प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ६ आर्षेयकल्पः
अध्यायः ७
मशकः
अध्यायः ८ →

उपास्मै गायता नरो बभ्रवे नु स्वतवसे प्र यद्गावो न भूर्णय आशुरर्ष बृहन्मते पवमानस्य ते कवे ऽग्न आ याहि वीतय इत्याज्यानि प्र सोमासो विपश्चित इति गयत्रं चाश्वं च जराबोधीयं चाशु भार्गवं प्र सोम देववीतय इति पज्रं गौङ्गवं यौधाजयमौशनमन्त्यँ रथंतरं च वामदेव्यं च नौधसं च कालेयं च स्वादिष्ठया मदिष्ठयेति गायत्र सँहिते पवस्वेन्द्रमच्छेति सफपौष्कले प्र सुन्वानायान्धस इत्यौदलं गौतममाकूपारमभि प्रियाणीति द्वीडः पदस्तोभोऽन्त्यो यज्ञायज्ञी-यमग्निष्टोमसाम ७-१

पवस्व वाचो अग्रियः पवस्वेन्दो वृषा सुतो वृषा सोम द्युमाँ असि वृषा ह्यसि भानुना सोमः पुनानो अर्षति पवमानस्य ते वयमग्निं दूतं वृणीमह इत्याज्यानि वृषा पवस्व धारयेति गायत्रं च हाविष्मतं चाजिगं च स्वारं च सौपर्नं पुनानः सोम धारयेत्यायस्ये अन्तरा दैर्घश्रवसं वृषा शोन इति पार्थमन्त्यं बृहच्च वामदेव्यं च श्यैतं च माधुच्छन्दसं च यस्ते मदो वरेण्य इति गायत्रं च स्वाशिरां चार्कस्त्वँ ह्यङ्ग दैव्य पवस्व देववीतय इति शङ्कुसुज्ञाने अयं पूषा रयिर्भग इत्यासितं द्वे क्रौञ्चे वृषा मतीणां पवत इति चतुरिडः पदस्तोभोऽन्त्यो यज्ञायज्ञीयमग्निष्टोमसामौ शनँ सौभरमाष्टादँष्ट्रम् ७-२

दविद्युतत्या रुचै ते असृग्रमिन्दवो राजा मेधाभिरीयते ऽसृक्षत प्र वाजिन एते सोमा अभि प्रियमिषे पवस्व धारयाग्निनाग्निः समिध्यत इत्याज्यान्युच्चा ते जातमन्धस इति गायत्रं च क्षुल्लकवैष्टम्भमैडँ सौपर्णमभि सोमास आयव इति गौतमं चान्तरिक्षं च मैधातिथं च द्विहिंकारं च तिस्रो वाच इत्यङ्गिरसाँ संक्रोशोऽन्त्यो ऽभि त्वा वृषभा सुत इति रथंतरं कस्तमिन्द्र त्वावसविति वामदेव्यँ श्रायन्तीयं च रौरवं च तिस्रो वाच उदीरत इति गायत्रं चाग्नेश्चर्क आ सोता परि षिञ्चत सखाय आ नि षीदतेति वाचश्च साम शौक्तं च सुतासो मधुमत्तमा इति त्वाष्ट्रीसामनी स्वारे अन्तरान्धीगवं पवित्रं त इति षडिडः पदस्तोभोऽन्त्यो यज्ञायज्ञीयमग्निष्टोमसामा युष उक्थानि ७-३

पवमानो अजीजनदेष देवो अमर्त्य एष धिया यात्यण्व्या ते दक्षं मयोभुवँ होता देवो अमर्त्यो यदद्य सूर उदिते महाँ इन्द्रो य ओजसेयं वामस्य मन्मनो ऽस्य प्रत्नामनु द्युतमिति गायत्रमामहीयवँ सत्रासाहीयं परीतो षिञ्चता सुतमिति पृश्नि चाथर्वणं चाभीशवं चोत्सेधश्चायँ सोम इतीहवद्वासिष्ठमन्त्यं यज्जायथा अपूर्व्येति बृहदेदु मधोर्मदिंतरमिति वामदेव्यं त्रैशोकं च समन्तं च परि स्वानो गिरिष्ठा इति गायत्रं च गौषूक्तं च स सुन्वे यो वसूनां प्राणा शिशुर्महीनामिति दीर्घ वारवन्तीये पुरोजिती वो अन्धस इति निषेधश्च श्यावाश्वं च परि प्र धन्वेति दीर्घतमसोऽर्को धर्ता दिव इत्यष्टेडः पदस्तोभोऽन्त्यो यज्ञायज्ञीयमग्निष्टोमसाम साकमश्वं त्रैककुभं नार्मेधं गौरीवितँ षोडशिसाम रात्रिः संधिः ७-४

उपो षु जातमप्तुरमित्यनुरूपो नौधसं ब्रह्मसाम सुज्ञानस्य लोके पौस्कलं प्र सुन्वानायान्धस इत्यौदल गौतमे समानमितरं प्रथमेनाह्नाभिप्लविकेन ७-५-१

अजिगक्रौञ्चे उद्धरति स्वे उष्णिक्ककुभौ स्वासु यामँ समानमितरं द्वितीयेनाह्ना चतुर्वीरस्या ७-५-२

असृक्षत प्र वाजिन इत्युद्धरत्यग्नेरर्कादुत्तरमैडँ सैन्धुक्षितमभ्यासवतस्त्वा-ष्ट्रीसाम्नो लोके त्रिणिधनं त्वाष्ट्रीसाम स्वास्वरिष्टँ समानमितरं तृतीयेनाह्ना चतुर्वीरस्य ७-५-३

वारवन्तीयस्य लोके श्रुध्यं विपरिहरत्यानुष्टुभे द्विपदासु वारवन्तीयं दीर्घतमसोऽर्कोऽन्त्यः समानमितरमुत्तमेनाह्ना चतुर्वीरस्य ७-५-४

या जामदग्न्यस्य प्रथमा सा सँसर्पस्य ७-६-१

नवर्चसौपर्णे उद्धरति परीतो षिञ्चता सुतमिति बार्हदुक्थं च दैर्घश्रवसं चा यास्ये समानमितरं द्वितीयेनाह्ना जामदग्न्यस्य ७-६-२

द्वादशाहिकस्य तृतीयस्याह्न आज्यबहिष्पवमानं गायत्री च समानमितरं तृतीयेनाह्ना जामदग्न्यस्य ७-६-३

उद्धरति पर्यासं व्रात्या गायत्री पुनानः सोम धारयेति बृहती गौषूक्तादुत्तरं वारवन्तीयं पुरोजिती वो अन्धस इति निषेधः श्यावाश्वं त्वाष्ट्रीसामा हरति द्विपदातिच्छन्दसः समानमितरमुत्तमेनाह्ना जामदग्न्यस्य ७-६-४

प्र सोमासो विपश्चित इति गायत्रमेकस्यामाश्वमेकस्यां जराबोधीयमेकस्यां प्र सोम देववीतय इति यौधाजयं तिसृषु समानमितरं प्रथमेनाह्ना सँसर्पस्य ७-७-१

पुनानः सोम धारयेत्यायस्ये समानमितरं द्वितीयेनाह्ना सँसर्पस्य ७-७-२

सैन्धुक्षितान्धीगवे उद्धरति समानमितरं तृतीयेनाह्ना सँसर्पस्य ७-७-३

जराबोधीयवारवन्तीये उद्धरति द्विपदातिच्छन्दसश्च परीतो षिञ्चता सुतमिति पृश्नि आभीशवमाथर्वणं ज्योतिष्टोम्यनुष्टुप् समानमितरमुत्तमेनाह्ना सँसर्पस्य ७-७-४

वैश्वामित्रो द्व्यहो जराबोधीयस्य लोके सोमसाम स्वाशिरामर्कस्य मौक्षँ सौभरस्यौपगवं ७-८-१

द्वादशाहिकं तृतीयमहर्वैरूपस्य लोके रथंतरं पाष्ठौहस्याग्नेरर्को गौरीवितस्य त्वाष्ट्रीसाम तस्यैतस्य त्र्यहस्याभ्यासङ्गः स्वदिष्ठया मदिष्ठयेति गायत्र साँहिते तृचयोर्गौतमं तृच आसितं तृचे वाचश्च साम शौक्तं तृचयोः ७-८-२

पवमानो अजीजनत्पुनानो अक्रमीदभि प्र यद्गावो न भूर्णय आशुरर्ष बृहन्मते हिन्वन्ति सूरमुस्रयोऽग्निर्वृत्राणि जङ्घनदिति होतुराज्यँ स्वान्युत्तराणि पवस्व दक्षसाधन इति गयत्रमदारसृत्सत्रासाहीयं तवाहँ सोम रारणेत्याष्टादँष्ट्रमा-भीशवँ स्वःपृष्ठमाङ्गिरसमु हु वा अस्येति वासिष्ठमन्त्यं बृहच्च वामदेव्यं च त्रैशोकं च पृश्नि च परि प्रिया दिवः कविरिति गायत्रँ स्वाशिरामर्को बृहद्भारद्वाजं त्वँ ह्यङ्ग दैव्य सोमः पुनान ऊर्मिणेति बृहत्क क्रोशे पुरोजिती वो अन्धस इति नानदं त्वाष्ट्रीसामा थर्वणं प्रो अयासीदिति लौशमन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम सैन्धुक्षितँ सौभरमुद्वँशीयम् ७-९

पवमानस्य विश्वविदसृक्षत प्र वाजिन एष देवो अमर्त्य एष धिया यात्यण्व्याते दक्षं मयोभुवँ होता देवो अमर्त्यः पुरूरुणा चिद्ध्यस्त्युत्तिष्ठन्नोजसा सह यज्ञस्य हि स्थ ऋत्विजास्य प्रत्नामनु द्युतमिति गायत्रं चामहीयवं च जराबोधीयं च र्षभश्च पवमानः परीतो षिञ्चता सुतमिति परीतो षिञ्चता सुतमिति वाम्रं च मानवं चा नूपं चो त्सेधश्चा यँ सोम इती हवद्वासिष्ठमन्त्यँ रथंतरं च वामदेव्यं च श्रायन्तीयं च वैयश्वं च परि स्वानो गिरिस्था इति गायत्रं गौषूक्तं वारवन्तीयँ स सुन्वे यो वसूनां प्राणा शिशुर्महीनामिति दीर्घ श्रुध्ये सोमाः पवन्त इन्दव इति श्यावाश्वा न्धिगवे निषेधः परि प्र धन्वेति वाजदावर्यो ऽया रुचेति नित्यवत्सा धर्ता दिव इति दीर्घतमसोऽर्कोऽन्त्यो यज्ञायज्ञीयमग्निष्टोमसाम चातुर्वीरोऽतिरत्रः षोडशिमान् ७-१०

एष एव चतुरहो यो देवानां पञ्चरात्रस्यानभ्यासक्तः पुनर्जराबोधीयँ स्वं लोकमेति चतुर्थादह्न उत्तरँ षडृचँ सत्रासाहीयमाभीशवं बृहद्भारद्वाजमाथर्वणं तान्युद्धरति ७-११-१

पवमानस्य विश्वविद् यत्सोम चित्रमुक्थ्यमसृक्षत प्रवाजिन उत्ते शुष्मास इरत आ ते दक्षं मयोभुवमिन्द्रग्नि युवामिम इत्यैन्द्राग्नमृषभजराबोधीये उद्धरत्युत्सेधस्य लोकेऽग्नेस्त्रिणिधनमसाव्यँशुर्मदायेति गायत्रं च गौषुक्तं च पवस्व वाजसातय इति श्यावाश्वा न्धीगवे उद्धरति द्विपदातिच्छन्दसः समानमितरमुत्तमेनाह्ना देवानां पञ्चरात्रस्य ७-११-२

ज्योतिष्टोमोऽग्निष्टोमो गौरुक्थ्यो महाव्रतं गौरुक्थ्य आयुरतिरात्र एकाहकॢप्ताः ७-११-३

पृष्ठ्यः षडहः समूढो वा व्यूढो वा समूढस्त्वेव तस्यो पास्मै गायता नर उपो षु जातमप्तुरं पवमानस्य ते कव इति प्रथमस्याह्नो बहिष्पवमानमौदलमासितं त्वाष्ट्रीसामा विकॢप्तं चतुर्थमहस्त्वाष्ट्रीसाम क्रौञ्चमेते स्वराः पृष्ठ्यस्य गौरीवितलोक उद्वँशपुत्राद्रात्रिमुपयन्ती ति यदि व्यूढः ७-१२-१

अथ यदि समूढ एतदेव प्रथमस्याह्नो बहिष्पवमानमेते स्वरा द्वितीयस्याह्नो वृषा शोण इति पार्थमन्त्यं पञ्चमस्याह्नः पार्थस्य लोक आकूपारं यन्नवमेऽहनि सांवत्सरिकः समूढ उत्तरस्य त्र्यहस्याविकॢप्ता बृहत्यः सर्वस्य षडहस्यै ७-१२-२

एष एव त्र्यहो य ऋतूनां यथा व्यूढे तृतीयस्याह्नो वैरूपस्य लोके रथंतरँ सुतासो मधुमत्तमा इति त्रीणि त्वाष्ट्रीसूमान्यैडं मध्ये स्वारे अभितो बृहत्तिसृषु ज्योतिर्गौरायुरतिरात्र एकाहकॢप्ताः ७-१२-३

एष एव पञ्चाहो य ऋतूनाँ समूढोऽभ्यासक्तो बृहद्रथंतरपृष्ठः प्रथमस्याह्नः स्वादिष्ठार्भवीया द्वितीयस्याह्नो वासिष्ठमन्त्यँ स्वस्थाने पार्थं चतुर्थस्याह्न और्णायवस्योपरिष्टाद्बृहद्भारद्वाजमान्धीगवस्य शुद्धाशुद्धीयमुद्धरति षोडशिनं पञ्चमस्याह्नः संतनिन उपरिस्तादैडं च सैन्धुक्षितं गौसूक्तं च ७-१२-४

विश्वजिदतिरात्रः ७-१२-५

एष एव षडहो य ऋतूनाँ समूढो वा व्यूढो वा समूढस्त्वेवै काहिकं व्रतं तस्य ज्योतिष्टोमोऽतिरात्रः षोडशिमान् ७-१३-१

एष एव षडहो य ऋतूनाँ समूढो वा व्यूढो वा समूढस्त्वेव सप्तदशं व्रतं तस्योपास्मै गायता नरः पवस्व वाचो अग्रियो दविद्युतत्या रुचोत्ते शुष्मास ईरते पवमानस्य ते कव इति बहिष्पवमानमुत्तरे गायत्र्या उद्धरति पूर्वे अनुष्टुभः समानमितरं पूर्वेण व्रतेन तस्य स्तोमान्वयीन्युक्थान्येकविँशः षोडशि ७-१३-२

एष एव षडहो य ऋतूनाँ समूढो वा व्यूढो वा समूढस्त्वेव छन्दोमपवमानं व्रतं तस्य पवमानस्य ते वयमिति चतुरृचस्य लोके तृचं विपरिहरति सत्रासाहीयजराबोधीये आशु च भार्गवं मार्गीयवं च सौमित्रं चैटतं च यौधाजयादुत्तराणि बार्हदुक्थं च द्वैगतं च पौरुहन्मनं च स्वाशिरामर्कादुत्तराणि शांमदप्रभृतीनि चत्वार्यान्धीगवादुत्तरान्याकूपारं च साध्रं च स्वासु धर्म समानमितरं प्रथमेन व्रतेन सप्तरात्रिकेण ७-१३-३

एष एव षडहो य ऋतूनाँ समूढो वा व्यूढो वा समूढस्त्वेव तस्याभ्यासक्तः पञ्चाहो यथा पृष्ठ्यावलम्बे चतुर्थस्याह्न एकविँशः षोडशी पञ्चमस्याह्नः पार्थस्य लोक आकूपारं वात्रेयं वे ति यदि समूढो ऽथ यदि व्यूढश्चतुर्थस्याह्नः शुद्धाशुद्धीयस्य लोक आकूपारं पञ्चमस्याह्नः पार्थस्यात्रेयं पार्थं वैव छन्दोमवतो व्रतस्य बहिष्पवमानँ सप्तदशं व्रतँ समानमितरं ७-१३-४

ज्योतिष्टोमोऽग्निष्टोमो गौरुक्थ्य आयुरुक्थ्योऽभिजिदग्निष्टोमो विश्वजिदग्निष्टोमः सर्वजिदग्निष्टोमः सर्वस्तोमोऽतिरात्र एकाहकॢप्ताः ७-१३-५

या देवानां पञ्चरात्रस्य प्रथमा सा जनकसप्तरात्रस्यानभ्यासक्ता ७-१४-१

स्तोत्रीयानुरूपौ पर्यासो वृषा पवस्व धारयेति गायत्रँ हाविष्मतम् आजिगं त एकर्चाः पुनानः सोम धारयेति त्रिणिधनमायास्यं तिसृषु मौक्षस्य लोके स्वाशिरामर्क औपगवस्य सौभरँ समानमितरं द्वितीयेनाह्ना देवानां पञ्चरात्रस्य ७-१४-२

स्तोत्रीयानुरूपौ पर्यास उच्चा ते जातमन्धस इति गायत्रं क्षुल्लकवैष्टम्भँ स्वारँ सौपर्णं त एकर्चा अभि सोमास आयव इत्यन्तरिक्षं तिसृषु महावैष्टम्भस्य लोके श्रायन्तीयँ समानमितरं तृतीयेनाह्ना देवानां पञ्चरात्रस्य ७-१४-३

स्तोत्रीयानुरूपौ पर्यासः पवस्व दक्षसाधन इति गायत्रमदारसृत्सत्रासाहीयं त एकर्चास्तवाहँ सोम रारणेति स्वःपृष्ठमाङ्गिरसं तिसृषु स्वाशिरामर्कस्य लोके गौषूक्तं लौशस्य दीर्घतमसोऽर्कः सौभरस्य त्रैककुभँ समानमितरं चतुर्थेनाह्ना पञ्चशारदीयस्य ७-१४-४

विश्वजिन्महाव्रतं ज्योतिष्टोमोऽतिरात्रः षोडशिमानेकाहकॢप्ताः ७-१४-५

एष एव षडहो य ऋतूनाँ समूढोऽनभ्यासक्तो बृहद्रथंतरपृष्ठ्यश्चतुर्थस्याह्नः प्रत्यस्मै पिपीषत इति गौरीवितँ षोडशिसाम षष्ठस्याह्नो रेवतीनां लोके दार्ढच्युतं विपरिहरत्यौक्ष्णोरन्ध्रे विश्वजिदतिरात्रः ७-१५-१

एष एव षडहो य ऋतूनाँ समूढो वा व्यूढो वा समूढस्त्वेवै काहिकं व्रतं ज्योतिष्टोमोऽतिरात्रोऽषोडशिकः ७-१५-२

एष एव षडहो य ऋतूनाँ समूढो वा व्यूढो वा समूढस्त्वेव ज्योतिर्गौरायुरतिरात्र एकाहकॢप्ताः ७-१५-३

ज्योतिष्टोमोऽग्निष्टोमो गौर् उक्थ्य आयुरुक्थ्यस्तस्यायुषः पुरोजिती वो अन्धस इति श्यावाश्वमेकस्यामान्धीगवमेकस्यामाकूपारमेकस्यां बृहत्तिसृषु बृहन्निधनं वार्कजम्भं पृष्ठ्यावलम्बस्य पञ्चाहो विश्वजिदतिरात्रो विश्वजिदतिरात्रः ७-१५-४

विवृति

सप्तमोऽध्यायः

चतूरात्र Four rishis

चतूरात्राः

तत्र अत्रिचतूरात्रः चतुर्वीरो वा

अथ चतूरात्राश्चत्वारः । चतुर्विशाः पवमानाः (तां ब्रा० २१.९) इत्युत्तरेणानुवाकेनात्रिचतूरात्रः उक्तः । तस्य चतुर्वीर इति संज्ञा ।।

प्रथममहः

प्रथमस्याह्नः क्लृप्तिः-

उपास्मै गायता नरः ( सा० ६५१-३) बभ्रवे नु स्वतवसे ( सा० १४४४-९) प्र यद्गावो न भूर्णयः (सा० ८९२-७) आशुरर्ष बृहन्मते ( सा० ८९८-९०३) पवमानस्य ते कवे ( सा० ६५७-९) ।। १ ।।

इति बहिष्पवमानम् ।।

अग्न आ याहि वीतये ( सा० ६६०-७१) इत्याज्यानि ।। २ ।। प्र सोमासो विपश्चित ( सा० ७६४-६) इति गायत्रं चाश्वं ( ऊ० ६. २.१२) च जराबोधीयं चाशुभार्गवम् (ऊ० ११. २.११) । प्र सोम देववीतय ( साम ७६७-८) इति पञ्च ( ऊ० ५. २.१३) गौङ्गवं ( ऊ० ११. १. १७) यौधाजयम् (ऊ० १. २.१३) औशनम् ( ऊ० १. १. ४) अन्त्यम् ।। ३ ।।

इति माध्यंदिनः पवमानः ।।]

रथन्तरं च (र० १. १. १) वामदेव्यं ( ऊ० १. १. ५) च नौधसं (ऊ० १. १. ६) च कालेयं (ऊ० १. १.७) चेति पृष्ठानि ।। ४ ।।
स्वादिष्ठया मदिष्ठये-( सा० ६८९-९१) ति गायत्र-संहिते (ऊ० १. १. ८) । पवस्वेन्द्रमच्छे-( सा० ६९२-६) ति सफ- (ऊ० १. १. ९ )पौष्कले (ऊ० १ .१ .१०) । प्र सुन्वानायान्धस ( सा० १३८६-८) इत्यौदलं (ऊ० ११. २ ३) गौतमम् (ऊ० ११. २. १३) आकूपारम् (ऊ० १५. १. १६) । अभि प्रियाणी-( सा० ७००-२) ति द्विरिडपदस्तोभोऽ-( र० ४.२.७) न्त्यः ।। ५ ।।
[ इत्यार्भवः पवमानः ।।

यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १ १४) ।। ६ ।।

चतुर्विंशाः पवमानाः । त्रिवृन्त्याज्यानि । पञ्चदशानि पृष्ठानि । सप्तदशोऽग्निष्टोमः ।। ६ ।।

इति प्रथममहः ।। १ ।।

द्वितीयमहः

द्वितीयस्याह्नः -
पवस्व वाचो अग्रियः ( सा० ७७५-७) पवस्वेन्दो वृषा सुतो (सा० ७७८-८०) वृषा सोम द्युमाँ असि (सा० ७८१-३) वृषा ह्यसि भानुना (सा० ७८४-६) सोमः पुनानो अर्षति (सा० ११८७-९५) पवमानस्य ते वयम् (सा० ७८७-९) ।। १ ।। इति बहिष्पवमानम् ।।

341
अहीनः – अत्रिचतूरात्रः (२) [अ.७ ख.२ ]

अग्निं दूतं वृणीमहे (सा० ७९०-८०२) इत्याज्यानि।।२।। वृषा पवस्व धारये( सा० ८०३-५) ति गायत्रं च हाविष्मतं ( ऊ. ७.१. १) चाजिगं ( ऊ० ११. २.१४) च स्वारं च सौपर्णम् ( ऊ० ११. २.१५) । पुनानः सोम धारये(सा० ६७५-६ )त्यायास्ये (ऊ० १२.२०२.१ .१) अन्तरा दैर्घश्रवसम् ( ऊ० ११ २. १६) । वृषा शोण(सा० ८०६-८) इति पार्थम् (ऊ० ७. १. ६) अन्त्यम् ।। १ ।।

[ इति माध्यंदिनः पवमानः ।।

बृहच्च (र० १ .१ .५) वामदेव्यं (ऊ० १. १ .५) च श्यैतं (ऊ० २.१ .३) च माधुच्छन्दसं (ऊ० २. १.४) चेति पृष्ठानि ।। २ ।। यस्ते मदो वरेण्य (सा० ८१५-७) इति गायत्रं च स्वाशिरामर्कः (र० ३.२.४) । त्वं ह्यङ्ग दैव्य ( सा० ९३८-९) पवस्व देववीतये (सा० १३२६-८)इति शड्कु-(ऊ० ११ .२.१८)सुज्ञाने (ऊ० ११ .२. १९) ।

अयं पूषा रयिर्भग( सा० ८१८-२०) इत्यासितं (ऊ० ११.२.२०) च द्वे क्रौञ्चे (ऊ० १५. १. १७२. १. ९) । वृषा मतीनां पवत ( सा० ८२१-३) इति चतुरिडः पदस्तोभोऽ-(र० ४.२. ८)न्त्यः ।। ३ ।।

[ इत्यार्भवः पवमानः ।।]

द्वे क्रौञ्चे इति । अयं पूषौ हो इत्येकम् । अयं पूषा । हो । रयिर्भगां ए । इत्यपरम् । तयोश्चाजाम्यर्थं विपर्यासेन प्रयोगः कार्यः । अन्यथा हि स्वारयोः तयोः क्रौञ्चयोः संनिपाताज्जामिता स्यात् ।। ३ ।।

यज्ञायज्ञीयमग्निष्टोमसाम ( ऊ ० १. १. १४) । औशनम् ( ऊ० १. १ ४) सौभरम् ( ऊ० १. १. १६) आष्टादंष्ट्रम् (ऊ० २.१ १२) इत्युक्थानि ।। ४ ।।

प्रेष्ठं वः (सा० १२४४-६) इत्यौशनम् । आष्टादंष्ट्रं पूर्वम् । पूर्वं सकृदनुक्थ्येऽहीनरात्रा-(सा० )विति वचनात् । चतुर्विंशाः पवमानाः । पञ्चदशान्याज्यानि । सप्तदशानि पृष्ठानि । एकविंशो- ऽग्निष्टोमः सोक्थः ।। ४ ।।

इति द्वितीयमहः ।। २ ।।

तृतीयमहः

तृतीयस्याह्नः-

दविद्युतत्या रुचा ( सा० ६५४-६) एते असृग्रमिन्दवो (सा० ८३०-२) राजामेधाभिरीयते ( सा० ८३३-५) असृक्षत प्र वाजिन (सा० १०३४-६) एते सोमा अभि प्रियम् (सा० ११७८-८६) इषे पवस्व धारया ( सा० ८४१-३) ।। १ ।।

इति बहिष्पवमानम् ।।

अग्निनाग्निः समिन्धते (सा० ८४४-५५) इत्याज्यानि ।। २ ।। अग्निनाग्निः (सा० ८४४-६) मित्रं हुवे ( सा० ८४७-९) इन्द्रेण (सा० ८५०-२) ताहुवे (सा० ८५३-५) इत्याज्यानि ।। २ ।।

उच्चा ते जातमन्धसः ( सा० ६७२-४) इति गायत्रं च क्षुल्लकवैष्टम्भम् ( ऊ० २. १. १३) ऐडं सौपर्णम् (ऊ० १३ .१.१७) । अभि सोमास आयव ( सा० ८५६-८) इति गौतमं (ऊ० २. १.१५) चान्तरिक्षं (र० १. १ ६) च मैधातिथं ( ऊ० ९.३. ६) च द्विहिकारं

343
अहीनः – अत्रिचतूरात्रः (३) [अ.७ ख.३ ]

( ऊ० ४ .२.७) च । तिस्रो वाच ( सा० ८६९-७१) इत्यङ्गिरसां संक्रोशोऽ-(ऊ० २. १. १७)न्त्यः ।। ३ ।।

[ इति माध्यंदिनः पवमानः ।।]

अभि त्वा वृषभा सुतः (सा० ७३१-३) रथन्तरम् (र० ३. २. १५) । कस्तमिन्द्र त्वा वसव (सा० १६३२-३) इति वामदेव्यं (ऊ० १५. १. १८) श्रायन्तीयं ( ऊ० ५. २.९) च रौरवं च (ऊ० २. १. १९) ।। ४ ।।

इति पृष्ठानि ।।

तरणिरित्सिषासती-( सा० ८६७-८)ति रौरवम् । रथन्तरस्य गायत्री छन्दः । वामदेव्यस्य बृहती ।। ४ ।।

तिस्रो वाच उदीरत ( सा० ८६९-७१) इति गायत्रं चाग्नेश्चार्कः ( र० ३. २. १३) आ सोता परि षिञ्चत (सा० १३९४-५) सखाय आ निषीदते-( सा० ११५७-९) ति वाचःसाम (ऊ० ७. १. १७) शौक्तं च (ऊ० १४.२. १५) । सुतासो मधुमत्तमः (सा० ८७२-४) इति त्वाष्ट्रीसामनी स्वारे ( ऊ० १५. २. १-२) अन्तरान्धीगवम् ( ऊ० ७. १. २०) पवित्रं त ( सा० ८७५ -७) इति षडिडपदस्तोभोऽ(र० ४. २. ९)न्त्यः ।। ५ ।।

[ इत्यार्भवः पवमानः ।।]

त्वाष्ट्रीसामनी स्वारे इति । सुतासोमाहा इत्येकम् । सुता । सोमा इत्यपरम् । तयोर्मध्ये आन्धीगवम् ।। ५ ।।

यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. ४) ।। ६ ।।

आयुष उक्थानि ।। ७ ।।

प्रमँहिष्ठीयं ( ऊ० २.२.५) हारिवर्ण-( ऊ० २. २.६) मुद्वंशीय-(ऊ० ६.१. ८)मिति ।।

अथ स्तोमाः । चतुर्विशाः पवमानाः । सप्तदशान्याज्यानि । एकविंशानि पृष्ठानि । त्रिणवोऽग्निष्टोमः सोक्थः ।। ७ ।।

इति तृतीयमहः ।। ३ ।।

चतुर्थमहः

चतुर्थस्याह्नः-

पवमानो अजीजनत् ( सा० ८८९ -९१) एष देवो अमर्त्यः (सा० ११५६-६५) एष धिया यात्वण्व्या (सा० ११६६-७३) आ ते दक्षं मयोभुवम् ( सा० ११३७-९) ।। १ ।।

इति बहिष्पवमानम् ।।

होता देवो अमर्त्यो ( सा० १४७७-९) यदद्य सूर उदिते (सा० १३५१-३) महाँ इन्द्रो य ओजसे (सा० १३०७-९) यं वामस्य मन्मनः (सा० ९१६-८) ।। २ ।।

इत्याज्यानि ।।

अस्य प्रत्नामनुद्युतम् ( सा० ७५५-७) इति गायत्रम् आमहीयवं (ऊ० ९. २.३) सत्रासाहीयम् (ऊ० ९. १. ९) । परीतो षिञ्चता सुतम् ( सा० १३१३-५) इति पृश्नि ( ऊ० १५. १. ६) चाथर्वणं ( र० २. १ . ३) चाभीशवं ( ऊ० ५. २.६) चोत्सेधश्च (ऊ० १२.२.२०) । अयं सामं (सा० १४७१-३) इतीहवद्वासिष्ठम् ( ऊ० १५. २.५) अन्त्यम् ।। ३ ।।

इति माध्यंदिनः पवमानः ।। १

345
अहीनः – अत्रिचतूरात्रः (४) [अ.७ ख.४ ]

यज्जायथा अपूर्व्ये( सा० १४२९-३१) । बृहद् ( र० ४२.६) एदु मधोर्मदिन्तरम् (सा० १६८४-६) इति वामदेव्यं ( ऊ० १५. २. ६) त्रैशोकं ( ऊ० २२.१३) च समन्तं (ऊ० ५. २ .१०) च ।। ४ ।।

इति पृष्ठानि ।।

बृहतोऽनुष्टुप्छन्दः । वामदेव्यस्योष्णिक् । त्रैशोकस्यातिजगती ।

यत इन्द्र इति समन्तम् ।। ४ ।।

परि स्वानो गिरिष्ठा ( सा० १०९३-५) इति गायत्रं च गौषूक्तं ( ऊ० १५. २७) च । स सुन्वे यो वसूनाम् (सा० १०९६-७) प्राणा शिशुर्महीनाम (सा० १०१५-६) इति दीर्घ-( ऊ० ३.२. ११ )वारवन्तीये ( ऊ० १५ .२.८) । पुरोजिती वो अन्धस ( सा० ६९७-९) इति निषेधश्च (ऊ० १२. १.६ )श्यावाश्वं ( ऊ १.१.११) च । परि प्र धन्वे-(सा० १३६७-८) ति दीर्घतमसोऽर्को ( र० ४. २.४) धर्ता दिव ( सा० १२२८-३०) इति अष्टेडः पदस्तोभोऽ-(र० ४. ३. १)न्त्यः ।। ५ ।

[ इत्यार्भवः पवमानः ।।]

यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४) ।। ६ ।।

साकमश्वं ( ऊ० १. १. १५) त्रैककुभं ( ऊ० ६. १. ७) नार्मेधम् ( ऊ० १ १. १७) ।। ७ ।।

इत्युक्थानि।।

त्रैककुभस्योष्णिक्छन्दः ।। ६ ।।

गौरीवितं षोडशिसाम । रात्रिः संधिः ।। ८ ।।

अथ स्तोमाः । चतुर्विंशा पवमानाः । एकविंशान्याज्यानि त्रिणवानि पृष्ठानि । त्रयस्त्रिंशोऽग्निष्टोमः । त्रयस्त्रिंशोऽग्निष्टोमः । एकविंशान्युक्थानि सषोडशिकानि । पञ्चदशी रात्रिः । त्रिवृत्संधिरिति ।।

दधिभक्षान्तानि पूर्वाण्यहानि । ठदवसानीयान्तमुत्तमम् ।। ८ ।। इति चतुर्थमहः ।। ४ ।।

अत्रिचतूरात्रः ( चतुर्वीर) समाप्तः ।।

जामदग्न्यश्चतूरात्रः

प्रथममहः

त्रिवृत्पञ्चदशोऽग्निष्टोम प्रथममहः ( तां० ब्रा० २१.१०) इत्यनुवाकेन जामदग्न्यश्चतूरात्र उक्तः । अत्र सूत्रम्-त्रयोदश्यामपरपक्षस्य दीक्षेत जामदग्न्याय (ला० श्रौ० ९. १२.३) इत्यादि । प्रथमस्याह्नः कल्पः-

उपोषु जातमप्तुरम् (सा० १३३५-७) इत्यनुरूपो नौधसं ( ऊ० १. १. ६) ब्रह्मसाम । सुज्ञानस्य लोके पौष्कलम् ( ऊ० ९. २.२) । प्र सुन्वानायान्धस (सा० १३८६-८) इत्यौदल-(ऊ० ११ .२.३) गौतमे (ऊ० १. २.१८) ।। १ ।।

समानमितरं प्रथमेनाह्नाभिप्लविकेन ।। २ ।।

इति । उपास्मै (सा० ६५१-३) उपोषु जातमप्तुरं( सा० १३३५-७) पवमानस्य ते कवे (सा० ६५७-९) इतिः बहिष्पवमानम् ।।

347
अहीनः – जामदग्न्यश्चतूरात्रः (२) [अ.७ ख.६ ]

अग्न आ याहि वीतये (सा० ६६०-७१) इत्याज्यानि ।।

प्र सोमासो विपश्चित ( सा० ७९४-६) इति गायत्रं चाश्वं ( ऊ० ६. २.१२) च । प्र सोम देववीतय (सा० ७६७-९) इति पज्रं ( ऊ० ५. २.१३) च यौधाजयं (ऊ० १. २.१३) चौशन(ऊ० २ १ १. ४)मन्त्यम् । इदं यौधाजयं द्व्यक्षरणिधनमेव ।ऽ। रथन्तरं ( र० १ . १. १) वामदेव्यं ( ऊ० १.१. ५) च नौधसं ( ऊ० १.१. ६) च कालेयं ( ऊ० १.१.७) चेति पृष्ठानि ।।

स्वादिष्ठये-(सा० ६८९-९१)ति गायत्र-संहिते (ऊ० १. १. ८) । अया पवस्व देवयु (सा० ७७२) पवते हर्यतो हरि(सा० ७७३ )रिति सफ-(ऊ० १.२.१५ )पौष्कले (ऊ० ९ .२ २) । प्र सुन्वानायान्धस ( सा० १३८६-८) इति औदल-( ऊ० ११. २.३) गौतमे (ऊ० १.२.१८) । काव-(ऊ० १ १ १३ )मन्त्यम् । काववर्जमेकर्चाः ।। यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४) ।।

अस्मिन्नहनि त्रिवृत्पञ्चदशयोर्व्यत्यासप्रयोगः ।।

इति प्रथममह ।। ५ ।।

द्वितीयमहः
द्वितीयस्याह्नः कल्पः-

आजिगक्रौञ्चे उद्धरति । स्वे उष्णिक्ककुभौ । स्वासु यामम् सा- १०.१. १०) ।। १ ।।

समानमितरं द्वितीयेनाह्ना चतुर्वीरस्य ।। २ ।।

इति । स्वे उष्णिक्ककुभाविति । आभिप्लविकस्य द्वितीयस्याह्नः संबन्धिन्यावित्यर्थः । पवस्व वाचो-पवस्वेन्दो-वृषा सोम वृषा ह्यसि
( सा० ७७५-७८६) सोमः पुनानो अर्षति ( सा० ११८७-९५) पवमानस्य ते कवे ( सा० ६५७-९) इति बहिष्पवमानम् ।।

अग्निं दूतं वृणीमहे ( सा० ७९०-८८००-२) इत्याज्यानि ।। वृषा पवस्व धारये-( सा० ८०३-५)ति गायत्रं च हाविष्मतं (ऊ० ७.१.१) च सौपर्णम् ( ऊ० ९.२.१५) । पुनानः सोम धारये-(सा० ६७५-६)ति ऐडं चायास्यं (ऊ० १.२.२०) दैर्घश्रवसं ( ऊ० ११.२.१६) च त्रिणिधनं चायास्यम् (ऊ० २.१.१) । वृषा शोण ( साश्च ८०६-८) इति पार्थ-(ऊ० ७. १. ६)मन्त्यम् ।।

बृहच्च (र० १.१.५) वामदेव्यं ( ऊ० १.१. ५) च श्यैतं (ऊ० २.१.३) च माधुच्छन्दसं (ऊ० २.२.४) चेति पृष्ठानि ।।

यस्ते मदो वरेण्य ( सा० ८१५-७) इति गायत्रं च स्वाशिरामर्कः (र० ३. १.४) । पवस्वेन्द्रमच्छे( सा० १३२६-८ )ति शङ्कु(ऊ० ११. २.१८)सुज्ञाने (ऊ० ११.२. १९) । अयं पूषा रयिर्भग (सा० ८१८-२०) इति आसितं (ऊ० ११.२.२०) च क्रौञ्चं ( ऊ० १५.१. १७) च । वृषा मतीनां पवत (सा० ८२१-३) इति याम-(ऊ० २.१.१०)मन्त्यम् । स्वारस्य क्रौञ्चस्यो- (ऊ० २. १. ९)द्धारः ।।

यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १ १.१ ४) ।।

औशनं (ऊ० १. १.४) सौभर (ऊ० १.१.१६ )माष्टादंष्ट्र- (ऊ० २.१.१२)मित्युक्थानि । ब्राह्मणोक्तास्तोमाः ।। २ ।।

इति द्वितीयमहः ।। ६ ।।

349
अहीनः – जामदग्न्यश्चतूरात्रः (३) [अ.७ ख.७ ]

तृतीयमहः

अथोत्तरस्याह्नश्चतुर्विंश बहिष्पवमानम् । पञ्चदशानि त्रीण्याज्यानि । सप्तदशमच्छावाकस्य । एकविंशो माध्यंदिनः पवमानः । सप्तदशे द्वे पृष्ठे । एकविंशे द्वे । एकविंशं तृतीयं सवनं सोक्थम् इति ।।

तृतीयस्याह्नः कल्पः-

असृक्षत प्र वाजिनः (सा० १०३४-६) इत्युद्धरति । अग्नेरर्कादुत्तरम् ऐडं सैन्धुक्षितम् (ऊ० १५.१. १९) । अभ्यासवतस्त्वाष्ट्रीसाम्नो लोके ( ऊ० १५. २.२) । त्रिणिधनं त्वाष्ट्रीसाम (ऊ० २. २.४) । स्वास्वरिष्टम् (र० १.१.८) ।। १ ।।

समानमितरं तृतीयेनाह्ना चतुर्वीरस्य ।। २ ।।

इति । दविद्युतत्या रुचा (सा० ६५४-६) एते असृग्रमिन्दवो (सा० ८३०-२) राजा मेधाभिरीयते ( सा० ८३३-५) एते सोमा अभि प्रियम् (सा० ११७८-८६) इषे पवस्व धारयेन-( सा० ८४१-३) ति बहिष्पवमानम् ।।

अग्निना-मित्रं हुवे-इन्द्रेण ताहुवे-(सा० ८४४-५५) इत्याज्यानि ।। उच्चा ते जातमन्धस (सा० ६७२-८) इति गायत्रं क्षुल्लक- वैष्टम्भम् (ऊ० २. १.१३) ऐडं सौपर्णम् ( ऊ० १३.१.१७) । अभि सोमास (सा० ८५६-८) इति गौतमं ( ऊ० २.१.१५) चान्तरिक्षं (र० १.१.६) च मैधातिथं (र० ९.३.६) च द्विहिंकारं (ऊ० ४.२.७) च । तिस्रो वाच (सा० ८५९-६२) इति अङ्गिरसां संक्रोशोऽ-(ऊ० २.१. १७)न्त्यः ।।

अभि त्वा वृषभा सुत (सा० ७३१-३) इति रथन्तरं (र० ४.२. ५) । कस्तमिन्द्र त्वा वसव (सा० १६८२-३) इति वामदेव्यं (ऊ० १५ १.१८) श्रायन्तीयं ( ऊ० ५ .२.९) च रौरवं (ऊ० १ १. २) चेति पृष्ठानि ।।

तिस्रो वाच उदीरत ( सा० ८६९-७१) इति गायत्रं चाग्नेश्चार्कः (र० ४.२ .३) ऐडं सैन्धुक्षितम् (ऊ० १५.१ .१९) । आ सोता परि षिञ्चता (सा० १३९४-५) सखाय आ निषीदते- (सा० ११५७-९) ति वाचःसाम (ऊ० ७.१. १७) शौक्तं (ऊ० १४. २.१५) च । सुतासो मधुमत्तम ( सा० ८७२-४) इति स्वारन्त्रिणिधने त्वाष्ट्रीसामनी ( ऊ० १५.२.१२.२.४) अन्तरान्धीगवम् (ऊ० ७. १.२०) । पवित्रं त (सा० ८७५-७) इत्यरिष्ट(र० १.१ .८)मन्त्यम् । अत्र स्वारं त्वाष्ट्रीसाम द्वयोः पूर्वम् ।।

यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४) ।।

प्रमँहिष्ठीयं (ऊ० २.२.५) हारिवर्ण-(ऊ० २. २. ६)मुद्वंशीय- (ऊ० ६.१.८ )मित्युक्थानि ।।

तृतीयस्याह्नः एकविंशं बहिष्पवमानम् । त्रीणि चाज्यानि । पञ्चदशमच्छावाकस्य । चतुर्विशो माध्यंदिनः पवमानः । एक- विंशानि पृष्ठानि । त्रिणवं तृतीयसवनम् । द्वे चोक्थे । एकविंशमच्छावाकस्येति स्तोमविधिः ।। २ ।।

इति तृतीयमहः ।। ७ ।।

चतुर्थमहः

चतुर्थस्याह्नः कल्पः-

वारवन्तीयस्य लोके श्रुध्यम् (ऊ. १२.१ .५) विपरिहरत्यानुष्टुभे । द्विपदासु वारवन्तीयम् ( सा० १३६७-९ऊ० ९. २ .१०) दीर्घतमसोऽर्कोऽ- ( र० १. ३.७ )न्त्यः ।। १ ।।
351
अहीनः – जामदग्न्यश्चतूरात्रः (४) [अ.७ ख.८ ]

समानमितरमुत्तमेनाह्ना चतुर्वीरस्य ।। २ ।।

इति । पवमानो अजीजनत् (सा० ८८९-९१ ) एष देवो अमर्त्य (सा० १२५६-६५) एष धिया यात्यण्व्या (सा० १२६६-७३) आ ते दक्षं मयो भुवम् ( सा० ११३७-९) इति बहिष्पवमानम् ।। होता देवो अमर्त्यो ( सा० १४७७-९) यदद्य सूर उदिते (सा० १३०१-३) महाँ इन्द्रो य ओजसा ( सा० १३०७-९) इयं वामस्य मन्मनः (सा० ९१६-८) इत्याज्यानि ।।

अस्य प्रत्नामनुद्युतम् (सा० ७५५ -७) इति गायत्रं चामहीयवं (ऊ० ९.२.३) च सत्रासाहीयम् (ऊ० ९ .१ .९) । परीतो षिञ्चता सुत- (सा० १३१३-५) मिति पृश्नि (ऊ० १५. १.६) चाथर्वणं (र० २. १ ३) चाभीशवं (ऊ० ५ . २.६) चोत्सेधश्च ( ऊ० १२ .२ .२०) । अयं सोम ( सा० १४७१-३) इति इहवद्वासिष्ठ-(ऊ० १५. २. ५ )मन्त्यम् ।।

यज्जायथा अपूर्व्ये-( सा० १४२९ -३१)ति बृहत् (र० ४. २.६) । एदु मधोर्मदिन्तर-(सा० १६९४-६ )मिति वामदेव्यं (ऊ० १५. २. १६) त्रैशोकं ( ऊ० २.२ .१३) समन्तं (ऊ० ५. २. १०) चेति पृष्ठानि ।।

परिस्वानो गिरिष्ठा ( सा० १०९३-५) इति गायत्रं च गौषूक्तं ( ऊ० १५. २.७) च । स सुन्वे यो वसूनां (सा० १०९६-७) प्राणा शिशुर्महीनाम् ( सा० १०१३-५) इति दीर्घ(ऊ० ३ . २. ११ )वारवन्तीये (ऊ० १५.२.८) । पुरोजिती वो अन्धस ( सा० ६९७-९) इति श्यावाश्वं ( ऊ० १. १. ११) च निषेध- (ऊ०१२ १. ६ )श्च । परि प्र धन्वे-(सा० १३६७-९)ति दीर्घतमसोऽर्कः (र० ४ .२.४) । धर्ता दिवः (सा० १२२८-३०) इति अष्टेडपदस्तोभोऽ-(र० ४.३. १)न्त्यः ।।

यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १.१.१४) ।।

साकमश्वं ( ऊ० १ .१.१५) त्रैककुभं ( ऊ० ४.१.७) नार्मेध-(ऊ० १.१. १७)मित्युक्थानि ।।

गौरीवितं(ऊ० ३. १.१७)षोडशिसाम । रात्रिः संधिः ।।

चतुर्थस्याह्नः चतुर्विंशा पवमानाः । पञ्चदशं होतुराज्यम् । सप्तदशानि त्रीणि । एकविंशानि पृष्ठानि । त्रयस्त्रिंशोऽग्निष्टोमः । एकविंशान्युक्थानि षोडशिकानि । पञ्चदशी रात्रिः । त्रिवृत्संधिः । इति स्तोमविधिः ।।

इति चतुर्थमहः ।। ८ ।।

इति जामदग्न्यश्चतूरात्रः समाप्तः ।।

वासिष्ठश्चतूरात्रः-संसर्पो वा

त्रिवृत्प्रातःसवनम् ( ता० ब्रा० २१.११) इत्यनुवाकेन वासिष्ठश्चतूरात्र उक्तः । स एव संसर्प इत्युच्यते ।।

प्रथममहः

तस्य प्रथमस्याह्नः क्लृप्तिमाह-

या जामदग्न्यस्य प्रथमा सा संसर्पस्य ।। १ ।।

इति । त्रिवृत्प्रातःसवनम् । पञ्चदशं माध्यंदिनं सवनम् । सप्तदशं

353
अहीनः – वासिष्ठश्चतूरात्रः (२) [अ.७ ख.१० ]

तृतीयं सवनम् । इति स्तोमक्लृप्तिः । अतिरिक्तास्तृचाः ।
सप्तदशत्वात् । परिशिष्टं जामदग्न्यस्य प्रथमेनाह्ना समम् ।। १ ।।

इति प्रथममहः ।। ९ ।।

द्वितीयमहः

नवर्चसौपर्णे उद्धरति । परीतो षिञ्चता सुतम् (सा० १३१३-५) बार्हदुक्थं ( ऊ० ९.३.७) च दैर्घश्रवसं ( ऊ० ५.२.४) चायास्ये (ऊ० ७.१. ४) ।। १ ।।

समानमितरं द्वितीयेनाह्ना जामदग्न्यस्य ।। २ ।।

इति । पवस्व वाचो (ऊ० ७७५-७) पवस्वेन्दो (ऊ० ७७८-८०) वृषा सोम द्युमाँ असि (ऊ० ७८१-३) वृषा ह्यसि (ऊ० ७८४-६) पवमानस्य ते वय-(७८७-९)मिति बहिष्पवमानम् ।।

अग्निं दूतं वृणीमहे-मित्रं वयम्-इन्द्रमिद्गाथिन-इन्द्रे अग्ने-( सा० ७९०-९८००-२)त्याज्यानि ।।

वृषा पवस्व धारयेन-( सा० ८०३-५) ति गायत्रं च हाविष्मतं (ऊ० ७.१. १) च । परीतो षिञ्चता सुत-(सा० १३१३-५)मिति बार्हदुक्थं ( ऊ० ९. ३.७) च दैर्घश्रवसं ( ऊ० ५. २.४) चायास्ये (ऊ० ७.१. ४) । वृषा शोण ( ऊ० ८०२-८) इति

पार्थ-(ऊ० ७.१ .६ )मन्त्यम् । शशकर्णक्लृप्ता बृहती ।।

बृहच्च ( र० १. १. ५) वामदेव्यं ( ऊ० १. १. ५) च श्यैतं ( ऊ० १. १.६) च माधुच्छन्दसं (ऊ० २.१ .४) चेति पृष्ठानि ।।

यस्ते मदो वरेण्य ( सा० ८१५ -७) इति गायत्रं च स्वाशिरामर्कः (र० ३.२.४) । पवस्वेन्द्रमच्छे-( सा० ६९२-६ )ति शङ्कु-(ऊ० २.१.६ )सुज्ञाने ( ऊ० २.१.७) । अयं पूषा रयिर्भग (सा० ८१८-२०) इति आसितं (ऊ० १२.२.२०) च क्रौञ्चं चोत्तमम् (ऊ० २.१ .९) । वृषा मतीनां पवते (सा० ८२१-३) इति याम-(ऊ० २.१ .१० )मन्त्यम् ।।

यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १ .१ .१४) ।।

औशनं (ऊ० १. १ .४) सौभर-(ऊ० १ .१. १६ )माष्टादंष्ट्र-(ऊ० २.१. १ २)मित्युक्थानि । पञ्चदशं प्रातःसवनम् । सप्तदशं माध्यंदिनं सवनम् । एकविंशं तृतीयसवनं सोक्थम् ।। २ ।।

इति द्वितीयमहः ।। १० ।।

तृतीयमहः

तृतीयस्याह्नः कल्पः-

द्वादशाहिकस्य तृतीयस्याह्ण आज्यबहिष्पवमानम् । गायत्री च ।। १ ।। समानमितरं तृतीयेनाह्ना जामदग्न्यस्य ।। २ ।।

इति । दविद्युतत्या रुचा (सा० ६५४-६) एते असृग्रमिन्दवो (सा० ८३०-२) राजा मेधाभिरीयते ( सा० ८३३-५) तं त्वा नृम्णानि बिभ्रतम् ( सा० ८३६-४०) इषे पवस्व धारय ( सा० ८४१-३) इति बहिष्पवमानम् ।।

अग्निना-मित्रं हुवे-इन्द्रेण-ता हुवे (सा० ८४४-५५) इत्याज्यानि ।।

355
अहीनः – वासिष्ठश्चतूरात्रः (३) [अ.७ ख.११ ]

उच्चा ते जातमन्धसः ( सा० ६७२-४) इति गायत्रं च क्षुल्लकवैष्टम्भं ( ऊ० २. १. १३) च । अभि सोमास आयवः (सा० ८५६-८) इति गौतमं (ऊ० २ .१.१५) चान्तरिक्षं (र० १. १. ६) च मैधातिथं (ऊ० ९.३.६) च द्विहिंकारं (ऊ० ४.२.७) च । तिस्रो वाच उदीरत (सा० ८५९-६१) इत्यङ्गिरसां संक्रोशो- (ऊ० २ १. १७) ऽन्त्यः ।।

अभि त्वा वृषभा सुत( सा० ७३१-३) इति रथन्तरम् (र० १. १.१) । कस्तमिन्द्र त्वा वसवा (सा० १६८२-३) इति वामदेव्यं (ऊ० १५.१.१८) श्रायन्तीयं (ऊ० ५ .२.९) रौरवं (ऊ० १.१.२) चेति पृष्ठानि ।। तिस्रो वाच उदीरत (सा० ८५९-६१) इति गायत्रं चाग्नेश्चार्कः (र० ४.२.३) । ऐडं सैन्धुक्षितम् (ऊ० १५.१.१९) । आ सोता परि षिञ्चत-(सा० १३९४-५) सखाय आ निषीदत (सा० ११५७-९) इति वाचःसाम (ऊ० ७.१.१७) शौक्तं (ऊ० १४.२.१५) च । सुतासो मधुमत्तमा (सा० ८७२-४) इति स्वाराद्यं च त्वाष्ट्रीसामा- (ऊ० १५.२.१ )न्धीगवं ( ऊ० १.१.१२) च त्रिणिधनं च त्वाष्ट्रीसाम (ऊ० २.२.४) । पवित्रं त (सा० ८७५-७) इत्यरिष्ट(र० १ १.८)मन्त्यम् ।।

यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४) ।।

प्रमँहिष्ठीयं ( ऊ० २.२.५) हारिवर्ण-(ऊ० २.२.६ )मुद्वंशीय- (ऊ० ६.१.८)मित्युक्थानि ।।

सप्तदशं प्रातःसवनम् । एकविंशं माध्यंदिनं सवनम् । त्रिणवं तृतीयसवनं सोक्थम् ।। २ ।।

चतुर्थमहः

अथ चतुर्थस्याह्नः-

उद्धरति पर्यासम् । व्रात्या गायत्री । पुनानः सोम धारये-(सा० ६७५-६ )ति बृहती । गौषूक्तादुत्तरं वारवन्तीयम् (ऊ० १२. १ . ४) । पुरोजिती वो अन्धस ( सा० ६९७-९) इति निषेधश्च (ऊ० १२. १. ६) श्यावाश्वं ( ऊ० १. १. ११) त्वाष्ट्रीसामा-(ऊ० ७.२. १०) हरति द्विपदातिच्छन्दसः ।। १ ।।
समानमितरमुत्तमेनाह्ना जामदग्न्यस्य ।। २ ।।

इति । पवमानो अजीजनत् (सा० ८८९ -९१) एष देवो अमर्त्यः ( सा० १२५६-६५) एष धिया यात्यण्व्या ( सा० १२६६-७३) इति बहिष्पवमानम् ।।

होता देवो अमर्त्यो ( सा० १४७७-९) यदद्य सूर उदिते (सा० १३५१-३) महाँ इन्द्रो य ओजसा ( सा० १३०७-९) इयं वामस्य मन्मन (सा० ९१६-८) इत्याज्यानि ।।

अस्य प्रत्ने-( सा० ७५५-८ )ति गायत्रं चामहीयवं (ऊ ० ९. २. ३) च जराबोधीयं (ऊ० ९.३.१०) च सत्रासाहीयं (ऊ० ९. १. ९) च । पुनानः सोम धारये( सा० ६७५-६) ति पृश्नि ( ऊ ० १५ .२.३) चाथर्वणं ( र० ४.३.२) चाभीशवं (ऊ० १५ .२ ४) चोत्सेधश्च ( ऊ० ६ .१. ११) । अयं सोम (सा० १४७१-३) इति इहवद्वासिष्ठ(ऊ० १५. २. ५ )मन्त्यम् ।। यज्जायथा अपूर्व्ये-(सा० १४२९-३१) ति बृहत् (र० ३.२.१६) । एदु मधोर्मदिन्तरम् (सा० १६८४-६) इति वामदेव्यं ( ऊ० १५. २.६) त्रैशोकं (ऊ० २. २. १३) च समन्तं (ऊ० ५ .२. १०) चेति पृष्ठानि ।।

परिस्वानो गिरिष्ठा (सा० १०९३-५) इति गायत्रं गौषूक्तं (ऊ० १५. २.७) वारवन्तीयम् (ऊ० १२.१.४) । स सुन्वेयो

357
अहीनः – वैश्वामित्रश्चतूरात्रः (१) [अ.७ ख.१३ ]

वसूनां (सा० १०९६-७) प्राणा शिशुर्महीनाम् ( सा० १०१३-५) इति दीर्घ-(ऊ० ३.२.११) श्रुध्ये (ऊ० १२.२.५) । पुरोजिती वो अन्धस ( सा० ६९७-९) इति निषेधश्च ( ऊ० १२. १.६) श्यावाश्वं (ऊ० १. १.११) च त्वाष्ट्रीसाम यदूर्ध्वेडम् ( ऊ० ७.२..१०) । परि प्र धन्वे (सा० १३६७-८ )ति वाजदावर्यः (ऊ० १२.१.७) । अया रुचे -(सा० १५९०-२ )ति नित्यवत्साः ( र० ३.२ .२) । धर्ता दिव ( सा० १२२८-३०) इति दीर्घतमसोऽर्कोऽ-(र० ३.१.१०)न्त्यः ।।

यज्ञायज्ञीयमग्निष्टोमसाम (उ० १.१.१४) ।।

साकमश्वं ( ऊ० १ .१.१५) त्रैककुभं ( ऊ० ६.१.७) नार्मेध(ऊ० १.१. १७)मित्युक्थानि ।।

गौरीवितं ( ऊ० ३. १. २) षोडशिसाम । रात्रिः संधिः । एकविंशं प्रातःसवनम् । त्रिणवं माध्यंदिनं सवनम् । त्रयस्त्रिंशं तृतीयसवनम् । प्रत्यवरोहीण्युक्थानि । त्रिणवं प्रथमम् । द्वे एकविंशे सषोडशिके । पञ्चदशी रात्रिः । त्रिवृत्संधिरिति । अत्र सूत्रम्- संसर्पस्य चतुर्थेऽहनि (ला० श्रौ० ९.१२.८) इत्यादि ।। २ ।।

इति चतुर्थमहः ।। १२ ।।

इति वासिष्ठश्चतूरात्रः समाप्तः ।।

वैश्वामित्रश्चतूरात्रः
त्रिवृदग्निष्टोमः । पञ्चदश उक्थः । सप्तदश उक्थः । एकविंशोऽ- तिरात्रो विश्वामित्रस्य संजयः ( तां० ब्रा० २१.१२) इत्यनुवाकेन
विश्वामित्रश्चतूरात्र उक्तः ।।

प्रथममहः

तस्य प्रथममहराह-

प्र सोमासो विपश्चित ( सा० ७६४-६) गायत्रमेकस्याम् । आश्वमेकस्याम् (ऊ० १. २.११) जराबोधीयमेकस्याम् ( ऊ० १४.१.१२) । प्र सोम देववीतये -(सा० ७६७-८) इति यौधाजयं (ऊ० १.२. १३) तिसृषु ।। १ ।। समानमितरं प्रथमेनाह्ना संसर्पस्य ।। २ ।।

इति । उपास्मै (सा० ६५१-३) उपोषु जातम् (सा० १३३५-७) पवमानस्य ते कवे (सा० ६५७-९) इति बहिष्पवमानम् ।।

अग्न-आ नो मित्रायाहीन्द्राग्नी-( सा० ६६०-७१) त्याज्यानि ।। प्र सोमासो विपश्चित ( सा० ७६४-६) इति गायत्रमाश्वं (ऊ० १ २. ११) जराबोधीय(ऊ० १४. १.१२)मिति सामतृचः । प्र सोम देववीतय (सा० ७६७-८) इति यौधाजयं (ऊ० १. २. १३) तिसृषु । औशन-( ऊ० १.१.४ )मन्त्यम् ।।

रथन्तरं (र० १.१.१) च वामदेव्यं (ऊ० १. १.५) च नौधसं (ऊ० १. १.६) च कालेयं (ऊ० १. १.) चेति पृष्ठानि ।।

स्वादिष्ठये(सा० ६८९ )ति गायत्रसंहिते ( ऊ० १.१.८) । अया पवस्व देवयुः-पवते हर्यतो हरिर् ( सा० ७७२-३) इति सफ-(ऊ० १.२.१५ )पौष्कले (ऊ० ९ .२.२) । प्र सुन्वानायान्धस ( सा० ७७४) इत्यौदल-( ऊ० ११.२.३ गौतमे (ऊ० १.२.१८) । काव-(ऊ० १.१.१३)मन्त्यम् । काववर्जमेकर्चाः ।।

यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १.१. १४) ।।

सर्वं त्रिवृत् ।। २ ।।

इति प्रथममहः ।। १३ ।।

359
अहीनः – वैश्वामित्रश्चतूरात्रः (२) [अ.७ ख.१४ ]

द्वितीयमहः

द्वितीयमहराह-

पुनानः सोम धारय ( सा० ६७५-६) इत्यायास्ये (ऊ० १. २ .२०२.१.१) ।। १ ।।

समानमितरं तृतीयेनाह्ना संसर्पस्य ।। २ ।।

इति । पवस्व वाचो-पवस्वेन्दो-वृषा सोम-वृषा ह्यसि-पवमानस्य ते वय-(सा० ७७५-८९)मिति बहिष्पवमानम् ।।

अग्निं दूतं वृणीमहे (सा० ७९०-८०२) इत्याज्यानि ।।

वृषा पवस्व धारये-( सा० ८०३-५ )ति गायत्रं च हाविष्मतं (ऊ० ७.१.१) च । पुनानः सोम धारयेन-( सा० ६७५-६ )ति आयास्ये (ऊ० १.२.२०२.१.१) । वृषा शोण (सा० ८०६-८) इति पार्थ-(ऊ० ७.१.६ )मन्त्यम् ।।

बृहच्च ( र० १.१. ५) वामदेव्यं ( ऊ० १. १. ५) च श्यैतं (ऊ० १.१. ) च माधुच्छन्दसं ( ऊ० २.१ .४) चेति पृष्ठानि ।।

यस्ते मदो वरेण्य (सा० ८१५-७) इति गायत्रं स्वाशिरामर्कः (ऊ० ३.२.४) । पवस्वेन्द्रमच्छे( सा० ६९२-६) ति शङ्कु-(ऊ० २.१.६ )सुज्ञाने ( ऊ० २.१.७) । अयं पूषा रयिर्भग( सा० ८१८-२०) इति आसितं (ऊ० ११.२.२०) च क्रौञ्चं (ऊ० १५.१.१७) च । वृषा मतीनां पवत (सा० ८२१-५) इति याम-(ऊ० २.१.१०)मन्त्यम् । शङ्कुसुज्ञानासितान्येकर्चानि ।।

यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १.१४) ।।

औशनं (ऊ० १. १.४) सौभर-(ऊ० १ .१. १६ )माष्टादंष्ट्र-( ऊ० २.१. १२ )मित्युक्थानि । सर्वं पञ्चदशम् ।। २ ।।

इति द्वितीयमहः । । १४ ।।

तृतीयमहः

तृतीयमहराह-

सैन्धुक्षितान्धीगवे उद्धरति ।। १ ।।

समानमितरं तृतीयेनाह्ना संसर्पस्य ।। २ ।।

इति । दविद्युतत्या रुचा ( सा० ६५४-६) एते असृग्रमिन्दवो (सा० ८३०-२) राजा मेधाभिरीयते ( सा० ८३३-५) तं त्वा नृम्णानि बिभ्रतम् ( सा० ८३६ -४०) एष पवस्व धारये(सा० ८४१-३)ति बहिष्पवमानम् ।

अग्निनाग्निः समिध्यते (सा० ८४४-५५) इत्याज्यानि ।।

उच्चा ते जातमन्धस ( सा० ६७२-४) इति गायत्रं च क्षुल्लकवैष्टम्भं (ऊ० २. १. १३) च । अभि सोमास आयव ( सा० ८५६-८) इति गौतमं ( ऊ० २. १. १५) चान्तरिक्षं (र० १. १. ६) च मैधातिथं (ऊ० ९. ३.६) च द्विहिंकारं ( ऊ० ४.२.७) च । तिस्रो वाच ( सा० ८५९ -६१) इत्यङ्गिरसां संक्रोशोऽन्त्यः (ऊ० २. १. १७) । गौतममाद्यायाम् । द्विहिंकारमध्यास्यायाम् ।।

अभि त्वा वृषभा सुत (सा० ७३१-३) इति रथन्तरम् ( र० १. १. १) । कस्तमिन्द्र त्वा वस-( सा० १६८२-३) विति वामदेव्यं ( ऊ० १५ .१. १८) श्रायन्तीयं (ऊ० ५.२.९) रौरवं (ऊ० १. १. २) चेति पृष्ठानि ।।

361
अहीनः – वैश्वामित्रश्चतूरात्रः ( ) [अ.७ ख.१६ ]

तिस्रो वाच उदीरत ( सा० ८५९-६१) इति गायत्रं चाग्नेश्चार्कः (र० १. ३. १) । आ सोता परि षिञ्चत (सा० १३९४) सखाय ओ निषीदते- (सा० ११५७) ति वाचःसाम (ऊ० २.२.१) शौक्तं ( ऊ० २.२.२) चैकर्चयोः । सुतासो मधुमत्तमा ( सा० ८७२-४) इति स्वारमाद्यं त्वाष्ट्रीसाम ( ऊ० १५.२.१) त्रिणिधनं (ऊ० २.२.४) च । पवित्रं त (सा० ८७५-७) इत्यरिष्ट-( र० १ .१ .८ )मन्त्यम् ।।

यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४) ।।

प्रमँहिष्ठीय (ऊ० २. २. ५) हारिवर्ण-(ऊ० २.२.६ )मुद्वंशीय- (ऊ० ६. १. ८)मित्युक्थानि । सर्वं सप्तदशम् ।। २ ।।

इति तृतीयमहः ।। १५ ।।

चतुर्थमहः

चतुर्थमहराह

जराबोधीयवारवन्तीये उद्धरति । द्विपदातिच्छन्दसश्च । परीतो षिञ्चता सुतम् ( सा० १०१३-५) इति पृश्नि ( ऊ० १५. १. ६) आभीशवम् ( ऊ० ५. २.६) आथर्वणं ( र० २. १. ३) ज्योतिष्टोम्यनुष्टुप् ।। १ ।।

समानमितरमुत्तमेनाह्ना संसर्पस्य ।। २ ।।

इति । पवमानो अजीजनत् ( सा० ८८९ -९१) एष देवो अमर्त्यः (सा० १२५६-६५) एष धिया यात्यण्व्ये-(सा० १२६६-७३) ति बहिष्पवमानम् ।।

होता देवो अमर्त्यो (सा० १४७७-९) यदद्य सूर उदिते ( सा० १३५१-३) महो इन्द्रो य ओजसा (सा० १३०७-९) इयं वामस्य मन्मन (सा० ९१६ -८) इत्याज्यानि ।।

अस्य प्रत्नामनुद्युत-( सा० ७५५-७)मिति गायत्र-(ऊ० ९.२.३) मामहीयवं (ऊ० ९.२.३) सत्रासाहीयम् (ऊ० ९. १ .९) । परीतो षिञ्चता सुत-(सा० १३१३-५) मिति पृश्न्या-( ऊ० १५.१. ६ )भीशव- (ऊ० ५. २.६ )माथर्वणम् ( र० २.१ .३) । अयं सोम (सा० १४७१-३) इति इहवद्वासिष्ठ-(ऊ० १५. २. ५)मन्त्यम् । ।

यज्जायथा अपूर्व्ये-(सा० १४२९-३१) हि बृहत् (र० ४. २.६) । एदु मधोर्मदिन्तर-(सा० १६८४-६ )मिति वामदेव्यं (ऊ० १५.२.६) त्रैशोकं (ऊ० २.२. १३) च समन्तं ( ऊ० ५. २ १०) चेति पृष्ठानि ।।

परि स्वानो गिरिष्ठा (सा० १०९३-५) इति गायत्रं गौषूक्तं (ऊ० १५. २. ७) च । स सुन्वे यो वसूनाम् (सा० १०९६-७) प्राणा शिशुर्महीनाम् (सा० १०१३-५) इति दीर्घ-(ऊ० ३.२.११) श्रुध्ये- (ऊ० ९. १. १४) । पुरोजिती वो अन्धस (सा० ६९७-९) इति श्यावाश्वा- (ऊ० १. १. ११ )न्धीगवे (ऊ० १. १. १२) । धर्ता दिव ( सा० १२२८-३०) इति दीर्घतमसो-ऽर्कोऽ-(र० २.१. १० )न्त्यः ।।

यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १ . १. १४) ।।

साकमश्वं (ऊ० १. १. १५) त्रैककुभं ( ऊ० ६.१. ७) नार्मेध(ऊ० १. १. १७)मित्युक्थानि ।।

गौरीवितं ( ऊ० ३.१. २) षोडशिसाम । रात्रिः संधिः । सर्वमेकविंशम् । एकस्तोमस्य संधेरावापोऽभ्यासो बा ।। २ ।।

इति चतुर्थमहः ।। १६ ।।

इति जाह्नवः वैश्वामित्रो वा चतूरात्र समाप्तः ।।

इति चतूरात्राः ।।


अथ पञ्चरात्राः

देवपञ्चरात्रः-अभ्यासङ्ग्यः

अथ पञ्चरात्रास्त्रयः । द्वे त्रिवृती सवने (तां० ब्रा० २१. १३ इत्यनुवाकेन देवानां पञ्चरात्र उक्तः ।।

प्रथमद्वितीये अहनी

वैश्वमित्रो द्व्यहः । जराबोधीयस्य लोके सोमसाम ( ऊ० १. २. १२) । स्वाशिरामर्कस्य मौक्षम् ( ऊ० ४. १. १०) सौभरस्यौपगवम् (ऊ० ४. १. १८) ।। १ ।।

इति प्रथमद्वितीये अहनी ।। १७ ।।

तृतीयमहः

द्वादशाहिकं तृतीयमह । वैरूपस्य लोके रथन्तरम् (र० १. १. १) । पाष्ठौहस्याग्नेरर्क ( र० ४.२. ३) । गौरीवितस्य त्रिवृत्साम (ऊ० १५. २. १) ।। १ ।।

तस्यैतस्य त्र्यहस्याभ्यासङ्गः । स्वादिष्ठया मदिष्ठये-( सा० ६८९-९१) ति गायत्र-संहिते तृचयोः (ऊ० १. १. ८) । गौतमं तृचे (ऊ० ९. १. १) आसितं तृचे (ऊ० ९. २.२० वाचश्च साम (ऊ० ७.१ .१७) शौक्तं तृचयोः (ऊ० १४.२.१५) ।।२ ।।

तस्य त्रयाणामह्नां क्लृप्तिमाह-वैश्वामित्रो द्व्यह इति खण्डेन । वैश्वामित्रो द्व्यहः द्वे अहनी उक्ते । जराबोधीयस्य लोके सोमसामेति तयोः प्रथमस्य विशेषः । स्वाशिरामर्कस्य मौक्षं सौभरस्यौपगवमिति द्वितीयस्य । द्वादशाहिकं तृतीयमहरुक्तम्-वैरूपस्य लोके रथन्तरं पाष्ठौहस्याग्नेरर्को गौरीवितस्य त्वाष्ट्रीसामेति । तस्य विशेषः-तस्यै- तस्य त्र्यहस्याभ्यासङ्ग इति । पूर्वस्याह्नस्तार्तीयसवनीको यः स्तोमः स उत्तरस्य । आद्ययोः सवनयोर्यदनुषज्यते सोऽभ्यासङ्गः । यद्योगादयं पञ्चरात्रोऽभ्यासङ्ग्य इत्युच्यते । स च यद्यपि पञ्चानामप्यह्नामस्ति तथाप्यनभ्यासक्तस्य त्र्यहस्यातिदेशाद्विशेषतो विधीयते । स्वादिष्ठया मदिष्ठयेति गायत्रसंहिते तृचयोः गौतमं तृचे इति पुनः प्रथमस्याह्नो विशेषः । आसितं तृच इति द्वितीयस्य । वाचःसाम शौक्तं च तृचयोरिति तृतीयस्य । तत्र प्रथमस्य क्लृप्तिः-उपास्मै (सा० ६५१-३) उपोषु (सा० १३३५-७) पवमानस्य ते कवे ( सा० ६५७-९) इति बहिष्पवमानम् ।
अग्न-आ नो मित्रायाहीन्द्राग्नी-( सा० ६६०-७१ )त्याज्यानि । प्र सोमासो विपश्चित ( सा० ७६४-६) इति गायत्रमाश्वं (ऊ० १.२. ११) सोमसामे-(ऊ० १. २. १२)ति तृचः। प्र सोम देववीतये ( सा० ७६७-८) इति यौधाजयं (ऊ० १. २. १३) तिसृष्वौशन(ऊ० १.१.४)मन्त्यम् । रथन्तरं (र० १.१.१ ) च वामदेव्यं (ऊ० १. १. ५) च नौधसं (ऊ० १.१.६) च कालेयं (ऊ० १.१.७) चेति पृष्ठानि । स्वादिष्ठये-(सा० ६८९-९१)ति गायत्रसंहिते (ऊ० १.१.८) । अया पवस्व देवयुः ( सा० ७७२) पवते हर्यतो हरि-(सा० ७७३)रिति सफ-( ऊ० १.२.१५ )पौष्कले (ऊ० ९.२.२) । प्र सुन्वानायान्धस (सा० १३८६-८) इति औदल-(ऊ० ११.२.३)गौतमे ( ऊ० ११.२.१३)। काव-(ऊ० १.१.१३)मन्त्यम् । सफपौष्कलौदलान्येकर्चानि। यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १.१.१४) । द्वे त्रिवृती सवने । पञ्चदशमेकमिति स्तोमविधिः ॥
द्वितीयस्याह्नः -- पवस्व वाचो-पवस्वेन्दो-वृषा सोम-वृषा ह्यसि पवमानस्य ते वयम् ( सा० ७७५-८९) इति बहिष्पवमानम् ।
अग्निं दूतं वृणीमह (सा० ७९०-८०२) इत्याज्यानि। वृषा पवस्व धारये-(सा० ८०३-५)ति गायत्रं हाविष्मतं (ऊ० ७.१.१ ) च । पुनानः सोम धारये-( सा० ६७५-६ )ति आयास्ये (ऊ० १.२.२० ; २. १. १) वृषा शोण (सा० ८०६-८) इति पार्थ-(ऊ० ७.१.६)

365
अहीनः-- देवपञ्चरात्रः (३) [अ. ७. ख. १८]

मन्त्यम् । बृहच्च (र० १. १. ५) वामदेव्यं (ऊ० १.१.५ ) च श्यैतं (ऊ० २.१.३ ) च माधुच्छन्दसं (ऊ० २.१.६ ) चेति पृष्ठानि । यस्ते मदो वरेण्य (सा० ८१५-७ ) इति गायत्रमौक्षे (ऊ० ४.१.१०)। पवस्वेन्द्रमच्छे-(सा० ६९२-९)ति शङ्कु-(ऊ० ७.१.८) सुज्ञाने (ऊ० ६.२.८) । अयं पूषे-( सा० ८१८-२० )त्यासितं (ऊ० ११.२.१०) च क्रौञ्चं (ऊ० १५.१.१७) च। वृषा मतीनां पवत ( सा० ८२१-३) इति याम-(ऊ० २.१.१०)मन्त्यम् । ककुबुष्णिहावेकर्चौ । यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १.१. १४) । प्रेष्ठं वः (सा० १२४४-६) इत्यौशनम् (ऊ० ५.१.११)। त्वं न इन्द्र (सा० ११६९-७१) इत्यौपगवम् (ऊ० ४.१.१८)। आष्टादंष्ट्र पूर्वम् (ऊ० २. १. १२) इत्युक्थानि। वे पञ्चदशे सवने सप्तदशमेकम् ॥
तृतीयस्याह्नः -- दविद्युतत्या रुचा (सा० ६५४-६) एते असृग्रमिन्दवः (सा० ८३०-२) राजा मेधाभिरीयते (सा० ८३३-५ ) तं त्वा नृम्णानि बिभ्रतम् (सा० ८३६-४०) इषे पवस्व धारये-(सा० ८४१-३)ति बहिष्पवमानम् । अग्निना-मित्रहु-इन्द्रेण ता हुवे (सा० ८४४-५५) इत्याज्यानि । उच्चा ते जातमन्धसः (सा० ६७२-४) इति गायत्रं च क्षुल्लकवैष्टम्भं (ऊ० २. १. १३) च। अभि सोमास आयव (सा० ८५६-८) इति पौरुमद्गं प्रथमायाम् (ऊ० २.१.१४ ) । गौतमं तिसृषु ( उ० २. १. १५) । आष्कारणिधनमध्यास्यायाम् (ऊ० १८.२.२)। तिस्रो वाच (सा० ८५६-६१) इति अङ्गिरसां संक्रोशोऽन्त्यः (ऊ० २.१.१७)। रथन्तरं (र० १.१.१) च वामदेव्यं (ऊ० १. १. ५) च महावैष्टम्भं (ऊ० २. १. १८) च रौरवं (ऊ० १. १. २) चेति पृष्ठानि । तिस्रो वाच उदीरत ( सा० ८५६-६१) इति गायत्रं चाग्नेश्चार्कः (र० ४. २. ३) । आ सोता परि षिञ्चत (सा० १३९४-५) सखाय आ निषीदत (सा० ११५७-९) इति वाचःसाम (ऊ० ७.१.१७) शौक्तं (ऊ० १४.२.१५) च। सुतासो मधुमत्तमा (सा० ८७२-४) इति स्वारंत्रिणिधने त्वाष्ट्रीसामनी (ऊ० १५.२.१ । २.२.४)। पवित्रं त (सा० ८७५-७) इत्यरिष्ट-(र० १.१.८)मन्त्यम् । स्वारं त्वाष्ट्रीसाम यद् द्वयोः पूर्वम् । आद्यं तु तृतीये स्वारयोश्च पूर्वमुत्तरम् (ऊ० ग्र० सू० ४. ८) इत्युपग्रन्थवचनात् । यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १.१.१४) । प्रमँहिष्ठीयं (ऊ० २. २. ५) हारिवर्णं (ऊ० २. २.६) तैरश्च्य-( ऊ० २. २. ७ )मित्युक्थानि । द्वे सप्तदशे सवने । एकविंशमेकम् ॥
इति तृतीयमहः ।। १८॥



चतुर्थमहः
चतुर्थस्याह्नः क्लृप्तिमाह ---
पवमानो अजीजनत् (सा० ८८९-९१) पुनानो अक्रमीदभि (सा० ९२४-६) प्र यद्गावो न भूर्णयः ( सा० ८९२-७) आशुरर्ष बृहन्मते (सा० ८९८-८०३) हिन्वन्ति सूरमुस्रयः (सा० ९०४-६) ॥१॥
इति बहिष्पवमानम् ॥
अग्निर्वृत्राणि जङ्घनत् ( सा० १३९६-८ ) इति होतुराज्यम् ।
स्वान्युत्तराणि ॥२॥
अयं वां मित्रावरुण ( सा० ९१०-२) इन्द्रो दधीचो अस्थभिर् (सा० ९१३-५) इयं वामस्य मन्मनः ( सा० ९१६-८) इत्याज्यानि ॥२॥

367
अहीनः--देवपञ्चरात्रः (४) [अ. ७. ख. १९]
 
पवस्व दक्षसाधन (सा० ९१९-२१) इति गायत्रम् । अदारसृत् (ऊ० ७. २. २) सत्रासाहीयम् (ऊ० १५. २. ९) । तवाहं सोम रारणे-( सा० ९२२-३ )त्याष्टादंष्ट्रम् (ऊ० २. २. ९) आभीशवं (ऊ० २. २. १०) स्वःपृष्ठमाङ्गिरसम् (ऊ० २. २. ११)। उ हुवा अस्ये-( सा० १३९९-१४०१ )ति वासिष्ठम् (ऊ० ७. २. ६) अन्त्यम् ॥ ३॥
 [इति माध्यंदिनः पवमानः ।।
बृहच्च (र० १.१.५) वामदेव्यं (ऊ० १.१. ५) च त्रैशोकं (ऊ० २. २. १३) च पृश्नि (ऊ० २. २. १४) च ॥४॥
इति पृष्ठानि ॥
परि प्रिया दिवः कविर् (सा० ९३५-७) इति गायत्रं स्वाशिरामर्को (र० ४.१.६) बृहद्भारद्वाजम् (ऊ० १५. २. १०) । त्वं ह्यङ्ग दैव्य ( सा० ९३८-९) सोमः पुनानः ऊर्मिणे-( सा० ९४०-२)ति बृहत्क-(ऊ० २. २. १६ )क्रोशे (ऊ० १५. २. ११)। पुरोजिती वो अन्धस ( सा० ६९७-९) इति नानदं (ऊ० २. २. १८) त्वाष्ट्रीसामा-( ऊ० १५. २. ११)थर्वणम् (र० ३.१.१) । प्रो अयासीद् (सा० ११५२-४) इति लौशम् (ऊ० ७. २. ११) अन्त्यम् ॥ ५ ॥
[ इत्यार्भवः पवमानः ।।]
यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १.१. १४) ॥६॥
सैन्धुक्षितं (ऊ० २. २. २०) सौभरम् ( ऊ० १. १. १६ ) उद्वंशीयम् (ऊ० ६. १. ८) ॥ ७ ॥
इत्युक्थानि ॥
द्वे एकविंशे सवने । त्रिणवमेकम् ॥७॥
इति चतुर्थमहः ॥ १९ ॥



पञ्चममहः
पञ्चमस्याह्नः --
पवमानस्य विश्वविद् (सा० ९५८-६० ) असृक्षत प्र वाजिनः (सा० १०३४-६) एष देवो अमर्त्यः (सा० १२५६-६५) एष धिया यात्यण्व्या (सा० १२६६-७३) आ ते दक्षं मयोभुवम् (सा० ११३७-९) ॥१॥
इति बहिष्पवमानम् ।।
होता देवो अमर्त्यः ( सा० १४७७-९) पुरूरुणा चिद्धयस्ति ( सा० ९८५-९) उत्तिष्ठन्नोजसा सह ( सा० ९८८-९०) यज्ञस्य हि स्थ ऋत्विजा (सा० १०७३-५) ॥ २ ॥
इत्याज्यानि ॥
अस्य प्रत्नामनुद्युतम् ( सा० ७५५-७) इति गायत्रं चामहीयवं (ऊ० ९. २. ३) च जराबोधीयं (ऊ. ९. ३. १०) चर्षभश्च पवमानः (ऊ० १२. २. १९)। परीतो षिञ्चता सुतम् ( सा० १३१३-५) इति वाम्रं ( ऊ० १५. २. १२) च मानवं (ऊ० १५. २. १३) चानूपं (ऊ० १५. २. १४) चोत्सेधश्च (ऊ० १२. २. २०)। अयं सोम (सा० १४७१-३) इति इहवद्वासिष्ठम् (ऊ० १५. २. ५) अन्त्यम् ॥३॥
 [इति माध्यंदिनः पवमानः ॥ ]
रथन्तरं (र० १.१.१) च वामदेव्यं (ऊ० १. १. ५) च श्रायन्तीयं (ऊ० ५. २. ९) च वैयश्वं (ऊ. ४. २. १६) च ॥ ३ ॥
इति पृष्ठानि ॥

369
अहीनः -- पञ्चशारदीयः (१) [अ. ७. ख. २०]
 
परिस्वानो गिरिष्ठा (सा० १०९३-५) इति गायत्रं गौषूक्तं (ऊ० १४. २. ७) वारवन्तीयं (ऊ० १२.१.४)। स सुन्वे यो वसूनां (सा० १०९६-७) प्राणा शिशुर्महीनाम् (सा० १०१३-५) इति दीर्घ-(ऊ० ३. २. ११)श्रुध्ये (ऊ० ११. १. ५)। सोमाः पवन्त इन्दवः ( सा० ११०१-३) इति श्यावाश्वा-( ऊ० १५. १. १६)न्धीगवे ( ऊ० १५. १. १७ ) निषेधः (ऊ० १५.१.१८)। परि प्र धन्वे-(सा० १३६७-९)ति वाजदावर्यो (ऊ० १२. १. ७) अया रुचे-(सा० १५९०-२)ति नित्यवत्साः (र० ३.१. १२)। धर्ता दिवः (सा० १२२८-३०) इति दीर्घतमसोऽर्कोऽ-(र० ३.१.१०)न्त्यः ॥ ४ ॥
 [इत्यार्भवः पवमानः ॥]
यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १.१.१४) ॥ ५ ॥
चतुर्वीरोऽतिरात्रः षोडशिमान् ॥ ६ ॥
इति । साकमश्वं (ऊ० १.१.१५) त्रैककुभं (ऊ० ६.१.७ ) नार्मेध(ऊ० १.१.१७)मित्युक्थानि । गौरीवितं (ऊ० १.२.१७) षोडशिसाम । आहीनिकी रात्रिः संधिः। द्वे त्रिणवे सवने। त्रयस्त्रिंशमेकम् । प्रत्यवरोहीण्युक्थानि । त्रिणवं प्रथमम् । द्वे एकविंशे सषोडशिके । पञ्चदशी रात्रिः त्रिवृत्संधिः । इति स्तोमाः ॥ ६॥
इति पञ्चममहः ॥२०॥
इति देवपञ्चरात्रः समाप्तः ॥


पञ्चशारदीयः
त्रिवृदग्निष्टोमः पञ्चदश उक्थः सप्तदश उक्थः पञ्चदश उक्थः सप्तदशोऽतिरात्रः (तां० ब्रा० २१. १४) इत्यनुवाकेन पञ्चशारदीय उक्तः । तस्य सूत्रम् -- पञ्चशारदीये पशुबन्धैर्यजेते
(ला० श्रौ० ९. १२. १०)त्यादि।
स्तोमक्लृप्तिमाह –
 एष एव चतुरहो यो देवानां पञ्चरात्रस्यानभ्यासक्तः ॥ १॥
इति । तत्र प्रथमस्याह्नो विशेषमाह --
पुनर्जराबोधीयं स्वं लोकमेति ॥२॥
इति । देवानां पञ्चरात्रे वैश्वामित्रातिदेशेन प्राप्तं यज्जराबोधीयमुद्धृतं जराबोधीयस्य लोके सोमसामे-( आ० क० ७. ८. १)ति वचनेन तदत्र पुनः स्वमेव स्थानमागच्छतीत्यर्थः ॥ २॥
चतुर्थस्य विशेषमाह --
चतुर्थादह्न उत्तरं षडृचं सत्रासाहीयमाभीशवं बृहद्भारद्वाजमाथर्वणम् ।
तान्युद्धरति ॥ ३॥
उत्तरं षडृचमिति प्रयद्गाव (सा० ८९२-७ ) आशुरर्षे-(सा० ८९८-९०३)त्यनयोः षडृचयोरुत्तरमित्यर्थः ॥
तत्रेयं प्रथमस्य क्लृप्तिः---उपास्मै ( सा० ६५१-३) उपोषु (सा० १३३५-७) पवमानस्य ते कवे (सा० ६५७-९) इति बहिष्पवमानम् । अग्न आयाहि (सा० ६६०-७१) इत्याज्यानि । प्र सोमासो विपश्चित ( सा० ७६४-६) इति गायत्रमाश्वं (ऊ०
(ऊ० १. २. ११) जराबोधीय-(ऊ० १४.१.१२)मिति सामतृचः । प्र सोम देववीतय ( सा० ७६७-८ ) इति यौधाजयं (ऊ० १. २. १३) तिसृषु । औशन-(ऊ० १.१.४ )मन्त्यम् । रथन्तरं (र० १.१.१) च वामदेव्यं (ऊ० १.१. ५) च नौधसं (ऊ० १. १. ६) च कालेयं (ऊ० १. १. ७) चेति पृष्ठानि ।

371
अहीनः --पञ्चशारदीयः (२) [अ. ७. ख २१]
  
स्वादिष्ठये-(सा० ६८९-९१)ति गायत्रसंहिते (ऊ० १.१.८)। अया पवस्व देवयु:-पवते हर्यतो हरिर् (सा० ७७२-३) इति सफ-(ऊ० १. २. १५)पौष्कले (ऊ० ९. २. २)। प्र सुन्वानायान्धस ( सा० ७७४) इत्यौदल-(ऊ० ११.२.३)गौतमे (ऊ० ११.२.१३)। काव-( ऊ० १. १. १३ )मन्त्यम् । कावव्यतिरिक्ता एकर्चाः । यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १.१.१४)। सर्वं त्रिवृत् ॥
इति प्रथममहः ॥
द्वितीयस्याह्नः -- पवस्व वाचो-पवस्वेन्दो-वृषा सोम-वृषा ह्यसिपवमानस्य ते वयम् (सा० ७७५-८९) इति बहिष्पवमानम् । अग्निं दूतम्-मित्रं वयम्-इन्द्रमिद्गाथिनः-इन्द्रे अग्ने-(सा० ७९०-८०२)त्याज्यानि । वृषा पवस्व धारये-(सा० ८०३-५)ति गायत्र-हाविष्मते (ऊ० ७.१.१०)। पुनानः सोम धारये-(सा० ६७५-६)ति आयास्ये (ऊ० १.२.२०, २.१.१) । वृषा शोण (सा० ८०६-८) इति पार्थ-(ऊ० ७.१.६)मन्त्यम् । बृहच्च (र० १.१. ५) वामदेव्यं (ऊ० १. १. ५) च श्यैतं (ऊ० २.१.३) च माधुच्छन्दसं (ऊ० २.१. ४) चेति पृष्ठानि । यस्ते मदो वरेण्य (सा० ८१५-७) इति गायत्र-मौक्षे ( ऊ० १.१०)। पवस्वेन्द्रमच्छे-(सा० ६९२, ६९४)ति शङ्कु-(ऊ०२.१.६)सुज्ञाने (ऊ० २.१.७)। अयं पूषा रयिर्भग (सा० ८१८-२०) इति आसितं (ऊ० ११.२.२०) कौत्सम् चैडं च (ऊ० २०. १. ५)। वृषा मतीना-(सा० ८२१-३)मिति याम-(ऊ० २.१.१०)मन्त्यम् । शङ्कुसुज्ञानासितान्येकर्चानि ॥
यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४)। औशन-(ऊ. १. १. ४ )मौपगव-(ऊ० १०. २. १)माष्टादंष्ट्र-( ऊ० २. १. १२) मित्युक्थानि। सर्वं पञ्चदशम् ॥
इति द्वितीयमहः ॥

तृतीयस्याह्नः ---दविद्युतत्या रुचा ( सा० ६५४-६) एते असृग्रमिन्दवो-राजा मेधाभिरीयते ( सा० ८३०-५) तं त्वा नृम्णानि बिभ्रतम्-इषे पवस्व धारये-( सा० ८३०-४३ )ति बहिष्पवमानम् । अग्निना-मित्रं हुवे-इन्द्रेण ता हुवे (सा० ८४४-५५) इत्याज्यानि । उच्चा ते जातमन्धस (सा० ६७२-४ ) इति गायत्रं क्षुल्लकवैष्टम्भम् (ऊ० २.१.१३) च। अभि सोमास आयव (सा० ८५६-८) इति पौरुमद्गमाद्यायाम् (ऊ० २.१.१४)। गौतमा(ऊ० २.१.१५)न्तरिक्षे (र० १.१.६) तृचयोः। आष्कारणिधनमध्यास्यायाम् (ऊ.० २.१.१६)। तिस्रो वाच (सा० ८५९-६१) इति अङ्गिरसां संक्रोशोऽ-(ऊ० २. १. १७)न्त्यः । रथन्तरं (र० १.१.१) च वामदेव्यं (ऊ० १. १. ५) च वयं घ त्वे-(सा० ८६४-६)ति महावैष्टम्भं (ऊ० २.१.१८) च । तरणिरित् सिषासति (सा० ८६७-८) इति रौरवं (ऊ० २. १. १९) चेति पृष्ठानि । तिस्रो वाच उदीरत (सा० ८६९-७१) इति गायत्रं चाग्नेश्चार्कः (र० ४.२.३ )। आ सोता परि षिञ्चत ( सा० १३९४ ) इति सखाय आ निषीदते-(सा० ११५७)ति वाचश्च साम ( ऊ० २. २. १) शौक्तं (ऊ० २. २. २) च एकर्चयोः। सुतासो मधुमत्तमा ( सा० ८७२-४) इति त्वाष्ट्रीसामनी स्वाराद्यत्रिणिधने (ऊ० १५.२.१ , २.२.४) । पवित्रं त ( सा० ८७५-७) इत्यरिष्ट-(र० १.१. ८)मन्त्यम् । यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १.१४)। प्रमंहिष्ठीयं ( उ० २.२.५ ) हारिवर्णं ( ऊ० २.२.६) तैरश्च्य-( ऊ. १. २. ७)मित्युक्थानि । सर्वं सप्तदशम् ॥
इति तृतीयमहः॥

चतुर्थस्याह्नः — पवमानो अजीजनत् (सा० ८८९-९१) पुनानो अक्रमीदभि (सा० ९२४-६) प्रयद्गावो न भूर्णयो (सा० ८९२-७) हिन्वन्ति सूरमुस्रयः ( सा० ९०४-६) इति बहिष्पवमानम् । अग्निर्वृत्राणि जङ्घनत् (सा० १३९६-८) अयं वां मित्रावरुणा

373
अहीनः --पञ्चशारदीयः (५) [अ. ७. ख. २२

( सा० ९१०-२) इन्द्रो दधीचो अस्थभिर् ( सा० ९१३-५) इयं वामस्य मन्मनः (सा० ९१६-८) इत्याज्यानि । पवस्व दक्षसाधन (सा० ९१९-२१) इति गायत्रं चादारसृच्च (ऊ० ७. २. २)। तवाहं सोम रारणे-(सा० ९२२-३)त्याष्टादंष्ट्रं ( ऊ० २. २. ९) च स्व:पृष्ठं चाङ्गिरसम् (ऊ० २.२.११)। उहुवाह अस्येति वासिष्ठ- (ऊ० ७. २. ६)मन्त्यम्। बृहच्च (र० १. १.५) वामदेव्यं ( ऊ० १.१.५ ) च त्रैशोकं (ऊ० २. २. १३) च पृश्नि (ऊ० २. २. १४) चेति पृष्ठानि । परि प्रिया दिवः कवि-(सा० ९३५-७)रिति गायत्रं स्वाशिरामर्कः (र० ४.१.६) । त्वं ह्यङ्ग दैव्य (सा० ९३८) सोमः पुनानः ऊर्मिणे-(सा० ८४० )ति बृहत्क-(ऊ० २. २. १६)क्रोशे (ऊ० १५. २. ११) पुरोजिती वो ( सा० ६९७) नानदं (ऊ० २. २. १८) च त्वाष्ट्रीसाम च यदूर्वे पडम् (ऊ० ७. २. १०)। प्रो अयासी-(सा० ११५२-४ ) दिति लौश-(ऊ० ७. २. ११ )मन्त्यम् । बृहत्कक्रोशनानदान्येकर्चानि । यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १.१.१४) । सैन्धुक्षितं (ऊ० २.२.२०) सौभर-(ऊ० १.१. १६ )मुद्वंशीय-( ऊ० ६.१. ८ )मित्युक्थानि । सर्वं पञ्चदशम् ॥३॥
इति चतुर्थमहः ॥ २१ ॥


पञ्चममहः
पञ्चमस्याह्नः कल्पः --
पवमानस्य विश्वविद् (सा० ९५८-६०) यत् सोम चित्रमुक्थ्यम् (सा० ९९९-१००१) असृक्षत प्र वाजिनः (सा० १०३४-६)। उत्ते शुष्मास ईरते (सा० १२०५-९) आ ते दक्षं मयोभुवम् (सा० ११३७-९) ॥१॥
इति बहिष्पवमानम् ॥
इन्द्राग्नी युवामिम ( सा० ९९१-३) इत्यैन्द्राग्नम् । ऋषभजराबोधीये उद्धरति । उत्सेधस्य लोकेऽग्नेस्त्रिणिधनम् (ऊ० १५. २. १५) असाव्यंशुर्मदाये-( सा० १००८-१० )ति गायत्रं च गौषूक्तं (ऊ० ७. २. १९) च। पवस्व वाजसातय ( सा० १०१६-८) इति श्यावाश्वा-( ऊ० १५. २. १९) न्धीगवे (ऊ.० १५. २. २०)। उद्धरति द्विपदातिच्छन्दसः ॥१॥
समानमितरम् उत्तमेनाह्ना देवानां पञ्चरात्रस्य ॥२॥
इति । आ ते दक्षं मयोभुवमित्यन्तं बहिष्पवमानम् । होता देवो अमर्त्यः ( सा० १४७७-६) पुरूरुणा चिद्ध्यस्ति (सा० ९८५-७ ) उत्तिष्ठन्नोजसा सह ( सा० ९८८-९०) इन्द्राग्नी युवामिमे (सा० ९९१-३) इत्याज्यानि। अस्य प्रत्ने-(सा० ७५५-७)ति गायत्रं चामहीयवं (ऊ० ९.२.३) च। परीतो षिञ्चता सुत-(सा० १३१३-५)मिति वाम्र-(ऊ० १२.२.१२)माद्यायाम् । मानवानूपे (ऊ० १५.२.१३-४ ) तृचयोः । अग्नेस्त्रिणिधनमध्यास्यायाम् ( ऊ० १५.२.१५)। अयं सोम (सा० १४७१-३) इतीहवद्वासिष्ठ-( ऊ० १५.२.५ )मन्त्यम् । रथन्तरं (र० १.१.१) च वामदेव्यं (ऊ० १.१.५ ) च श्रायन्तीयं (ऊ० ५. २. ९) च वैयश्वं (ऊ० ४.१.१६) चेति पृष्ठानि। असाव्यंशुर्मदाये-(सा० १००८-१०)ति गायत्रं च गोषूक्तं (ऊ० ७. २. १९) च। स सुन्वे यो वसूनाम् (सा० १०९६-७) प्राणा शिशुर्महीनाम् (सा० १०१३-५) इति दीर्घ-(ऊ० ३. २. १२) श्रुध्ये (ऊ० ९.१. १४)। पवस्व वाजसातय ( सा० १०१६-८) इति श्यावाश्वा-(ऊ० १५.२.१६)न्धीगवे (ऊ० १५. २. २०)। धर्ता दिवः ( सा० १२२८-३०) इति दीर्घतमसोऽर्कोऽन्त्यः (र० ३.२.१०)। ककुबिष्णिहावेकर्चौ । यज्ञायज्ञीयमग्निष्टोमसाम (ऊ. १. १. १४)। साकमश्वं (ऊ०१.१.१५ ) त्रैककुभं (ऊ० ६. १. ७) नार्मेध-(ऊ० १.१. १७ )मित्युक्थानि । गौरीवितं

375
अहीनः --व्रतमध्यः पञ्चरात्रः [अ. ७. ख. २३]

(ऊ. १. २. १७) षोडशिसाम । रात्रिः संधिः। सर्वं सप्तदशम् । एकस्तोमन्यायेन संधेरावापोऽभ्यासो वा ॥२॥
इति पञ्चममहः ।। २२॥
इति पञ्चशारदीयः समाप्तः ।।


व्रतमध्यः पञ्चरात्रः
ज्योतिष्टोमोऽग्निष्टोमो गौरुक्थ्यो महाव्रतं गौरुक्थ्य आयुरतिरात्रः ( तां० ब्रा० २१. १५) इत्यनुवाकेन व्रतवत्पञ्चरात्र उक्तः । तस्य कल्पः --
ज्योतिष्टोमोऽग्निष्टोमो गौरुक्थ्यो महाव्रतं गौरुक्थ्य आयुरतिरात्रः ॥१॥
एकाहक्लृप्ताः ॥२॥
इति । क्लृप्तो ज्योतिष्टोमो गौर्वार्कजम्भस्य लोक (आ० क० ३.१.१-२) इति खण्डेनैकाहप्रकरणोक्तैर्ज्योतिष्टोमादिभिरेते क्लृप्ताः। ज्योतिष्टोमोऽग्निष्टोमः प्रथममहः। गौरुक्थ्यो द्वितीयम् । महाव्रतं तृतीयम् । गौरुक्थ्यश्चतुर्थम् । आयुरतिरात्रः पञ्चमम् । तस्याहिनिकी रात्रिः । प्रथमादह्नोऽन्यत्र सदसि बहिष्पवमानस्तवनम् । प्राक् धिष्ण्यविहरणान्निष्क्रम्य तृणप्रासनप्रभृतिसमापनम् । दधिभक्षान्तानि चत्वार्यहानि । उदवसानीयान्तं पञ्चमम् ॥ इति ॥ २ ॥
इति व्रतमध्यः पञ्चरात्रः ॥ २३ ॥



ऋतूनां षडहः
अथ षडहास्त्रयः। पृष्ठयः षडहः । ऋतवो न प्रत्यतिष्ठन् ( तां० ब्रा० २२.१) इत्यनुवाकेन ऋतुषडह उक्तः । तस्य कल्पः –
पृष्ठयः षडहः समूढो वा व्यूढो वा ॥१॥
इति । ब्राह्मणेन दशरात्रे पृष्ठयः षडहो व्यूढ उक्तः । अयं चावच्छिन्नसमूढः स्यादिति केषांचिन्मतम् । व्यूढ इत्यन्येषाम् ॥ १ ॥
स्वमतमाह --
समूढस्त्वेव ॥२॥
इति । अस्मिन् पक्षे बहुप्रबलोपपत्तिसद्भावादिति भावः । तथा
च निदानम् -- पृष्ठ्यमवच्छिन्नं व्यूहेत्समूहेदिति व्यूढः स्यादिति शाण्डिल्यायन (नि० सू० ५.५) इत्यादि । तत्र च स्वमत एव वक्तव्ये विकल्पोऽयं न्यासो व्यूहपक्षस्याप्याचार्यमतत्वान्न हेयत्वमिति प्रदर्शनार्थम् ॥२॥
अत एवाह --
तस्योपास्मै गायता नर (सा० ६५१-३) उपोषु जातमप्तुरम् (सा० १३३५-७) पवमानस्य ते कवे ( सा० ६५७-८) इति प्रथमस्याह्नो बहिष्पवमानम् ॥ २॥
औदलम् (ऊ० ६. २. १९) आसितं (ऊ० १५. १. १७) त्वाष्ट्रीसाम (ऊ० ९. १. ८)। अविक्लृप्तं चतुर्थमहस्त्वाष्ट्रीसाम (ऊ० १३. २.६) क्रौञ्चम् (ऊ० १५. १. १) एते स्वराः पृष्ठयस्य गौरीवितलोके उद्वँशपुत्राद्रात्रिमुपयन्तीति यदि व्यूढः ॥ ३॥

377
अहीनः -- ऋतूनां षडहः [अ. ७. ख. २४]

इति । नवाहयोगाभावात् प्रथमेऽहनि प्रत्नवत् बहिष्पवमानस्य निवृत्तिः । एते स्वरा इति एतानि स्वाराणि सामानीत्यर्थः । एते स्वरा इति वक्ष्यमाणेन वचनेनैतेषामेव ग्रहणार्थमुक्तमिदम् । अन्वहं गौरीवितस्य सत्रप्रमुक्तत्वात् इह नानाः स्वरा विहिताः । चतुर्थं त्वहरविकृतम् । तत्र हि षोडशित्वेन गौरीवितस्य विधानात् असंचारायापूर्वमेव स्वरो व्यधायि ॥
तत्र प्रथमस्याह्नः क्लृप्तिः --उपास्मै ( सा० ६५१-३) उपोषु ( सा० १३३५-७) पवमानस्य ते कवे (सा० ६५७-८) इति बहिष्पवमानम् । अग्न-आ नो मित्रायाहीन्द्राग्नी-( सा० ६६०-७१) त्याज्यानि । प्र सोमासो विपश्चितः (सा० ७६४-६) इति गायत्रमाश्वं (ऊ० ६. २. १२) सोमसामे-(ऊ० १४.१.१३)ति सामतृचः । प्र सोम देववीतय (सा० ७६७-८) इति यौधाजयं (ऊ० १.२.१३) तिसृष्वौशन-(ऊ० १. १. ४)मन्त्यम् । रथन्तरं (र० १.१.१) च वामदेव्यं नौधसं च कालेयं (ऊ० १.१. ५-७) चेति पृष्ठानि। पृष्ठे रथमतिवहेयुरित्यादिनोक्ताः पृष्ठधर्माः भवन्ति । प्र सोमासो मदच्युत (सा० ७६९-७१) इति गायत्र-संहिते (ऊ० १.२.१४ )। अया पवस्व देवयुः -पवते हर्यतो हरिर् ( सा ० ७७२-३ ) इति सफा-(ऊ० १.२.१५)क्षारे (ऊ० १. २. १६)। प्र सुन्वानायान्धस (सा० ७७४) इति औदल-(ऊ० ११.२.३)गौतमे (ऊ० १.२.१८)। काव-(ऊ० १.१.१३)मन्त्यम् । अन्त्यवर्जमेकर्चाः । यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४)। सर्वं त्रिवृत् । सर्वत्र पथ्या विष्टुतयः॥
द्वितीयस्याह्नः -- पवस्व वाचो-पवस्वेन्दो-वृषा सोम-वृषा ह्यसि-पवमानस्य ते वयम् (सा० ७७५-८९) इति बहिष्पवमानम् । अग्निं दूतं-मित्रं
वयम् इन्द्रमिद्गा-चतुर्ऋचम् । इन्द्रे अग्ने-(सा० ७९०-८०२)त्याज्यानि । चतुर्ऋचे अन्त्याया उद्धारः । वृषा पवस्व धारये-(सा० ८०३-५)ति गायत्रं च यौक्ताश्वं (ऊ० १. २. १९) च। पुनानः सोम धारये-(सा० ६७५-६)ति आयास्ये (ऊ० १.२.२०, २.१.१)। वृषा शोण (सा० ८०६-८) इति वासिष्ठ-(ऊ० २.१.२)मन्त्यम् । बृहच्च (र० १. १. ५) वामदेव्यं (ऊ० १. १. ५) च श्यैतं (ऊ० २. १. ३) च माधुच्छन्दसं (ऊ० २.१. ४) चेति पृष्ठानि । यस्ते मद (सा० ८१५-७) इति गायत्रं च हाविष्मतं (ऊ० २. १. ५) च ।
पवस्वेन्द्रमच्छे-(सा० ६६२, ६९४)ति शङ्कु (ऊ० २.१.६)सुज्ञाने (ऊ० २.१.७) एकर्चयोः । अयं पूषा रयिर्भग (सा० ८१८-२०) इत्यासित-(ऊ० ११.२.२०)माद्यायाम् । क्रौञ्चं (ऊ० १५. १. १७) तिसृषु। वृषा मतीनां पवत (सा० ८२१-३) इति याम-(ऊ० २. १. १०)मन्त्यम् । यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १.१.१४)। साकमश्व-( ऊ० १.१.१५)मामहीयव-(ऊ० १.१.१)माष्टादंष्ट्र-(ऊ० २.१.१२)मित्युक्थानि । सर्वं पञ्चदशम् ॥
तृतीयस्याह्नः -- दविद्युतत्या रुचा (सा० ६५४-६) एते असृग्रमिन्दवो-राजा मेधाभिरीयते-तं त्वा नृम्णानि बिभ्रतम्-इषे पवस्व धारय ( सा० ८३०-४३) इति बहिष्पवमानम् । अग्निना-मित्रंहु - इन्द्रेण ता हुवे ( सा० ८४४-५५) इत्याज्यानि । उच्चा ते जातमन्धस (सा० ६७२-४) इति गायत्रं च क्षुल्लकवैष्टम्भं (ऊ० २.१.
१३) च । अभि सोमास आयव ( सा० ८५६-८) इति पौरुमद्गमाद्यायाम् (ऊ० २.१.१४)। गौतमा-( ऊ० २.१.१५ )न्तरिक्षे (र० १.१.६) तृचयोः। आष्कारणिधनमध्यास्यायाम् (ऊ० १८.१.२) । तिस्रो वाच (सा० ८५९-६१) इति अङ्गिरसां संक्रोशोऽ-(ऊ० २.१.१७)न्त्यः । वैरूपं (ऊ० ४.१.२०) च वामदेव्यं (ऊ० १.१.५ ) च महावैष्टम्भं (ऊ० २.१.१८) च रौरवं (ऊ० २.१.१९) च पृष्ठानि । तिस्रो वाच उदीरत ( सा० ८६९-७१) इति गायत्रं

379
अहीनः --ऋतूनां षडहः [अ. ७. ख. २४]

च पाष्ठौहं च । आ सोता परि षिञ्चते-( सा० १३९४ )ति सखाय आ निषीदते-(सा० ११५७-९)ति वाचश्च साम (ऊ. २. २.१) शौक्तं (ऊ० २. २. २) चैकर्चयोः । सुतासो मधुमत्तमा ( सा० ८७२-४ ) इति त्वाष्ट्रीसामनी स्वाराद्यत्रिणिधने (ऊ० १५.२.१, २.२.४)। पवित्रं त ( सा० ८७५-७) इत्यरिष्ट- (र० १. १. ८)मन्त्यम् । यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४)। प्रमँहिष्ठीयं (ऊ० २. २. ५) हारिवर्णं (ऊ० २. २. ६) तैरश्च्य-(ऊ० २. २. ७)मित्युक्थानि। सर्वं सप्तदशम् ॥
चतुर्थस्याह्नः -- प्रत आश्विनीः ( सा० ८८६-८) पवमानो अजीजनत् (सा० ८८९-९१) प्रयद्गावो न (सा० ८९२-७) षडृचम् । आशुः षडृचम् (सा० ८९८-९०३) । हिन्वन्ती-(सा० ९०४-६)ति बहिष्पवमानम् । जनस्य-अयं वाम्-इन्द्रो दधी-इयं वामस्ये-(सा० ९०७-१८)त्याज्यानि । पवस्व दक्ष साधन (सा० ९१९-२१) इति गायत्रं चाथर्वणं (र० १.१.९) च निधनकामं (ऊ० २. २. ८) च । तवाहं सोम रारणे-( सा० ९२२-३ )त्याष्टादंष्टम् (ऊ० २.२.९ ) आभीशवं (ऊ० २. २. १०) स्वःपृष्ठमाङ्गिरसम् (ऊ० २.२.११) । पुनानो अक्रमीदभी-(सा० ९२४-६)ति सत्रासाहीय-(ऊ० २.२.१२) मन्त्यम् । वैराजं (र० ७.२.५) च वामदेव्यं (ऊ० १.१.५ ) च त्रैशोकं (ऊ० २.२.१३) च पृश्नि (ऊ० २.२.१४) चेति पृष्ठानि । परि प्रिया दिवः कवि-( सा० ९३५-७ )रिति गायत्रं चौर्णायवं (ऊ० २.२.१५) च । त्वं ह्यङ्ग-सोमः पुनान ऊर्मिणे-(सा० ९३८-४२)ति बृहत्का-(ऊ० २.२.१६)तीषादीये (ऊ० २.२.१७)। पुरोजिती वो अन्धस (सा० ६९७-९) इति नानदा-(ऊ० २.२. १८)न्धीगवे (ऊ० १.१.१२)। सोमः पवते जनिता मतीनाम् (सा० ९४३-५) इति वात्सप्र-(ऊ० २.२.१९)मन्त्यम् । यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० (उ० १.१.१४)। सैन्धुक्षितं (ऊ० २. २. २०) सौभरं (ऊ. १.१.१९) वसिष्ठस्य प्रिय-(ऊ० ३.१.१)मित्युक्थानि । गौरीवितं (ऊ० ३. १. २) षोडशिसाम । सर्वमेकविंशम् ॥
पञ्चमस्याह्नः --गोवित्पवस्व (सा० ६५५-७) पवमानस्य विश्ववित् ( सा० ९५८-६० ) प्र सोमासो अधन्विषुः ( सा० ९६१-७) सप्तर्चम् । प्र कविः (सा० ९६८-७४) सप्तर्चम् । यवं यवं (सा० ९७५-८) चतुर्ऋचम्। यास्ते (सा० ९७१-८१) इति बहिष्पवमानम् । तवश्रि-पुरूरुणो-त्तिष्ठन्न्-इन्द्राग्नीयुवा-( सा० ९८५-९३ )मित्याज्यानि ।
अर्षा सोम द्युमत्तम ( सा० ९९४-६) इति गायत्रं च यण्वं (र० १.२.१) च शाकल-(ऊ० ३.१.३)वार्शे (ऊ० ३.१.४) । सोम उष्वाणः सोतृभि-(सा० ९९७-८)रिति मानवं (ऊ० ३.१.५ ) चानूपं (ऊ० ३. १.६) च वाम्रं (ऊ० ३.१.७) चाग्नेस्त्रिणिधनम् (ऊ० ३.१.८)। यत्सोम चित्रमुक्थ्य-(सा० ९९९-१००१)मिति शैशव-(ऊ० ३.१.९) मन्त्यम्। महानाम्न्यश्च वामदेव्यं ( ऊ० १.१. ५) च बार्हद्गिरं (र० १. २. २) च रायोवाजीयं (र० १. २. ४) चेति पृष्ठानि । असाव्यंशुर्मदाये-( सा० १००८-१० )ति गायत्रं च सन्तनि (ऊ० ३.१.१०) च । अभि द्युम्नं बृहद्यशः ( सा० १०११-२) प्राणा शिशुर्महीना (सा० १०१३-५)मिति च्यावन-(ऊ० ३.१.११)क्रोशे (ऊ० ३.१.१२) । पवस्व वाजसातय (सा० १०१६-८) इति त्वाष्ट्रीसाम (ऊ० ८. २. ६) च यत्साभ्यासम् । ऋषभश्च शाक्वरः (र० १.२.५)। पार्थं (ऊ० ३.१.१४) चाष्टेडं च पदस्तोभं (र० १.२.६) च। इन्दुर्वाजी पवते गोन्योघा ( सा० १०१९-२१ ) इति दाशस्पत्य(ऊ० .१.१५)मन्त्यम् । यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १.१.१४)। संजयं (ऊ० ३.१.१६) च सौमित्रं (ऊ० ३.१.१७) च महावैष्टम्भं (ऊ० ३.१.१८) चेत्युक्थानि ॥
सर्वं त्रिणवम् ॥

381
अहीनः--ऋतूनां षडहः [अ. ७. ख. २४]

षष्ठस्याह्नः --ज्योतिर्यज्ञस्य (सा० १०३१-३) असृक्षत प्र वाजिनः (सा० १०३४-६) पवस्व देववीरति-( सा० १०३७-४६)दशर्चम् । सना-(सा० १०४७-५६ )दशर्चम् । तरत्सम-( सा० १०५७-६०) चतुर्ऋचम् । एते सोमा ( सा० १०६१-३) इति बहिष्पवमानम् । इमम्-प्रति-भिन्धि-यज्ञस्ये ( सा० १०६४-७५ )त्याज्यानि । इन्द्रायेन्दो मरुत्वत (सा० १०७६-८) इति गायत्रं च इषोवृधीयं (ऊ० ३.१.१९) च गायत्री-क्रौञ्चं (ऊ० ३.१.२०) च वाजदावर्यश्च (ऊ० ३.२.१) रेवत्यश्च (र० १.२.७)। मृज्यमानः सुहस्त्ये-(सा० १०७९-८०)ति औक्ष्णोरन्ध्रे च स्वारैडे (ऊ० ३.२.२-३) । वाजजिच्च (ऊ० ३.२.४) वरुणसाम (ऊ० ३. २. ५) च गोष्ठं (ऊ० ३. २. ६) च । एतमु त्यं दक्ष क्षिप (सा० १०८१-३) इतीहवद्वामदेव्य-(ऊ० ३.२.७)मन्त्यम् । रेवतीषु वारवन्तीयं (ऊ० ३. २. ८) च वामदेव्यं ( ऊ० १.१. ५) च ऋषभश्च रैवतः (र० १. ८. ) श्येनश्चे-(ऊ० २३.१.१८)ति पृष्ठानि । परिस्वानो (सा० १०९३-५) गायत्रं च त्रीणि वैदन्वतानि (ऊ० ३.२.९-११)। स सुन्वे यो वसूनां (सा० १०९६-७) तं वः सखायो मदाये-( सा० १०९८-१०० )ति दीर्घं (ऊ० ३.२.१२) च कार्णश्रवसं (ऊ० ३.२.१३) च । सोमाः पवन्त इन्दव (सा० ११०१-३) इति स्वारं च क्रौञ्चं (ऊ० १६.१.१) च मधुश्चुन्निधनं (ऊ० ३. २. १५) च क्रौञ्चे च वाङ्निधनैडे (ऊ० ३.२.१६-७)। अया पवस्वे-(सा० ११०४-६)ति श्नौष्ट(ऊ० ३. २. १८)मन्त्यम् । सोमाः पवौहो इति स्वारं क्रौञ्चम् । यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १.१.१४)। गूर्दं (ऊ० ३.२.१९) च भद्रं (र० १. २. १०) चोद्वंशपुत्र-(ऊ० ३.२.२०)श्चेत्युक्थानि । सर्वं त्रयस्त्रिंशम् ॥
आहीनिकी रात्रिः पञ्चदशिनी। त्रिवृत्संधिः । षोडशि नास्ति । उद्वंशपुत्राद्रात्रिमुपयन्तीति वचनात् ॥
इति व्यूढः समाप्तः।।



समूढः
समूढस्य क्लृप्तिमाह --
अथ यदि समूढः । एतदेव प्रथमस्याह्नो बहिष्पवमानम् । एते स्वराः ॥ १ ॥ द्वितीयस्याह्नो वृषा शोण (सा० ८०६-८) इति पार्थ-(ऊ० ७. १. ६)मन्त्यम् । पञ्चमस्याह्नः पार्थस्य लोक आकूपारं यन्नवमेऽहनि (ऊ० १५. २. २१) ॥ २ ॥
सांवत्सरिकः समूढः उत्तरस्याविक्लृप्ता बृहत्यः सर्वस्य षडहस्य ॥३॥
इति । समूढस्य प्रथमस्त्र्यहः सर्वो व्यूढवत् । द्वितीयेऽहनि वृषा शोण इति वासिष्ठस्य स्थाने पार्थमिति विशेषः ॥
चतुर्थस्याह्नः --पवमानो अजीजनदित्यनुवाकोक्तो गवामयनिकः समूढः उत्तरस्य त्र्यहस्य कर्तव्यम् । अभीवर्तकालेयानुकल्पनस्य गवामयनप्रयुक्तत्वात् अस्य सर्वस्य षडहस्य दाशरात्रिक्य एव माध्यंदिनबृहत्यः । तत्र चतुर्थस्याह्नः क्लृप्तिः । पवमानो अजीजनत् (सा० ८८९-९१) पुनानो अक्रमीदभि (सा० ९२४-६) प्र यद्गावो न भूर्णयः ( सा० ८९२-७ ) आशुरर्ष बृहन्मते ( सा० ८९८-९०३) हिन्वन्ति सूरमुस्रयः (सा० ९०४-६) इति बहिष्पवमानम् । अग्निर्वृत्राणि जङ्घनत् (सा० १३९६-८) अयं वां मित्रावरुण –इन्द्रो दधीचो अस्थभिर् -इयं वामस्य मन्मनः (सा० ९१०-१८) इत्याज्यानि । पवस्व दक्षसाधनः (सा० ९१९-२१) इति गायत्रं चाथर्वणं (र० १.१.९) च निधनकामं ( ऊ० २.२.८ ) च । तवाहं सोम रारणे-(सा० ९२२-३)त्याष्टादंष्ट्रम् (ऊ० २. २. ९) आभीशवं (ऊ० २. २. १०) स्वःपृष्ठमाङ्गिरसम् (ऊ० २. २. ११)। सोमः पवते
जनिता मतीना-(सा० ९४३-५)मिति जनित्र-(ऊ० ८.२.१)मन्त्यम् । वैरूपं (ऊ० ४.१.२०) च वामदेव्यं (ऊ० १. १. ५) च त्रैशोकं

383
अहीनः--ऋतूनां षडहः [अ. ७. ख. २४]

(ऊ० २. २. १३) च पृश्नि (ऊ० २. २. १५) चेति पृष्ठानि । परि प्रिया दिवः कवि-(सा० ९३५-७)रिति गायत्र-मौर्णायवं (ऊ. २. ८) च । त्वं ह्यङ्ग दैव्य ( सा० ९३८-९) सोमः पुनान: ऊर्मिणे-(सा० ९४०-२)ति बृहत्का-(ऊ० २. २. १६)तीषादीये (ऊ. २.२.१७)। पुरोजिती वो अन्धसः (सा० ६९७-९) इति नानदा- (ऊ० २. २. १८)न्धीगवे। प्र त आश्विनी-(सा० ८८६-८)रिति लौश-( ऊ० ८. २. २ )मन्त्यम् । यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४) । सैन्धुक्षितं (ऊ० २. २. २०) सौभरं (ऊ० १. १. १६) वसिष्ठस्य प्रिय-(ऊ० ३.१.१)मित्युक्थानि। गौरीवितं (ऊ० ३.१.२) षोडशिसाम । सर्वमेकविंशम् ॥

पञ्चमस्याह्नः --पवमानस्य विश्ववित् (सा० ९५८-६०) यत्सोम चित्रमुक्थम् ( सा० ९९९-१००१ ) प्र सोमासो अधन्विषुः (सा० ९६१-७) प्र कविर्देववीतये (सा० ९६८-७४) यवं यवन्नो अन्धसा ९७५-८) यास्ते धारा मधुश्चुत (सा० ९७९-८१) इति बहिष्पवमानम् । अग्ने स्तोमं मनामहे (सा० १४०५-७) पुरूरुणा चिद्धयस्ति (सा० ९८५-७) उत्तिष्ठन्नोजसा सह (सा० ९८८-९० ) इन्द्राग्नी युवामिमे (सा० ९९१-३) इत्याज्यानि । अर्षा सोम द्युमत्तम (सा. ९९४-६) इति गायत्रं च यण्वं (र० १.२.१) च शाकलं (ऊ० ३.१.३) च वार्शं ( ऊ० ३.१.४ ) च। सोमा उष्वाणः सोतृभि-(सा० ९९७-८)रिति मानवं चानूपं (ऊ० ३.१.५-६) च वाम्रं (ऊ० ३.१.७) चाग्नेस्त्रिणिधनम् (ऊ० ३.१.८) । इन्दुर्वाजी-( सा० १०१९-२१)ति सम्पान्त्य-( ऊ० ८. २. ५)मन्त्यम् । महानाम्न्यश्च वामदेव्यं ( ऊ० १. १. ५) च बार्हद्गिरं (र० १. २. २) च रायोवाजीयं (र० १. २. ४) चेति पृष्ठानि । असाव्यंशुर्मदाये-(सा. १००८-१०)ति गायत्रं च संतनि (ऊ० ३.१.१०) च। अभि द्युम्नं बृहद्यशः (सा०१०११-२) प्राणा शिशुर्महीना-(सा० १०१३-५)मिति च्यावन-(ऊ० ३.१.१०)क्रोशे (ऊ० ३.१.१२) । पवस्व वाजसातये (सा० १०१६-८) इति त्वाष्ट्रीसाम ( ऊ० ८.२.६ ) च ऋषभश्च शाक्वरः (ऊ० र० १. २. ५) आकूपारं. (ऊ० १५ २. २१) चाष्टेडं च पदस्तोभः (र० १. २. ६)। गोवित्पवस्वे(सा० ९५५-७ )ति द्वयभ्याघातं लौश-(ऊ० ८. २. ७)मन्त्यम् । यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४)। संजयं (ऊ० ३.१.१६) च सौमित्रं (ऊ० ३.१. १७) च महावैश्वमित्रं (ऊ० ३.१.१८) चेत्युक्थानि । सर्वं त्रिणवम् ॥
षष्ठस्याह्नः --असृक्षत प्र वाजिनः (सा० १०३४-६) एतमु त्यं दश क्षिपः (सा० १२७३) पवस्व देववीरति (सा० १०३७-४६) सना च सोम जेषि च (सा० १०४७-५६) तरत्समन्दी धावति (सा० १०५७-६०) एते सोमा असृक्षते-(सा० १०६१-३)ति बहिष्पवमानम् । यमग्ने पृत्सुमर्त्यम् (सा० १४१५-७) प्रति वां सूर उदिते (सा० १०६७-९) भिन्धि विश्वा अभि द्विषः ( सा० १०७०-२) यज्ञस्य हि स्थ ऋत्विजे-(सा० १०७३-५)त्याज्यानि। इन्द्रायेन्दो मरुत्वत (सा० १०७६-८) इति गायत्रं चेषोवृधीयं (ऊ० ३.१.१९) च गायत्रीक्रौञ्चं ( ऊ० ३. १. २०) च वाजदावर्यश्च (ऊ० ३.२.१) रेवत्यश्च (र० १. २. ७)। मृज्यमानः सुहस्त्ये-(सा० १०७९-८०)त्यौक्ष्णोरन्ध्रे (ऊ० ३.२.२-३ ) वाजजिच्च ( ऊ० ३.२.४) वरुणसाम (ऊ० ९.२.५) चाङ्गिरसां गोष्ठः (ऊ० ३. २. ६) । अया पवस्वे-(सा० ११०४-६)तीहवद्वासिष्ठ-(ऊ० ३.२.७)मन्त्यम् । रेवतीषु वारवन्तीयं ( ऊ० ३.२.८) च वामदेव्यं (ऊ० १.१.५) च ऋषभश्च शाक्वरः (र० १.२.५) श्येनश्चे-(र० १.२.९)ति पृष्ठानि । परि स्वानो गिरिष्ठा ( सा० १०९३-५) इति गायत्रं च त्रीणि

385
अहीनः --आयुःकामस्य षडहः [अ. ७. ख. २५]

च वैदन्वतानि (ऊ० ३.२.९-११)। स सुन्वे यो वसूनाम् (सा० १०९६-७) तं वः सखायो मदाये-(सा० १०९८-११००)ति दीर्घं (ऊ० ३.२.१२) च कार्णश्रवसं (ऊ० ३.२.१३) च। सोमाः पवन्ते (सा० ११०१-३) इति क्रौञ्चं (ऊ० १६.१.१) च त्रयाणामाद्याम् । मधुश्चिन्निधनं (ऊ० ३.२.१५) च क्रौञ्चे (ऊ० ३.२.१६-७) च वाङ्निधनैडे । ज्योतिर्यज्ञस्य ( सा० १०३१-३) मरुतां धेन्वन्त्यम् (ऊ० ८.२.११) । यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १.१.१४) । गूर्दं (ऊ० ३.२.१९ ) भद्रो-(र० १.२.१०)द्वंशपुत्र (ऊ० ३.२.२०) उक्थानि। सर्वं त्रयस्त्रिंशम् । उद्वंशपुत्राद्रात्रिमुपयन्तीत्येतदत्रापि समम् । ऋतुषडहे कथं रात्रिरित्यारभ्य कर्तव्येति गौतमः ( नि० सू० ८. ११) इत्यविशेषेण निदानवचनात् । तत्र रात्रिराहीनिकी । पञ्चदशी संधिः ॥
इतिः समूढः॥
इति ऋतूनां षडहः ॥ २४ ॥


आयुष्कामः षडहः
त्रिवृदग्निष्टोमः पञ्चदश उक्थ्यः सप्तदश उक्थ्यो ज्योतिर्गौरायुरतिरात्र ( तां० ब्रा० २२.२) इत्यनुवाकेनायुष्कामः षडह उक्तः । तस्य कल्पः --
एष एव त्र्यहो य ऋतूनां यथा व्यूढे ॥ १ ॥
तृतीयस्याह्नो वैरूपस्य लोके रथन्तरम् (र० १.१.१) । सुतासो मधुमत्तम (सा० ८७२-४) इति त्रीणि त्वाष्ट्रीसामान्यैडं मध्ये (ऊ० २. २. ४) स्वारे अभितो (ऊ० ९. १. ८, १६. १. २) बृहत् तिसृषु (र० ४. १. ७) ॥ २॥
ज्योतिर्गौरायुरतिरात्रः । एकाहक्लृप्ताः ॥ ३॥
इति । अस्य प्रथमस्त्र्यहः ऋतुषडहवत् । द्वितीयस्याह्नो माध्यंदिनान्त्यं वासिष्ठम् (ऊ० २.१.२)। यथा व्यूढ इति विशेषवचनात् । तृतीयस्याह्नो वैरूपस्य लोके रथन्तरम् (र० १. १. १)। आर्भवस्तु तिस्रो वाच उदीरत (सा० ८६६-७१) इति गायत्रं च पाष्ठौहं ( ऊ० २.१.२०) च । आ सोता परि षिञ्चत (सा० १३९४) सखाय आ निषीदते-(सा० ११५७) वाचश्च साम (ऊ० २.२.१) शौक्तं (ऊ० २.२.२) चैकर्चयोः । सुतासो मधुमत्तमा ( सा० ८७२-४ ) इति त्वाष्ट्रीसाम स्वारयोराद्यमाद्यायाम् (ऊ० ९.१.८)। ऐडं मध्यमायाम् (ऊ० १६.१.२) स्वारयोरुत्तरमुत्तमायाम् (ऊ० १५.१.१)। बृहत्तिसृषु (र० ४. १. ७) । पवित्रं त ( सा० ८७५-७) इति अरिष्टमन्त्य-(र० १.१.८)मिति ॥
ज्योतिष्टोमोऽग्निष्टोमश्चतुर्थमहः । अत्र तृतीयचतुर्थयोरह्नोरपि रथन्तरपृष्ठत्वेन जामिता स्यादिति तत्परिहारार्थं तृतीयस्यार्भवे बृहदनुकल्पनम् । गौरुक्थ्यः पञ्चममहः । आयुरतिरात्रः षष्ठम् । ज्योतिरादयः एकाहक्लृप्ताः ॥ ३॥
इति आयुष्कामः षडहः ॥२५॥
पृष्ठ्यावलम्बः षडहः
अभ्यासङ्ग्यः पञ्चाहो विश्वजिदतिरात्रः ( तां० ब्रा० २२. ३ ) इत्यनुवाकेन पृष्ठावलम्बः षडह उक्तः। तस्य कल्पः --
एष एव पञ्चाहो य ऋतूनां समूढोऽभ्यासक्तो बृहद्रथन्तरपृष्ठः ॥ १॥

387
अहीनः --पृष्ठ्यावलम्बः षडहः [अ. ७. ख. २६]

इति। ऋतुषडहवत् समूढो देवपञ्चरात्रवत् अभ्यासक्तो बृहद्रथन्तरपृष्ठः पञ्चाहः ॥१॥
प्रथमस्याह्नः स्वादिष्ठार्भवीया ॥ २ ॥
द्वितीयस्याह्नो वासिष्ठमन्त्यम् (ऊ० २. १. २)। स्वस्थाने पार्थम् (ऊ० ३. १. १४) ॥३॥
चतुर्थस्याह्नः और्णायवस्योपरिष्टात् बृहद्भारद्वाजम् (ऊ० १५.२.१०) आन्धीगवस्य शुद्धाशुद्धीयम् ( ऊ० १६.१.३) उद्धरति षोडशिनम् ॥ ४ ॥
पञ्चमस्याह्नः सन्तनिन उपरिष्टाद् ऐडं च सैन्धुक्षितं (ऊ० १६. १. ४) गौषूक्तं (ऊ० ७. २. १६) च ॥ ५ ॥
इति । उपास्मै गायता नर (सा० ६५१-३) उपोषु जातमातुरम् (सा० १३३५-७) पवमानस्य ते कवे (सा० ६५७-९) इति बहिष्पवमानम् । अग्न आयाहि वीतये (सा० ६६०-७१) इत्याज्यानि । प्र सोमासो विपश्चित ( सा० ७६४-६) इति गायत्रमाश्वं (ऊ० ६.२.१२) सोमसामे-(ऊ० १४.१.१३)ति सामतृचः । प्र सोम देववीतय (सा० ७६७-८) इति यौधाजयं (ऊ० १.२.१३) तिसृषु । औशन-(ऊ० १.१.४)मन्त्यम् । रथन्तरं (र० १.१.१) च वामदेव्यं (ऊ० १.१. ५) च नौधसं (ऊ० १.१.६) च कालेयं (ऊ० १. १. ७) चेति पृष्ठानि । स्वादिष्ठये-(सा० ६८९-९१)ति गायत्र-संहिते (ऊ० १.१.८) । अया पवस्व (सा० ७७२) पवते हर्यतो हरि-( सा० ७७३ )रिति सफा-( ऊ० १.२.१५)क्षारे (ऊ० १.२१.६)। प्र सुन्वानायान्धस (सा० १३८६-८) इत्यौदल(ऊ० ११.२.३)गौतमे (ऊ० १.२.१८) । काव-(ऊ० १.१.१३)मन्त्यम् । सफाक्षारौदलान्येकर्चानि । यज्ञायज्ञीयमग्निष्टोमसाम (ऊ. १. १४)। द्वे त्रिवृती सवने । पञ्चदशमेकम् ॥
द्वितीयस्याह्नः-- पवस्व वाचो-पवस्वेन्दो-वृषा सोम-वृषा ह्यसिपवमानस्य ते वय-( सा० ७७५-८९ )मिति बहिष्पवमानम्। अग्निं दूत-(सा० ७९०-८०२)मित्याज्यानि । पुनानः सोम धारये-(सा० ६७५-७ )ति गायत्रं च यौक्ताश्वं (ऊ० १.२.१९) चायास्ये (ऊ० १.२.२०, २.१.१)। वृषा शोण (सा० ८०६-८) इति इहवद्वासिष्ठ(ऊ० २.१.२)मन्त्यम् । षष्ठेऽह्नि वासिष्ठस्याप्रयोगात् संचाराप्रसङ्गात् इहवद्वासिष्ठस्य पञ्चमे च पार्थस्य दशरात्रवत् स्थितिः । बृहच्च (र० १.१.५) वामदेव्यं (ऊ० १. १. ५) च श्यैतं (ऊ० २.१.३) च माधुच्छन्दसं (ऊ० २.१.४) चेति पृष्ठानि । यस्ते मदो वरेण्य ( सा० ८१५-७) इति गायत्रं च हाविष्मतं (ऊ० २.१.५) च । पवस्वेन्द्रमच्छे-(सा० ६९२, ६९४)ति शङ्कु-(ऊ० २.१.६)सुज्ञाने (ऊ० २.१.७)। अयं पूषे-(सा० ८१८-२०) त्यासित(ऊ० ११.२.२०)क्रौञ्चे (ऊ० १५.१.१७)। वृषा मतीना-(सा० ८२१-३)
मिति याम-( ऊ० २.१.१०)मन्त्यम् । शङ्कु-सुज्ञाने एकर्चयोः । यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४)। साकमश्व-(ऊ० १.१.१५)मामहीयव-(ऊ० १.१.१)माष्टादंष्ट्र-(ऊ० २.१.१२)मित्युक्थानि । द्वे पञ्चदशे सवने । सप्तदशमेकम् ॥
तृतीयस्याह्नः--दविद्युतत्या रुचा ( सा० ६५४-६ ) एते असृग्रमिन्दवो (सा० ८३०-२) राजा मेधाभिरीयते ( सा० ८३३-५ ) तं त्वा नृम्णानि बिभ्रतम् (सा० ८३६-८) इषे पवस्व धारये-(सा० ८४१-३)ति बहिष्पवमानम् । अग्निनाग्निः समिध्यते (सा० ८४४-८५५) इत्याज्यानि। उच्चा ते ( सा० ६७२-४) गायत्रं च क्षुल्लकवैष्टम्भं (ऊ० २.१.१३) च । अभि सोमास आयव ( सा० ८५६-८) इति पौरुमद्गमाद्यायाम् (ऊ० २.१.१४) । गौतमा-(अ० १. १. १५)न्तरिक्षे (र० १.१.६) तृचयोः । आष्कारणिधनमध्यास्यायाम् (ऊ० २.१.१६)। तिस्रो वाच (सा० ८५६-६१) इति अङ्गिरसां संक्रोशोऽ-( ऊ० २. १. १७)न्त्यः ।

389
अहीनः--पृष्ठ्यावलम्बः षडहः [अ. ७. ख. २६]

रथन्तरं (र० १.१.१) च वामदेव्यं (ऊ० १. १. ५) च महावैष्टम्भं (ऊ० १.१.१८) च रौरवं (ऊ० १.१.२) चेति पृष्ठानि । तिस्रो वाच उदीरत ( सा० ८६९-७१ ) इति गायत्रं च पाष्ठौहं (ऊ० २.१.२०) च । आ सोता परि षिश्चत (सा० १३९४-५ ) सखाय आ निषीदत ( सा० ११५७-९) इति वाचश्च साम (ऊ० ७. १. १७) शौक्तं (ऊ० १४. २. ५) च । सुतासो मधुमत्तमा (सा० ८७२-४ ) इति त्वाष्ट्रीसामनी स्वारत्रिणिधने (ऊ० १५. २. १-२)। पवित्रं त ( सा० ८७५-७) इत्यरिष्ट-(र० १.१.८)मन्त्यम् । यज्ञायज्ञीयमग्निष्टोमसाम (ऊ. १.१.१४) । प्रमँहिष्ठीयं (ऊ० २.२.५) हारिवर्णं (ऊ. 10 २.२.६) तैरश्च्य-(ऊ० २.२.७)मित्युक्थानि । द्वे सप्तदशे सवने । एकविंशमेकम् ॥
चतुर्थस्याह्नः--पवमानो अजीजनत् (सा० ८८९-११) पुनानो अक्रमीदभि (सा० ९२४-६) प्रयद्गावो न भूर्णयः ( सा० ८९२-७) आशुरर्ष बृहन्मते (सा० ८९८-९०३) हिन्वन्ति सूरमुस्रयः (सा० ९०४-६) इति बहिष्पवमानम् । अग्निर्वृत्राणि जङ्घनत् ( सा० १३९६-८) अयं वां मित्रावरुण-इन्द्रो दधीचो अस्थभिर् - इयं वामस्य मन्मनः (सा० ९१०-८) इत्याज्यानि । पवस्व दक्षसाधन (सा० ९१९-२१) इति गायत्रं चाथर्वणं (र० १.१.९) च निधनकामं (ऊ० २. २. ८) च। तवाहं सोम रारणे-( सा० ९२२-३ )त्याष्टादंष्ट्र-(ऊ० २.२.९) माभीशवं (ऊ० २.२.१०) स्वःपृष्ठमाङ्गिरसम् (ऊ० २.२. ११) । सोमः पवते जनिता मतीनाम् (सा० ९४३-५) इति जनित्र-(ऊ० ८. २. १)मन्त्यम् । बृहच्च (र० १. १. ५) वामदेव्यं (ऊ० १.१. ५) च त्रैशोकं (ऊ० २. २. १३) च पृश्नि (ऊ० २. २. १४) चेति पृष्ठानि । परि प्रिया दिवः कवि-( सा० ९३५-७ )रिति गायत्रं चौर्णायवं (ऊ० २.२.१५) च बृहद्भारद्वाजं (ऊ० १५. २. १०) च। त्वं ह्यङ्ग दैव्य ( सा० ९३८-९) सोमः पुनान ऊर्मिणे-(सा० ९४०-४२)ति वृहत्का-( ऊ० २. २. १६) तीषादीये (ऊ० २.२१.७) । पुरोजिती वो अन्धस (सा० ६९७-९) इति नानदं (ऊ० २. २. १८) चान्धीगवं (ऊ० १.१.१२) च शुद्धाशुद्धीयं (ऊ० २०.१.१८) च । प्र त आश्विनीर् (सा० ८८६-८) इति लौश-(ऊ० ८. २. २)मन्त्यम् । यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १.१.१४)। सैन्धुक्षितं (ऊ० २. २. २०) सौभरं (ऊ० १. १. १६) वासिष्ठस्य प्रिय (ऊ० ३.१.१)मित्युक्थानि । उद्धरति षोडशिनं वैराजापायात् । तथा च सूत्रम् -- विराडपाये चापैतीति । निदानं च --विराजामन्वपायं स्वराजो वपेयुरिति (नि० सू० ३.७)। द्वे एकविंशे सवने। त्रिणवमेकम् ॥
पञ्चमस्याह्नः--पवमानस्य विश्ववित् (सा० ९५८-६०) यत्सोम चित्रमुक्थ्यम् ( सा० ९९९-१००१) प्र सोमासो अधन्विषुः (सा० ९६१-७) प्र कविर्देववीतये (सा० ९६८-७४) यवं यवं नो अन्धसा ( सा० ९७५-८) यास्ते धारा मधुश्चुतः ( सा० ९७९-८१) इति बहिष्पवमानम् । अग्ने स्तोमं मनामहे (सा० १४०५-७) पुरूरुणा चिद्धयस्ति-उत्तिष्ठन्नोजसा सह-इन्द्राग्नी युवाम् (सा० ९८५-९३) इत्याज्यानि । अर्षा सोम द्युमत्तम (सा० ९९४-६) इति गायत्रं च यण्वं (र० १.२.१) च शाकलं (ऊ० ३. १.३) च वार्शं (ऊ० ३.१.४) च । सोम उष्वाणः सोतृभिः ( सा० ९९७-८) इति मानवं (ऊ० ३.१.५ ) चानूपं (ऊ० ३.१.६) च । अग्नेस्त्रिणिधनम् (ऊ० ३.१.८) । इन्दुर्वाजी-(सा० १०१९-२१)ति संपान्त्य-(ऊ० ८.२.५)मन्त्यम् । रथन्तरं (र० १.१.१) च वामदेव्यं ( ऊ० १.१. ५) च बार्हद्गिरं (र० १.२.२ ) च रायोवाजीयं (र० १.२.४ ) चेति पृष्ठानि । असाव्यंशुर्मदाये-(सा० १००८-१०)ति गायत्रं च संतनि (ऊ० ३.१.१०) चैडं च सैन्धुक्षितं (ऊ० १६.१.४) गौषूक्तं ( ऊ० ७.२.१९) च । अभि द्युम्नं बृहद्यशः ( सा० १०११-२ ) प्राणा शिशुर्महीनाम्

391
अहीनः--सप्तर्षिसप्तरात्रः षडहः (१) [अ. ७. ख. २७]

(सा० १०१३-५) इति च्यावन-(ऊ० ५.३.११) क्रोशे (ऊ० ३.१.१२) पवस्व वाजसातये ( सा० १०१६-८) इति त्वाष्ट्रीसाम (ऊ० ८.२.६) च ऋषभश्च शाक्वरः (र० १.२.५) । पार्थं-( ऊ० ३.१.१४) चाष्टेडं च पदस्तोभः (र० १.२.६) । गोवित्पवस्वे(सा० ९५५-७)ति द्वयभ्याघातं लौश-( ऊ० ८. २. ७)मन्त्यम् । यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १.१. १४)। संजयं (ऊ० ३.१.१६) च सौमित्रं (ऊ० ३.१.१७) च महावैश्वामित्रं (ऊ० ३.१.१८) चेत्युक्थानि । द्वे त्रिणवे सवने । त्रयस्त्रिंशमेकम् । सवनशेषत्वादुक्थानि त्रयस्त्रिंशान्येव स्युः (ला० श्रौ० ९. १२. १६ )इति सूत्रम् ॥२-५ ॥
षष्ठमहराह --
विश्वजिदतिरात्रः ॥ ६॥
इति । स च विश्वजितः पवस्वेन्द्रमच्छेति सत्रासाहीय-श्रुध्ये यद्यतिरात्र (आ० क० ३. ५. २) इत्यादिना क्लृप्तः ॥ ६॥
इति पृष्ठ्यावलम्बः षडहः ॥ २६ ॥
 
सप्तरात्राः
सप्तर्षिसप्तरात्रः
अथ सप्तरात्राः सप्त । पृष्ठ्यः षडहो महाव्रतमतिरात्र (तां० ब्रा० २२. ४) इत्यनुवाकेन सप्तर्षिसप्तरात्र उक्तः । तस्य कल्पः --
एष एव षडहो य ऋतूनां समूढो वा व्यूढो वा ॥१॥
समूढस्त्वेव ॥२॥
व्याख्यातमेतत् ॥ १-२॥
ऐकाहिकं व्रतम् । तस्य ज्योतिष्टोमोऽतिरात्रः षोडशिमान् ॥३॥
इति। व्रतस्यानो विश्वासु हव्यमिति श्यैतं ब्रह्मसाम । गौरीवितस्य लोके औदलम् । समानमितरं सांवत्सरिके-( आ० क० ३.१.६) त्यैकाहिकं व्रतमुक्तं मशकेन । तस्याग्निष्टोमसामान्ते साकमश्वं (ऊ० १.१.१५) सौभरं (ऊ० १.१.१६) नार्मेध-( ऊ० १.१.१७)मित्युक्थानीत्यधिकृत्य सूत्रम् -- सप्तरात्राणां प्रथमस्यातिरात्रे पञ्चविंशान्यहस्तोमत्वादेकविंशानीत्यनुज्योतिष्टोमप्रदेशादि-( ला० श्रौ० ९. १२. १७ )ति । तस्मादेकविंशान्येवोक्थानि । गौरीवितं (ऊ० १.२.१७) षोडशिसाम एकविंशम् । आहीनिकी रात्रिः पञ्चदशी संधिस्त्रिवृत् ॥३॥
इति सप्तर्षिसप्तरात्रः ॥२७॥


प्राजापत्यः सप्तरात्रः
पृष्ठ्यः षडहः सप्तदशं महाव्रतमतिरात्रः । तस्य त्रिवृच्छिरः पञ्चदशौ पक्षौ सप्तदश आत्मैकविंशं पुच्छम् (तां० ब्रा० २२. ५) इत्यनुवाकेन प्राजापत्यः सप्तरात्र उक्तः ॥
 
तस्य कल्पः --
एष एव षडहो य ऋतूनां समूढो वा व्यूढो वा ॥१॥
समूढस्त्वेव ॥२॥
सप्तदशं व्रतम् । तस्योपास्मै गायता नरः (सा० ६५१-३) पवस्व वाचो अग्रियो (सा० ७७५-७) दविद्युतत्या रुचा (सा० ६५४-६)

393
अहीनः --प्राजापत्यः सप्तरात्रः [प्रअ. ७. ख. २८]

उत्ते शुष्मास ईरते (सा० १२०५-९) पवमानस्य ते कवे (सा० ६५७-९) इति बहिष्पवमानम् ॥१॥
स्पष्टमिदम् ॥ १॥
उत्तरे गायत्र्या उद्धरति पूर्वे अनुष्टुभः । समानमितरं पूर्वेण व्रतेन ॥२॥
तस्य स्तोमान्वयीन्युक्थानि । एकविंशः षोडशी ॥३॥
इति । सप्तदशान्याज्यानि । अस्य प्रत्नामनुद्युतम् ( सा० ७५५-७) इति गायत्रं चामहीयवं (ऊ० ९.२.३ ) च । परीतो षिञ्चता सुत-(सा० १३१३-५)मिति समन्तं (ऊ० ९. १. ३) प्रथमायाम् । दैर्घश्रवसं (ऊ० ५. २. ४) तिसृषु । यौधाजयमध्यास्यायाम् (ऊ० १६.१.५)। अयं सोम (सा० १४७१-३) इति पार्थ-(ऊ० ९.२.५)मन्त्यम् इति । सप्तदशो माध्यंदिनः। व्रतं होतुः पृष्ठम् । तस्य त्रिवृच्छिरः। पञ्चदशौ पक्षौ । सप्तदश आत्मा । एकविंशं पुच्छमिति विशेषः। इतराणि पृष्ठानि सप्तदशानि। परि स्वानो गिरिष्ठा ( सा० १०९३-५ ) इति गायत्रं च स्वाशिरामर्कः (र० २.४.१०)। पवस्वेन्द्रमच्छे-(सा० ६९२-६)ति सफ-(ऊ० १.१.९ ) श्रुध्ये (ऊ० ९.१.२०) एकर्चयोः । पुरोजिती वो अन्धस (सा० ६९७-६) इति श्यावाश्वा-(ऊ० १.१.११)न्धीगवे (ऊ० १.१.१२)। सूर्यवतीषु काव-(ऊ० ९.२.११)मन्त्यम् इति । सप्तदश आर्भवः । यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १.१. १४)। इलान्दं (र० २.४.११) वा। इलान्दपक्षे श्वावाश्वस्थाने यज्ञायज्ञीयम् । उक्थादि संधिस्तोत्रान्तं पूर्वमहाव्रतवत् । तस्य स्तोमान्वयीन्युक्थानि। अहस्तोमं सप्तदशम् । प्रकृतिस्तोमं चैकविंशम् । व्रतस्य वा प्रकृतिस्तोमं पञ्चविंशम् । अत्र तु अहस्तोममन्वीयुरुक्थानीत्यर्थः । तथा चोक्तं स्तोमान्वयीनीति सप्तदशानि स्युरधिकारादित्यादि॥३॥
इति प्राजापत्यः सप्तरात्रः ॥ २८॥


पशुकामस्य सप्तरात्रः
पृष्ठयः षडहः छन्दोमपवमानं महाव्रतमतिरात्रः (तां० ब्रा० २२.६) इत्यनुवाकेन पशुकामः सप्तरात्र उक्तः । तस्य कल्पः --
एष एव षडहो य ऋतूनां समूढो वा व्यूढो वा ॥१॥
समूढस्त्वेव ॥ २॥
छन्दोमपवमानं व्रतम् । तस्य पवमानस्य ते वयम् (सा० ७८७-९) इति चतुर्ऋचस्य लोके तृचम् ॥३॥
विपरिहरति सत्रासाहीयजराबोधीये । आशु च भार्गवं (ऊ० १४. १. १९) मार्गीयवं (ऊ० १४. १. २०) च सौमित्रं (ऊ० १४. २. १) चैटतं (ऊ० १४. २. २) च यौधाजयादुत्तराणि (ऊ० १६. १. ५)। बार्हदुक्थं (ऊ० ९. ३.७) च द्वैगतं (ऊ० १६.१.६) च पौरुहन्मनं (ऊ० १६. १. ७) च । स्वाशिरामर्कादुत्तराणि शाम्मदप्रभृतीनि चत्वारि (ऊ० १५. १. ९-१२)। आन्धीगवादुत्तराण्याकूपारं ( ऊ० १६.१.८) च साध्रं ( ऊ० १६. १.९) च स्वासु (सा० १२४१-३) धर्म (ऊ० ५. १. ९) ॥४॥
समानमितरं प्रथमेन व्रतेन साप्तरात्रिकेण ॥ ५ ॥

395
अहीनः --पशुकामस्य सप्तरात्रः [अ. ७. ख. २९]

इति । उपास्मै गायता नरः ( सा० ६५१-३) उपोषु जातमप्तुरं (सा० १३३५-७) पवस्व वाचो अग्रियः (सा० ७७५-७) पवस्वेन्दो वृषा सुतो (सा० ७७८-८०) दविद्युतत्या रुचा (सा० ६५४-६) एते असृग्रमिन्दवः ( सा० ८३०-२) पवमानस्य ते वयम् (सा० ७८७-९) पवमानस्य ते कवे (सा० ६५७-९) इति बहिष्पवमानम् । चतुर्विंशम् । पञ्चदशान्याज्यानि। अस्य प्रत्नामनुद्युत-(सा० ७५५-७)मिति गायत्रं चामहीयवं (ऊ० ९.२.३) च सत्रासाहीयं (ऊ० ९.१.९) च जराबोधीयं (ऊ० ९.३.१०) च आशुभार्गवं (ऊ० १४.१.१९) मार्गीयवं (ऊ० १४.१.२०) सौमित्रं (ऊ० १४.२.१) चैटतं (ऊ० १४.२. २) च । परीतो षिञ्चते-(सा० १३१३-५)ति समन्तं ( ऊ० ९.२.३) दैर्घश्रवसं (ऊ० ५. २. ४) च रौरवं (ऊ० ९.३.११) च यौधाजयं (ऊ० १६.१. ५) च बार्हदुक्थं (ऊ० ९.३. ७) च द्वैगतं (ऊ० १६. १.६) च पौरुहन्मनं (ऊ० १६. १. ७) च । अयं सोम ( सा० १४७१-३) इति पार्थमन्त्य-(ऊ. ९. २. ५)मिति । चतुश्चत्वारिंशो माध्यंदिनः पवमानः । समन्तं प्रथमायाम् । पौरुहन्मनमध्यास्यायाम् । व्रतादीनि पृष्ठानि प्रकृतिवत्। परिस्वानो गिरिष्ठा ( सा० १०९३-५) इति गायत्रं च स्वाशिरामर्कः (र० २.४.१०) शाम्मदं (ऊ० १५. १.९) च दावसुनिधनं (ऊ० १५. १.१०) च प्रतीचीनेडं काशीतं (ऊ० १५.१.११) च हाविष्कृतं (ऊ० १५. १. १२)। पवस्वेन्द्रमच्छे-( सा० ६९२-६)ति सफ-(ऊ० १.१.९) श्रुध्ये (ऊ० ९. १. २०)। पुरोजिती वो अन्धस (सा० ६९७-९) इत्यौदलं (ऊ० १०.१.३) च मधुश्चिन्निधनं (ऊ० ८.२.१५) च श्वावाश्वं (ऊ० १.१.११) चान्धीगवं (ऊ० १.१.१२) चाकूपारं (ऊ० १६.१.८) च साध्रं (ऊ० १६.१. ९) च स्वासु धर्म (ऊ० ५.१.९) सूर्यवतीषु काव-(ऊ० ९.२.११)मन्त्यम् इत्यष्टाचत्वारिंश आर्भवः । अग्निष्टोमसामादि संधिस्तोत्रान्तं प्रथमव्रतवत् ॥ ५ ॥
 
इति पशुकामः सप्तरात्रः॥ २९ ॥



क्षुल्लकजामदग्न्यः सप्तरात्रः
अभ्यासंग्यः पञ्चाहोऽथ त्रयस्त्रिंशमहस्तस्य चतुत्रिंशोऽग्निष्टोमः सप्तदशं महाव्रतमतिरात्रस्तस्य चतुर्विंशं बहिष्पवमानं त्रिवृच्छिरः पञ्चदशौ पक्षौ सप्तदश आत्मैकविंशं पुच्छम् ( तां० ब्रा० २२. ७) इत्यनुवाकेन क्षुल्लकजामदग्न्याख्यः सप्तरात्र उक्तः। तस्य कल्पः --
एष एव षडहो य ऋतूनां समूढो वा व्यूढो वा ॥ १ ॥
समूढस्त्वेव ॥ २॥
तस्याभ्यासक्तः पञ्चाहो यथा पृष्ठ्यावलम्बे । चतुर्थस्याह्नः एकविंशः षोडशी । पञ्चमस्याह्नः पार्थस्य लोके आकूपारं (ऊ० १५. २. २) वात्रेयं (ऊ० १६. १. १०) वेति यदि समूढः ॥ ३॥
अथ यदि व्यूढश्चतुर्थस्याह्नः शुद्धाशुद्धीयस्य लोक आकूपारम् (ऊ. १६. १. ८)। पञ्चमस्याह्नः पार्थस्यात्रेयं पार्थं वैव । छन्दोमवतो व्रतस्य बहिष्पवमानम् । सप्तदशं व्रतम् ।
समानमितरम् ॥४॥
इति । ऋतुषडहवन्नानापृष्ठः पृष्ठ्यावलम्बवदभ्यासक्तः पञ्चाहः ।
चतुर्थस्याह्नः इन्द्र जुषस्वे-(सा० ९२२-४ )ति गौरीवितं (ऊ० ३. १. २) षोडशिसामैकविंशम् । वैराजप्रयुक्तः षोडशी। तत्र समूढपक्षे पञ्चमस्याह्नः पार्थस्य लोके आकूपारं (ऊ० १५. २. २) वात्रेयं (ऊ० १६. १. १०) वेति विकल्पः। व्यूढपक्षे चतुर्थस्याह्नः । शुद्धाशुद्धीयस्य आकूपारम् (ऊ० १६. १. ८) पञ्चमस्याह्नः ।
पार्थस्यात्रेयं पार्थमेव । पृष्ठ्यावलम्बाद्विशेषः । षष्ठमहस्त्रयस्त्रिंशं ऋतुषडहवद्वंशपुत्रान्तं चतुस्त्रिंशोऽग्निष्टोमः। एकादशभ्यो हिंकरोति ।
स तिस्सृभिः स सप्तभिः स एकया । एकादशभ्यो हिंकरोति । स एकया स तिसृभिः स सप्तभिः । द्वादशभ्यो हिंकरोति

397
अहीनः-इन्द्रसप्तरात्रः [अ. ७. ख. ३१]

सोऽष्टाभिः स एकया स तिसृभिरिति । चतुस्त्रिंशस्य विष्टुतिः । दाशरात्रिकेभ्य एकया ज्यायःस्वित्यादिवचनात् । सप्तदशं महाव्रतम् अतिरात्रस्तस्य चतुर्विंशं बहिष्पवमानम् । त्रिवृच्छिरः । पञ्चदशौ पक्षौ । सप्तदश आत्मा । एकविंशं पुच्छम् इति सप्तममहरुक्तम् । तस्य छन्दोमवतो व्रतस्य बहिष्पवमानम् । उपास्मै (सा० ६५१-३) उपोषु जातमप्तुरं (सा० १३३५-७) पवस्व वाचो अग्रियः (सा० ७७५-७) पवस्वेन्दो वृषा सुतो-(सा० ७७८-८०) दविद्युतत्या रुचा ( सा० ६५४-६) एते असृग्रमिन्दवः (सा० ८३०-२) पवमानस्य ते वयम् (सा० ७८७-९) पवमानस्य ते कवे (सा० ६५७-९) इति चतुर्विंशम् । इतरत् सर्वं सप्तदश व्रतातिरात्रवत् ॥४॥
इति क्षुल्लकजामदग्न्यः सप्तरात्रः ॥ ३०॥


इन्द्रसप्तरात्रः
ज्योतिष्टोमोऽग्निष्टोमो गौरुक्थ्य (तां० ब्रा० २२. ८) इत्याद्यनुवाकेन इन्द्रसप्तरात्र उक्तः ॥
तस्य कल्पः --
ज्योतिष्टोमोऽग्निष्टोमो गौरुक्थ्य आयुरुक्थ्योऽभिजिदग्निष्टोमो विश्व
जिदग्निष्टोमः सर्वजिदग्निष्टोमः सर्वस्तोमोऽतिरात्रः । एकाहक्लृप्ताः ॥१॥
इति। सर्वजिदिति महाव्रतमुच्यते । एकाहग्रहणं सांवत्सरिकव्यावृत्त्यर्थम् ॥ १॥
इति इन्द्रसप्तरात्रः॥ ३१ ॥



जनकसप्तरात्रः
 
चत्वारि त्रिवृन्त्यहान्यग्निष्टोममुखानि । विश्वजिन्महाव्रतं ज्योतिष्टोमोऽतिरात्रः (तां० ब्रा० २२. ९) इत्यनुवाकेन जनकसप्तरात्र उक्तः । अग्निष्टोममुखानीति चतुर्षु प्रथममहरग्निष्टोमसंस्थम् । इतराण्युक्थसंस्थानीत्यर्थः। स्तोत्रक्लृप्तिमाह—
या देवानां पञ्चरात्रस्य प्रथमा सा जनकसप्तरात्रस्यानभ्यासक्ता ॥१॥ इति । उपास्मै गायता नर (सा० ६५१-३) उपोषु जातमप्तुरम् (सा० १३३५-७) पवमानस्य ते कवे (सा० ६५७-९) इति बहिष्पवमानम् । अग्न-आ नो मित्रायाहीन्द्राग्नी-(सा० ६६०-७१)त्याज्यानि । प्र सोमासो विपश्चित (सा० ७६४-६) इति गायत्रमाश्वं (ऊ० ६.२.१२) सोमसामे-(ऊ० १४.१.१३)ति सामतृचः। प्र सोम देववीतय ( सा० ७६७-८) इति यौधाजयं (ऊ० १.२.१३) तिसृषु । औशन(ऊ० १.१.४)मन्त्यम् । रथन्तरं (र० १.१.१) च वामदेव्यं (ऊ० १.१. ५) च नौधसं (ऊ० १.१.६) च कालेयं (ऊ० १. १.७) चेति पृष्ठानि । स्वादिष्ठये-( सा० ६८९-९१)ति गायत्र-संहिते (ऊ० १.१.८)। अया पवस्व देवयुः ( सा० ७७२ ) पवते हर्यतो हरिर् (सा० ७७३) इति सफ-(ऊ०१.२.१५)पौष्कले (ऊ० ९.२.२)। प्र सुन्वानायान्धसः (सा० ७७४) इत्यौदल-(ऊ० ११. २. ३)गौतमे (ऊ० १. २. १८)। काव-(ऊ० १.१. १३)मन्त्यम् । कावमेव तृचे । इतराण्याद्यासु। यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४) । सर्वं त्रिवृत् ॥ १॥
द्वितीयस्याह्नः स्तोत्रीयानुरूपौ पर्यासः । वृषा पवस्व धारये-(सा० ८०३-५)ति गायत्रं हाविष्मतम् (ऊ० ७.१.१) आजिगं ( ऊ० ११. २.१४ ) त एकर्चाः । पुनानः सोम धारये(सा० ६७५-६)ति त्रिणिधनमायास्यं तिसृषु (ऊ० २.१.१)। मौक्षस्य लोके स्वाशिरामर्कः (र० ३. १. १४)। औपगवस्य सौभरम् (ऊ० १.१.१६) ॥२॥

399
अहीनः--जनकसप्तरात्रः [अ. ७. ख. ३२]

समानमितरं द्वितीयेनाह्ना देवानां पञ्चरात्रस्य ॥३॥
इति। पवस्व वाचो (सा० ७७५-७) पवस्वेन्दो (सा० ७७८-८०) पवमानस्य ते वय-(सा० ७८७-९)मिति बहिष्पवमानम् । अग्निं दूत-(सा० ७९०-८०२)मित्याज्यानि । वृषा पवस्वे-(सा० ८०३-५)ति गायत्रं हाविष्मत-( ऊ० ७.१.१)माजिग-( ऊ० ११.२.१४ )मिति सामतृचः। पुनानः सोम धारये-(सा० ६७५-६)ति त्रिणिधनमायास्यं (ऊ० २. १. १) तिसृषु । वृषा शोण ( सा० ८०६-८) इति पार्थ-( ऊ० ७.१.६ )मन्त्यम् । बृहच्च (र० १.१.५) वामदेव्यं ( ऊ० १.१. ५) च श्यैतं (ऊ० २.१.३) च माधुच्छन्दसं (ऊ० २.१.४) चेति पृष्ठानि । यस्ते मदो वरेण्य ( सा० ८१५-७) इति गायत्रं च स्वाशिरामर्कः (र० ३.२.४)। पवस्वेन्द्रमच्छे-(सा० ६९२, ४)ति शङ्कु-(ऊ० २.१.६)सुज्ञाने ( ऊ० २.१.७)। अयं पूषा रयिर्भग (सा० ८१८-२०) इत्यासित-(ऊ० ११.२.२० ) क्रौञ्चे (ऊ० २.१.९ )। वृषा मतीनां पवते ( सा० ८२१-३) इति याम-( ऊ० २. १. १०)मन्त्यम् । याममेव तृचे । यज्ञायज्ञीयमग्निष्टोमसाम ( ऊ० १. १. १४ )। औशनं (ऊ० १.१.४) सौभर-(ऊ० १.१.१६)माष्टादंष्ट्र-(ऊ० २.१.१२)मित्युक्थानि। सर्वं त्रिवृत् ॥३॥
तृतीयस्याह्नः स्तोत्रीयानुरूपौ पर्यासः । उच्चा ते जातमन्धसः (सा० ६७२-४) इति गायत्रं क्षुल्लकवैष्टम्भं ( ऊ० २.१.१३) स्वारं सौपर्णं (ऊ० १०.१.१६) त एकर्चाः । अभि सोमास आयवः (सा० ८५६-८) इत्यन्तरिक्षं तिसृषु (र० १. १.६)। महावैष्टम्भस्य लोके श्रायन्तीयम् (ऊ० ५.२.९)॥१॥
समानमितरं तृतीयेनाह्ना देवानां पञ्चरात्रस्य ॥४॥
इति । दविद्युतत्या रुचा (सा० ६५४-६) एते असृग्रमिन्दवः (सा० ८३०-२) इषे पवस्व धारय (सा० ८४१-३) इति बहिष्पवमानम् । अग्निनाग्निः समिध्यत ( सा० ८४४-५५) इत्याज्यानि । उच्चा ते जातमन्धस ( सा० ६७२-४) इति गायत्रं क्षुल्लकवैष्टम्भं ( ऊ. २. १. १३) स्वारं सौपर्ण-(ऊ० १०. १. १९)मिति सामतृचः । अभि सोमास आयव (सा० ८५६-८) इत्यन्तरिक्षं (र० १.१.६) तिसृषु । तिस्रो वाच (सा० ८५९-६१) इत्यङ्गिरसां संक्रोशोऽन्त्यः ( ऊ० २. १. १७ ) । रथन्तरं (र० १.१.१) च वामदेव्यं (ऊ० १.१.५ ) च श्रायन्तीयं ( ऊ० ५. २. ९) च रौरवं ( ऊ० १.१.२ ) चेति पृष्ठानि । तिस्रो वाच उदीरत (सा० ८६९-७१) इति गायत्रं चाग्नेश्चार्कः (र० ४.२.३)। आ सोता परि षिञ्चत-सखाय आ निषीदते-( सा० ७७२-३ )ति वाचश्च साम (ऊ० २.२.१) शौक्तम् (ऊ० २.२.२) । सुतासो मधुमत्तमा (सा० ८७२-४) इति त्वाष्ट्रीसामनी स्वारंत्रिणिधने (ऊ० १५.२.१ , २.२.४ )। पवित्रं त (सा० ८७५-७) इत्यरिष्ट-(र० १.१.८)मन्त्यम् । अन्त्यमेव तृचे। यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १.१.१४)। प्रमँहिष्ठीयं (ऊ० २.२.५) हारिवर्णं (ऊ० २.२.६) तैरश्च्य-(ऊ० २.२.७)मित्युक्थानि । सर्वं त्रिवृत् ॥ ४ ॥
 
चतुर्थस्याह्नः स्तोत्रीयानुरूपौ पर्यासः । पवस्व दक्षसाधन (सा० ९१९-२१) इति गायत्रमदारसृत् (ऊ० ७. २. २) सत्रासाहीयम् (ऊ० १५. २. ९) त एकर्चाः । तवाहं सोम रारणे-(सा० ९२२-३)ति स्वःपृष्ठमाङ्गिरसं तिसृषु (ऊ० २. २. ११) । स्वाशिरामर्कस्य लोके गौषूक्तम् (ऊ० १६. १. ११)। लौशस्य दीर्घतमसोऽर्कः (र० ३. १. १०)। सौभरस्य त्रैककुभम् (ऊ. ६. १. ७) ॥ ५ ॥
समानमितरं चतुर्थेनाह्ना पञ्चशारदीयस्य ॥६॥
इति । पवमानो अजीजनत् (सा० ८८९-९१) पुनानो अक्रमीदभि ( सा० ९२४-६) हिन्वन्ति सूरमुस्रयः (सा० ९०४-६) इति बहिष्पवमानम् । अग्निर्वृत्राणि जङ्घनत् (सा० १३९६-८) अयं वां मित्रावरुण-इन्द्रो दधीचो अस्थभिः-इयं वामस्य मन्मनः (सा० ९१०-१८)

401
अहीनः--पृष्ठ्यस्तोमः सप्तरात्रः [अ. ७. ख. ३२]
 
इत्याज्यानि। पवस्व दक्षसाधनः (सा० ९१९-२१) इति गायत्रमदारसृत् (ऊ० ७.२.२) सहत्रासाहीय-(ऊ० १५.२.९)मिति सामतृचः । तवाहं सोम रारणे-(सा० ९२२-३)ति स्वःपृष्ठमाङ्गिरसं (ऊ० २.२.११) तिसृषु। उहु वा अस्ये-(सा० १३९९-१४०१)ति वासिष्ठ-(ऊ० ७.२.६) मन्त्यम्। बृहच्च (र० १.१. ५) वामदेव्यं (ऊ० १. १. ५) च । त्रैशोकं (ऊ० २.२.१३) च पृश्नि (ऊ० २.२.१४) चेति पृष्ठानि । परि प्रिया दिवः कवि-( सा० ९३५ )रिति गायत्रं च गौषूक्तं (ऊ० १६.१.११) च । त्वं ह्यङ्ग दैव्य-सोमः पुनान ऊर्मिणा (सा० ९४०-२ ) इति बृहत्क-(ऊ० २.२.१६)क्रोशे (ऊ० १५.२.११)। पुरोजिती वो अन्धस (सा० ६९७-९) इति नानदं (ऊ० २.२.१८) त्वाष्ट्रीसाम (ऊ० २०.२.१२) च । धर्ता दिवः (सा० १२२८-३०) इति दीर्घतमसोऽर्कोऽन्त्यः (र० ३.१.१०)। अन्त्यवर्जमेकर्चाः । यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १.१.१४) । सैन्धुक्षितं (ऊ० २.२.२०) त्रैककुभ-(ऊ० ६. १. ७)मुद्वंशीय-( ऊ० ६. १. ८)मित्युक्थानि । सर्वं त्रिवृत् ॥६॥
विश्वजिन्महाव्रतं ज्योतिष्टोमोऽतिरात्रः षोडशिमान् । एकाहक्लृप्ताः ॥७॥
इति । एकाहिको विश्वजित् पञ्चममहः । महाव्रतं ज्योतिष्टोमोऽतिरात्रः षोडशिमान् सप्तममहः । तस्याहीनिकी रात्रिः ॥७॥
इति जनकसप्तरात्रः ॥३२॥


 
पृष्ठ्यस्तोमः सप्तरात्रः
पृष्ठ्यः स्तोमः षडहो विश्वजिदतिरात्रः (तां० ब्रा० २२.१०) इत्यनुवाकेन पृष्ठ्यस्तोमः सप्तरात्र उक्तः। तस्य कल्पः –

एष एव षडहो य ऋतूनां समूढोऽनभ्यासक्तो बृहद्रथन्तरपृष्ठ्यः । चतुर्थस्याह्नः प्रत्यस्मै पिपीषित (सा० १४४०-३) इति गौरीवितं (ऊ० १६. १. १२) षोडशिसाम । षष्ठस्याह्नो रेवतीनां लोके दार्ढच्युतम् (ऊ० १६. १. १३) । विपरिहरत्यौक्ष्णोरन्ध्रे
(ऊ० ३. २. २, १) । विश्वजिदतिरात्रः ॥ १ ॥
इति । षट्पृष्ठसंयोगाभावाद्रेवतीनामुद्धारः । औक्ष्णोरन्ध्रयोर्व्यत्यासो बृहत्या इडारम्भणार्थः। पृष्ठ्यःषडहे तु रेवतीनामैडोक्ष्णोरन्ध्रस्य च संनिपाते जामिप्रसङ्गादिडारम्भणत्वमुपेक्षितम् ॥
विश्वजिदतिरात्रः सप्तममहः॥१॥
इति पृष्ठ्यस्तोमः सप्तरात्रः समाप्तः ॥ ३३ ॥


अष्टरात्रः
पृष्ठ्यः षडहो महाव्रतं ज्योतिष्टोमोऽतिरात्रः (तां० ब्रा० २२.११) इत्यनुवाकेन अष्टरात्र उक्तः। तस्य कल्पः --
एष एव षडहो य ऋतूनां समूढो वा व्यूढो वा ॥१॥
समूढस्त्वेव ॥ २॥
ऐकाहिकं व्रतम् । ज्योतिष्टोमोऽतिरात्रोऽषोडशिकः ॥३॥
इति । ऋतुषडवत् । समूढो वा व्यूढो वा नानापृष्ठः । प्रथमः षडहः । षष्ठेऽहनि रात्रिः । ऐकाहिकं व्रतम् । सप्तममहः । अषोडशिको ज्योतिष्टोमोऽतिरात्रोऽष्टममहः । तस्याहीनिकी रात्रिः ॥३॥
इति अष्टरात्रः ॥३४॥



403
अहीनः -- पशुकामस्य नवरात्रः [अ. ७. ख. ३६]
 
देवानां नवरात्रः
अथ द्वौ नवरात्रौ। तयोः प्रथमः पृष्ठ्यः षडहो ज्योतिर्गौरायुरतिरात्रः ( तां० ब्रा० २२. १२) इत्यनुवाकेनोक्तः । तस्य कल्पः --
एष एव षडहो य ऋतूनां समूढो वा व्यूढो वा ॥१॥
समूढस्त्वेव ॥२॥
ज्योतिर्गौरायुरतिरात्रः । एकाहक्लृप्ताः ॥ ३॥
इति। ऋतुषडहवन्नानापृष्ठः प्रथमः षडहः । ज्योतिष्टोमोऽग्निष्टोमः । सप्तममहः । गौरुक्थ्योऽष्टमः । आयुरतिरात्रो नवमम् । एते ज्योतिरादय एकाहक्लृप्ताः ॥३॥
इति देवानां नवरात्रः ॥ ३५ ॥


पशुकामस्य नवरात्रः
ज्योतिष्टोमोऽग्निष्टोमो गौरुक्थ्य आयुरुक्थ्योऽभ्यासङ्ग्यः पञ्चाहो विश्वजिदतिरात्रः (तां० ब्रा० २२. १३) इत्यनुवाकेन द्वितीयो नवरात्र उक्तः। तस्य कल्पः --
ज्योतिष्टोमोऽग्निष्टोमो गौरुक्थ्य आयुरुक्थ्यः। तस्यायुषः पुरोजिती वो अन्धस (सा० ६९७-९) इति श्यावाश्वमेकस्याम् (ऊ० १. १. ११)। आन्धीगवमेकस्याम् (ऊ० १. १. १२)। आकूपारमेकस्याम् (ऊ० १४. १.८)। बृहत्तिसृषु (र० २. २. ५) । बृहन्निधनं वार्कजम्भम् (र० ४. १. ८) ॥१॥
पृष्ठ्यावलम्बस्य पञ्चाहो विश्वजिदतिरात्रो विश्वजिदतिरात्रः ॥ २ ॥
इति । ज्योतिष्टोमोऽग्निष्टोमः प्रथममहः । गौरुक्थ्यो द्वितीयम् । आयुरुक्थ्यस्तृतीयम् । तस्यायुषः । पुरोजिती वो अन्धस (सा० ६९७-९) इति श्यावाश्व-(ऊ० १.१.११)मान्धीगव-(ऊ० १.१. १२)माकूपार-(ऊ० १४. १. ८)मिति सामतृचः। बृहत् (र० १. १. ५) तिसृषु। बृहन्निधनं वार्कजम्भ-(र० ४. १. ८)मिति विशेषः । ऐकाहिका एते। पृष्ठ्यावलम्बस्य पञ्चाहः । एष एव पच्चाहो य ऋतूना-( आ० क० ७. १२. ४ )मित्यादिनोक्तः । नवममहर्विश्वजिदतिरात्रः ॥२॥
इति पशुकामस्य नवरात्रः ॥३६॥

इति श्रीवामनार्यसुतवरदराजविरचितायाम् आर्षेयकल्पव्याख्यायां सप्तमोऽध्यायः ॥७॥