मगतं पञ्चाशद्वर्णात्मकं तत्तद्वर्णबोधकाभिनयचलनात्मकाङ्गाधारभूतत्वात्, यन्नैवं तन्नैवं यथा घटः ॥

 गतागतसंस्कारोपकारकपवनयोगस्समाधिः ॥

 सामधिरिति-- समाधिश्चलनकर्मविशिष्टकर्मा, पवनाश्रितज्ञानेच्छाप्रयत्नजन्यहेतुज्ञापकद्रव्याश्रितत्वात्, यथा घट इति ।

 ताल्वोष्ठपुटव्यापारजातशब्दानाह-- हस्तेति । [४]हस्तविन्यासानुसृताज्ञाबोधकः तच्छब्दज्ञापकाभिनयकर्मविशिष्टविषयकज्ञानाश्रितत्वात् । एवमनुमानप्रमाणेन आयुर्वेदसूत्रार्थव्याख्यानं कृतम् ॥

 ननु चैतन्याधिष्ठितं शरीरं चेष्टाश्रयं चेष्टाश्रयजन्यफलानुभवानन्दात्मकत्वात्, यन्नैवं तन्नैवं चैतन्यरहितशरीरवत् । जीवच्छरीरं सात्मकं, प्राणादिमत्त्वात् । यज्जीवच्छरीरं न भवति तत्प्राणादिमन्न भवति, शवशरीरवत् । ईश्वरेच्छाधीना चेष्टा ईश्वरप्रेरितकार्याधीना भवतीत्यत आह-- ईश्वरेति ।

 ईश्वरप्रेरितचेष्टाश्रयं हिताहितकार्योद्देश्यविषयप्रवर्तकचेष्टाश्रयं शरीरम् ॥ ११ ॥

 ईश्वरप्रेरितचेष्टाश्रयं कीदृशं चैतन्यं ? चक्षुर्वद्रूपग्राहकत्वाभावात्, श्रोत्रेन्द्रियवच्छब्दग्राहकत्वाभावात् । तस्माच्चैतन्यस्वरूपं गृहीतुमशक्यमित्याशयं मनसि निधायाह- ईश्वरेति ।

 जन्यशब्दज्ञानं चेतनसद्भावे प्रमाणम् । तथा हि-- तत्तदङ्गाधिष्ठितवर्णाः ताल्वोष्ठपुटव्यापारादिना वर्गात्मकाश्शब्दाः ईश्वरप्रेरितशब्दाः शरीराद्यजन्यत्वे सति जन्यव्यापारहेतुकत्वात् । अङ्कुरादिवत् ।

 अङ्कुरादिकं सकर्तृकं कार्यत्वात् घटवत् । इति ईश्वरसद्भावेऽनुमानं प्रमाणमिति तेन हेतुनोपलभ्यते । बीजभूमिजीवनसामग्र्यां सत्यां कार्यमुत्पद्यत इति न तेनापीश्वरसिद्धिः । अन्वयव्यतिरेकाभ्यां अङ्कुराद्युत्पादकदृष्टसामग्रीसत्त्वात् घटवत् । अङ्कुरादिवद्दृष्टान्तसद्भावे प्रमाणम् । शरीरावच्छेदकं चेष्टाश्रयम् । चेष्टाश्रययोग्याङ्गानि बहूनि सन्ति । सर्वदा चलनप्रसङ्गस्यैवोपस्थितत्वात् । तथा सति अतिप्रसङ्ग एव स्यादित्यस्वरसादाह-- ईश्वरेति ।

 चेष्टास्वरूपं हिताहितप्राप्तिपरिहारार्थस्पन्दनम् । न तु स्पन्दनमात्रम् । तत्सर्वं ईश्वरप्रेरितचेष्टाश्रयम्, तथा सति नातिप्रसङ्गः । यस्य यावक्तर्मानुगुणभाग्यं यदधिष्ठानाधीनं तत्सर्वं अनुभवयोग्यं कर्तुं प्रतिभूर्भवतीत्यर्थः । प्रयोजकत्वात् चेष्टारूपेण ईश्वरसद्भावस्य प्रेरितत्वादित्यर्थः ।

 ननु शरीरावच्छेदकं चेष्टाश्रयमित्युक्तम् । तथा सति सर्वदा चेष्टाकरणप्रसङ्गात्, ईश्वरस्य सर्वशरीराङ्गव्यापकत्वेन सिद्धत्वात् तस्य चेष्टाकरणमेव प्रयोजकं भवतीत्यस्वरसादाह-- हिताहितेति ।

 हितप्राप्त्यर्थं अहितपरिहारार्थमेव स्पन्दनकरणं ईश्वरप्रेरितम् । आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियमर्थेन, इन्द्रियाणां प्राप्यकारित्वनियमत्वात् । ईश्वरः यदर्थकर्मकरणमिच्छति तावदर्थानुभवज्ञानेन अनन्दानुभववान् भवतीत्यर्थः ।

 ननु परिशुद्धरसादनं यस्यास्ति तस्येन्द्रियादयः सुप्रसन्ना भवन्ति । रसवद्द्रव्यादनं चेष्टाऽश्रयहेतुकं शरीराङ्गस्य रसादनपोषितत्वात् । तस्माच्छुद्धरसवद्द्रव्यादनस्य चलनात्मकशरीरस्य च हेतुहेतुमद्भावयोरेव वक्तुं शक्यत्वात् इत्यस्वरसादाह-- शुद्वेति ।

 शुद्धरसाहारजन्यधातुप्रेरितसिरागतपवनवशाच्चलनात्मकम् ॥ १२ ॥

तत्र वचनं--

आहारं पचति शिखी दोषानाहारवर्जितः पचति ।
दोषक्षये च धातून्पचति च धातुक्षयेऽपि च प्राणान् ॥

 एतद्वचनानुसारेण शरीरदार्ढ्यकरणं अङ्गप्रचलनं च रसादनादेव भवतीत्यर्थः ॥

 ननु शुद्धरसादनं धातुपोषणमात्रं करोति । तेन रोगाभावात् पञ्चेन्द्रियाण्यपि स्वविषयविषयकविषयज्ञानस्य शुद्धरसवद्द्रव्यादनेन लाभात् तद्वति तत्प्रकारकत्वमपि गृह्णन्ति । तेन चलनात्मककर्मोपकारकत्वं न स्यादित्यस्वरसादाह-- जङ्घेति ।

 जङ्घापद्मपोषकामृतप्रवाहपरिणामयोगवशाच्चलति ॥ १३ ॥

 जङ्घाप्रवेशस्थितपञ्चदशदळपद्मं येन वशादागतामृतप्रवाहात् तत्पद्मं पोषयत् तच्चलनात्मककर्मोपकारकं भवतीत्यर्थः ।

 ननु ईश्वरसद्भावे किं मानं ? स्वहितफलप्रापकविषये चलनात्मककर्मप्रवृत्तिः । अहितफलनिवृत्तिविषये चलनात्मककर्मप्रवृत्तिश्च । तदुभयमपि शुद्धरसाहारजन्यं धातुदार्ढ्यकरणप्रयोजकम् । सकलकर्मविषयकचलनात्मकक्रिया पवनेन सिरागतामृतप्रवाहप्रेरणावशात् चलति । पूर्वोक्तरीत्या ईश्वरेण विनापि शरीराङ्गचलनक्रियां कर्तुं कर्मकरणेनैव सिद्धत्वात्--

 "कमणैव हि संसिद्धिमास्थिता जनकादयः" इति । तस्मादीश्वरो न सिद्ध्यतीत्यस्वरसादाह-- लवणेति ।

 लवणरसजन्यपवनयोगरसप्रवर्तकक्लेशकर्मविपाकाशयापरामृष्टः पुरुषविशेष ईश्वरः[५] ॥ १४ ॥

 लवणरसजन्यः तामसगुणविशिष्ट ईश्वर एकः शरीरे स्थितः । स ईश्वरः नित्योऽपि तामसगुणस्य अनित्यत्वात् तद्गुणविशिष्टत्वात् तज्जन्य इत्युक्तः । पवनजनकस्वादुरसवद्द्रव्यादनजन्यसात्त्विकगुणविशिष्ट ईश्वरः तद्गुणविशिष्टे शरीरे स्थितः अजः । क्लेशगुणविपाकाशय अजः । तस्मादपरामृष्टः आमयरहितः ईश्वरः पुरुषविशेषः । तावुभावपि शरीरस्थितौ । तयोरेकः अजरस्सर्वस्वतन्त्रोपि सर्वशरीरं व्याप्य सर्वकर्मोपकारकः । स्वान न्दानुभवहेतुकपदार्थज्ञानेन इच्छा जायते । तच्चलनात्मकं कर्म प्रवृत्तिः । तत्स्वत्वज्ञापितात्तदितर ईश्वरः मायाव्यतिरिक्तः निष्कळङ्कः निर्गुणः निरवयवः नित्यानन्दात्मकः योगिनामप्यगोचरः । तावुभौ पतत्रिणौ शरीरवृक्षं परित्यज्य स्थितावित्यर्थः । क्लेशकर्मविपाकाशयो जीवः । क्लिश्यन्त इति क्लेशाः अविद्यादयः । वक्ष्यमाणानि अविहितानि निषिद्धद्रव्याणि नश्वररूपाणि कर्माणि । वक्ष्यमाणानि-- विपच्यन्त इति विपाकाः कर्मफलानि जात्यायुस्सुखदुःखभोगात्मकानि फलानि । तानि तामसगुणहेतुकलवणकटुरसद्रव्यादनहेतुकजातानि । तेषामाशयो निदानस्थानात्मकः मायाशबलितो जीवः । साशयस्थितजङ्घापद्मस्थितसहस्रसिराभिः आत्मेच्छायाः प्रयत्नज्ञानात् गतागतप्रेरकपवनवशात्

 जङ्घाभ्यां पद्भ्यां धर्मोऽस्मि । विशि राजा प्रतिष्ठितः । प्रतिक्षत्रे प्रतितिष्ठामि राष्ट्रे । प्रत्यश्वेषु प्रतितिष्ठामि गोषु । प्रत्यङ्गेषु प्रतितिष्ठाम्यात्मन् । प्रतिप्राणेषु प्रतितिष्ठामि पृष्ठे । प्रतिद्यावापृथिव्योः प्रतितिष्ठामि यज्ञे[६]"

 इति श्रुतिप्रतिपादितशरीरेषु विशन् कर्म करोमीत्यर्थः ॥

 ननु शरीराङ्गगतचेष्टादिकं आत्माधीनं, तेन परमात्मा सिद्ध्यति । परमात्मनः इच्छाविषयकज्ञानकार्यं आत्मेच्छाविषयकज्ञानपूर्वकं, शुद्धचैतन्यप्रेरितकर्मकार्यहेतुभूतत्वात् । यन्नैवं तन्नैवं यथा घटः । इत्यनुमानविधया परमात्मसिद्धिः ।

 स्रोतोमार्गस्थितसिराप्रेरितसर्ववर्णज्ञापकाधारदेशस्थितकरप्रभावाष्टादशदळपद्मावलम्बकताल्वोष्ठपुटव्यापारादिकं सकर्तृकं कार्यत्वात् घटवत् इत्यनुमानेन आत्मसिद्धिः । तदर्थं शरीराङ्गचेष्टां व्याचष्टे-- स्रोत इति ।

 स्रोतोमार्गसिरात्रिशतधराष्टादशदळ[७]पद्मं प्रतीतिगमनागमनचेष्टाश्रयं भवति ॥ १५ ॥

 तास्सिरा मर्मशः स्रोतोमार्गसञ्चरितास्त्रिशतसङ्ख्याकाः । एतादृशचेष्टाश्रयस्य शरीरस्य आत्माधिष्ठितत्वात् तास्सिराः स्रोतोमार्गप्रवाहस्य वेलारूपा भवन्ति । कण्ठप्रदेशस्थिताष्टदळपद्मं सर्ववर्णोच्चारणहेतुभूतपवनप्रवर्तकं तत्प्राणदेवताधारं तस्मिन्नेव कार्यहेतुभूतज्ञाने सति चलनात्मककर्मकरणात् आत्मा ज्ञातुं शक्यत एवेत्यर्थः ।

 ननु चलनात्मकं कर्म ईश्वरप्रेरणाजन्यम् । एतत्कर्म सकर्तृकं कार्यत्वात् इत्यनुमानेन परमात्मा अन्तस्स्थितस्सन् कर्म कुरुते । अत्र ईश्वरप्रयत्नजन्यभावः चलनात्मककर्मभावः । तथा सति अन्वयव्यतिरेकाभ्यां कार्यकारणभावस्य तयोरेव दृष्टत्वात् । इत्यनुमानेन ईश्वरसिद्धिरित्यर्थः । गुणत्रयजनकस्वाद्वम्ललवणरसादनेन पवनप्रकोपो निवर्त्यते । तदन्नादनेन शरीरमविकारं सत् चलनात्मकं कर्म कुरुते । तत्तद्विकारे सति तत्तत्कर्म कुरुते । कर्मप्रवर्तकं च गुणत्रयम् । प्रतिपादकस्वाद्वम्लरसविरसादनेन सुष्ठ कर्म कर्तुं न शक्यते । तत्र इडामार्गेण बहिःपवनस्तत्र भेषजं भवति, साध्यरोगाणामपि तन्निवर्तकत्वात् ।

 स्वाद्वम्ललवणरसविरसादनेन उदरामयो जायते । तस्यापि इदमेव भेषजं भवति । पवनदोषे अप्रकोपे सति शरीराङ्गकर्मकरणं सूच्यते । तत्प्रकोपे सति शरीरजन्यकार्याभावो दृश्यते । शरीरादिविकारहेतुभूतान्नादनं तत्तत्कर्महेतुकम् । तस्माद्व्याधिप्रागभावपरिपालनमेव फलीभूतं कार्यमित्यर्थः ।

 ईश्वरस्तु करचरणाद्यवयवी भूत्वा प्रपञ्चोत्पादकं कर्मकुरुते । तथाच श्रुतिः--

 "ब्राह्मणोऽस्य मुखमासीत् बाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः पद्भयां शूद्रोऽजायत । चन्द्रमा मनसो जातः । चक्षोस्सूर्योऽजायत । मुखादिन्द्रश्चाग्निश्च” इति शरीरान्तरात्मव्यतिरिक्तेश्वरसद्भावे प्रमाणम् ।

 अन्तस्स्थितस्सन् कर्म कुरुते । तस्मात्प्रत्यहं पथ्यादनेन भाव्यम् । अन्यथा रोगास्सम्भवन्ति । तेन शरीरिणः करणसामर्थ्याभावात् असाध्य उदरामयः । सिरामार्गेषु बहिःपवनपूरणं उदररोगनिवर्तकं तदुपयोग्यनिवर्तकानिवृत्ते सति पवनपूरणयोगस्य करणस्य निवर्तकत्वात् । आत्ममनस्संयोगो योगः योगार्जकत्वात् । स एव जठरानलप्रदो भवति । उदरामयविषये अग्निप्रज्वलनद्रव्यं निवर्तकम्, योगाग्निजनकसामग्य्रास्तत्र भेषजत्वात् । अजीर्णाज्जातोदरामयनिदानं व्याचष्टे-- स्वाद्विति ।

 स्वाद्वम्ललवणरसजन्यानिलसिरया पूरयन् जघनपद्मविषयं प्रचलति[८]॥ १६ ॥

 स्वादुरसविरसद्रव्यादनादजीर्णादामाम्बुवृद्धिरुदरं जायते ॥ १७ ॥

 स्वादुरसविरसद्रव्यादनं उदरामयहेतुकम्, तदनलेनाजीर्णे जाते सति तेन अम्बुभूताधिक्यप्रवृत्तेर्जातत्वात् तेन मन्दानलो भवति । अधिकानलदोषो भवति । तत्र निदानवचनम्--

"रोगास्सर्वेऽपि मन्देऽग्नौ सुतरामुदराणि तु ।
अजीर्णान्मलिनैश्चान्नैर्जायन्ते मलसञ्चयात् ॥

ऊर्ध्वाधो धातवो रुद्ध्वा वाहिनीरम्बुवाहिनीः ।
प्राणाग्न्यपानान्सन्दूष्य कुर्युस्त्वङ्मांससन्धिगाः ॥
आष्माप्य कुक्षिमुदरमष्टधा तच्च भिद्यते[९]

 रसविरसादनजाताजीर्णेन जातरोगः तन्निवर्तकाभावसामग्र्या आमादिवृद्धिं जनयति । तेन मन्दानिलोऽपि भवति । शरीरस्य पञ्चभूतात्मकत्वेन स्वादुरसादनात्पवनप्रकोपो निवर्तते । तद्विरसद्रव्यादनात्पवनप्रकोपो दृश्यते । तस्मादुद्भूताभिवृद्धितया सरन्ध्रकाभ्यन्तरधरसिराणामपि परिपीडनात् पवनसञ्चाराभावत्वेन आपस्स्रवन्ति आ कुक्षिपरिपूरणात् । रसासृङ्मांससधातुषु सिरा दृश्यते । तस्मात्कुक्षिजलं तत्तु धातुवत् न जीर्यते । स उदरामयो भवति । स एवाष्टधा भिद्यते इत्यर्थः ।

 ननु उद्भूतरसविरसद्रव्यं पवनप्रकोपहेतुकं उद्भूतग्रहणस्वादुरसविरसद्रव्यत्वात् । कथं तर्हि फलरसविरसद्रव्यजन्यरोगस्य स्वादुरसवद्द्रव्यं न भेषजानिवृत्तनिवर्तकं पवनप्रकोपाग्रवर्तकद्रव्यत्वात् यन्नैवं तन्नैवं यथा घटः। आमनिवृत्तिद्वारा उदरामयोऽपि न जायते । तत्प्रागभावपरिपालनकार्यस्य तदुपयोगिकत्वात् इत्याह--स्वाद्विति ।

 स्वादुरसवद्विरेचनद्रव्यं तत्र भेषजम् ॥ १८ ॥

 उदरामयनिवर्तकद्रव्याणि क्वाथकल्कावलेहभेषजद्रव्याणीत्यर्थः । तत्र वातकृतोदरामये ते पदार्थाः । सर्वेषामपि सम्भावितत्वात् इति तन्निवर्तकस्य रेचनोपयोगिद्रव्यत्वेन तत्तद्द्व्ययोग्यकालं विज्ञाय चिकित्सा कार्येति व्यपदिशति-- शनैरिति ।

 शनैश्शनैरेव रेचयेत् ॥ १९ ॥

 सर्वजन्तूनामप्युदरं जलाधारकमिति, तेजश्च बलं च आयुश्चेत्येतान्यनलाधारकाणीति मत्वा शनैश्शनैरेव रेचयेत् । शरीरान्तस्स्थितसिराजाताब्कार्यमुदरामयं, तन्निवृत्तिकार्ये अन्तस्स्थितजलविरेचनकार्यं कुर्वीत । तत्र निदानवचनम्--

"सर्वेषु तन्द्रा सदनं मठसङ्गोऽल्पवह्निता ।
दाहः श्श्वयथुराध्मानमन्ते सलिलसम्भवः ॥
सर्वे त्वतोयमरुणमशोफं नातिभारिकम् ।
गवाक्षितं सिराजालैः सदा गुडगुडायते ।
नाभिमन्त्रं च विष्ठभ्य वेगं कृत्वा प्रणश्यति ॥"[१०]

 एतद्वचनानुसारेण सिराविकारजन्यजलनिवर्तकं यत्तद्विरेचनकार्यं, तेनोदरामयो निवर्तते सिराविकारजन्योदरामयहेतुकजलद्रव्यत्वात्, तद्विरेचनयोग्यार्थः निवर्तक इत्यर्थः ।

 ननु गजाश्वादीनामपि उदरामयः प्राचुर्येण द्योतते । स्वादुरसवद्द्रव्यं तत्र भेषजमिति ते पदार्थास्तत्र नोपयुक्ताः तेषामपि योग्यद्रव्याणां विवक्षितत्वात् । तदुदरामयानां आध्माननिदानस्य सर्वजनसाधारणत्वात् । यावद्व्याध्युपयुक्तभोगयोग्यद्रव्याणि पवनप्रकोपनिवर्तकानि । तत्तज्जातिविहितपदार्थानां स्वादुरसवद्द्रव्यत्वं यावत्पदार्थेषु भासते । तत्रायं नियमः-- स्वादुरसवद्द्रव्यत्वस्य सर्वेषामपि सम्भावितत्वात् आदाननिदानादेः सर्वजन्तूनां समानद्रव्यत्वात् स्वदुरसवद्द्रव्यं तत्र भेषजमिति आयुर्वेदप्रतिपादितार्थः ॥ सर्वजन्तूनां धातुपोषकत्वं च स मानमिति घण्टाघोषेण नराणामुदरामयानां स्वादुरसद्रव्याणि चाविरसद्रव्याणि च आरोग्यकारकाणीति प्रतिपादितानीत्यर्थः ॥

मूलाधारो बलं पुंसां शुक्लं यत्तद्धि जीवितम् ।

 इति वचनानुसारेणापि नियामको ज्ञायते । सर्वजन्तूनां शनैश्शनैरेव रेचयदिति सुत्रात्सम्यक्प्रतिपादितमित्यर्थः ।

 ननु एकैकरसद्रव्येण विरेचनकार्यकरणं कर्तव्यं वा, उत अल्पमल्पं वा दातव्यं वा सर्वमेलनं वा आमानिवृत्तिकरणं किंचित्किंचित्करणं वा ? नाद्यः-- एकैकद्रव्येण विरेचनं कार्यमिति चेत् उक्तविरेचनपदार्थानुद्दिश्य यावत्करणविधिरप्रयोजकं स्यात् । न द्वितीयः--अल्पाल्पकरणेन केवलमामनिवृत्तेरेवाभावात् । शुद्धामनिवृत्तिकरणं उदरामयनिवृत्तिकरणं, उदरामयनिवृत्तिकर्मनिवर्तकत्वस्य चरितार्थत्वात् । न तृतीयः—सर्वपदार्थानां समीकृत्य योगकरणमिति चेत् अतिविरेचनं स्यात्--धातवः स्रावयन्ति । तत्स्रावणेन अतिरिक्ततया दोषप्रकोपस्स्यात् । तस्मादेतावन्मात्रं व्यर्थं स्यात् इत्यस्वरसादाह-- पयनेति ।

 पवनाद्यप्रकोपादग्नेर्बलं पोषयन्क्रियाक्रमः ॥ २०

 पवनाद्यप्रकोपादिति । आदिशब्देन वातपित्तकफदोषाः प्रतिपादिताः । तेषामप्रकोपकरणं फलीभूतार्थस्स्यात् । तस्य अग्निबलदूपकत्वात् येन केन प्रकारेण जठराग्निप्रवर्धकसामग्रीकार्यस्य फलीभूतार्थत्वात् सर्वोदरामयानां जठराग्निप्रवृद्धिकरणं क्रियाक्रमः ॥

 पवनादीनां प्रकोपरूपाभावकार्यस्य प्रायोगिकत्वेन शद्धदोषादिविज्ञानं शुद्धरसादनजन्यमिति तयोर्व्याप्तिं गृहीत्वा भूयो दर्शनेन कार्यकारणभावः गृहीतुं शक्यते । तद्विरसद्रव्यादनं उदरामयहेतुकमिति कार्यकारणभावो ग्राह्यः । तस्मात्पवनाद्यप्रकोपकार्यसम्पादनार्थं तत्रैव क्रियाक्रमज्ञानं विवक्षितम् । तथा हि--उदरामयहेतुकामनिवृत्तिकरणद्रव्यं न केवलं प्रयोजकं भवति । वाताप्रकोपकामययोगः कार्यः । स एव क्रियाक्रमः । तस्मात्सेयमविपत्तिरिति दोषत्रयेण अविपत्कार्यं ज्ञाप्यते । एतद्विरेचनकरणं जठराग्निवर्धकं मन्दानलहेतुकद्रव्यजातामयनिवर्तकत्वे सति अनलप्रवर्धकद्रव्यत्वात् । दोषनिवर्तकव्यापत्प्रकृते उदरामयचिकित्सायां तदेव प्रतिपादितम्--

व्याघ्राश्वगन्धा च पुनर्नवा स्यात् पिण्याकशिग्रूणि रसोनपित्सु ।
सवज्रवल्लीकरिकर्णकुण्डलं रुजापहं सूरणतिक्तपत्रम् ॥

अस्मिन्योगे केवलविरेचनद्रव्याणि स्वादुरसवद्विरेचनद्रव्याणि प्रतिपादितानि । पवनाद्यप्रकोपकारकविरेचनगुणाभावकार्यद्रव्याणि प्रतिपादितानि । न केवलविरेचनकरणस्य पवनप्रकोपकारकत्वमिति पूर्वसूत्रे प्रतिपादितम् । तच्चिन्त्यम् । तेन पित्तप्रकोपो भवति । तन्निदानभूतलिङ्गानि भ्रममूर्च्छाविदाहारत्यरुच्यादीनि ज्ञातव्यानि । पित्तोद्रेकजातोदरामयस्य लक्षणानीत्यर्थः । कषायतिक्तस्वादुरसद्रव्यादनात् प्रकोपहेतुकपवनः सिरामार्गस्थितपवनविगत्या रसासृग्धातुसारं स्रावयति । तत्सार एव पित्तमिति विज्ञेयम् । अयं पित्तोदरामयज्ञापक इति वक्तव्यम् । सरन्ध्रकाभ्यन्तरधरैस्तु अन्तराळमार्गेषु बिरुद्धपित्तं पूर्यते । अनिलविगत्या रसासृग्धातुसारेण उदराभ्यन्तरपूरणात् धातुपचनवत् । जठरानलस्य अजीर्णद्रव्यत्वात् कुक्षौ विपक्षाद्वर्द्धते स एव पित्तोदरामय इत्याह--विरसेति ।

 विरसद्रव्यादनाजीर्णजन्यसिरामार्गस्थितपवनविगत्या सिरारसातिप्रस्रवणादजीर्णादामाम्बुवृद्धेरुदरं जायते ॥ २१ ॥

 विरसद्रव्यादनजन्यपित्तोदरस्य हेतवो वक्तव्याः । कषायरसविरसद्रव्यादनेन वा तिक्तरसविरसद्रव्यादनेन वा पित्तप्रकोपो भवति । अनलाजीर्णद्रव्यत्वात् । तन्निवर्तनं लङ्घनादेव भाव्यम् । यत्र कषायतिक्तस्वादुरसविरसद्रव्यादनमुपलभ्यते तत्र पित्तोदरामयोत्पत्ति । तत्र सूत्रवचनं--

कषायतिक्तमधुराः पित्तमन्येषु कुप्यते । इति ॥

 अन्येष्विति कषायतिक्तस्वादुरसवत् पित्तप्रकोपनिवर्तकम् । तद्विरसाः पित्तप्रकोपकारकाः । एतत्त्रयाणां मध्ये एकरसद्रव्यादनजन्यपित्तप्रकोपस्य निवर्तकं तद्विरसान्यरसादनम् । न तद्व्यतिरिक्तशुद्धरसाः उदरामयहेतुकाः पित्तप्रकोपनिवर्तकरसविरसा इति “पित्तमन्येषु कुप्यते" इत्येतद्वचनस्य तात्पर्यम् ।

 कषायतिक्तव्यतिरिक्तस्वादुरसवद्व्यतिरिक्तरसविरसद्रव्यादनं उदरामयहेतुकं जठरानलाजीर्णद्रव्यादनत्वात् यन्नैवं तन्नैवं यथा घटः । एकरसविरसद्रव्यादनं नोदरामयहेतुकं जठरानलजीर्णद्रव्यादनत्वात् इत्यनुमानप्रमाणेन कषायतिक्तस्वादुरसविरसद्रव्यादनमेळनस्य उदरामयहेतुकत्वं सुप्रसिद्धमिति भावः ।

 ननु अष्टविधोदरामयानां कारणीभूतद्रव्याणि षड्रसविरसद्रव्याणि । लोके एतद्व्यतिरिक्तानामभावेन इतररोगाणां कारणीभूतद्रव्याभावात् सर्वेषामप्युदरामयप्रसङ्ग एव स्यादित्यस्वरसादाह--तावदिति ।

 तावत्सिरागतप्रदेशभेदात् श्वयथुबोधकम् ॥ २२ ॥

 वातप्रदेशावलम्बकसिराविकारे सति उक्तरीत्या वातोदरामयो जायते । तथा पित्तप्रदेशावलम्बकसिराविकारे सति पित्तोदरं जायते । कफप्रदेशावलम्बकसिराविकारे सति कफोदरं जायते । तत्तद्दोषहेतुकसिराणां कार्यं एव द्वन्द्वदोष इति दोषद्वयजन्यास्त्रयः --पवनपित्तदोषजन्योदरामय एकः । कफवचनदोषजन्योदरामय एकः । पित्तकफजन्योदरामय एकः । त्रिदोषजन्योदरामय एकः । सर्वं मिळित्वाऽष्टविधरोगा जाताः ।

 तावत्सिरागतेति--तत्तद्विरुद्धरसविरसजातसिरामार्गगतपवनगतितिरोधानादनले मन्दे सति तेनाजीर्णत्वं तदवच्छेदकम् । तत्तत्प्रदेशभेददोषत्रयाश्रयादुदररोगस्य हेतुबोधकत्वमेव तत्तदवच्छेदकं भवतीत्यर्थः । पित्तप्रदेशभेदस्थितसिराविकारः कथं ज्ञातुं शक्यते पित्तोदरामयज्ञाने सति तस्य निवर्तकेन निवर्तयितुं शक्यत्वादित्याशयं मनसि निधायाह--पवनेति ।

 पवनप्रकोपहेतुकरूक्षातिशीतललघ्वतिवेदनारुचिविवर्णविरसास्यतन्द्रामूर्छादाहभ्रमतृष्णाज्वरातिसाराङ्गपीतत्वं पित्तप्रकोपोदरामयहेतुकम् ॥ २३ ॥

 रूक्षगुणत्वं--सिरामार्गरन्ध्रेषु पवनातिगत्या तत्तदङ्गेषु उष्णोपलब्धिरुत्पद्यते । तत्र तस्य पवनविकारस्य रूक्षत्वमवच्छेदकम् । यत्र पवनस्य अल्पगत्या सिरामार्गरन्ध्रेषु पवनगतिरोधनं दृश्यते तत्रातिवेदना जायते । तद्वदेव विरसास्यत्वं विवर्णत्वं च लक्षणं भवतीत्यर्थः । सर्वशरीरव्याप्यपवनस्य विकारग्रस्तत्वात् । सर्वशरीराङ्गवेदनाभावात् कथमेकदेशवेदना इत्याकांक्षायां यावद्विरसादनजन्यसरः यावत्सिराप्रदेशेषूपलभ्यते तत्रायं नियमः । शङ्कासमाधानं च कृतं-- सर्वशरीरसञ्चारितपवनस्य विकारस्य सर्वशरीरवेदनाभावज्ञानमेव सिराप्रदेशसञ्चारात् तत्तदङ्गे नीरोगत्वं प्रतीयते । चिकित्साकार्यं तत्तदङ्गेष्वेव तत्प्रतीकारद्रव्यादनेन तद्विरुद्धरसादनजन्यदोषनिवृत्तेः न दोषप्रकोपं निराकृत्य सुखं भूयादित्यर्थः ।

 केचिद्विरुद्धरसजन्याद्भिः सिराभ्यन्तररन्ध्रमार्गेषु पूर्णप्रदेशत्वात् विवर्णित्वं विरसाम्यत्वं च ज्ञाप्यते । तेन पवनप्रकोपनिवर्तकरसविरसादनजन्यमुदरामयमिति ज्ञातुं शक्यत एवेत्यर्थः । पित्तोदरामयहेतुकानिदानद्रव्यजन्यलक्षणानि निरूप्यन्ते--

 मूर्छादाहभ्रमतृष्णारुचिज्वराङ्गपीतत्वं पित्तप्रकोपोदरामयहेतुकम् । प्रकोपनिवर्तककषायतिक्तस्वादुरसविरसद्रव्यादनं पित्तप्रदेशव्याप्यसिरारन्ध्रमार्गगतपवनगतिविकारकमांसधातुशोषकं, पवनदोषप्रकोपजनकरसविरसातिरिक्तमांसधातुशोषकविरसद्रव्यादनजन्यत्वात् । यन्नैवं तन्नैवं यथा घटः । इत्यनुमानविधया मांसधातुशोषकजन्यमांससारः पित्तोदरामयहेतुकः जठरानलाजीर्णधातुसारद्रव्यत्वात् । तेन मुर्च्छाऽपि जायते । तद्धातुशोषवशात् दाहो भवति । धातुसारस्य इतरपदार्थस्पर्शनाद्भ्रमो भवति । तेन जठरानलस्थलनिरसनात् बहिः प्रज्वलनात् ज्वरो भवति । तत्सारातिप्रदर्शनात् तेन रागो भवति । मांसधातोश्च निर्गतरसत्वात् पैत्त्यं प्रतीयते । एतादृशलक्षणलक्षितः पित्तोदरामयोऽयमिति व्याख्यातम् ।

 इतःपरं अष्टविधोदरामयस्य सङ्ख्या--

 श्वासखासभ्रमविदाहतिमिरत्वक्पलिततनुरेतोधातुसिराजातरसः कफः कफं करोति ॥ २४ ॥

 मांसधातोश्च मेदोधातुजनकत्वात् तद्विकारे सति श्वासखासभ्रमविदाहत्वक्तनुतत्सिराजातसारकफः कफं करोति । कफदोषप्रकोपनिवर्तकं तिक्तोषणकषायरसविरसद्रव्यादनम् । कफोदरामयहेतुकं कफप्रदेशस्थानव्याप्यसिरारन्ध्रमार्गगतपवनगतिविकारमेदोधातुशोषकं, पवनपित्तप्रकोपजनकरसविरसातिरिक्तमेदोधातुजनकशोषकरसविरसद्रव्यादनजन्यत्वात् । यन्नैवं तन्नैवं यथा घटः ।

 ननु कषायतिक्तमधुररसाः पित्तप्रकोपनिवर्तकाः । तद्विरसाः पित्तप्रकोपकारकाः । स्वाद्वम्ललवणरसाः पवनप्रकोपनिवर्तकाः । तद्विरसाः पवनप्रकोपकारकाः । वातपित्तयोः स्वादुरसविरसद्रव्यं वातपित्तप्रकोपकारकम् । रसविरसजन्यपवनप्रकोपे सति तद्विषयरोगे द्वन्द्वप्रकोपो भवति । स्वादुरसविरसस्य वातपित्तप्रकोपहेतुकत्वात् । द्वित्रिविधरसजन्यरोगप्रसक्तिर्यत्र दृश्यते तत्र स्वादुरसविरसद्रव्यादनं द्वन्द्वरूपकोत्पादकमित्याह--पवनेति ।

 पवनपित्तप्रकोपजनकद्वित्रिरसजातानुसरित उक्तोभयलक्षणयस्तवातपित्तोदरामयो ज्ञेयः ॥ २५

 अस्यार्थः---

 पवनपित्तप्रकोपकारकद्रव्यं तद्रसविरसादनजन्यं तदन्य रसाजन्यत्वे सति तद्रसजन्यत्वात् यन्नैवं तन्नैवं यथा घटः । पवनरोगस्तु स्वाद्वम्लविरसजन्यः तदन्यरोगकार्याहेतुकत्वे सति तद्रोगकार्यजनकद्रव्यत्वात् इति व्यतिरेकानुमानेन निर्णेतुं शक्यत्वात् । पवनप्रकोपनिवर्तकः स्वाद्वम्ललवणरसः । तद्विरसजन्य उदरामयः । पित्तप्रकोपनिवर्तकः कषायतिक्तस्वादुरसः । तद्विरसः पित्तप्रकोपकारकः । तस्मादुभयदोषप्रकोपजनकस्य स्वादुरसविरसद्रव्यादनत्वात् स एव द्विदोषप्रकोपको भवति । द्वित्रिविधरसजातरोगौ पवनपित्तप्रकोपजातोदरामयौ । तन्निदानं तत्तल्लक्षणलक्षिताद्ज्ञातव्यमित्यर्थः ।

 ननु स्वाद्वम्ललवणरसादीनां विरसत्वं सूत्रे प्रतीयते । स विरसः पवनपित्तप्रकोपकारक इत्युक्तम् । एवं सति कषायतिक्तस्वादुरसानां विरसत्वं अस्मिन्सुत्रे प्रतीयते । स विरसः पित्तप्रकोपकारको भवतीत्युक्तम् । इदं नोपपद्यते । विरसत्वं नाम दोषप्रकोपकविरुद्धरसवद्द्रव्यं भवति । तद्रसद्रव्यादनं कथं दोषत्रयोपकारकं कालवशाज्जाततद्व्यतिरिक्तरसस्य गुणातिरिक्तगुणवत्परिपूर्णद्रव्येष्वेव तथा प्रतीतत्वात् । तत्र सूत्रवचनं--

मधुरं श्लेष्मलं प्रायः जीर्णाच्छालियवादृते ।
मुद्गाद्गोधूमतः क्षौद्रात्सिताया जाङ्गलामिषात् ॥
प्रायोऽम्लं पित्तजननं दाडिमामलकादृते ।
अपथ्यं लवणं प्रायः चक्षुषोऽन्यत्र सैन्धवात् ॥
तिक्तं कटु च भूयिष्ठमवृष्यं वातकोपनम् ।
ऋतेऽभृतापटीलीभ्यां शुण्ठीकृष्णारसोनतः ।
कषायं प्रायशश्शीतं स्तम्भनं चाभयामृते ॥"[११]

 एवं प्रकारेण षड्रसानां रोगप्रकोपहेतुकत्वं प्रतिपादितम् । न ते रोगहारकाः । तथा सति तद्विरसद्रव्यादीनां रोगप्रतिपादकत्वं वक्तुं शक्यत्वादिति न वाच्यं, मधुररसस्य बहुगुणवद्द्रव्यत्वेन तच्छलेष्मलमिति वक्तुं शक्यत्वात् । "मधुरं श्लेष्मलं प्रायः" इति वचनं नाशङ्कनीयम् । तद्विरसद्रव्यं सकलदोषकारकं षड्रसानामपि तथा वक्तुं शक्यत्वादित्यर्थः । एवं पवनकफोदरामयस्य सूत्रप्रतिपादितार्थः पूर्वोक्तप्रकारेण योजनीयः । एवं पित्तकफोदरामयस्यापि एतावदर्थो योजनीयः । एवमाकारेण सप्तसङ्ख्योदरामया जाताः । तदुपरि सुत्रत्रयं व्याचष्टे--कफेति ।

 कफपित्तप्रकोपजनकद्वित्रिरसजातानुसरिततत्तल्लक्षणलक्षितकफपित्तोदरामयो ज्ञेयः । कफपित्तोदरामयं द्वित्रिरसजातानुसरितोभयलक्षणज्ञानजन्यकफपित्तामयं विद्यात् । रसासृङ्मांसमेदोविकारजनकद्वित्रिरसानुसरिततत्तल्लक्षणज्ञानगोचरपवनपित्तकफोदरामयो दुस्साध्यः ॥ २६ ॥

 ननु दोषत्रयजनकरसविरसादनहेतुकोदरामयसद्भावे किं मानं? तज्जनकहेतोरेवाभावात् । तत्रैकदोषजन्यास्त्रयः । द्वन्द्वजातास्त्रयः । त्रिदोषजन्य एकः । एवं सप्तविध उदरामयः । इतःपरमष्टसङ्ख्यापूरणार्थे उदरामये तद्भिन्नभूतदोषस्यैवाभावात् वातादीनां प्रयोजकत्वस्य तद्भेदोपाधिवशात् सप्तविधप्रकारस्य पूर्वमेव प्रतिपादितत्वात् तदितरोदरामयस्य हेत्वभावेन ज्ञातुमशक्यत्वात् कारणाभावे कार्यानुदयादित्याशङ्क्य समाधत्ते क्लिमीति ।

 क्लिमिजनकप्लीहोदरामयस्तथा[१२] ॥ २७ ॥

 अस्यार्थः-- क्लिमयस्तु विरसजातामयजन्याः । तेभ्यो जातप्लीहोदरामयास्सम्भवन्ति, क्लिमेस्सारजन्यमांसग्रन्थिरूपत्वात् । तस्य जठरानलकार्यस्य प्रयोजकत्वात् तद्वदेव दोषप्रयुक्तो भवति । तस्मादष्टविधोदरामयस्सङ्गच्छत इत्यर्थः ।

 पाण्डुशोफविसर्परोगाणां प्रतिपादनस्यावसरत्वात् उदरामयजनकसिरामार्गगतपवनगत्या उदरामयकार्यधातुत्रयदोषैकजन्यत्वस्य एतेषामपि समानत्वात् उदरामयनिरूपणानन्तरमेतन्निरूपणस्य प्रस्तुतत्वादाह--कट्विति ।

 कट्वम्ललवणरसवद्द्रव्यादनजातमल[१३] मार्गावरोधनात् तत्सिरारन्ध्रमार्गगतोर्ध्वहृत्परिपूरणपवनप्रकोपनात् पाण्डुशोफविसर्परुक्प्रदो भवति ॥ २८

 कट्वम्ललवणरसाः तद्विरसाश्च पित्तप्रकोपकारकाः । तद्विरसाः तज्जन्यपाण्डुशोफविसर्पकारकाः । तद्विरसादनजन्यामदोषः पाण्डुशोभविसर्परोगकारकः । तद्विकारः आमाशयं प्राप्य सिरारन्ध्रादूर्ध्वमार्गमवगम्य हृद्गतः पवनगतिविकारकारकत्वात् तद्व्याप्यसिराविकारकारकत्वात् तद्गतरक्तप्रदूषणात् तद्व्याप्य स्थित स्सन् पाण्डुरूपं लभते । रक्तविकारे सति शोभो भवति । मांसविकारकारकत्वात् विसर्पो भवति । तद्गताममेव पित्तं भवति । तद्रोगस्थानस्थितत्वात् विकारप्रदो भवति । तस्य विषरूपत्वात् धातवः प्रदूष्यन्ते । तज्जन्यलक्षणानि तत्रतत्र प्रकाश्यन्ते । तदामरूपत्वात्पित्तं हृदयस्थितामपित्तसारं सिरारन्ध्रभागमापूर्य पक्वाशये स्रावितत्वात् तत्पक्वसारस्यैव मूत्रत्वात् हृत्कमलं प्रविश्य तत्रैव स्थितं हृदि स्पन्दनं करोति । द्विसिरावृतपद्माधारजिह्वाप्रवेशनात्पित्तस्य तत्सिरारन्ध्रप्रवेशनात् जिह्वायामरुचिर्दृश्यते । हृदयस्थितामपित्तसारं सिरारन्ध्रभागमापूर्य पक्वाशये स्रावितत्वात् तत्पक्वसारस्यैव मूत्रत्वात् पाचकपित्ताभावो भासते । तद्धातुप्रवेशनमपि तदात्मत्वेन तत्पूर्ववर्णे विहाय पीतवर्णं भासते। तत्पञ्चाशत्सिरारन्ध्रधमनीं सम्पूर्य अक्षिपद्मं प्रविशति । तत्र पीतत्वं प्रतीयते । शतसिरारन्ध्रधमनीषु पित्तसारप्रवेशनात् तच्छाखाङ्गुलीषु कृष्णारुणकनकपीतदत्वेन तत्पूर्ववर्णं विहाय पीतवर्णं भासते । तत्रस्थरक्तं बहुवर्णं भासते । नाभ्यावृत्तचक्राधारकुण्डल्याधारभूतानीलात्मकनाभ्यावृत्तपद्महृद्गतामपित्तसारः नाभ्यावृत्तचक्राधारत्रिंशत्सिराभ्यन्तरमार्गेषु प्रविशन् तावद्विकारान् जनयतीत्याह--भ्रमेति ।

 भ्रमवमिपिपासाछर्दितृष्णामूर्छान्तर्विदाहाङ्ग स्पन्दनारुचिपाण्डुता पित्तपाण्डुशोभलक्षणम् । पादजानुजङ्घ्रोरुकटिपृष्ठबीजपार्श्वातिव्यथातिसाररूक्षतातिशीतसर्वाङ्गस्पन्दनं पवनशोभपाण्डुलक्षणम् ॥ २९ ॥

 वातपाण्डुलक्षणान्युच्यन्ते-- पादेति।

 अवर्णादिभूतपादपद्मस्य चतुस्त्रिंशत्सिरावृतालवालं तदामपित्तातिसारं शिरःकमलादागतामृतनिरोधनादामपित्तातिसारप्रदर्शनात् शोभपाण्डुविसर्पामयचिह्नज्ञापकं भवति । विरसादनविकारवित्पवनो रसासृग्धातुगतश्चेत् पाण्डुरूपविकारं भजते । स एव पवनो मांसधातुगतश्चेत् श्वयथुर्भवति । स एव धातुगतश्चेत् विसर्पामयो जायते । यस्य पादे विकारो जायते तत्प्रदेशस्थावर्णोच्चारणं स्पष्टोच्चारणवदश्राव्यम् । तत्प्रदेशे श्वयथुदर्शनं वा पाण्डुशोभविसर्पामया वा ज्ञातव्याः ।

 अवर्णस्थानभूतजानुपद्माधारकं चतुस्त्रिंशत्सिरावृतजानुपद्मालवालं श्वासोच्छासाभ्यां शिरःकमलस्थामृतोपहरणमार्गं रसविरसजन्यामपित्तसारसंस्कारं तत्सिरामार्गगतपवनविवृत्या पूर्ववत्पाण्डुशोभविसर्पामयाः । रसासृग्धातुदूषणात्पाण्डुत्वम् । मांसधातुदूषणाच्छ्व्यथुदर्शनम् । मेदोधातुदूषणाद्विसर्परोगाः प्रादुर्भवन्तीत्यर्थः ।

 ये तद्बर्णाधारतत्तद्देशीयपद्मावृतसिरामार्गगतपवनप्रचारणाभावकार्यजनकपाण्डुशोभविसर्पामयाः पूर्ववद्धातून्दूषयन्ति अचां वर्णानामुच्चारणसकलसामग्र्यां सत्यां अश्राव्यत्वं, ते पवनप्रकोपजाता इति ज्ञातुं शक्यत्वादेव पित्तप्रदेशकमलाधार शिरःकमलस्थामृतप्रवाहवशात् तद्विरुद्धरसजन्यामपित्तसारसंयोगकार्यं सिराणामेव, तद्रोगलक्षणज्ञानज्ञापकत्वात् । यावत्कालं यावत्सिरासंस्पर्शनं तत्तल्लक्षणलक्षितरोगाभावस्य तत्तन्निदानज्ञापकत्वात् । पृष्ठदेशमारभ्य बीजपार्श्वमेढ्रादधःप्रदेशपद्ममारभ्य कचटतपवर्गाणां तत्तद्बीजजनकपवनादेव एतदधिष्ठितपद्मानि पञ्चदशसङ्ख्याकानि पित्तप्रकोपविकारभावकार्यकारकपित्ताधारकपद्मानि । पित्तप्रकोपसामग्र्यां सत्यां तत्तद्वर्णविकारज्ञापकलक्षणलक्षितानि तत्तन्निदानज्ञापकानि । आोष्ठप्रदेशपर्यन्तं पञ्चदशाधारभूतपद्मस्थानाधिष्ठितपित्तं तत्तल्लक्षणानि तत्रैवाविर्भूतानीत्यर्थः ।

 इतःपरं कफपाण्डुशोभविसर्पामयचिन्हानि प्रकाश्यन्ते-- श्वासेति ।

 श्वासखासनासाक्षि[१४]पक्ष्मकर्णकपोलदन्ताति[१५]पीनसशिरस्तोदनं पाण्डुशोभ[१६]विसर्पामयलक्षणम् ॥ ३० ॥

 कफप्रदेशे हृदि अमपित्तातिसारस्य त्रिंशत्सिरावृतहृत्करमलस्थितत्वात् तत्सिरागतपवनविगत्या श्वासखासौ भवेताम् । अक्षिपक्ष्मकर्णकपोलदन्तानां मलाधिक्यं वेदनातिप्रतीतत्वात् । एतल्लक्षणाणि कफप्रकोपजन्यामयरूपपाण्डुशोभविसर्पामयलक्षणानि तत्तन्निदानेन ज्ञाप्यन्ते ।

 ननु पवनपित्तकफप्रकोपेन पवनपित्तकफरोगा इति प्रतिपाद्यते । तच्चिन्त्यम् । रसविरसान्नादनं वा शुद्धरसवद्द्रव्याधि क्यान्नादनं वा तदाशयस्थपवनवेगनिरोधनं वा रोगहेतुकमिति वक्तव्यम् । तथा सति सर्वशरीरसंचरितपवनप्रकोपाः विरसविषसंपर्कदोषजाः तत्पवनस्य शरीरव्याप्यसंचारकर्मगुणवद्द्रव्यत्वात् । तद्विरसविषसंपर्कवशात् पवनप्रकोपो भवतु । कफपित्तयो पङ्गुत्वादेव तयोर्विरसविषसंसर्गस्य वक्तुमशक्यत्वात् । तद्वत् अयं कफरोगः, अयं पित्तरोगः इति कथं ज्ञायत इत्यस्वरसादाह--बाह्येति ।

 बाह्यविषग्रस्तवद्धातुदूषकाः[१७] ॥ ३१ ॥

 सर्पादिना दष्टस्य विषग्रस्तस्य दृष्टत्वात् । तयोः पङ्गुत्वादेव तद्विषसंसर्गाभावेपि सर्वशरीरव्याप्यपवनवच्छरीरस्य पित्तकफयोः शरीरान्तःपातित्वेन विषसंस्पृष्टपवनसंसर्गवशात् दोषत्रयप्रकोपो भविष्यति । तद्वदत्रापि पवनव्याप्यविषरसदष्टपवनसंयोगस्य तयोर्विद्यमानत्वात् अयं पित्तदोषः अयं कफदोष इति वक्तुं शक्यते । तर्हि रोगमात्रस्य पवनप्रकोपजन्यत्वात् सर्वरोगाणां पवनप्रकोपाधीनत्वात् सर्वे रोगाः पचनजन्या एव स्युः । तस्मात्कफपित्तयोः पृथक्तयाऽवच्छेदकतासंभवात् तथा सूत्रस्थाने प्रतिपादितं--

विभुत्वादाशुकारित्वाद्बलित्वादन्यकोपनात् ।
स्वातन्त्र्यपारतन्त्र्याभ्यां व्याधेः प्राधान्यमादिशेत् ॥

 एतद्वचनानुसारेण पवनस्यैव सर्वरोगप्राधान्यं प्रतीतमिति चेत् न । तत्सर्वशरीरव्याप्यत्वेऽपि धातुपोषकं न भवति । मन्दानिलसन्धुक्षणकर्मगुणवद्द्रव्यत्वात् । अनलमन्दत्वनिवर्तकसन्धुक्षणगुणवद्द्रव्यस्य धातुपोषकत्वाभावात् । पित्तकलाया एव जठरानलत्वात् पित्तप्रकोपे सति अनलो मन्दो भवति । तेन कफप्रकोप एव स्यात् । पित्तकफप्रकोपो यावच्छरीरनाशकः सिरामार्गगतधातुपोषकपवनमार्गनिरोधनद्रव्यत्वात् । व्याध्यवच्छेदकं शरीरविनाशकत्वं, पित्तकफव्यतिरेकेण शरीरनाशकत्वाभावात् । वायोस्तु तत्संसर्गद्वारा रोगहेतुकत्वप्रतिपादनम् । तस्मान्मुख्यत्वेन प्राधान्यं पित्तस्यापि संभवतीत्यर्थः । पवनस्य व्याधेः प्राधान्यप्रतिपादनं सर्वशरीरव्याप्यपवनमन्तरेण रोगकार्यहेतुकत्वं वक्तुं न शक्यत एवेति तात्पर्यम् ।

 ननु पाण्डुशोफविसर्परोगाः तत्तद्भिन्निज्ञानविषयकसामग्रीजन्याः । नत्वेकपदार्थज्ञानग्राहकसामग्री बहुपदार्थग्राहिका भवति । बहुपदार्थविषयकज्ञानं नैकपदार्थविषयकज्ञानग्राहकसामग्रीजन्यं, एकपदार्थविषयकज्ञानग्राहकसामग्रीजन्यत्वात् । तथाहि घटेन्द्रियविषयकसामग्र्यां सत्यां घटविषयकज्ञानं जायते पटपदार्थविषयकज्ञानं नोदेति । तद्वदेवात्रापि । एकरोगजनकसामग्री कथं रोगक्रयप्रतिपादककार्यजनकसामग्री, बहुकार्यज्ञानग्राहिकाया अदृष्टत्वात् । अन्यथा एकपदार्थग्राहकसामग्र्यां सत्यां सर्वपदार्थविषयकज्ञानोप्तत्तिरेव स्यादित्यस्वरसादाह--वातेति ।

 वातपित्तरसविरसद्रव्यसंसर्ग[१८]जातवातगतिरोधनाद्रसासृग्धातुविदूषणात्त्वक्पालित्यं पाण्डुरोगहेतुकम् ॥ ३२ ॥

 अस्यार्थः--वातपित्तप्रकोपरोगाः रसविरसद्रव्यसंस्कारजाताः, तेन पवनगतिरोधनद्वारा रसासृग्धातुं विदूष्य त्वक्पालित्यं यत्र दृश्यते तत्र पाण्डुरोगोऽस्तीति निदानं ज्ञातव्यम् । स एव पाण्डुरोग इत्यर्थः । ननु वातपित्तप्रकोपसामग्र्या वातप्रकोपो जा यते । पित्तप्रकोपसामग्र्या पित्तरोगो जायते । पण्डुरागज्ञापकत्वक्पालित्यं कथं स्यादित्यस्वरसादाह--हृदिति ।

 हृदि स्थितामपित्तविषसारं पादपद्मशोषकं अवर्णबोधकचतुस्रिंशत्सिरासंसर्गवशादमृतप्रवाहरोधनात्पवनजन्यामयाः प्रवर्धन्ते ॥ ३३ ॥

 रसविरसद्रव्यादनजातामाशयव्यापकपवनविगत्या आमपित्तविषसारः अवर्णोद्बोधकतत्पादपद्मपोषकसिरारन्ध्रमार्गगतामृतप्रवाहं निरुध्य वातविकारजन्यपाण्डुरोगः हृदिस्थितामपित्तसारः परंपराहेतुर्भवतीत्यर्थः । स एव वातोदरस्यापि हेतुर्भवति । वातपित्तपण्डुरोगस्यापि परंपरया हेतुर्भवति । अनिलजन्यवातामयस्यापि हेतुर्भवति । अत एव उदरामयनिरूपणानन्तरं पण्डुशोफविसर्पामयानामवसर इति प्रतिपादितम् । एतत्प्रतिपादितामयानां जनकीभूतामपित्तरसविषद्रव्यस्यैकत्वात् । एककारणजन्यस्य नानाकार्यप्रतीतिः उपाधिभेदाद्भवति । सुवर्णस्यैकत्वेऽपि तज्जन्यकार्यं तत्तद्रूपभेदेन बहुविधं प्रतीयते, तत्र कारणबाहुळ्यस्य दृष्टत्वात् ।

 ननु अयं वातपाण्डुरोगः, अयं पित्तपाण्डुरोगः, अयं कफपाण्डुरोगः इति तादृशप्रतीतेर्विद्यमानत्वात् तत्कार्यहेतुभूतार्थाः दोषा एव भवेयुः । विरसजन्यामपित्तविषरूपद्रव्यस्य विरसजनकत्वात् तत्पाण्डुशोफविसर्पामयानां तत्तज्जनकीभूता दोषा एव हेतवो भवन्तीत्यस्वरसादाह--अमृतेति ।

 अमृतप्रवाहालवालोपजीव्यावर्णोद्बोधकसरन्ध्नकाभ्यन्तरधरषट्सिरामपित्तविषसारग्रसनं पवनप्रकोपहेतुकम् ॥ ३४ ॥

 शिरःकमलस्थामृताहरणयोग्यश्वासोच्छ्वासानिलाभ्यामाहृत तद्वर्णबोधकारिकार्योत्पादकतत्पद्मान्येव आलवालानि तेष्वमृतपूरणं कर्तुं सरन्ध्रकाभ्यन्तरधरषट्सिरा एव हेतुभूता भवन्तीत्यर्थः ।

 ननु सिरामार्गगतामृतप्रवाहप्रतिबन्धकजन्यामयकारणं आमपित्तविषसारं भवितुमर्हति तत्सिरासंसर्गसंस्कारजातरोगहेतुकत्वात्, यन्नैवं तन्नैवं यथा घटः। इत्यनुमानप्रमाणेन आमपित्तरसस्यैव हेतुत्वप्रसंगादित्यस्वरसादाह--सिरे इति ।

 सिरामार्गगतपवनमांसधात्वनुसृतजानुजङ्घोरुबीजपार्श्वपद्मगत इ, उ, ऋ, ए, ओ, ऐ वर्णोद्बोधकसरन्ध्रकाभ्यन्तरधरसिरामार्गगतपवनगतिनिरोधानादनिलप्रकोपो भवति ॥ ३५ ॥

 आमपित्तरससारं जानुजङ्घोरुबीजपार्श्वस्थितपद्माधारकसिरामार्गसंस्पर्शनान्मांसधातुदूषणात् इवर्णबोधकसिरास्पर्शनं पवनगतिरोधनं जानुपद्मद्व्यहेतुकं उवर्णबोधकसिरासंस्पर्शनं पवनगतिरोधकारकं जङ्घोरुपद्मद्वयहेतुकं ऋवर्णबोधकसिरासंस्पर्शनं पवनगतिनिरोधनवत्सिराभ्य उत्पन्नं ज्ञानं सिरामार्गगतपवनगतिजन्यविस्वरोद्बोधकहेतुको भवति । यावद्रोगजनकसामग्री तत्तद्रोगनिदानहेतुभूतविस्वरोद्बोधककार्यकारिणी भवति । उदरपाण्डुशोफविसर्पकुष्ठरक्तवातपवनकार्याणां एकसामग्रीजन्यत्वात् तत्सिरागतपवनकार्यभेदादेव तद्रोगभेदं जनयतीत्यर्थः । तत्तद्रोगनिदानं तत्तत्स्थस्वरविशेषावर्णात्मकपदोच्चारणं तत्तद्व्याधिविज्ञानहेतुकं भवतीत्यर्थः ।

 ननु पवनविकारा बहवस्सन्ति । तथाहि नेत्रवायुः, कर्णवायुः, शिरोवायुः, पक्षाघातवायुः, धनुर्वायुः, अर्दितवायुः, गुल्मवायुः, प्लीहवायुः, कटिवायुः, इति । तत्तल्लक्षणलक्षितानि तत्तद्ज्ञापकान्यपि बहूनि सन्ति । सिरासंचरितपवनगतिविकारभेदात् तत्तदङ्गस्थितानि तत्तद्विकारभूतानि । एक एव पवनस्सन् तत्तदङ्गगतोपाधिभेदात् तत्तन्नामाभिधेयाः तत्तदङ्गोपद्रवकारकाः प्रणघातुकाश्च भवन्तीत्यस्वरसादाह--तदिति ।

 तत्सिरामार्गगतपवनप्रकोपभेदाधिष्ठानोपाधिभेदात्पवनविकारभेदाः । [१९] आमपित्तविषरसविरोधिद्रव्यं भेषजम् ॥ ३६ ॥

 आमपित्तरसविरसजातरोगास्तच्छब्दार्थः । तत्सिरारन्ध्रमार्गेषु अनिलविकारो भूत्वा तत्सिरासंसर्गप्रदेशेषु यावत्कारणानुगतपवनगतिवैचित्र्यात् उवर्णबोधकसिरासंस्पर्शनं पवनगतिरोधकारकम् । कटिप्रदेशपद्मश्वयथुहेतुकम् । एवर्णबोधकसिरामार्गसंस्पर्शनं पवनगतिरोधकारकम् । बीजपद्मश्वयथुहेतुकम् । ऐवर्णोद्बोधकसिरामार्गगतपवनगतिरोधनं तत्पार्श्वश्वयथुहेतुकम् । आमपित्तरससारं बीजपार्श्वश्वयथुहेतुकम्, तद्वर्णबोधकसिरामार्गगतपवनगतिकारकत्वात् । यन्नैवं तन्नैवं यथा घटः । इत्यनुमानेन अच्स्वराधिष्ठानहेतुभूततत्तत्पद्माधारकसिरारन्ध्रभागगतपवनगतिः सुस्वरविशिष्टवर्णात्मकपदज्ञानप्रतिपादिका, ज्ञानेच्छाप्रयत्नादिना ताल्वोष्ठपुटव्यापारात्मकबाह्यपवनाहृतसंस्कारोद्बो धकहेतुभूतत्वात्, यन्नैवं तन्नैवं यथा घटः । तत्तद्व्याधिनिदानज्ञानं तत्तत्सिराधीनवर्णात्मकपदज्ञानहेतुकं, अविकारहेतुकसामग्रीजन्यत्वात्, यन्नैवं तन्नैवं यथा घटः । बाह्यपवनाकर्षणजातताल्वोष्ठपुटव्यापारसंस्कारोद्बोधकवर्णाधारपद्मं विरसद्रव्यादनजन्यपवनप्रकोपहेतुकस्वरबोधकारकं, पवनप्रकोपलक्षणज्ञानबोधकद्रव्यत्वात् आमपित्तसिरासारं यादृशसिरासंस्पर्शनात् तत्तदङ्गजन्यरोगा इति । सकलपवनरोगजनकसामग्री अमपित्तसारः, तत्तदङ्गावलग्नसिरासंस्पर्शनसामग्रीस्वरूपत्वात् । नानारूपघटानां एकमृत्पिण्डमेव कारणम् । तथा आकाशादिवदङ्गजन्योपाधिभेदात् कर्णपवनरोगः नेत्रपवनरोगः शिरःपवनरोगः इति व्यपदिश्यते ।

 ननु आमपित्तसारः उदरपाण्डुशोफविसर्पकुष्ठपवनरोगाणां एकमेव कारणमिति वक्तुं न शक्यते, तत्तन्नामभेदेन कार्यभेदस्य दृष्टत्वात् । तत्र कारणभेदोऽस्तीति अवश्यं ज्ञातव्यम् । घटः कलश इव भेदो भवतीति न वक्तव्यम् । तद्धि सर्वं पृथुबुध्नोदराकारत्वेन अयं घट इति घटत्ववति घटत्व प्रकारकत्वं ज्ञातुं शक्यत्वात् । न तद्वदेवात्रापि भविष्यति, अयं पाण्डुरोगः अयं शोफरोग इति रोगत्ववति रोगत्वविशिष्टप्रकारकत्वेन ज्ञातुं शक्यत्वादिति वाच्यम्, तेषां मृद्विकारव्यक्तीनां जलानयनकार्योपकारकत्वं पृथुबुध्नोदराकारव्यक्तीनां व्यक्तिभेदज्ञाने सत्यपि पृथुबुध्नोदराकारस्य एकप्रकारकत्वस्य दृष्टत्वात् । दृष्टान्तेनापि अभेदज्ञानमात्रमिति नानुभूयते । तद्वदत्रापि फलभेदरूपभेदचिकित्साभेदज्ञानानुभवस्य दृष्टत्वात्, इति चेत् न्न । तद्वदत्रापि कार्यभेदाभावोऽस्ति । तथाहि--आमपित्तसारः उक्तरोगेषु एक एव हेतुर्भवति । तत्तच्चिकित्साभेदेन तत्तन्नामभेदानुभवः कथमपलापयितुं शक्यते ? अत्र ब्रूमः-- आमपित्त रससारस्तु उदरपाण्डुशोफविसर्पकुष्ठवातरक्तवातविकाराणामेक एव हेतुर्भवति । स एक एव कार्यजनकः । सिरामार्गगतपवनगतिनिरोधनरूपकार्यकारकद्रव्यत्वात् । तत्पवनगतिनिरोधनं एतदामयहेतुकम् । तत्तु क्वचिदङ्गभेदेषु रसासृग्दूषणद्वारा त्वक्पालित्यं करोति । स पाण्डुरोग इति व्यवहारमात्रभेद उपलभ्यते । तदेव यदा तत्सिरासंसर्गभेदवशात् तत्पवनगतिनिरोधनं मांसधातुशोषकं भवति इतरमांसधातुः पृथुर्भवति । तच्छोभरोग इति व्यवह्रियते । तद्गतिनिरोधनं यदा मेदोधातुदूषकं भवति स मेदस्सारः बहिःस्फोटरूपेण स्फुरणात् पवनविसर्परोग इति ज्ञानं जायते । स आमसारः मेदोधातून् सन्दूष्य तद्बहिर्भूतमांसधातुमावृत्य त्वग्धातुं प्रविश्य बहिस्सर्पति चेत् तत्कुष्ठं भवति । यावत्पवनाधारकसिरा आमपित्तरससारग्रस्तास्सन्तः यावत्पद्मविकारकार्यकारितत्तत्सिरावर्णविकारं कुर्वन्तीति कुष्ठाः, कुत्सिताङ्गविकरं कुर्वन्तीति कुष्ठाः । पादपद्माधारकसिराहृद्गतामपित्तरससारसंस्कारयुक्तसिरा तद्विषसारं स्रवति । तत्पद्ममापूर्य पादाङ्गुलिभ्यः स्रवति । तच्छाखानि शीर्णानि भवन्तीत्यर्थः ।

 ननु रसविरसजन्याजीर्णजन्यामयहेतुकत्वे सति मेदोस्थिमज्जाधातुगतसिराधारकपद्माश्रितामपित्तरसविषसारजन्यामयहेतुकत्वादिति व्यतिरेक्यनुमानप्रमाणेन प्रतिपादितामयानां अजीर्णजन्यामनिवर्तकसामग्र्यतिरिक्तसामग्रीनिवर्तकद्रव्यत्वात् इति । तस्माल्लङ्घनतदुपयोगद्रव्याणि निवर्तकानीति आयुर्वेदसूत्रचयं व्याचष्टे । पवनप्रकोपहेतुकविरसाज्जातं रसासृङ्मांसचयप्रदेशगतं भवति । स्वाद्वम्ललवणरसाधिक्यादनेन अजीर्णे जाते सति पवनप्रकोपो भवति । अचां वर्णानां आधारभूतपद्माधारकसिरासंस र्गवशात् पवनामयाः प्रवर्धन्ते । तज्जनकामशोषे सति तन्निवर्तते । तावद्विरसादनादजीर्णादामप्रवृद्धौ सत्यां रसासृङ्मांसगतसिरासंस्पर्शनाद्यत्र पवनविकारो जायते स आमपित्तसारः आमाशयं प्रविश्य हृत्कमलप्रवेशनात् विषसंसर्गवत् यावद्रोगहेतुकं तावद्धात्वन्तर्गतसिरासंस्पर्शनात् तद्धातून्सन्दूष्य रसासृङ्मांसभेदोधातवः दूषितास्सन्तः क्रमात्पाण्डुशोफविसर्पामयाः प्रवर्धन्ते । सुतरां मेदोधातुविकारे सति कुष्ठं भवति । स आमपित्तसारः रसासृङ्मांसधातून्सन्दूष्य मेदोधातुस्थितत्वात् तावद्धातुसारस्य बहिःप्रदर्शनमेव कुष्ठरोगकारणं भवतीत्यर्थः ।

 ननु त्रिसाराधिक्यादनजातरोगास्तु अजीर्णरोगजन्यामया बहवस्सन्ति । तत्कार्यभेदस्य दृष्टंत्वात् कारणभेदो वक्तव्यः। आमपित्तसारस्य एकरूपत्वात् शोफपाण्डुविसर्पमयानां धातुदूषककार्यस्य एकत्वात् तत्र वक्तुं शक्यते । तत्कार्यव्यतिरिक्तकुष्ठरोगकार्यस्य भिन्नत्वादित्याशयं मनसि निधाय कुष्ठरोगागमहेतुं वर्णयति--पूर्वस्मादिति ।

 [२०]पूर्वस्माद्द्विगुणं पृथुतया भाति[२१] ॥ ३७॥

 पूर्वधातुभ्यः स्थूलत्वं द्विगुणंप्रतीयते । न च तन्तुबद्धानुसारस्रावितरोगस्वरूपत्वात् सिराशौण्डिल्यतया पृथुत्वं भासते । आमपित्तसारस्य यावत्सिरासंस्पर्शनं तत्तद्रोगाणां तत्तत्सिरासंस्पर्शनं कारणं भवति । तथा सति कारणवैचित्र्यात् कार्यवैचित्र्यं प्रतीयते । तन्तुगतरूपानुगतरूपानुविचित्ररूपवत्त्वं यावत्तन्तु गतरूपानुसारिवैचित्र्यं तज्जन्यपटवैचित्र्यं करोति । कारणगुणा हि कार्यगुणानारभन्ते । यावत्सिरासंस्पर्शनं तावत्सिराधारकपद्मगतविकारकारकं, तदन्यरोगकार्यहेतुकत्वे सति तद्धेतुकत्वात् यन्नैवं तन्नैवमिति । पाण्डुशोभविसर्पकुष्ठरक्तवातामयानां आमपित्तरूपविषसंसर्गविशिष्टसिराणां नानारुपकार्यजनकत्वं सूच्यते ।

 आमपित्तसारस्य एकत्वेऽपि तज्जनकद्रव्याधिक्यं कारणतावच्छेदकं भवतीत्यर्थः ।

 ननु सर्वशरीरव्याप्यपवनप्रकोपे सति तत्संचारयोग्यधातुशोषो जायते । शोषणैककार्यकारकरूक्षगुणद्रव्यत्वात् अनन्तावच्छेदकं रूक्षगुणवत्त्वधातुशोषककार्यकारकत्वं प्रथमत एव प्रति प्रतिपादितम् ।

तत्र रूक्षो लघुश्शीतः खरस्सूक्ष्मश्चलोऽनिलः ॥ इति.

 तस्मात्पवनविकारमात्रेण आमपित्तरससारस्य एकदेशस्थितत्वात् सर्वधातुशोषणं कर्तुं न शक्यत इत्याशयं मनसि निधाय पवनविकारं प्रतिपादयति--त्रिसहस्रेति ।

 त्रिसहस्रसिराहेतुकं मधुरीभूतं ज्वलयति[२२] ॥ ३८ ॥

 धातुप्रदेशवातपद्माधिष्ठितावर्णोच्चारणसामग्री विस्वरप्रतिपादिका यदि भवेत्तदा पवनप्रकोपकारकमधुरीभूतद्रव्यादनजातपवनविकारकार्यहेतुत्वात् स्वाद्वम्ललवणरसवद्द्रव्यधातुप्रदेशवातपद्माधिष्ठितावर्णोच्चारणसामग्री विस्वरप्रतिपादिका यदि भवेत्तदा पवनप्रकोपकारकमधुरीभूतद्रव्यादनं पवनरोगप्रागभावपरिपालनकारकास्तास्सिरास्त्रिसहस्रसंख्याकाः पादपद्माधारकाः ता वत्सिरावच्छरीरंभवति पवनविगत्याधारकसिराणां तत्तद्गतितिरोधानकारकद्रव्यं किं वक्तव्यम् ? तत्पवनप्रकोपकारकं भवति । न तावद्धातुशोषकं, किंतु वेदना रोगकार्यं भवातीत्यर्थः ।

 ननु सर्वद्रव्येषु मधुररसः पवनप्रकोपनिवर्तको भवति । स्थावरजातिस्थितमधुररसः पवनप्रकोपकारकः । जङ्गमादिस्थितमधुररसवद्द्रव्यं पवनप्रकोपहारकम् । तथाऽपि उभयमपि परमधातुपोषकम् । स्थावराणां स्वादुरसः रसासृग्धातुविकारकः । जङ्गमानां स्वादुरसः सर्वधातुपोषको भवतीत्याशयं मनसि निधाय प्रजाजननहेतुं प्रतिपादयति--प्रजेति ।

 प्रजोत्पोदकहतुभूतं भवति ॥ ३९ ॥

 जङ्गमानां मांससारः पयोविकारो भवति । तत्सजातीयान्यसारोऽपि सर्वशरीराणां धातुरसस्स्वादुरेव भवति । तत्स्वादुरसः प्रजाजननकारकः रेतोधातुविकारहारकद्रव्यत्वात् । खेचराणामण्डजस्वादुरसः पवनप्रकोपहारकः । भूचरशरीरजातक्षीरविकारजाताः पवनहरशुक्लधातुपोषका इत्यर्थः । स्थावरद्रव्यनिष्ठमधुररसानामिक्षुकाण्डादिजन्यानां सर्वधातुपोषकत्वं वक्तुमशक्यत्वात्, स्थावररसात्मकत्वात् तन्निष्ठस्वादुरसो गुरुर्भवतीत्यस्वरसादाह--मधुरेति ।

 [२३]मधुररसादनादसृग्धातुर्भवति ॥ ४० ॥

 स्थावरनिष्ठमधुररसादनं जङ्गमशरीराणां रसासृग्धातुप्रव र्धकं इक्षुकाण्डादिद्रव्यजन्यरसवद्द्रव्यत्वात् । रसासृग्धात्वभिवर्धकस्स्थावरनिष्ठस्वादुरसो भवतीत्यर्थः ।

 स्थावरनिष्ठाम्लरसस्य प्रयोजनमाह--आम्लेति ।

 आम्लरसादनं मांसधातुप्रदं भवति ॥ ४१ ॥

 स्थावराणां लवणरसस्यप्रयोजनमाह--लवणेति ।

 लवणरसो मे[२४]दोधातुप्रदः ॥ ४२ ॥

 स्थावराणां लवणरसः जङ्गमशरीराणां मेदोधातुप्रवर्धको भवतीत्यर्थः ।

 ननु स्थावराणां स्वादुरसः पवनप्रकोपकारकः । जङ्गमशरीराणां स्वादुरसः पवनप्रकोपहारक इति भेदकथनं कथं वक्तुं शक्यते । तद्वदेव षड्रसानां गुणप्रदानं भेदद्रव्यस्यैव वक्तुं शक्यत्वात् स्थावराणां गुणप्रदानं षड्रसानां तत्तज्जात्यवच्छेदेन भेद एव स्यादित्यस्वरसादाह--आद्येति ।

 आद्यद्विधातुसारं जङ्घापद्महेतुकम् ॥ ४३ ॥

 तिक्तरसाभिवर्धितं मेदोधात्वन्तस्स्थितदशदळपद्मं कण्ठप्रदेशगतम् । सहस्रसिरादागतामृतं तस्य पोषकम् । आद्य इति--स्वादुरसवद्द्रव्यम् । द्वे इति-- क्ष्माम्भसोरेकीभूताधिकजातद्रव्यगुणसारं स्वादुरसवद्द्रव्यं तदेव निवर्तकं भवतीतियत् तत्कथं ज्ञातुं शक्यते ? शुक्लधातुपोषकस्वादुरसं आद्यद्विधातुरसासृग्धातुदूष्यं भवति । जङ्गमद्रव्यनिष्ठस्वादुरसं सर्वधातुपोषकम् ।

तथा गव्यं पयः गव्यं घृतं रसासृग्धातुविकारानिवर्त्यतद्धातुपोष्यं भवति । तत्स्वादुरसस्य सर्वशरीरपुष्टिकरत्वात् अनिल निवर्तकस्वादुरसवद्द्रव्यत्वात् पादपद्माधारकजङ्घापद्माधिष्ठिताज्वर्णानां आधारो भूत्वा स एव सुगतिकारकस्सन् तत्तत्पद्मानि तत्तदधिष्ठितवर्णानि च सहस्रारपद्मगतामृतं सहस्रसिराभ्य आहृत्य तत्तद्वर्णाधारकपद्ममाप्लाव्य तत्तद्वर्णानुभवज्ञानद्वारा ऐकारज्ञापकपवनः तस्य पोषको भवति । तिक्तेरसाभिवर्धितपित्तदोषः नाभेरधस्स्थितदशदळपद्मं स्वाधारं कृत्वा पवनहृतामृतं स्वाधिष्ठानभूतं दशदळपद्ममाप्लाव्य हलादिवर्णानां श्रोत्रप्रदेशं प्रापयन् तिक्तरसः मांसमेदोधातुपोषको भवतीत्यर्थः ।

 ननु अचस्सप्त स्वराः सन्तः सरन्ध्रकाभ्यन्तरधरसिरामार्गेभ्यः श्रोत्रप्रदेशं प्रसरन्तः स्वराश्श्रूयन्ते । पादपद्ममारभ्य बीजपार्श्वपद्मपर्यन्तं पवनस्थानमिति । अत एव चलनात्मकं कर्म कुरुते । जङ्घाभ्यां पद्भ्यां धर्मोऽस्मीति शरीरापगमागमौ भवतः । तदेवं चलनात्मकगतागतभेदं पवन एव कुरुते । तेनैव स प्रचरति । बीजपार्श्वपद्ममारभ्य हस्तपद्मपर्यन्तं कचटतपवर्गपञ्चकस्य तत्तत्पद्माधिष्ठितत्वात् । सरन्ध्रकाभ्यन्तरगतपवनस्तु स्वाभिमानपद्मेषु स्थित्वा अचां वर्णानां तत्तद्वर्णसन्ध्युच्चारणार्थं सुपदप्रयोगोच्चारणार्थं तत्पदसमूहवाक्योच्चारणार्थं स्वाभिप्रेतार्थबोधनार्थं पदवाक्यप्रयोगव्यतिरेकेण स्वस्यापरस्य बोधयितुमशक्यत्वात् । तस्मादज्भिः साकं हलादयः स्वाभिप्रेतार्थं परेषां विबोधयितुं शक्नुवन्ति । अत एव शब्दशास्त्रे वैयाकरणैः प्रथमत एव प्रतिपादितं--

 "वृद्धिरादैच्, अदेङ् गुणः, इको गुणवृद्धी" एतत्सूत्रत्रयस्यार्थे महाभाष्ये सर्वं प्रपञ्चितम् । तत्र यत्प्रतिपादितार्थं अज्भिः साकं हलादयः कार्यकारका भवन्ति । पित्तदोषाभिमानकुक्षिस्थिततत्तत्पद्मस्थितवर्गपञ्चकवर्णानां तत्तत्सिरागतपवनः स्वाभिमानभूताज्यवर्णान् यथाविधि शास्त्रप्रतिपादितार्थान् बोधयितुं स्वरसहितहलादीन् सिरास्यदोषगतिजातशब्दः कर्णयोः प्रपद्यत इति । पित्तप्रदेशपद्मस्थितवर्णान् पवन एव प्रापयतीत्याह--तिक्तेति ।

 तिक्तरसाभिवर्धितं मेदोधातुस्थितदशदलपद्मं कटिप्रदेशगतम् । सहस्रसिरादागतामृतं तस्य तत्पोषकम् । तिक्तरसाधिककफप्रदेशामृतं तत्र दोषजन्यम् । पिङ्गलामार्गादागतपवननिरोधनं सुभेषजं सुपोषकम् ॥ ४४ ॥

 तिक्तरसद्रव्यादनसंस्कारजन्यगुणाः तत्तद्विरुद्धादनरसजन्यरोगवशात् स्वस्थोच्चारणाधीनवर्णात्मकपदसमूहवाक्यश्रवणं तत्तत्पद्माधिष्ठितरोगविज्ञानहेतुकं भवति । ताल्वोष्ठव्यापाराधीनवर्णोच्चारणहेतुभूततत्तत्पद्मस्थितरोगजनकसामग्र्या यावद्धीनवर्णोच्चारणजन्यवर्णाकारं विज्ञाय कफविकारहेतुकस्वाद्वम्लरसवद्द्रव्याधिक्यादनजन्यकफरोगस्य तन्निवर्तकामृतं पिङ्गलामार्गादागतपवननिरोधनजन्यामृतं सुभेषजं भवतीत्यर्थः ।

 हीनवर्णोच्चारणहेतुकतद्रोगस्य तन्निवर्तकद्रव्याभावेऽपि बहिः पवनरेचनं तत्पूरणं च निवर्तकं भवतीत्याह--बहिरिति ।

 बहिः पवनं रेचयेत् तमेव पूरयेत्[२५] ॥ ४५ ॥

 अस्य फलमाह । तस्मादिति--

 तस्माच्चिरायुर्भवति[२६] ॥ ४६ ॥

 ननु एतत्सर्वं न संसृज्य घटते । तल्वोष्ठपुटव्यापारसामग्र्यां सत्यां वाञ्छितार्थः श्रोत्रप्रदेशगतशब्दजनितवाक्यश्रवणेन तत्पदार्थः वाक्यविषयो भवति । न तत्पद्माधिष्ठितवर्णसिराभिरेव ज्ञाप्यते, गौरवात् । "यद्धि मनसा ध्यायति तद्वाचा वदति, तत्कर्मणा करोति" इति श्रुतिरेवात्र प्रमाज्ञापिका । किंच ‘अकुहविसर्जनीयानां कण्ठः ।इचुयशानां तालु । उपूपध्मानीयानामोष्ठौ । ऋटुरषाणां मूर्धा । लृतुलसानां दन्ताः" इत्यादिवार्तिकवचनानां विद्यमानत्वात् तत्तत्पद्माधिष्ठितवर्णान् श्रोत्रप्रदेशं प्रापयितुं तत्तत्सिराणां तत्सामाग्र्यभावादित्यस्वरसादाह--चन्द्रेति ।

 चन्द्रकलायतमरुत्प्रचोदितपद्मं मुकुलीभवति । सूर्यकलागतपवनाद्विकसति ॥ ४७ ॥

 चन्द्रकला ताल्वोष्ठपुटव्यापारसामग्र्यां सत्यां चन्द्रस्वरादागतपवनेन मुकुलीभवति । एतद्वर्णोत्पादकताल्वोष्ठपुटव्यापारसामग्रीजन्यपवनात्सरन्ध्रकाभ्यन्तरधरसिरामार्गं प्रविश्य तत्तत्पद्माधिष्ठितवर्णान्गृहीतुं तत्पद्ममुकुलीभाव एव कारणं भवतीति तत्सर्वं मनसि निधाय तत्तद्व्याधिनिदानं पूर्वस्वराद्विकृतस्वराः, तत्पद्माधिष्ठितरोगविज्ञानहेतुत्वात् इत्यत्र प्रमाणं वर्णोच्चारणश्रवणज्ञानानुभव एव । तद्ज्ञानं कीदृशमित्युक्ते अनुभवं पृच्छेत् न तद्बोधयितुं शक्यम् । क्लिष्टोच्चारणं यदा क्रियते तस्य बीजपार्श्वस्थानत्वात् तद्व्यापारजनकपवनस्तत्सिरामार्गे सञ्चरन् कव र्णं गृहीत्वा श्रोत्रप्रदेशं गमयति । तदाऽत्र 'कः' शब्दो जायते । तत्कर्णविवरं गत्वा आविर्भवति । तेषां वर्णानां कण्ठ एव स्थानं भवति । इचुयशादिवर्णा अपि तालुप्रदेशं गत्वा आविर्भवन्ति । लृतुलसा अपि दन्तदेशं गत्वा आविर्भवन्तीति परंपरया तत्तत्सजातीया अप्याविर्भूता इत्यर्थः । एवं सूर्यकला सहायं कृत्वा तत्तत्पद्मं विकासयन्ती वर्णान् जनयति । एवं चन्द्रकला च सूर्यकला च तत्तत्पद्मानां निमीलनोन्मीलनं च करोति । यावदर्थं जानाति तदर्थमिच्छति तावदर्थवदुच्चारितशब्दो विषयो भवतीत्येवं मनसि निधाय ताल्वोष्ठपुटव्यापारं करोति । तेन वायुरुत्पन्नस्सन् तज्जातीयसिरागतपवनं सम्प्राप्य तद्वाञ्छितार्थप्रतिपादकवर्णसमूहं पदमुद्दिश्य ताल्वोष्ठपुटव्यापारसामग्र्या च शब्द उत्पद्यत एवेत्यर्थः ।

 ननु भेरीदण्डसंयोगेन यावत्पवनानुगतशब्दश्श्रूयते । तत्र वायोस्सिरादिव्यापारं विना स वायुश्शब्दबोधको भवति । तद्वदेवात्रापि स्यादिति चेत् न । तस्यापि शरीरमस्ति चर्मपुटमावृत्य आकाशाभ्यन्तरस्सन् भेरीशरीरमिति व्यपदिश्यते । तत्र सिरागतपवनब्यापारं विना शब्दोत्पत्तिः कथं स्यात् । तद्वदेव वर्णात्मकपदं श्रूयते । तत्र भेरीशब्दो जात इति कथमनुभूयत इति तादृशार्थध्वन्यात्मकशब्दमात्रमेव श्रूयते । स वर्णात्मकः चैतन्याधिष्ठितसिरादिव्यापारं विना तस्य असंभावितत्वात् । ध्वन्यात्मकशब्दत्वात् अस्यास्सामग्र्या न तत्र तात्पर्यम् ।

 ननु वर्णानां चैतन्याधिष्ठितश्रुतिरवत्वात् ताल्वोष्ठपुटव्यापारस्य समानत्वात् वर्णात्मकशब्दः कथं स स्यादिति चेत् मनुष्याणामिव पश्वादीनां अविरळकण्ठाभावत्वेन वर्णात्मकशब्दो न श्रूयते नार्थबोधोऽप्यस्ति, हितार्थमियं प्रवृत्तिरस्यास्तीति । अविरळकण्ठत्वमेवात्र प्रयोजकम् । तस्मात्तृणादिकमाहारो भवति ।

 ननु अविरळकण्ठत्वमेव वर्णात्मकशब्दनिष्पत्तौ प्रयोजकम्, तर्हि अविरळकण्ठत्वं खेचराणामप्यस्ति तत्र वर्णात्मकशब्दनिष्पत्तिः कथं न स्यात् ? मनुष्याणामिव अविरळकण्ठत्वस्य खेचरणामपि समानधर्मत्वात् । वर्णात्मकशब्दः कथं नोपलभ्यते तेषां ? यत्किंचिच्छब्दाः श्रूयन्ते । मनुष्याणां तद्विषयकज्ञानाभावेऽपि तत्तज्जातीयानां तदुच्चारितशब्दविषयकज्ञानमस्ति । अन्यथा तेषां प्रवृत्तिरेव न स्यात् । तदन्यथानुपपत्त्या शब्दविषयकज्ञानं कल्प्यते । अविरळकण्ठवज्जातिमज्जन्तूच्चारितशब्दा वर्णात्मकाः, तत्तज्जातिविषयकजन्तूच्चारितशब्दज्ञानप्रवृत्तेरुपलभ्यमानत्वात् मदुच्चारितशब्दविषयकज्ञानानुसरितप्रवृत्तिविषयवत् । तस्मादविरळकण्ठवज्जातिविशिष्टजन्तूनां तत्तज्जातिविधिविहितविषयकज्ञानानुभवानुसरितप्रवृत्तेर्दृष्टत्वात् इत्याशयं मनसि निधायाह-- इडेति ।

 इडापिङ्गलाभ्यां प्रवहति ॥ ४८ ॥

 इडापिङ्गलापवनवज्जातिविशिष्टजन्तूच्चारितशब्दाः वर्णात्मकाः, चन्द्रसूर्यकलाग्रस्ततत्तत्पद्माधिष्ठितवर्णानां निमीलनोन्मीलनसंस्कारजातशब्दात्मकत्वात् । पश्वादीनां न तथा, एकदा उभयस्वरात्मकत्वात् । अत एव तृणादिद्रव्यमपाचितमन्नमत्ति पशुः, उभयानिलानलात्मकत्वात् । खेचराणामपि तथैव । जलचराणामपि अपाचितान्नादनं इडापिङ्गलागतानिलाभ्यां पाचकपित्तं प्रवहति । मनुष्यान्यजातीनां युगभेदेन चन्द्रसूर्यकाभ्यां तत्तद्वर्णात्मकाधिष्ठितानि संप्राप्य खेचरपश्वाद्युच्चारितशब्दा वर्णा त्मकाः, पुराणादौ तथा प्रतिपादितत्वात् । अन्ययुगादौ प्राणादिपञ्चवायूनां अस्थिगतत्वात् तत्काले शब्दा वर्णात्मका भवन्ति । सर्वशरीराणां सात्मकत्वादेव तथा वक्तुं शक्यते । जीवच्छरीरं सात्मकं प्राणादिमत्वात् इत्यनुमानेन प्रमाणेन यानि यानि शरीराणि सात्मकानि तानि सर्वाणि प्राणात्मकान्येव । कलियुगकालग्रस्तशरीरादिगतप्राणादिवायवः रसासृग्धातुगताः । तदन्ययुगकालग्रस्तशरीराधिष्ठितप्राणादिवायवः अस्थिगता भवन्ति । एतद्युगकालग्रस्तानि शरीराणि अधर्मात्मकानीत्यत्र अधर्मत्वमुपाधिः ।

 ननु शरीरत्वावच्छेदेन सर्वशरीराणां प्राणादिमत्त्वादेव शरीरत्वावच्छेदकस्य स्थावराणामपि सत्त्वात् तेषामपि शब्दोच्चारणत्वप्रसंग इत्यस्वरसादाह--षडिति ।

 षट्कमलानामादिभूतं मूलाधारकम्[२७] ॥ ४९ ॥

 षट्कमलाधिष्ठितशरीरत्वं येषामस्ति तेषां शब्दोच्चारणेऽपि सामर्थ्यमस्ति । तथा न स्थावराणां पादपद्मावच्छेदकं भवति । जङ्गमशरीराणां शिरःकमलस्थामृतसारवत्पोषकत्वस्य तेषामवच्छेदकत्वात् । तत्सहस्रारपद्माधिष्ठिशीर्षवत्त्वात् शिरःकमलस्थामृतवत्त्वं शरीरपोषकम् । तत्स्थावरशरीराः पादपा इति । तस्मात्तेषां मूलाधारपद्मं षट्कमलात्मकं न भवति । सर्वेषां शरीरत्वावच्छेदकत्वस्य साधारणत्वेऽपि येषां शरीराणां मूलाधारपद्मं षट्कमलात्मकं तेषां शरीराणां शब्दोच्चारणत्वस्य योग्यत्वादित्यर्थः ।

 ननु स्थावराणामपि मूलाधारपद्मं दशदळात्मकं तिक्तोषणरसात्मकं तदेव । तदेव शिरःकमलस्थं सन्मांसमेदोधात्वात्मकम् । तत्र मनुष्याणां सहस्रारपद्मं तत्तच्छिरसि प्रतिभाति । स्थावरा णामपि अग्रशाखं तदेव । शिरश्शिखामूलात्मकत्वात् शाखाग्राणि प्रवर्तन्ते । षट्कमलानामादिभूतमूलाधारकत्वलक्षणस्य स्थावराणामपि सत्त्वादित्यस्वरसादाह--तिक्तेति ।

 तिक्तोषणरसप्रदानजन्यमेदोमज्जाधारकदशदलपद्मं सहस्रसिरादागतामृतं तत्र सिञ्चति[२८] ॥ ५० ॥

 शाखाङ्कुरादयः तिक्तोषणरसप्राधान्येन जायन्ते । अङ्कुरप्रादुर्भावसमये तिक्तरसो वा ऊषणरसो वा यावदुचितसारः प्रतिभाति, तत्तदङ्कुरस्य मेदोमज्जाधारकत्वात् अङ्कुरादिकमेव दशदळपद्मं, मूलाधारकं च तदेव भवति, उभयोरपि कदाचिद्बीजावापकत्वस्य दृश्यत्वादित्यर्थः ।

 ननु मनुष्याणामिव कुण्डलिनीशक्तेरभावात् इडापिङ्गलानुसरितत्वात् श्वासोच्छ्वासाभावेन तद्वशादेव अमृतावसेचनं शाखिशरीरस्य अयोग्यमित्यस्वरसादाह-- इडेति ।

 इडापिङ्गलागतामृतं सिञ्चति[२९] ॥ ५१ ॥

 तत्पत्रचलनमेव शाखिनां श्वासोच्छ्वासौ भवतः । शाखाग्रं दशदळपद्मात्मकं सुरूपत्वात् । सुलावण्यात्मकत्वात् । चक्षुरिन्द्रियविषयसुखज्ञानानुभवरूपविषयकत्वात् । तच्छाखाग्रवर्तिदशदळपद्मं चक्षुरिन्द्रियविषयकं सुखानुभवविषयस्वरूपत्वात् । शाखिनां तत्पद्ममेव पोषकं भवतीत्यर्थः ।

 ननु शाखाग्राणि सुरूपाणि सुलावण्यानि सुकुमाराणि, चक्षुःप्रतीतिविषयसुखानुभवविषयहेतुभूतत्वात् इति यदुक्तं तच्चिन्त्यं, सर्वपदार्थानां चाक्षुषप्रतीतिविषयत्वादेव सर्वपदार्थानामपि सुखानुभवविषयत्वस्य वक्तुमशक्यत्वादित्यस्वरसादाह--सर्वार्थानामिति ।

 सर्वार्थानां हेतुभूतानां सर्वसुखसाधकम् ॥ ५२ ॥

 सर्वार्थानामिति--

 "समिधो यजति । वसन्तमेवर्तूनामवरुन्धे । तनूनपातं यजति ।" इत्यनुवाकस्य स्वर्गसाधकयागानुष्ठानहेतुभूतत्वात् धर्मविषयप्रतिपादकत्वमित्युक्तम् । फलितार्थस्य आदिरूपेण फलविषयकार्थप्रतिपादकत्वात् पदार्थरूपपुरुषार्थप्रापकद्रव्यत्वात् "पुरुषार्थोऽयमिति फलितपुष्पफलानां हेतुभूतत्वात् कामनाविषयकत्वादेव तृतीयपुरुषार्थस्य हेतुभूतत्वात् सर्वशास्त्राभिज्ञस्य धर्मज्ञस्य हस्तकौशल्यादिज्ञानवतः सर्वदा परोपकारशीलस्य पण्डितस्य विप्रवर्णभेषजस्य आयुर्वेदार्थज्ञानद्वारा चिकित्सकस्य मोक्षप्राप्तिहेतुभूतत्वात् चिकित्सितं मोक्षहेतुर्भवति । तस्य श्रुतिरेव प्रमाणप्रतिपादिका । तथा हि--

"अश्वत्थे वो निषदनं पर्णे वो वसतिष्कृता ।
गोभाज इत्किलासथ यत्सनवथ पूरुषम् ॥
यदिमा वाजयन्नहमोषधीर्हस्त आदधे ।
आत्मा यक्ष्मस्य नश्यति पुरा जीवगृभो यथा ॥
यत्रौषधीस्समग्मत राजानस्समितामिव ।
विप्रस्स उच्यते भिषग्रक्षोहामीवचातनः" ॥

ऋग्वेदः १०, ९७,सू.
 

 इति श्रुतेर्विद्यमानत्वात् चिकित्सितस्य विप्रस्यैव मोक्षप्राप्तिहेतुभूतार्थत्वात् तच्छाखाग्राणां चतुर्विधपुरुषार्थप्रापकत्वस्य वक्तुं शक्यत्वादित्यर्थः ।  "यज्ञास्य शिरोऽच्छिद्यत । ते देवावश्विनाब्रुवन् भिषजौवै स्थ इमं यज्ञस्य शिर प्रतिधत्तम्" इत्यनुवाकस्य तात्पर्यं शस्त्रधारणं ब्राह्मणानामयोग्यं, इयं शस्त्रचिकित्सा यावद्ब्राह्मणानामयोग्येति चिकित्साभेदे निषेधितम् । तस्मात् शस्त्र चिकित्सा न कार्या । शूद्रैरेव कारयितव्या । तत्रापि तत्तच्छास्त्रप्रतिपादितसिरादिभेदं विज्ञाय शूद्रैरेव कारयितव्या इत्यस्य य उपदेष्टा स एव कर्ता । अस्यापि सैव श्रुतिः प्रतिपादिका--"तयोस्त्रेधा भैषज्यं विन्यदधुरग्नौ तृतीयं अप्सु तृतीयं ब्राह्मणे तृतीयम् । तस्मादुदपात्रमुपनिधाय ब्राह्मणं दक्षिणतो निषाद्य भेषजं कुर्यात्" इति विधेः विद्यमानत्वात् । एवमागमशास्त्रे प्रतिपादितम्--

 दीर्घं तीव्रामयानां भिषगिव कौशलं नो धातुमायातु शौरिः ।" आपद्ग्रस्तानां त्रातुं चिकित्सा कार्येत्यर्थः । अत एव सर्वसुखसाधकमित्युक्तम् ।

 ननु यदुद्दिश्य प्रवृत्तिः ईश्वरप्रीत्यर्थमुपकारिका भवति सा सर्वफलप्रदायिकेति वक्तुं शक्यते । अत्र तु चिकित्साकार्यप्रतिपादकोपकारकद्रव्यत्वादेव एतेषां शाखिनां चतुर्विधपुरुषार्थफलप्रदानप्रतिपादकत्वं कथं स्यादित्यस्वरसादाह --प्रकृतीति ।

 प्रकृतिपुरुषयोरैक्यं भवति ॥ ५३ ॥

 सर्वदा प्रकृतिपुरुषौ फलोपकारकौ । सर्वेषां प्राणदौ भवतः । तथा च श्रुतिः--"अन्नं ब्रह्मेति व्यजानात् । अन्नाद्ध्येव खल्विमानि भूतानि जायन्ते । अन्नेन जातानि जीवन्ति । अन्नं प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय ।" इति श्रुतिरेवात्र प्रमाणम् । तस्माद्यदुद्दिश्य प्रवृत्तिः ईश्वरप्रीत्यर्थं पुरुषार्थोपकारिका जगद्रक्षणार्थं तावुभौ स्थावरशरीराण्यभूताम् । जङ्गमशरीराभिवृद्धिं कुरुतः। तावुभौ अभिवर्धेते । स्थावरमूलसारमूलत्वक्सारकन्दसारसारत्वक्सारक्षीरसारपुष्पसारफलसारनिर्यससारक्षीरसारकाः अस्थिसारमज्जासारकाः । काण्डसारकाः । सर्वे ते पञ्चदशसाराः स्थावरशरीराः । तत्तद्व्याधीनां तत्तत्सारभेदा निवर्तका भवेयुरित्यर्थः ।

 ननु सर्वशरीराणि पाञ्चभौतिकानि । शब्दस्पर्शरूपरसगन्धानां आकारादिगुणत्वात् तद्गुणव्यतिरेकेण तेषामवस्थानस्य वक्तुमशक्यत्वात् तद्गुणिनमन्तरेण तद्गुणाभावस्य सत्त्वात् एतत्साराणां व्याधिनिवर्तकत्वं कथं भवेदित्यस्वरसादाह --पार्थिवेति ।

 पार्थिवावयवाधिक्योपलब्धिर्यत्र तत्सारकं पार्थिवगुणम्[३०] ॥ ५४ ॥

 आम्लरसस्सुगन्धश्चोभयमपि पृथिवीगुणो भवति । गन्धवत्त्वं पृथिव्या अवच्छेदकत्वम् । आम्लरसवत्त्वं गन्धवत्त्वं च युगपदेवोपलभ्यते । तत्तदङ्गमेव तत्तद्व्याधिनिवर्तकं भवति । तथा हि--पुष्पेषु अधिकगन्धोपलब्धिः । तत्पुष्पसारद्रव्यमिति विज्ञेयम् । ननु अर्कवृक्षस्य क्षीरसारद्रव्यत्वात् तावन्मात्रमेव प्रयोजनं न भवति । तत्पत्रस्यापवननिवर्तकत्वम् । तन्मूलत्वचोऽपि पे पवनदोषप्रकोपानिवर्तकत्वम् । तत्पुष्पाणि क्रिमिरोगनिवर्तकानि । इत्यस्य वृक्षस्य सारत्रयमुपलभ्यते । तत्र मूलसारपत्रसारयोस्सारवत्त्वेनोपलभ्यमानत्वात् तत्सारौ अनुभवैकवेद्यौ भवतः। तत्क्षीरं यावदङ्गेनोपलभ्यते तत्प्रयोजनकार्यस्य क्षीर द्रव्यत्वादेव तत्पत्रसरो मूलसार इति व्यपदेशमात्रम् । तत्प्राधान्येन वक्तुमशक्यत्वात् इत्यस्वरसादाह एकेति ।

 एकदोषनिवर्तकं यावत्तदेकसारकम् ॥ ५५ ॥

 तत्तङ्गेषु भिन्नगन्धाभावत्वात् भिन्नरसाभावत्वाच्च अयमर्कवृक्षः पवनप्रकोपनिवर्तकः तिक्तरसवद्द्रव्यत्वात् । इत्यनुमानप्रमाणं वक्तव्यम् । तद्वदेव व्याप्तिर्वक्तव्या । तथा हि--यावत्तिक्तरसवद्द्रव्यं तत्पवनप्रकोपनिवर्तकम्, पित्तनिवर्तकस्वादुरसवद्द्रव्यस्य पवनप्रकोपनिवर्तकद्रव्यत्वात् । एवमाकारा व्याप्तिः । तयोर्व्याप्तौ गृहीतायां सत्यां विषमव्याप्तिरेव स्यादिति नाशङ्कनीयम् । यावत्पित्तनिवर्तकस्य पवनप्रकोपनिवर्तकत्वेन यावत्पित्तनिवर्तकद्रव्यं तावत्पवनप्रकोपनिवर्तकम् । पित्तनिवर्तकस्वादुरसवद्द्रव्यस्य पवनप्रकोपनिवर्तकद्रव्यत्वात् । एवमाकारेण व्याप्तिः गृहीतुं शक्यते । न तु तिक्तरसवद्द्रव्यमात्रं पित्तनिवर्तकम् । तद्यथा--विषतरुफलसारं पित्तप्रकोपकारकं सत् पवनप्रकोपनिवर्तकद्रव्यं तिक्तरसवद्द्रव्यत्वात् इत्येवमाकारेण व्याप्तिग्रहस्य वक्तुं सुकरत्वात् । न तत्र भोगयोग्यादनद्रव्यत्वमुपाधिः । भोगयोग्यादनयोग्यातिक्तरसवद्द्रव्यं पित्तप्रकोपनिवर्तकं, न तिक्तरसमात्रम् । विषतरुफलसारवद्द्रव्यं तिक्तरसवद्द्रव्यमपि भोगयोग्यादनद्रव्यं न भवतीति तत्र नाव्याप्तिः । भोगयोग्यादनद्रव्यं यन्न भवति तत्पित्तप्रकोपनिवर्तकमपि न भवति, यथा घटः । तिक्तरसवद्द्रव्यं पवनप्रकोपनिवर्तकं न भवति । एकरसवद्द्रव्यत्वं यत्र भासते तत्र अनेकसारसत्वेऽपि एतत्सारमेकदोषप्रकोपनिवर्तकं भवति । इति नाशङ्कनीयं, भोगयोग्यातिरिक्तरसवद्द्रव्यातिरिक्ततिक्तरसवद्द्रव्यत्वात् । तस्मात् यस्मिन्द्रव्ये एक गन्धवत्त्वं एकरसवत्त्वं च भासते तत्र अनेकसारसत्वेऽपि तत्सर्वमेकदोषप्रकोपनिवर्तकं भवति । तत्तदङ्गेषु प्रतिभातस्यैकसारत्वात् तत्सार एव सर्वाङ्गव्यापक इति तदेकसारवद्द्रव्यमिति ज्ञातव्यमित्यर्थः ॥

 ननु अब्द्रव्याधिकद्रव्योपलब्धिर्यत्र तत्रैव मधुररसप्रतिस्वाद्यावयवप्रदेशेषु स्वादुरसः प्रतीयते । तत्राब्द्रव्यावयवाधिक्यमपि प्रतीयते । एकसारस्य अवयवविशेषस्थानसत्वाभावादित्याशयं मनसि निधायाह--अब्द्रव्येति ।

 अब्द्रव्यावयवाधिक्यजन्यस्वादुरसोपलब्धिर्यद्यत्तत्तत्सारकम् ॥ ५६ ॥

 अब्द्रव्यावयवाधिक्यं यत्र यत्र प्रतीयते तत्रैव स्वादुरसाधिकोपलब्धिरिति स्वादुरसवत्त्वं जलद्रव्यावच्छेदकमित्युक्तं, तच्चिन्त्यम् ।पञ्चभूतात्मकं शरीरमिति तन्मध्ये अब्द्रव्याधिक्यशरीरभूरुहकुमार्यादि । तत्र जलाधिक्यद्रव्यमुपलभ्यते । तस्यावच्छेदकत्वं तिक्तरसवत्त्वम् । तस्मात्तत्पवनप्रकोपकारि भवति । तिक्तरसवद्विषतरुफलसारं पवनप्रकोपनिवर्तकम् । यत्र जलवद्द्रव्याधिक्यं तत्पवनप्रकोपनिवर्तकं स्वादुरसम् । तस्यावच्छेदकं तिक्तरसम्, जलवद्द्रव्यस्यावच्छेदकत्वाभावात् । जलद्रव्यावच्छेदकस्वादुरसः पवनप्रकोपकारको भवति । जलवद्द्रव्याधिकरूपेक्षुकाण्डस्वादुरसोऽपि पवनप्रकोपनिवर्तको भवति । इति तात्पर्ये गुणाभावात्, किं तु पित्तप्रकोपनिवर्तकः । तस्माज्जलद्रव्यनिष्ठस्वादुरसः पवनप्रकोपनिवर्तको भवति इत्याशयवान् । समाधत्ते-- य इति ।  ये ये शरीरास्समद्रव्यात्मकाः तत्र तत्र किंचिदुचितस्वादुरसः ॥ ५७ ॥

 पवनप्रकोपनिवर्तको भवतीति तात्पर्यम् । जलद्रव्यस्य अतिशीतलगुणवत्त्वेन पवननिवर्तकद्रव्यत्वं न भवति । तर्हि स्वाद्वम्ललवणरसाः पवननिवर्तका इति प्रतिपादितशास्त्रस्य का गतिरिति नाशङ्कनीयम् । घृतनिष्ठस्वादुरसः पवनप्रकोपनिवर्तकः । क्षीराणि च तथा । तैलगुणश्च । एरण्डतैलगुणश्च । जलद्रव्यावयाधिक्याभावजन्यशरीरजातस्वादुरसः पवनप्रकोपनिवर्तको भवतीति न तात्पर्यम् । इक्षुकाण्डनिष्ठस्वादुरसस्य अधिकजलावयवावृतशरीरत्वेन अतिशीतलद्रव्यत्वेन तन्निष्ठस्वादुरसस्य मधुरत्वात् तत्पवनप्रकोपनिवर्तकं न भवतीति तादृशस्वादुरसः पित्तप्रकोपनिवर्तक इति तात्पर्यम् ॥

 ननु यत्राब्द्रव्यावयवाधिक्यं तच्छरीरनिष्ठस्वादुरसस्य अतिमाधुर्यात् तत्राधिकस्वादुरसवद्द्रव्यस्य जलत्वस्य अवच्छेदकत्वात् तद्वच्छीतस्पर्शवत्त्वमपि तस्यावच्छेदकं भवति । यत्र शीतस्पर्शवत्त्वं तत्र जलत्वं, इति व्याप्तेर्गृहीतुं शक्यत्वात् । तच्छीतस्पर्शविशिष्टजलनिष्ठस्वादुरसः कथं पवनप्रकोपनिवर्तको भवेत् ? अनुभवविरोधात् । तथाहि--शीतस्पर्शविशिष्टस्वादुरसवद्रव्यं पवनप्रकोपकारकम् । तन्निष्ठपवनप्रकोपनिवृत्त्यर्थं अनलसंयोगजन्यकार्यसंस्कारविशिष्टजलं पवनप्रकोपनिवर्तकमिति तज्जलानलसंपर्कवशात् पवनजनकशीतलगुणं विहाय तस्य अनलसंयोगवशात् तज्जलं पवननिवर्तकं कथं भवेत् ? तस्माद्यत्रयत्राब्द्रव्यावयवाधिक्यं तत्रतत्र तथा अतिशीतलस्पर्शवत्त्व मपि संभवति । तस्मात्तन्निष्ठस्वादुरसस्य पवनप्रकोपनिवर्तकत्वं कथं भवेदित्यस्वरसादाह-- तदिति ।

 तत्पवननिवर्तकं सुभेषजम् ॥ ५८॥

 जङ्गमशरीरजन्यस्वादुरस एव तच्छब्दार्थः । तज्जन्यस्वादुरसः पवनप्रकोपनिवर्तकः । सर्वशरीराणि पाञ्चभौतिकानि । यत्र पार्थिवद्रव्याधिक्यगन्धोपलब्धिर्दृश्यते तत्रैव तज्जन्यस्वादुरसस्य पवनप्रकोपनिवर्तकत्वात् । जलमात्रनिष्ठस्वादुरसस्य न ब्रूमः, जलस्य जडरूपद्रव्यत्वात् तस्य शरीराभावात् । ननु उषःपानविधौ शुद्धजलसेवनं सकलदोषनिवर्तकमिति शास्त्रे प्रतिपादितम्, अन्यथा तत्प्रतिपादकशास्त्रविरोधः स्यात् । सर्वं जगत् जलेन विना जीवितुं न भवति समर्थम् । तस्य स्वभावेन "जीवनम्" इति नैघण्टुकैः नाम प्रतिपादितम् । तस्माज्जलनिष्ठस्वादुरसः पवनप्रकोपनिवर्तको भवतीति यदुक्तं तन्न रोचत इति चेत् न, स्थावराणां च जीवनोपकारकत्वस्य जलद्रव्यस्योचितत्वात् जलद्रव्यं जीवनं भवेत् । जङ्गमानां तु न तथा । तेषामपि अनलसंयोगजन्यसंस्कारात् जातजलनिष्ठस्वादुरसस्य पवनप्रकोपनिवर्तकत्वमित्युक्तत्वात् । तत्र उषःपानविधावपि हंसोदककर्मकरणविशिष्टजलं उषःपानाविधौ प्रशस्तमित्युक्तत्वात् । इतरत्रापि अनलसंयोगजसंस्काराबिशष्टस्य जलस्य पवननिवर्तकत्वे अनलसंयोत्वमुपाधिः । यत्रयत्र अनलसंयोगजसंस्कारविशिष्टजलत्वं भासते, तत्रतत्र पवननिवर्तकत्वमपि संभवति । शुद्धशीतलगुणविशिष्टजलस्य पवनप्रकोपकारकत्वनियमात् । शैत्यगुणविशिष्टजलनिष्ठस्वादुरसः न पवनप्रकोपनिवर्तकः । तत्र श्रुतिवचनं प्रमाणं-- अग्निर्हिमस्य भेषजम्" इति । तन्निवर्तकविधौ अनलसंयोग एवोपाधिरित्यर्थः

 ननु एव लवणरसः अब्द्रव्यजन्यः अब्विकारद्रव्यत्वात्, लवणसमुद्रस्यैव सागरत्वात् । लवणं तज्जन्यं तत्पाकजन्यं सुमनोहरं सुगन्धविशिष्टाम्लरसवद्द्रव्यं पवनप्रकोपनिवर्तकं, अपक्वं तु न तथा । सुगन्धविशिष्टगुणाभावद्रव्यत्वात् लवणरसस्य शोषकद्रव्यस्य कथं पवननिवर्तकत्वं कफनिवर्तकद्रव्यत्वात् कटुरसवत्, लवणरसस्य कटुरसान्तःपातित्वात् । तत्कालविशिष्टलवणरसः पवनविकारो न भवति कटुरसस्य अनलद्रव्यगुणवत्त्वात् । स्वाद्वम्ललवणविशिष्टद्रव्याणि पवनप्रकोपनिवर्तकानि अब्द्रव्यनिष्ठगुणवद्द्रव्यत्वात् जम्बीरफलवत् । लवणरसः पवनप्रकोपनिवर्तकः अब्द्रव्यगुणवत्त्वात् । न सर्वजलं स्वादुरसवत्त्वादेव, स्वादुरसवद्द्रव्येभ्यः लवणद्रव्योत्पत्तेरभावात् । लवणसमुद्रस्य पार्थिवशरीरस्य सप्तधात्वात्मकत्वात् मच्छरीरवत् ॥

 ननु केचित्तरवोऽनेकसारवन्तो भवन्ति । एकजातीयतरुषु अनेकभूतावयवाधिक्यस्य वक्तव्यत्वात् । तद्यथा--शिग्रुजातीयतरुषु बीजसारवत्त्वं, पत्रसारवत्त्वं पुष्पसारवत्त्वं मूलत्वक्सारवत्त्वं मूलसारवत्त्वं, एतादृशसारवन्तः एते शिग्रुतरवः । यद्द्रव्याधिक्यापेक्षया एकस्य अनेकसारवत्त्वं भासत इत्याह--अनलेति ।

 अनलद्रव्यावयवाधिक्यजाताधिकरूपोपलम्भकयावद्रसवद्द्रव्यं तत्सारकम् ॥ ५९ ॥

 अनलभूतावयवाधिक्यद्रव्यत्वात् तद्वत्त्वं यत्र प्रतीयते तद्वस्तु अनलाधिक्यद्रव्यमिति । यत्रयत्राधिकरूपोपलम्भकयावद्योगद्रव्यं यावद्रूपवत्त्वेन नयनानन्दहेतुकं भवति तादृशचाक्षुषद्रव्यं तत्त्सारकम् । केचिन्मनुष्याणामयोग्यत्वेऽपि तद्योग्यादनवत्त्वात् जाता ये बहवस्सन्ति तेषामप्युपकाराय भवन्ति, अनलभूतावयवाधिक्यद्रव्याधिक्यवन्त इति तत्रानेकसारवत्त्वस्य वक्तुं शक्यत्वात् तत्सर्वसारं पवनप्रकोपनिवर्तकं भवति । अनलद्रव्यभूतार्थस्य सर्वेभ्यो भूतेभ्यः आधिक्यात् तादृशसारतरवः सर्वभूतानामुपकाराय भवन्तीत्यर्थः ॥

 ननु यावद्भूरुहः तत्तदामयनिवर्तकाः भूरुहद्रव्यत्वात् सम्प्रतिपन्नवत् देशसारौड्रल ? द्रव्यभेदेन तत्तज्जन्तूनां तत्तद्दोषविनाशकाः । केचित्तरवः जगज्जीवनोपकारकाः । तस्य एकदा सर्वपदार्थज्ञानेन भवितव्यम् । तत्सर्वपदार्थज्ञानाभावेन निर्णेतुमशक्यत्वादित्यत आह--गगनेति ।

 गगनद्रव्याधिकशब्दगुणोपलम्भकत्वं प्रमाणम् ॥

 अत्र गगनद्रव्याधिकशब्दत्वं नाम देशदेहकालद्रव्यकर्मणां यथायथं द्रव्ययोगकरणस्य शास्त्रज्ञानाभावेऽपि आप्तोदीरितशब्दस्सर्वत्रापि प्रमाणम् । यस्मिन्देशे यत्र यत्र यत्प्रवर्तकं तच्छास्त्रमिति विज्ञाय यद्व्याधिनिवर्तकं यद्द्रव्यं तदेव तद्भेषजमिति तत्र गगनादिकशब्दजातकार्यज्ञानं प्रमाणमिति । यद्यपि यस्य कस्यचित्पदार्थस्य कस्यचिदामयस्य प्रतीकारत्वं बहुवादिसम्मताप्तोदीरितशब्द एव यत्र भासते तत्र गगनादिगुणोपलब्धिरेव प्रमाणमित्यर्थः । एवं पञ्चभूतोद्भवसारवद्द्रव्यं तत्तद्देशावच्छेदकभेदवशात् तत्तद्देहावच्छेदकभेदवशात् तत्तत्कालावच्छे दकभेदवशात् इदं सर्वमालोच्य तत्सर्वमवलोक्य तत्सारद्रव्यं विज्ञाय भेषजं कार्यमिति । आयुर्वेदप्रतिपादितार्थतत्त्वज्ञानमेव निर्णीतमिति फलितार्थः ॥  ननु स्थावरस्थस्वादुरसः पवनप्रकोपनिवर्तकोपयोग्यभेषजद्रव्यं न भवति, सप्तधात्वात्मकशरीरजन्यत्वाभावात् इक्षुकाण्डशरीरवत् । यस्सप्तधातुमयशरीरजन्यस्वादुरसो न भवति स पवनप्रकोपनिवर्तकोपयोग्यभेषजद्रव्यं न भवति, सप्तधात्वात्मकशरीरजन्यत्वाभावात् इक्षुकाण्डशरीरवत् । यस्सप्तधातुमयशरीरजन्यस्वादुरसो न भवति स पवनप्रकोपनिवर्तकस्वादुरसोऽपि न भवति, यथा तालफलजन्यस्वादुरसः । इक्षुकाण्डस्थितस्वादुरसः पवनप्रकोपकारकः कालपाकजन्यस्वादुरसवत्वादेव अनलपाकजन्यत्वाभावात्, यन्नैवं तन्नैवं यथा घट इति । एवं आम्लरसः पवनप्राकेपनिवर्तको न भवति । सप्तधातुमयशरीरजन्यस्वादुरसद्रव्यत्वाभावात् । एवं लवणरसवद्द्रव्यं पवनप्रकोपनिवर्तकं न भवति, सप्तधात्वात्मकशरीरजन्यत्वाभावात् कालपाकजन्यस्वादुरसवद्द्रब्यत्वाच्च स पवनप्रकोपकारको भवतीत्यर्थः । लवणरसवद्भूरुहद्रव्यं नानिलनिवर्तकं ऊषरभुजन्यभूरुहद्रव्यत्वात् संप्रतिपन्नवत् । इत्यनुमानप्रमाणेनापि यावत्सप्तधात्वात्मकानि शरीराणि तदीयस्वादुरसवद्द्रव्यं पवननिवर्तकं भवतीत्यस्वरसादाह-- तिक्तेति ।

 तिक्तोषणकषायरसाः रसासृङ्मांसमेदोबलप्रदाः[३१]

 सर्वे च भूरुहः रसादिचतुर्धात्वात्मकाः तिक्तोषणकषायरसगुणप्रधानबलाधिकद्रव्यत्वात् । शुक्लमज्जास्थिधात्वभावद्रव्यत्वेन तत्पोषकस्वाद्वम्ललवणरसगुणप्रधानद्रव्यत्वादित्यर्थः ।

 ननु स्वाद्वम्ललवणरसाः स्थावरस्थाः । तन्निष्ठस्वादुरसानां का गतिः? रसप्रधानत्वेन द्रव्यगुणान् वक्तुं योग्यत्वादित्यर्थः ।

 ननु स्थावरजङ्गमशरीराः प्रकृतिपुरुषात्मकाः । अत एव सप्तधात्वावृतं शरीरमिति शरीरावच्छेदकं सप्तधात्वावृतत्वमिति । तद्बदेव षड्रसात्मकं शरीरमिति वक्तुं सुकरत्वात् स्थावरशरीराश्चतुर्धात्वात्मका इत्यस्य विनिगमकाभावात् शरीरत्वावच्छेदकावच्छिन्नस्य सर्वत्रापि समानत्वात् इत्याशयं मनसि निधायाह-- रेचकेति ।

 [३२]रेचकपूरकधारकेभ्यो विकसति ॥ ६२ ॥

 रेचकपूरकपवनधारणात् तत्तद्वर्णाधिष्ठितपद्मानां निमीलनोमीलनेन तत्तद्वर्णबोधो जायते । तस्मादिदं शरीरं सप्तधात्वावृतं वर्णोच्चारणहेतुभूतद्रव्यत्वात् । ते तु न तथा । तावदयोग्यत्वात् चतुर्धात्वात्मकेन अर्धशरीररवत्त्वाच्च तत्कोरकपुष्पपत्रलतादयः निमीलनोन्मीलनं च कुर्वन्ति बहिः पवनसंपर्कवशात् । रेचकधारकात्वमात्रं व्यपदिशन्ति । तस्माच्चलनात्मकं कर्म कुर्वते ।

 ननु जङ्गमशरीरं शरीरान्तरजनकं स्थावरोत्पादकहेतुभूतद्रव्यत्वात् । एवं वृक्षः वृक्षान्तरजनकः स्थावरोत्पादकहेतुभूतात्मकत्वस्य च उभयोरपि समानत्वात् । अत एव स्थावरशरीराणामपि सप्तधात्वात्मकत्वं कथं निषिध्यत इत्यस्वरसादाह-- लिङ्गेति ।

 लिङ्गयोनिसंयोगाच्च प्रजया पशुभिः प्रजननं प्रजायते ॥ ६३ ॥

 लिङ्गस्य प्रजाजननहेतुभूतत्वात् स्थावराणां च प्रजाजननकाले वृक्षान्तरसंयोगकार्यस्य अदृष्टत्वात्, स्थावरशरीरत्वात् जङ्गमशरीरवत् स्थावराणां वक्तुमयोग्यत्वात् । अत एवोक्तं रसादिचतुर्धात्वावृतं शरीरमिति ।  ननु "इदं स्त्रीवचनं, इदं पुरुषवचनं” इति तयोर्भेदप्रतीतिः । ताल्वोष्ठपुटव्यापाराघटनात् जातपवनः स्मेरास्यदोषगतिजातशब्दः स्त्रीणां योनिविवरं प्रविश्य स्त्रीजातिज्ञापकवचनं च । जङ्घामेढ्रप्रदेशपद्मगतसरन्ध्रभागस्य अल्पद्वारत्वात् पुरुषलिङ्गस्थितपद्मविवरमभ्युपेत्य वर्णात्मकशब्दः ताल्वोष्ठपुटव्यापाराघटनाज्जातपवनभेदस्य सर्वेषामपि समानत्वात् तत्सामग्रीविशिष्टस्त्रीजनोच्चारितशब्दानां अजाधिक्यस्वरात्मकत्वात् शब्दा उपलभ्यन्ते । तद्वदेव पुरुषजन्यताल्वोष्ठपुटव्यापारदिकस्य समानत्वेऽपि स्त्रीजनोच्चारितशब्दः पुरुषजनोच्चारितशब्दाद्भिन्न इति कथमुपलभ्यते ? शब्दज्ञानसामग्र्याः समानत्वादित्याशयं मनसि निधायाह--पृष्ठेति ।

 पृष्ठजङ्घाशिश्नोपस्थदेशभेदात्स्वरादयः प्रभवन्ति

 जङ्घाशिश्नपद्मप्रदेशं सम्प्राप्य शब्दः प्रभवति । इत्येतत्तु विविच्य ज्ञाप्यते--जङ्घाशिश्नप्रदेशगतिसरन्ध्रभागमभ्युपेत्य बहिर्निस्सरन् सन् हलादिवर्णाधिक्यबोधकतया वर्णात्मकशब्दश्श्रूयते । अयं पुरुषशब्द इति ज्ञातुं शक्यते । एवं स्त्रीजनानां ताल्वोष्ठपुटव्यापारसामग्र्यां स्मेरास्यदोषगतिजातशब्दः कर्णप्रदेशविवरभागमभ्युपेत्य पृष्ठोपस्थपद्मगतसिरारन्ध्रभागमुपेत्य तस्या योनिविवराधारात् बहिर्निर्गतस्सन् अच्स्वरादिवर्णाधिकतया शब्दश्श्रूयते । स शब्दस्स्त्रीजनोच्चारितशब्द इति भेदः प्रतीयते। तत्तज्जातिविशिष्टशरीरा बहवस्सन्ति । तत्तच्छरीरावच्छेदकभेदात् वर्णभेदः । तत्तत्पृष्ठयोनिपद्मप्रदेशगतसरन्ध्रदेशा एव तत्तद्वर्णभेदज्ञापका इति वक्तव्यम् । एवं पुरुषजनानामपि भेदो ज्ञातव्यः।

 ननु श्वासोच्छ्वासानिलात्मककुण्डल्याधारभूतकटिप्रदेशगतपद्मं सर्वेप्राणाधारकं शिरस्स्थितामृतप्रवाहालवालोपजीव्यरूपत्वात् अमृतप्रवाहालवालपरिपूर्णकार्यहेतुभूतत्वात् । तस्माद्योगधारणवशात् धातुपोषणं भवेदित्यस्वरसादाह-कटीति ।

 कटिप्रदेशगतं कायाधारकम् ॥ ६५ ॥

 कटिप्रदेशगतं पद्मं चतुस्सिरावृतं ओवर्णार्णोत्पादकभूतपाणिपादाभ्यां चलनात्मककार्यहेतुभूतत्वेन गतागतोपायकार्यकारकयाथात्म्यकत्वात् तदेव शरीरधारकं भवतीत्यर्थः । न तु प्राणाधारहेतुकपवनमात्राधारकत्वात् सर्ववर्णाधारकपद्मवत् ।

 ननु आयुर्वेदार्थज्ञानं चतुर्विधपुरुषार्थसाधकयोगधारणकार्यहेतुकं ईश्वरसाक्षात्कारानुभवस्य हेतुभूतत्वात् । ईश्वरस्सुप्रीतो भूत्वा तस्य मनोवाञ्छादिकं फलमेव ददाति । तस्माद्योगसाधनं विहाय तत्तद्विरसद्रव्यादनेन तद्धेतुभूतामयान्सम्पाद्य तन्निवर्तककार्यकारणेन किमधिकफलं लभ्यत इत्याह-- नाभेरिति ।

 नाभेरधस्स्थितं कुण्डल्यादिभूतं पञ्चसहस्रसिरावृतं शतदळपद्मं प्रजायते ॥ ६६ ॥

 नाभेरधस्स्थितं जठरानलपद्मं तयोर्मध्यगतं भवति । तत्पञ्चसहस्रसिरावृतम् । सर्ववर्णाधारकपद्मानामादिभूतम् । सप्तधात्वाधारात्मकम् । पञ्चभूतात्मकं च । तच्छतदळपद्मं अविरुद्धरसद्रव्यादनेन अविकारं भूत्वा तत्तत्सारद्रव्यैः शिरःकमलस्थामृतं मुहुर्मुहुः प्रजनयत् वर्तते । विकाराभाववत्पवनगत्या तच्छतदळपद्मसन्तर्पणेन सप्तधातवः पुष्णन्ति । रसायनादनेन वा, रोगधारणाद्वा, पथ्यान्नादनेन वा , शरीरमविकारं कुर्वत् बहुकालजीवनं लभ्यत इत्यर्थः । अतश्शरीरसंरक्षणमेव सर्वपुरुषार्थसाध कम् । नीरोगशरीरं सर्वानन्दहेतुकम् । आनन्दज्ञानहेतुकम् । शब्दस्पर्शरूपरसगन्धाः आत्मविषयज्ञापकाः इन्द्रियाधारभूतत्वात् । यन्नैवं तन्नैवं यथा घट इति । इदं नीरोगशरीरं योगधारणसाधनम्, तत्त्वज्ञानमनोविषयकात्माधिष्ठितशरीरत्वात् चैतन्याधिष्ठितशरीरवत् । सर्वपदार्थतत्त्वज्ञानं मोक्षहेतुकं, हेयार्थोपायव्यतिरिक्तोपादेयज्ञानहेतुकत्वात् । इदं नीरोगशरीरं सर्वपदार्थज्ञानानुभवपूर्वकं रोगनिवर्तकद्रव्यादनसाध्यज्ञानपूर्वकत्वात् । आयुर्वेदचतुःप्रश्नप्रतिपादितार्थः एतदनुमानचतुष्टयाधीनः उक्तशास्त्रप्रतिपादितार्थज्ञानपूर्वकत्वात् ॥

इत्यायुर्वेदस्य चतुर्थप्रश्नस्य भाष्यं योगानन्दनाथ-

कृतं सुप्रसिद्धं महाजनसम्मतं लोकोपकारकं

प्रतिसूत्रव्याख्यानपूर्वकं अयुर्वेदभाष्यं

सम्पूर्णम्.


  1. गतागतानिलवशा-- A & B.
  2. योग. I. 1, 21
  3. योग. I. 22.
  4. A & B कोशेषु हस्तादिसूत्रं नदृश्यते.
  5. विशेषः जीवः A & B.
  6. तै. ब्रा. अष्टक II. प्रपा 6, 5, 25.
  7. अष्टदळ-- इति व्याख्यानात् प्रतीयते.
  8. A & B. कोशेषु इदं दृश्यते. न व्याख्यातमत्र.
  9. अष्टाङ्ग.निदान. XII 1-3.
  10. अष्टाङ्ग. निदान. XII. 8-10.
  11. अष्टाङ्ग.सूत्र. X 33-35.
  12.  A.B. कोशयोरेतन्न दृश्यते.  'कफं करोति' इत्यन्तसूत्रादनन्तरं कट्वम्ललवणादिसूत्रात् प्राक् अधोलिखितः अधिपाठः A. B. कोशेषु दृश्यते--
     "त्रिदोषप्रकोपजनकमन्दानलसन्धुक्षणकारकपवनयोगजन्यजठरानलप्रवर्धक सिरामार्गपूरितानिलानलदोषजन्यरोगहारकः । वज्रारवह्निपरा विश्वा वधूवरा वर्णाङ्गी वर्षाभूवर्धमानः । तत्तत्क्रियोपकारकक्काथकल्कतैलघृतलेह्यादयो निवर्तकाः । पवनप्रकोपकार्योदरामयनिवर्तकाः । निवर्त्यो रोगः । पवनपूरणकार्यंदुस्साध्योदरामयविनाशकम् । पर्जन्या पांशुपर्णी तारा नेता वीता धावनी सुवृता । मूर्तिका तुद्रिका कार्मुकः किरातकः । कटुकः । कशेरुकः । क्रोष्ठुकः । त्रिकण्टकः । बर्बुरकः । कुरण्टकः । कशेरुकाः । सरसासृङ्मांससरित्प्रभवति" । A.
     वजीदधिवाह्निनरा विश्ववधूधरवर्णा वर्षाभूवर्धमानः... घृतपङ्कादयः इति पाठभेदः--B.
  13. जतामलमार्गा A-B.
  14. श्वासकासाक्षि--A & B
  15. दन्तातिमिर A & B
  16. विसर्प्यामयलक्षणम्--B.
  17. A. B. कोशयोरेतन्न दृश्यते.
  18. जातसिरागतपवनातिरोधनात्--A.& B.
  19. भेदाः । मांसधातुपोषकद्रव्यं तत्र भेषजम् । आम-इति A. B. कोशयोरधिकःपाठः,
  20. एतत्सूत्रात्प्राक् "पवनप्रकोपहेतुकत्रिरसजातरसासृङ्मांसं भगचयप्रदेशगतं भवति" इति A.B.कोशयोरधिकः पाठः.
  21. एतत्सूत्रं B कोशे नास्ति.
  22. 'ज्वरति' इति A. कोशे.
  23. मधुरेति सूत्रात्प्राक् 'शरीररससारस्सर्वमावहति" इत्यधिकः पाठः A. B. कोशयोः.
  24. अस्थिधातु--इति A कोशे.
  25. तत्र सेचयेत्--A. तत्र सेवयेत्--B.
  26. स्थिरायुर्भवेत्--B.
  27. नैतत् B. कोशे दृश्यते.
  28. नैतत् B. कोशे दृश्यते.
  29. नैतत् A. & B कोशयोर्दृश्यते.
  30. नैत A&B कोशयोरस्ति.
  31. 'तिक्तोषणरसौ मांसमेदोबलप्रदौ' इति A. B. केशयोः.
  32. एतत्सूत्रात्प्राक् "सर्वकालद्रव्यगुणदोषकफपित्तविकारनाशकौ" इत्यधिकः पाठः A. B. कोशयोर्दृश्यते.