कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्/प्रश्नः ०४

← प्रश्नः ०३ कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्
प्रश्नः ०४
हिरण्यकेशिः/सत्याषाढः
प्रश्नः ०५ →

आनन्दाश्रमसंस्कृतग्रन्थावलिः ।
ग्रन्थाङ्कः ५३
महादेवकृतवैजयन्तीव्याख्यासमेतम्
आद्यप्रश्नषट्कात्मकं
सत्याषाढविरचितं श्रौतसूत्रम् ।
तत्र चतुर्थपञ्चमषष्ठप्रश्नात्मको द्वितीयो भागः ।
एतत्पुस्तकं
वे. शा. सं. रा. काशीनाथशास्त्री आगाशे इत्येतैः संशोधितम् ।
तच्च
हरि नारायण आपटे
इत्यनेन
पुण्याख्यंपत्तने आनन्दाश्रममुद्रणालये
   आयसाक्षरैर्मुद्रयित्वा प्रकाशितम् । शालिवाहनशकाब्दाः १८२९
ख्रिस्ताब्दाः १९०७
( अस्य सर्वेप्रधिकारा राजशासनानुसारेण स्वायत्तीकृताः ।)
मूल्यमाणकदशकाधिको रूपकः (१ः१०)

ॐतत्सद्ब्रह्मणे नमः
सत्याषाढविरचितं श्रौतसूत्रं
महादेवकृतवैजयन्तीव्याख्यासमेतम्


4.1 अथ चतुर्थप्रश्नप्रारम्भः। तत्र प्रथमः पटलः ।
ऐन्द्राग्नेन पशुना षाण्मास्ये षाण्मास्ये यजत आवृत्तिमुख आवृत्तिमुखे संवत्सरे संवत्सरे वा ।
सौर्यः प्राजापत्यो वा ।
तं व्याख्यास्यामः ।
सूर्यं ते चक्षुरिति षड्ढोतारं मनसाऽनुद्रुत्य सग्रहंꣳ हुत्वाऽन्वारम्भणीयामिष्टिं निर्वपति ।
आग्नावैष्णवमेकादशकपालम् ।
सिद्धꣳ संतिष्ठते ।
अपि वा चतुर्ग्रहीतमाज्यमाग्नावैष्णव्यर्चाऽऽहवनीये जुहोति ।
शेषमाज्यस्य करोति धारयत्याहवनीयम् ।
उरु विष्णो विक्रमस्वेति स्रुवेणाऽऽहवनीये यूपाहुतिं जुहोति ।।
आज्यशेषं स्रुवं चाऽऽदत्ते वक्ष्णे परशुं प्रयच्छति तद्गच्छन्ति यत्र यूपं छेत्स्यन्तो भवन्ति ।
पालाशः खादिरो बैल्वो रौहीतकश्च यूप्या वृक्षाः ।
पालाशं ब्रह्मवर्चसकामस्यान्नाद्यकामस्य वा खादिरꣳ स्वर्गकामस्य बैल्वं ब्रह्मवर्चसकामस्य रोहीतकं प्रजाकामस्य ।
त्र्यपरार्ध्या॑न्यूप्यान्वृक्षानतिक्रम्य।
य ऋजुरूर्ध्व ऊर्ध्वशकल ऊर्ध्वशाखा समे भूम्यै स्वाद्योने रूढः ।
यं कामयेताप्रतिष्ठितः स्यादित्यारोहं तस्मै वृश्चेद्यं कामयेतापशुः स्यादित्यपर्णं तस्मै शुष्काग्रं कामयेत पशुमान्स्यादिति बहुपर्णं तस्मै बहुशाखमशुष्काग्रम् ।
प्रतिष्ठितं प्रतिष्ठाकामस्य ।
यः प्रत्यङ्ङुपनतस्तं वृश्चेद्यः प्राङ्ङुदङ्वोपनतः ।
यस्य चर्जोः सत ईषदिवाग्रमुपनतम् ।
अत्यन्यानगामिति ।। १ ।। यं जोषयते तमुपतिष्ठते ।
देवस्त्वा सविता मध्वाऽनक्त्विति स्रुवेण गुल्फदघ्ने जानुदघ्ने वा पर्यणक्ति ।
ओषधे त्रायस्वैनमित्यूर्ध्वाग्रामोषधिमन्तर्दधाति स्वधिते मैनꣳ हिꣳसीरिति परशुना प्रहरति यः प्रथमः शकलः परापतति तमुपयच्छते ।
अनक्षसङ्गꣳ स्थाणुमुच्छिꣳषन्वृश्चति गुल्फदघ्नं वा ।
दिवमग्रेणेति प्राञ्चमुदञ्चं वा प्रहापयति ।
वनस्पते शतवल्शो विरोहेत्याव्रश्चने जुहोति सह- स्रवल्शा वि वयꣳ रुहेमेत्यात्मानं प्रत्यभिमृशति ।
यं त्वाऽयꣳ स्वधितिरित्यनुलोमं परशुनाऽङ्गान्कल्पयति ।
अच्छिन्नो रायः सुवीर इत्यग्रं परिवासयति ।
एकारत्निप्रभृतीनि ब्राह्मणव्याख्यातानि काम्यानि यूपप्रमाणानि तेषां याथाकामी ।
सहोपरेण संख्या स्यादा त्रयस्त्रिꣳशदरत्नेः ।
त्र्यरत्निर्वा चतुररत्निर्वा पालाशो निरूढ पशुबन्धस्य यूपोऽतोऽन्ये सौम्यस्याध्वरस्य ।
अष्टाश्रिं तक्ष्णोति नातिस्थूलं नात्यणुमतष्टमुपरम्।
पुरःपुरोणीयाꣳसं गोपुच्छं वा ।
तस्यैव वृक्षस्याग्रतश्चषालं करोति ।
अष्टाश्रिं पृथुमात्रं मध्ये संनतम् ।
यावदिदं प्रथममङ्गुलि काण्डं तावदूर्ध्वं चषालाद्यूपस्यातिरेचयति ।
अङ्गुलिमात्रं कनीयो वाऽङ्गुलेः ।
द्व्यङ्गुलं त्र्यङ्गुलं चतुरङ्गुलं वैतेषामेव तक्षणानाꣳ स्वरुं करोति ।
यं कामयेतान्योऽस्य लोकमभ्यारोहेदित्य- र्म्यवृक्षस्य स्वरुं चषालं च कुर्यात् ।
वेदं कृत्वाऽग्रेणाऽऽहवनीयम् ।। २ ।। रथमात्री वेदिं करोति ।
रथेषामात्रीं प्राचीꣳ रथाक्षमात्रीं पश्चात्तिरश्चीं विपथयुगमात्रीं पुरस्तादुदीचीम् ।
अपि वा षडरत्निं प्राचीं चतुररत्निं पश्चात्तिरश्चीं त्र्यरत्निं पुरस्तात्तिरश्चीमसंनता भवति ।
यत्प्रागुत्तरस्मात्परिग्राहात्तत्कृत्वा पूर्वार्धे वेदेर्यूपावटायावकाशमवशिष्य शम्ययोत्तरवेदिं विमिमीते ।
पुरस्तादुदीचीनकुम्बाꣳ शम्यां निधाय वित्तायनी मेऽसीति स्फ्येनोदीचीं लेखां लिखति ।
दक्षिणतःप्राचीनकुम्बां निधाय तिक्तायनी मेऽसीति दक्षिणतः प्राचीं पश्चादुदीचीनकुम्बां निधायावतान्मा नाथितमिति पश्चादुदीचीमुत्तरतः प्राचीनकुम्बां निधायावतान्मा व्यथितमित्युत्तरतः प्राचीमभ्यन्तरं परिलिखति ।
उत्तरेणोत्तरं वेद्यꣳसं प्रक्रमे चात्वालस्तं परिलिखत्यनेनैव कल्पेन यदन्यन्मन्त्रेभ्यः ।
देवस्य त्वेत्यभ्रिमादाय विदेरग्निर्नभो नामेति खनति ।
जानुदघ्नं त्रिवितस्तं वा खात्वा ।
अग्ने अङ्गिर इत्यभ्रिं प्रहरति ।
योऽस्यां पृथिव्यामिति पाꣳसूनपादत्ते ।
आयुषा नाम्नेहीति हरति ।
यत्तेऽनाधृष्टमित्युत्तरवेद्यां निवपति ।
एवं द्वितीयं हरत्येवं तृतीयम् ।। ३ ।।
यो द्वितीयस्यामिति द्वितीयमपादत्ते यस्तृतीयस्यामिति तृतीयं तूष्णीं चतुर्थम् ।
सिꣳहीरसि महिषीरसीत्युत्तरवेदिं करोति ।
उरु प्रथस्वेति प्रथयति ।
ध्रुवाऽसीति शम्यया सꣳहन्ति ।
देवेभ्यः कल्पस्वेति कल्पयति ।
देवेभ्यः शुन्धस्वेत्यद्भिः प्रोक्षति ।
देवेभ्यः शुम्भस्वेति सिकताभिरनु प्रकिरति ।
यत्ते क्रूरं यदास्थितमिति पुनरेवाद्भिरवोक्षति ।
उत्तरतो दक्षिणतो वा स्फ्येनैकस्फ्यां निःसार्यापो रिप्रं निर्वहतेत्यपाꣳ शेषं निनयति ।
विभ्राड्बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतम् । वातजूतो यो अभिरक्षति त्मना प्रजाः पिपर्ति बहुधा विराजतीत्युत्तरवेद्या अन्तान्कल्पयति ।
चतुःशिखण्डे युवती कनीने घृतप्रतीके भुवनस्य मध्ये । तयोर्देवा अधिसंवसन्त उत्तमे नाक इह मादयन्तामिति वेदिमुत्तरवेदिं च संमृशति ।
उत्तरवेद्यां मध्ये गोष्पदमात्रीमश्वशफमात्रीं प्रादेशमात्रीं वोत्तरनाभिं करोति ।
इन्द्रघोषस्त्वा वसुभिः पुरस्तात्पात्विति प्रदक्षिणमनुपरिक्रामन्प्रतिदिशमुत्तरवेदिं प्रोक्षति
त्वष्टा त्वा रूपैरुपरिष्टात्पात्वित्युपरिष्टात्प्रोक्षति ।
शेषं निनयति यथा पुरस्तात् ।
औदुम्बरशाखाभिश्छन्नां परिवासयति यदि श्वः कालः ।। ४ ।।
इति सत्याषाढहिरण्यकेशिसूत्रे चतुर्थप्रश्ने प्रथमः पटलः ।। १ ।।

4.2 अथ चतुर्थप्रश्ने द्वितीयः पटलः ।
आहवनीयेऽग्निप्रणयनान्यादीपयति ।
सिकताश्चोपयमनीररुपकल्पयते ।
उद्यच्छतीध्ममुपयच्छत्युपयमनीरुपयते धार्यमाणे ।
यत्ते पावक चकृमा कच्चिदागः पूर्वो यत्सन्न परो भवासि । घृतेन त्वं तनुवो वर्धयस्व मा मा हिꣳसीरधिगतं पुरस्तादिति शेषे जुहोति ।
अग्नये प्रणीयमानायानुब्रूहीति संप्रेष्यति प्रणीयमानायानुब्रूहीति वा ।
त्रिरनूक्तयाꣳ हरत्युत्तरवेदिं प्राप्य जुह्वां पञ्चगृहीतं गृहीत्वा हिरण्यमन्तर्धायाक्ष्णयोत्तरवेदिं व्याघारयति ।
सिꣳहीरसि सपत्नसाही स्वाहेति दक्षिणेऽꣳसे ।
सिꣳहीरसि सुप्रजावनिः स्वाहेत्युत्तरस्याꣳ श्रोण्याम् ।
सिꣳहीरसि रायस्पोषवनिः स्वाहेति दक्षिणस्याꣳ श्रोण्याम् ।
सिꣳहीरस्यादित्यवनिः स्वाहेत्युत्तरेऽꣳसे ।
सिꣳहीरस्यावह देवान्देवयते यजमानाय स्वाहेति मध्ये ।
भूतेभ्यस्त्वेति स्रुचꣳ हिरण्यं चोद्गृह्य ।
पौतुद्रवैः परिधिभिः परिदधाति ।
विश्वायुरसीति मध्यमं ध्रुवक्षिदसीति दक्षिणार्ध्यमच्युतक्षिदसीत्युत्तरार्ध्यम् ।
उपक्लृप्ताः संभारा गुग्गुलुसुगन्धितेजनं शुक्लोर्णास्तुका पेत्वस्यान्तराशृङ्गे या ।
तानग्नेर्भस्मासीति सकृदेवोत्तरनाभ्यां निवपति ।
ऊर्णावन्तं प्रथमः सीद योनिमित्युच्यमाने यज्ञ प्रतितिष्ठ सुमतौ सुशेवा आ त्वा वसूनि पुरुधा विशन्तु । दीर्घमायुर्यजमानाय कृण्वन्नथामृतेन जरितारमङ्धि यज्ञः प्रत्यष्ठादिति संभारेषु प्रतिष्ठापयति ।
अग्नेः कुलायमसीति दक्षिणत उपयमनीरुपनिवपति ।
मनुष्वत्वा निधीमहि मनुष्वत्समिधीमहि । अग्ने मनुष्वदङ्गिरो देवान्देवायते यजेत्युपसमिन्धे ।
अग्निर्यज्ञं नयतु प्रजानन्मैनं यज्ञहनोऽविदन् । देवेभ्यो यज्ञं प्रब्रूयात्प्रप्र यज्ञपतिं तिर स्वाहा वायुरादित्यो यज्ञो यज्ञं नयतु प्रजानन्मैनं यज्ञहनोऽविदन् । देवेभ्यो यज्ञं प्रब्रूतात्प्रप्र यज्ञपतिं तिर स्वाहेति चतसोऽतिमुक्तीर्हुत्वा ।
जुहूꣳ स्रुवं च संमृज्य चतुर्गृहीतेनाष्टगृहीतेन द्वादशगृहीतेन वा स्रुचं पूरयित्वा सप्त त इति पूर्णाहुतिं जुहोति ।। ५ ।।
एषोऽत्राऽऽहवनीयो यतः प्रणीयते स गार्हपत्यः ।
आहवनीयं गार्हपत्यं दक्षिणाग्निं चान्वाधायेध्माबर्हिराहरति ।
सप्तदश सामिधेन्यो न परिधीनिध्म उपसंनह्यति ।
अग्नीन्परिस्तीर्य पाणी प्रक्षाल्योलपराजीꣳ स्तीर्त्वा ।
यथार्थं पाशुकानि पात्राणि प्रयुनक्ति ।
स्फ्यमग्निहोत्रहवणीꣳ स्रुवस्वधिती द्वे जुहूवसाहोमहवनीं द्वितीयां द्वे चोपभृतौ पृषदाज्यधानीं द्वितीयां ध्रुवां द्वे आज्यस्थाल्यौ दधिधानीं द्वितीयां वेदं समवत्तधानीं द्वे रशने द्विगुणां द्विव्यायामां त्रिगुणां त्रिव्यायामां द्वे कार्ष्मर्यमय्यौ वपाश्रपण्यौ द्विशूलामेकशूलां च कुम्भीं हृदयशूलं प्लक्षशाखां स्वरुं मैत्रावरुणदण्डं यूपं यूपशकलपरणी येन चार्थः ।
पवित्रे कृत्वा यजमानवाचं यच्छेति संप्रेष्यति वाग्यतः पात्राणि संमृशति ।
प्रोक्षितेषु वाचं विसृजते ।
उत्तरं परिग्राहं परिगृह्य संप्रैषेण प्रतिपद्यत आ- ज्येन दध्ना चोदेहीति संप्रैषस्यान्तंꣳ संनमति ।
यत्प्रागाज्यनिर्वपणात्तत्कृत्वाऽऽज्यं निरूप्य दधिपृषदाज्यार्थं निर्वपति ।
तस्मिन्नाज्यधर्माः क्रियन्ते यदन्यदधिश्रयणात् ।
आज्यग्रहणकाले जुहूपभृतोश्चतुर्गृहीते गृहीत्वा तृतीयमाज्यस्य दधन्यानीय ।
ज्योतिरसि विश्वरूपं विश्वेषां देवानाꣳ समिदिति पञ्चगृहीतं पृषदाज्यं गृह्णाति महीनां पयोऽसीति वा ।
यथाप्रकृति ध्रुवायाम् ।
सन्नेष्वाज्येषु यूपसंमानेन प्रतिपद्यते ।
देवस्यत्वेत्यभ्रिमादाय परिलिखितमिति त्रिःप्रदक्षिणं यूपावटं परिलिखत्यर्धमन्तर्वेद्यर्धं बहिर्वेदि ।
परिलिख्याग्नीद्यूपावटं खनोपरसंमितं द्व्यङ्गुलेन त्र्यङ्गुलेन चतुरङ्गुलेन वोपरमति खनतादिति संप्रेष्यति ।
उपरमात्रं खात्वा ।। ६ ।।
यत्ते शिल्पः परावधीत्तक्षा हस्तेन वाश्या । आपस्ते तद्यज्ञियाः पुनन्तु शुचयः शुच इति यूपं प्रक्षालयति ।
यवमतीः प्रोक्षणीः कृत्वा पृथिव्यै त्वेति मूलं प्रोक्षत्यन्तरिक्षाय त्वेति मध्यं दिवे त्वेत्यग्रꣳ शुन्धतां लोकः पितृषदन इति यूपावटेऽपोऽवनयति ।
यवोऽसीति यवं प्रास्यति पितॄणांꣳ सदनमसीति प्राचा बर्हिषाऽवस्तृणाति ।
स्वावेशोऽसीति प्रथमपरापातितꣳ शकलमधस्तात्वक्कमवटेऽवदधाति घृतेन द्यावापृथिवी आपृणे- थाꣳ स्वाहेति हिरण्यमन्तर्धाय स्रुवेणाभिजुहोति ।
यूपायाज्यमानायानुब्रूहीति संप्रेष्यत्यज्यमानाया- नुब्रूहीति वाऽग्रेणाऽऽहवनीयं लौकिकेनाऽऽज्येन पुरस्तात्प्रत्यङ्तिष्ठन्यजयानो यूपशकलेनानक्ति ।
लौकिकेनेति ।
देवस्त्वा सविता मध्वाऽनक्त्वित्यग्रमैन्द्रमसीति चषालम् ।
सुपिप्पलाभ्यस्त्वौषधीभ्य इति चषालं प्रतिमुञ्चति ।
देवस्त्वा सविता मध्वाऽनक्त्वित्यान्तमग्निष्ठामश्रिमनक्ति ।
रशनादेशे त्रिः प्रदक्षिणं परिमृशति मध्ये वा ।
अनक्तमुपरम् ।
आञ्जनप्रभृति यजमानो यूपं नानु(न्)त्सृजत्यापरिव्ययणात् ।
यूपायोच्छ्रीयमाणायानुब्रूहीति संप्रेष्यत्युच्छ्रीयमाणायानुब्रूहीति वा ।
उद्दिवꣳ स्तभानान्तरिक्षमित्युच्छ्रयति ।
ते ते धामानीत्यवटेऽवदधाति ।
विष्णोः कर्माणि पश्यतेति द्वाभ्यां कल्पयत्यग्निनाऽग्निष्ठां सदिशं मिनोति ।। ७ ।।
यं कामयेत तेजसैनं देवताभिरिन्द्रियेण व्यर्धयेयमित्यग्निष्ठां तस्याश्रिमाहवनीयादित्त्यं वेत्त्थं वाऽतिनावयेत्तेजसैवैनं देवताभिरिन्द्रियेण व्यर्धयति यं कामयेत तेजसैनं देवताभिरिन्द्रियेण समर्धयेयमित्याग्निष्ठां तस्याश्रिमाहवनीयेन संमिनुयात् ।
अग्निं प्रत्युपनतं बहिष्ठे निर्णुनमनाविरुपरं संमिनोति ।
ब्रह्मवनिं त्वेति प्रदक्षिणं पुरीषेण पर्यूहति ।
ब्रह्मदृꣳहेति मैत्रावरुणदण्डेन परिदृꣳहति ।
उन्नम्भय पृथिवीमिति प्रदक्षिणमपोऽनु परिषिञ्चति ।
देवस्य त्वेति त्रिगुणां त्रिव्यायामां दार्वीꣳ रशनामादाय ।
इदं विष्णुर्विचक्रम इति सरशनेन पाणिना यूपं त्रिरुन्मार्ष्टि ।
तद्विष्णोः परमं पदमिति यूपस्याग्रं प्रेक्षते ।
यूपाय परिवीयमाणायानुब्रूहीति संप्रेष्यति परिवीयमाणायानुब्रूहीति वा ।
परिवीरसीति तया नाभिदेशे त्रिः प्रदक्षिणं परिव्ययति मध्ये वा ।
उत्तरमुत्तरं गुणं करोति ।
यं कामयेतोर्जैन ब्यर्धयेयमित्यूर्ध्वां वा तस्यावाचीं वाऽवोहेत् ।
यदि कामयेत वर्षुकः पर्जन्यः स्यादित्यवाचीमवोहेत् ।
यदि कामयेतावर्षुकः स्यादित्यूर्ध्वामुदूहेत् ।
यं कामयेत स्त्र्यस्य जायेतेत्युपान्ते तस्य व्यतिषज्य न प्रवेष्टयेद्यं कामयेत पुमानस्य जायेतेत्यान्तं तस्य प्रवेष्ट्य स्थविमदणीयसि प्रवयति ।
दिवः सानुरसीति स्वरुमादत्ते दिवः सूनुरसीति वा दिवः सानूपेषेति वाऽन्तरिक्षस्य त्वा सानाववगूहामीत्युत्तरेणाग्निष्ठां मध्यमे गुणे स्वरुमुपगूहत्युत्तमे वा ।। ८ ।।
इति सत्याषाढहिरण्यकेशिसूत्रे चतुर्थप्रश्ने द्वितीयः पटलः ।। २ ।।

4.3 अथ चतुर्थप्रश्ने तृतीयः पटलः ।
उपक्लृप्तः पशुरकूटोऽकर्णोऽकाणोऽखञ्जोऽखण्डोऽषण्ढोऽघृष्टोऽश्लोणोऽसप्तशफः पन्नदञ्छागो यमान्यतरो यूथ्यो मातृमान्पितृमान्भ्रातृमान्सखिमाꣳस्तꣳ स्नापयति ।
इषे त्वेति बर्हिषी आदत्ते । उपवीरसीति प्लक्षशाखाम् ।
इन्द्राग्निभ्यां त्वा जुष्टमुपाकरोम्युपो देवान्दैवीर्विशः प्रजापतेर्जायमाना इमं पशुं पशुपते त इति बर्हिर्भ्यां प्लक्षशाखया च पशुमुपाकरोति ।
प्रजानन्त इत्युपाकृत्य पञ्च जुहोति ।
पशुपतेः पशवो विरूपाः सदृशा उत । तेषां यं वव्रिरे देवास्तꣳ स्वराडनुमन्यतामिति वा मध्ये पञ्चमीं जुहोति ।
अग्नेर्जनित्रमसीत्यधिमन्थनशकलमादाया- परेणाऽऽहवनीयं बर्हिषि निदधाति ।
वृषणौ स्थ इति प्राञ्चौ दर्भौ शकलेऽवदधाति ।
उर्वश्यसीत्यधरारणिमादत्ते पुरूरवा इत्युत्तरारणिम् ।
घृतेनाक्ते इत्याज्यस्थाल्या बिलेऽनक्ति ।
आयुरसीति समवदधाति वृषणं दधाथामिति वा ।
अग्नये मथ्यमानायानुब्रूहीति संप्रेष्यति मथ्यमानायानुब्रूहीति वा ।
त्रिरनूक्तायां गायत्रं छन्दोऽनुप्रजायस्वेत्येतेस्त्रिः प्रदक्षिणमारभ्य यथासुखमत ऊर्ध्वं मन्थति ।
जातायानुब्रूहीति ।। ९ ।।
जाते संप्रेष्यति प्रह्रियमाणायानुब्रूहीति प्रह्रियमाणे ।
अग्नावग्निरिति प्रहृत्य स्रुवेणाभिजुहोति।
देवस्य त्वेति द्विगुणां द्विव्यायामां दार्भीꣳ रशनामादाय तस्य रशनान्तेन दक्षिणं बाहुमुन्मार्ष्टि।
ऋतस्य त्वा देवहविः पाशेन ऽऽभि इति दक्षिणे पूर्वपादेऽर्धशिरसि च प्रतिमुञ्चति ।
धर्षामानुषानिति पुरस्तात्प्रत्यञ्चमुदञ्चं वा यूपे नियुनक्ति ।
अद्भ्यस्त्वौषधीभ्यः प्रोक्षामीति प्रोक्षति ।
अपां पेरुरसीति पाययति ।
स्वात्तं चित्सदेवमित्यधस्तादुपोक्षति।
सामिधेनीप्रभृतीनि कर्माणि प्रतिपद्यते ।
आघारमाघार्य पशुꣳ समनक्ति ।
सं ते प्राण इति दक्षिणे ऽर्धशिरसि सं यजत्रैरङ्गानीत्यꣳसोच्चारे म यज्ञपतिमशिवेति भसाद ।
ध्रुवा समञ्जनप्रभृतीनि कर्माणि प्रतिपद्यते ।
प्रवरं प्रवृत्य ।
मैत्रावरुणाय दण्डं प्रयच्छति ।
अविक्षुरो विखुरो भूयासमित् प्रतिगृह्णाति ।
प्रयाजानूयाजेषु पशुपुरोडाशस्विष्टकृति वनस्पतौ पशुस्विष्टकृति च याज्यासप्रैषस्य प्रेषाः ।
तत्राध्वर्युराश्राव्य प्रत्याश्रावितेऽमुष्मै प्रेष्येति
मैत्रावरुणं प्रेष्यति स होतारं चोदयति।
समिद्भ्यः प्रेष्येति प्रथमं प्रयाजꣳ संप्रेष्यति प्रेष्य प्रेष्येत्युत्तरान् ।
चतुर्थे समानीयाष्टमे सर्वꣳ समानयते ।
दशेष्ट्वैकादशायाऽऽज्यमवशिष्य ।
घृतेनाक्ताविति जुह्वा स्वरुस्वधिती अनक्ति ।
द्विः स्वरुं सकृत्स्वधितेरन्यतरां धाराम् ।
शमितरेषा तेऽश्रिः प्रज्ञाताऽसदित्यक्तां धारामादिशच्छमित्रे स्वधितिं प्रयच्छति ।
यथास्थानꣳ स्वरुमवगुह्य ।। १० ।।
आहवनीयादुल्मुकमादायाऽऽग्नीध्रः परिवाजप- तिरिति पञ्च पर्यग्नि करोति पशुꣳ शामित्रदेशं चात्वालं यूपमाहवनीयं च त्रिः परिद्रवति ।
आज्यानि चेत्येकेषाम् ।
ये बध्यमानमनुबध्यमाना इति पर्यग्नौ क्रियमाणे त्रीण्यपाव्यानि जुहोति ।
आहवनीय उल्मुकं निधाय त्रिः पुनः प्रतिपर्येति ।
प्रमुच्य पशुमाश्राव्य प्रत्याश्रावित उपप्रेष्य होतर्हव्या देवेभ्य इति संप्रेष्यति ।
अध्रिगुꣳ होता प्रतिपद्यते ।
रेवतीर्यज्ञपतिं प्रियधाऽऽविशतेति बर्हिर्भ्यां वपाश्रपणीभ्यां प्लक्षशाखया च पशुमन्वारभेते यजमानोऽध्वर्युश्च ।
नानाप्राण इत्यध्वर्युर्यजमानमभिमन्त्रयते ।
प्रास्मा अग्निं भरतेत्युच्यमाने तदेवोल्मुकमादायाऽऽग्नीध्रः पूर्वः प्रतिपद्यते ।
उरो अन्तरिक्षेत्यन्तरेण चात्वालोत्करावुदञ्चो निष्क्रामन्ति ।
उत्तरेण चात्वालꣳ शामित्रदेशस्तस्मिन्नुल्मुकं निधायोत्तरेण शामित्रमतिक्रामति ।
उदीचीनाꣳ अस्य पदो निधत्तादित्युच्यमाने समस्य तनुवा भवेत्युपाकरणयोर्बर्हिषोरन्यतरत्प्रागग्रमुदगग्रं वा न्यस्यति तस्मिन्नेनं प्रत्यक्शिरसमुदीचीनपादं निघ्नन्त्यमायुं कृण्वन्तं संज्ञपयताच्छङ्क्यं प्रब्रूतादित्युक्त्वा ।
पराङावर्तते यजमानोऽध्वर्युश्च नानाप्राण इत्यध्वर्युर्यजमानमभिमन्त्रयते ।
इह पशवो विश्वरूपा रमन्तामग्निं कुलायमभि संवसानाः । अस्माꣳ अवन्तु पयसा घृतेन । । यासामूधश्चतुर्बिलं मधोः पूर्णं घृतस्य च । ता नः पयस्वतीः सन्त्वस्मिन्गोष्ठ ऋतावृध इति पृषदाज्यमवेक्षमाणौ वाग्यतावासाते यजमानोऽध्वर्युश्च ।
इन्द्रस्य भागः सुविते दधातनेमं यज्ञं यजमानं च सूरौ । यो नो द्वेष्ट्य त तꣳ रभस्वानागसो यजमानस्य वीरा इत्यध्वर्युः पशुमभिमन्त्रयते यदि रौति ।। ११ ।।
इति सत्याषाढहिरण्यकेशिसूत्रे चतुर्थप्रश्ने तृतीयः पटलः ।। ३ ।।

4.4 अथ चतुर्थप्रश्ने चतुर्थः पटलः ।
यत्पशुर्मायुमकृतेति संज्ञप्ते जुहोति ।
शमितार उपेतनेति संज्ञप्तमुपायन्ति ।
अदितिः पाशं प्रमुमोक्त्वेतमिति पशोः पाशं प्रमुच्यैकशूलयोपसज्ज्य चात्वालेऽवदधाति ।
अभिचरतोऽरातीयन्तमधरं कृणोमीति शुष्के स्थाणौ दर्भस्तम्बे वाऽभिनिदधाति ।
नमस्त आतानेति पत्न्यादित्यमुपतिष्ठते ।
अनर्वा प्रेहीति प्रतिप्रस्थाता पूर्णपात्रं धारयमाणां पत्नीमुदानयति ।
आपो देवीरिति चात्वालेऽपोऽवनयति ।
प्रतिषिद्धमेकेषाम् ।
एतेनैव सर्वे समुत्क्रम्य चात्वाले मार्जयन्ते ।
अध्वर्युरभिषिञ्चति पत्न्याप्याययति पत्न्यभिषिञ्चत्यध्वर्युराप्याययतीत्येकेषाम् ।
वाक्त आप्यायतामित्येतैर्यथारूपम् ।
नाभिस्त आप्यायतामिति नाभिं मेढ्रं त आप्यायतामिति मेढ्रं पायुस्त आप्यायता मिति पायुः शुद्धाश्चरित्रा इति संनिधाय पादाञ्छमहोभ्यामित्यनुपृष्ठꣳ शेषं निनयति ।
उत्तानं पशुमावृत्यौषधे त्रायस्वैनमित्युपाकरणयो- र्बर्हिषोरवशिष्टं दक्षिणेन नाभिं त्र्यङ्गुले त्र्यङ्गु- ले चतुरङ्गुले वा वपादेशे निदधाति ।
स्वधिते मैनꣳ हिꣳसीरिति स्वधितिना तिर्यगाच्छिनत्ति ।
छिन्नस्य तृणस्याग्रं पाणौ कृत्वा स्थविमल्लोहितेऽङ्क्त्वा रक्षसां भागोऽसीत्युत्तरापरमवान्तरदेशं निरस्याप उपस्पृश्य ।
देवेभ्यः शुन्धस्वेत्यद्भिः प्रोक्षति देवेभ्यः शुम्भस्वेति स्वधितिना वपां निमार्ष्टि ।
घृतेन द्यावापृथिवी प्रोर्ण्वाथामिति द्विशूलामेकशूलां च प्रच्छादयति ।
इन्द्राग्निभ्यां त्वा जुष्टामुत्कृन्तामीत्युत्कृन्तत्यच्छिन्नो रायः सुवीर इति वा।
मुष्टिना शमिता वपोद्ग्रहणमभिगृह्याऽऽस्त आवपाहोमात् ।
प्रत्युष्टमिति शामित्रे वपां प्रतितपति ।
नमः सूर्यस्य संदृशो युयोथा इत्यादित्यमुपतिष्ठते ।
श्रपणार्थमग्निमवशिष्य तदेवोल्मुक- मादायाऽऽग्नीध्रः पूर्वः प्रतिपद्यते ।
उर्वन्तरिक्षमिति गच्छति ।
वपाश्रपणी पुनरन्वारभेते यजमानोऽध्वर्युश्च ।। १२ ।।
उप त्वाऽग्ने दिवे दिव इति तिसृभिराहवनीयमुपायन्ति ।
उपसृष्ट उल्मुके प्रत्युष्टमित्याहवनीयस्यान्तिमेऽङ्गारे वपां निगृह्णाति ।
वायो वीहि स्तोकानामिति बर्हिषोऽग्रं प्रास्यत्यधस्ताद्वपाया उपास्यतीत्येकेषाम् ।
अन्तरा यूपमाहवनीयं च प्रतिप्रस्थात्रे वपां प्रयच्छति ।
दक्षिणत उदङ्ङासीनः प्रतिप्रस्थाता वपाꣳ श्रपयति ।
त्वामु ते दधिरे हव्यवाहमिति वपामभिजुहोति ।
प्रादुर्भूतेषु स्तोकेषु स्तोकेभ्योऽनुब्रूहीति संप्रेष्यति ।
श्येनीꣳ सुशृतां कृत्वा सुपिप्पला ओषधीः कृधीति दक्षिणस्यां वेदिश्रोण्यां प्लक्षशाखायां निदधाति ।
प्रद्युता द्वेषाꣳसीति वपाश्रपणी प्रवृहति ।
स्रुचौ होताऽऽदापयति घृतवतीमध्वर्यो स्रुचमास्यस्वेत्युच्यमाने जुहूपभृतावादायात्याक्र- म्याऽऽश्राव्य प्रत्याश्राविते स्वाहाकृतीभ्यः प्रेष्येति संप्रेष्यति वषट्कृते हुत्वा प्रत्याक्रम्य प्रयाजशेषेण पृषदाज्यमभिघार्य वपामभिघारयति [ द्विर्वपाꣳ सकृत्पृषदाज्यम्] ।
ध्रुवां वा प्रथमं यद्याज्यभागौ यक्ष्यन्भवति कृताकृतावाज्यभागौ ।
जुह्वामुपस्तीर्य हिरण्यशकलमवधाय कृत्स्नां वपामव- द्यत्युपरिष्टाद्धिरण्यशकलमवधायाभिघार्येन्द्राग्निभ्यां छागस्य वपाया मेदसोऽनुब्रूहीति संप्रेष्यति ।
आश्राव्य न प्रेष्यति मैत्रावरुणो होतारं चोदयति।
पुरस्ताद्वपाया होमात्स्वाहा देवेभ्य इति पूर्वं परिवप्यं जुहोति ।
जातवेदो वपया गच्छ देवानिति वषट्कृते वपां देवेभ्यः स्वाहेत्युत्तरम्।
प्रत्याक्रम्य स्वाहोर्ध्वनभसं मारुतं गच्छतमिति विषूची वपाश्रपणी प्रहरति प्राचीं द्विशूलां प्रतीचीमेकशूलाम् ।
सꣳस्रावेणाभिहुत्य ।
चात्वाले मार्जयन्ते ।। १३ ।।
आपो हि ष्ठा मयोभुव इति तिसृभिरिदमापः प्रवहता वद्यं च मलं च यत् । यच्चाभिदुद्रोहानृतं यच्च शेपे अभीरुणम् ।
अग्रिर्मा तस्मादेनसो विश्वा मुञ्चत्वꣳहसः ।
निर्मा मुञ्चामि शपथान्निर्मा वरुणादुत ।
निर्मा यमस्य पड्वीशात्सर्वस्माद्देवकिल्बिषादतो मनुष्यकिल्बिषादिति मार्जयित्वा ।
पशुपुरोडाशस्य पात्रसꣳसादनप्रभृतीनि कर्माणि प्रतिपद्यते यथार्थमौषधपात्राणि प्रयुनक्त्येकादश द्वादश वा कपालानि तैः सह शूर्पं कृष्णाजिनꣳ शम्यामुलुखलं मुसलं दृषदमुपलां कुटरुं पात्रीं मेक्षणं वेदं प्राशित्रहरणं प्रणीताप्रणयनमिडापात्रं च ।
निर्वपणकाले व्रीहिमयं पशुपुरोडाशं निर्वपति समानदैवतं पशुना ।
तस्य हविष्कृता वाचं विसृज्य पशुं विशास्ति ।
हृदयम् ।
जिह्वा ।
वक्षः ।
स्तनिम ।
मतस्ने ।
पार्श्वे ।
सव्यं दोः ।
दक्षिणा च श्रोणिः ।
दैवतानि ।
दक्षिणं दोः सव्या च श्रोणिः सौविष्टकृते ।
गुदः साधारणः ।
गुदं मा निर्व्लेषीः क्लोमानं प्लीहानं पुरीततं मेदः समवधातया इति संप्रेष्यति ।
न गुदं निर्व्लिषति न वनिष्ठुं निर्भुजति ।
अध्युद्धिं जाघनीं वनिष्ठुं चान्ववदधाति ।
यदन्यच्च मेध्यं मन्यते ।
कुम्भ्यां पशुꣳ समवधाय श्रपयति ।
शूलेन पार्श्वतो हृदयम् ।
ऊवध्यगोहं पार्थिवं खात्वा तत्र शकृत्संप्रविध्यति ।
शृते पशौ पशुपुरोडाशेन प्रचरति ।
जुहूपभृतोरुपस्तीर्यावदायाभिघार्य ।
इन्द्राग्निभ्यां पुरोडाशस्यानुब्रूहीति संप्रेष्यति ।
आश्राव्य न प्रेष्यति मैत्रावरुणो होतारं चोदयति ।
औपभृतं जुह्वां पर्यस्याग्नयेऽनुब्रूह्यग्नये प्रेष्येति संप्रेष्यति ।
प्राशित्रमिडा च क्रियेते प्राशितायां मार्जनं पिष्टलेपफलीकरणहोमौ प्रणीतासुमार्जनमुप- वेषोदसनं कपालविमोचनं च क्रियन्ते ।
तस्मिन्कृते जुह्वां पञ्चगृहीतं गृहीत्वा ।
पृषदाज्यस्रुवमादाय ।
शृतꣳ हवी३ः शमितरित्यभिक्रम्याभिक्रम्य त्रिः पृच्छति शृतमिति शमिता त्रिः प्रत्याह ।
उत्तरतः परिक्रम्य शूलाद्धृदयं प्रगृह्य कुम्भ्यामवदधाति ।
सं ते मनसा मन इति पृषदाज्येन हृदयमभिघारयति ।
स्वाहोष्मणोऽव्यथिष्या इत्यूष्माणमुद्यन्तमनुमन्त्रयते ।
यस्त आत्मा पशुषु प्रविष्ट इत्याज्येन पशुमभिघार्य ।
येन वपां तेन हृत्वा यत्र वपा तत्र पञ्चहोत्राऽऽसादयति ।
हृदयशूलं प्रज्ञातं निदधाति ।। १४ ।।
इति सत्याषाढहिरण्यकेशिसूत्रे चतुर्थप्रश्ने चतुर्थः पटलः ।। ४ ।।

४.५ अथ चतुर्थप्रश्ने पञ्चमः पटलः ।
जुहूपभृतोर्वसाहोमहवन्याꣳ समवत्तधान्या चोपस्तृणीते ।
जुहूपभृतोर्हिरण्यशकलाववधाय मनोतायै हविषोऽवदीयमानस्यानुब्रूहीति संप्रेष्यति ।
प्लक्षशाखायामक्तया धारया दैवतानां द्विर्द्विरवद्यति ।
हृदयस्याग्रेऽवद्यत्यथ जिह्वाया अथ वक्षस इत्येतेषामनुपूर्वमवदाय ।
यथाकाममुत्तरेषामवद्यति ।
पुरस्ताच्छ्रोणेर्गुदस्यावद्यत्युपरिष्टाद्वा।
गुदं द्वैधं करोति स्थवीय उपयड्भ्यो निदधाति ।
अणीयस्त्रैधं कृत्वा तस्य मध्यमं गुदकाण्डं द्वैधं विभज्य दैवतेष्ववद्यति ।
उपभृति महत्त्र्यङ्गयोरवद्यत्यवशिष्टयोश्च गुदकाण्डयोरन्यतरत् ।
त्रेधा मेदः कृत्वा यूषेऽवधाय तृतीयेन जुहूं प्रच्छादयति तृतीयेनोपभृतम् ।
समवत्तधान्याꣳ हृदयं जिह्वां वक्षः स्तनिममतस्ने
अवशिष्टं च गुदकाण्डं तृतीयं च मेदसो वनिष्ठुꣳ सप्तमं यदि शृतो भवत्यनस्थिभिरिडां वर्धयति ।
शृतमशृतं च पशुꣳ संनिधायैन्द्रः प्राण इति संमृशति ।
वसाहोमहवन्यां वसाहोमं गृह्णाति ।
श्रीरसीति स्रवन्तीं धाराꣳ स्वधितिना तिर्यगाच्छिनत्ति ।
सकृच्चतुरवदानस्य द्विः पञ्चावत्तिनः ।
आपः समरिणन्निति पार्श्वेन वसाहोमं प्रयौति स्वधितिना प्रयौतीत्येकेषां पार्श्वेनापिदधतीत्येकेषाम् ।
अत्रैक ऊष्मणोऽनुमन्त्रणꣳ समामनन्ति ।
यूषेणोपसिच्योपरिष्टाद्धिरण्यशकलाववधायाभिघार्य ।
इन्द्राग्निभ्यां छागस्य हविषोऽनुब्रूहीति संप्रेष्यति ।
आश्राव्य न प्रेष्यति मैत्रावरुणो होतारं चोदयति ।
घृतं घृतपावान इत्यर्धर्चे ।। १५ ।।
याज्यायाः प्रतिप्रस्थाता वसाहोमं जुहोति ।
वसाहोमोद्रेकेण दिशः प्रति यजति ।
दिश इति पुरस्तात्प्रदिश इति दक्षिणत आदिश इति पश्चाद्विदिश इत्युत्तरत उद्दिश इति मध्ये स्वाहेति सर्वत्रानुषजति ।
स्वाहा दिग्भ्य इति प्रदक्षिणमनुपरिषिञ्चति ।
नमो दिग्भ्य इति हुत्वोपतिष्ठते ।
अत्रैव तिष्ठन्पृषदाज्यस्रुवं जुह्वामानीय वनस्पतयेऽनुब्रूहि वनस्पतये प्रेष्येति संप्रेष्यति ।
औपभृतं जुह्वां पर्यस्याग्नये स्विष्टकृतेऽनुब्रूह्यग्नये स्विष्टकृते प्रेष्येति पशुस्विष्टकृति संप्रेष्यति ।
अत्रैवैके पशुसंमर्शनं दिशां प्रतीज्यामिति समामनन्ति ।
मेदोमिश्रमवान्तरेडामवद्यति ।
यं कामयेतापशुः स्यादित्यमेदस्कं तस्मा आदध्याद्यं कामयेत पशुमान्त्स्यादिति मेदस्वत्तस्मा आदध्यात् ।
उपहूतां मैत्रावरुणषष्ठाः प्राश्नन्ति ।
अध्युद्धिꣳ होत्रे हरति वनिष्ठुमग्नीधे षडवत्तꣳ संपादयति ।
प्राशितायां मार्जयित्वा ।
अग्नीदौपयजानङ्गारानाहरोपयष्टरुपसीद ब्रह्मन्प्रस्थास्यामः समिधमाधायाग्नीत्परिधीꣳश्चाग्निं च सकृत्सकृत्समृड्ढीति संप्रेष्यति ।
शामित्रियादाग्नीध्रोऽङ्गारानाहृत्योत्तरस्यां वेदिश्रोण्यां बर्हिर्व्यू(र्व्यु)ह्य न्युप्योपसमादधाति ।
प्रतिप्रस्थातरेतद्गुदकाण्डं तिर्यगसंभिन्दन्नेकादशधा सं छिद्य वसाहोमहवन्या हस्तेन वोपयजेति संप्रेष्यति ।
पृषदाज्यं जुह्वामानीय पृषदाज्यधानीमुपभृतं कृत्वा पृषदाज्येनैकादशानूयाजान्यजति ।
देवेभ्यः प्रेष्येति प्रथममनूयाजꣳ संप्रेष्यति प्रेष्य प्रेष्येत्युत्तरान् ।
चतुर्थप्रभृतिषु यजेति मैत्रावरुणेनोच्यमाने यज यजेत्यध्वर्युराहान्यत्र दशमात् ।
समुद्रं गच्छ स्वाहेति ।। १६ ।।
एतैः प्रतिप्रस्थाताऽनूयाजानाꣳ हुतꣳ हुतमुपयजति ।
उपयज उपेज्याद्भ्यस्त्वौषधीभ्य इत्युत्तरतो बर्हिषि लेपं निमार्ष्टि ।
मनो मे हार्दि यच्छेति हृदयदेशमभिमृशति ।
जुह्वा त्रिः स्वरुमङ्क्त्वा द्यां ते धूमो गच्छत्वन्तरिक्षमर्चिः पृथिवीं भस्मना पृणस्व स्वाहेति जुह्वाऽऽहवनीयेऽध्वर्युः स्वरुं जुहोति ।
वाजवतीप्रभृतीनि कर्माणि प्रतिपद्यते ।
सूक्ता प्रेष्येति सूक्तवाके संप्रेष्यति ।
प्रतिपरेत्य पत्नीः संयाजयति ।
जाघन्या देवानां पत्नीरग्निं गृहपतिं च यजत्याज्येनेतरौ ।
उत्तानायै जाघन्यै देवानां पत्नीभ्योऽवद्यति नीच्या अग्नये गृहपतये ।
उत्तानायै जाघन्यै होत्र इडामादधाति नीच्या अग्नीधे षडवत्तꣳ संपादयति ।
प्राशितायां जाघनीशेषं पत्न्यध्वर्यवे ददाति बाहुꣳ शमित्रे ।
तꣳ स ब्राह्मणाय ददाति यद्यब्राह्मणो भवति
यज्ञ यज्ञं गच्छ यज्ञपतिं गच्छेति जुह्वाऽऽहवनी- येऽध्वर्युस्त्रीणि समिष्टयजूꣳषि जुहोति ।
हृदयशूलेन प्रचरन्ति।
असꣳस्पृशन्हृत्वा शुगसि तमभिशोचेति शुष्कस्य चाऽऽर्द्रस्य च संधामुद्वासयति ।
यत्र चाऽऽर्द्रमनुगतं तदुपोप्तम् ।
धाम्नो धाम्न इत्युपतिष्ठन्ते ।
सुमित्रा न इति मार्जयन्ते ।
एधोऽस्येधिषीमहीत्याहवनीये समिधोऽभ्यादधति ।
अपो अन्वचारिषमित्याहवनीयमुपतिष्ठन्त एवं पत्नी गार्हपत्येऽभ्याधायोपतिष्ठते ।
सर्वपशूनामेष कल्पः ।
पशुः प्रातर्दोहविकारः कालसामान्यात् ।
तथाऽऽमिक्षा ।
आग्नेयैन्द्राग्नयोस्तद्विकारेषु चैतदविकृतम् ।
अग्नीषोमीये तद्विकारेषु चाऽऽश्ववालः प्रस्तर ऐक्षवी तिरश्ची कार्ष्मर्यमयाः परिधयोऽधिकाः पौतुदारवेभ्योऽमुष्मा अमुष्य वपाया मेदसः प्रेष्यामुष्मै पुरोडाशस्य प्रेष्यामुष्मा अमुष्य हविषः प्रेष्येति पशोर्दैवते संप्रेष्यति ।
ऐन्द्रे सारस्वत्यां तद्विकारेषु च दार्शपूर्णमासिकः प्रवरणकल्पः प्रचरणकल्पः ।। १७ ।।
इति सत्याषाढाहिरण्यकेशिसूत्रे चतुर्थप्रश्ने पञ्चमः पटलः ।। ५ ।।
इति हिरण्यकेशिसूत्रे चतुर्थः प्रश्नः ।। ४ ।।ꣳ


आनन्दाश्रमसंस्कृतग्रन्थावलिः।

ग्रन्थाङ्क: ५३

महादेवकृतवैजयन्तीव्याख्यासमेतम्

आद्यप्रश्नषडात्मकं

सत्याषाढविरचितं श्रौतसूत्रम् ।

तत्र चतुर्थपञ्चमषष्ठप्रश्नात्मको द्वितीयो भागः ।

एतत्पुस्तकं

वे.शा. सं. रा. “ काशीनाथशास्त्री आगाशे"

इत्येतैः संशोधितम्।

तच्च

हरि नारायण आपटे

इत्यनेन

पुण्याख्यपत्तने

आनन्दाश्रममुद्रणालये

आयसाक्षरैर्मुद्रायित्वा

प्रकाशितम् ।

शालिवाहनशकाब्दाः १८२९

ख्रिस्तान्दा: १९०७

( अस्य सर्वेऽधिकारा राजशासनानुसारेण स्वायत्तीकृताः।)

मूल्यमाणकदशकाधिको रूपकः (१=१०) पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/५ ॐ तत्सद्ब्रह्मणे नमः।

सत्यषाढविरचितं श्रौतसूत्रं

महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

अथ चतुर्थप्रश्नप्रारम्भः ।

तत्र प्रथमः पटलः । - हविर्यज्ञेषु नियतोपक्रमास्तु निरूपिताः ॥ दर्शाद्या इष्टिपर्यन्ताश्चत्वारोऽथ निरूप्यते । नित्याभ्यासः पशुः पूर्वमनित्याभ्यासकर्मतः । चातुर्मास्येभ्य एवैवं सौत्रामण्याश्च पूर्वतः ॥ प्रश्ने चतुर्थ ऐन्द्रानो निरूढो विकृतैः सह । सर्वेभ्यः कामेभ्यः पशुबन्धोऽपि विधीयमानो दर्शितो बौधायनेनार्थवाफक आप- स्तम्भेनान पक्षेषु प्रथमप्रश्ने प्रथम पटल एवाधिकारिनिर्णयो दर्शपूर्णमासवदेव वृत्तोऽ. तो न व्याख्यायते । अभ्यासचोदनायां यावज्जीवचोदनासमानाधिकारोऽपि तृतीय- प्रश्न आग्रपटल एवं वृत्तस्तस्मात्प्रयोगमेव व्याचष्टे-

ऐन्द्राग्नेन पशुना षाण्मास्ये षाण्मास्ये यजत आवृत्तिमुख आवृत्तिमुखे संवत्सरे संवत्सरे वा ।

इन्द्रानो देवते यस्य स तथा । पशुशब्देन च्छागोऽभिधीयते । छागस्य वाया इति लिङ्गात् । अनादेशे छाग इति बौधायनः । उत्पत्तिविधियं कालविधिश्च । फळतो जीवनं वा न विकल्पादूर्ध्व कर्म पशुव्यको यागः पशुशब्देनोच्यते । पशु बन्धाख्यं कर्मोच्यते पशुध्यते यस्मिन्निति । षण्मासा एव पाण्मास्यं समुदाये पदमु षट्स मासेषु व्यतीतेषु यत्र पर्वणि प्रथमः पशुबन्धस्तस्मात् । अत्रोदगयनमेव विशे. पानभिधानादनादेश उदगयनमिति वचनात् । वीप्सया कालावधेरभावाद्यावज्जीव- मिति गम्यते । आवृत्तिः सूर्यस्यायने इत्ययनयोर्मुखे संक्रान्त्यनन्तरपर्वणि केचिन्मुख इति संक्रान्त्यनन्तरदिन इत्याहुः । अत्राप्युदगयन एवाऽऽरम्भः । संवस्तरपक्षेऽपि तथैव । क. ख. च. छ. ट, दकफ। ५० सत्यापाढविरचितं श्रौतसूत्र- (चतुर्थप्रभे-

सौर्यः प्राजापत्यो वा ।

पशुरेषु कालेषु कर्तव्य इति शेषः । सूर्यदेवताकः प्रजापतिदेवताको वा पूर्वेग विकल्प एतयोः शाखान्तरीययोरुपक्रमनियमः कात्यायनेनोक्तः । सोऽस्माकमपीष्टः । त्रिविधं पशुपन्धम्-

तं व्याख्यास्यामः।

पश्चङ्गानि ज्योतिष्टोमाः संकीर्णानीति तान्युत्कृष्य संभूय निरूढ एवं व्याख्या- यन्त इत्यर्थः । यद्यपि सौमिकाग्नीषोमीयादिपशुष्षाध्वर्यवसामान्यमिह निरूदेऽतिदेशत एव प्राप्त तथाऽपि हौत्रस्यामन्ति स्वेत्यावरस्मच्छाखायो निरूद्ध ऐन्दान एवोपदेशा- सोऽपि प्रकृतिरिति सर्वाण्यतिविष्टान्यप्पावर्यवाण्यत्रैव ब्याख्यायन्ते । तानि पशुत्रये । समानानि यूपवेद्यादीनि चौपदेशिकानि यानि वैशेषिकाणि तान्यूह्यानि । सौर्यधानापत्ययो. रूमानीन्दाग्निभ्यां त्वा जुष्टमुपाकरोमात्यादीनि । एवं त्रयस्य व्याख्यानम् । अनोदपसा- नस्याविधानाद्गृहेष्वेव पशुबन्धः । गृहेविति कात्यायनः । दर्शपूर्णमासप्रकृतिवाच गृहेष्वेवान्यत्र पाशकं विहारं कल्पयित्वा कृतस्य पाइने सति संभवे ।

सूर्यं ते चक्षुरिति षड्ढोतारं मनसाऽनुद्रुत्य सग्रहंꣳ हुत्वाऽन्वारम्भणीयामिष्टिं निर्वपति ।

शरीररित्यन्तः षट्ठीतनामको मन्त्रस्तं मनसा पठित्वा वाचस्पत इति प्रहनामको मन्त्रः । ग्रहो मवतीति श्रुतेः । तमुपांशं पठित्वाऽन्ते होमस्तूष्णीकेनाऽऽज्येन समहमिति ग्रहस्तरसहकारी षोता होममन्त्रः । त्वाप्रत्ययेन पौर्वापर्यमुक्तं नाङ्गतेष्टिं प्रति । पशु- बन्धेन यक्ष्यमाणः षट्ठोतारं मनसाऽनुत्याऽऽहवनीये जुहुयादिति यक्ष्माण इति यागारम्भात्पूर्वोक्ता । तस्मादन्यं प्रणीयान्वारम्भणीयामिष्टिं निर्वपति । इदमेव प्रण: यनं प्रधानार्थ यः प्रधानार्थ प्रणीतस्तत्रैव तदकानि प्रधानस्यानिः सोऽमानामित्युक्त- त्यानस्वार्थ प्रणीते प्रधानमिष्टिस्तु प्रधानार्थ प्रणीत एक कार्या । अन्वारम्भणीया. शनेन वा प्रधानार्थस्यामेरवारम्भोऽनयेति तथा तेन धास्यत्याहवनीयमिति वक्ष्यमाण- मुपपद्यते । इदमेव चान्वारम्पणीयानामधेयप्रयोजनं नतु दर्शपूर्णमासान्वारम्भणीयाति- देशतः प्राप्त! तस्या बाधेनेय विधीयतेऽतोऽन्वारम्भणीयाकार्यकारणत्वादन्वारम्मणीया । सा चाऽऽरम्भनिमित्तेति चेत् । न । तथात्वे धारयत्यावनीयमिति न युक्तं स्यात्तस्माद- मिसंस्कारार्थेयम् । अत एवाऽऽपस्तम्बोऽन्यन्वाधानस्येयं प्रत्याम्नाय इति । तस्य मतेऽ- न्वाधानमग्निसंस्कारार्थमिति तस्य निवृत्तिरस्मन्मते देवतापरिग्रहाय वेष्टितो देवतापरि- ग्रहस्यामावास्क्रियते वाऽन्वाधानमपि । तथाऽन्वारम्मणीया यदीयमारम्भाङ्गं स्यात्त- दार इति वदेहितीयप्रयोगादौ तदा न प्राप्नुयादिप्यते च । ननु आरम्मनि- गण. सत्रि। २ ग. छ. ण, ते वाया। प्र०पटलः] महादेवकृतवैजयन्तीब्याख्यासमेतम् । मित्तातिदेशेनान्वारम्भणीयाऽपि प्राप्ता सा तर्हि केन निवार्यतामिति चेत्, न । अतो हि दर्शपूर्णमासयोर्नवान्वारम्भणीया दर्शपूर्णमासावपि त्वारम्मानिमित्ता नचाऽऽरम्मो दर्शपूर्ण मासौ । अथवा प्रथमप्रयोगाकंन च विकृत्यां प्रथमप्रयोगस्यातिदेशोऽपेलितोऽपि तु प्रथमद्वितीयसाधारणस्य प्रयोगस्य । न च प्रथमत्वेन साम्यात्प्रथमप्रयोगो विकृतर्भवेत्सा- न्वारम्भण इति वाच्यम् । तदा यातां विकृतीनां नियतः सांतल्येन प्रयोगस्तासां पश्चा- प्रयणघातुर्मास्यानामेव स्यान्नतु सर्वविकृतीनां, न हि सर्वविकृतीनां नैमित्तिककाम्याग- भूताना सातत्यप्रयोगोऽस्ति । न चासति तस्मिन्प्रयमप्रयोगता समवति । यदाऽनेकेषा- मेकदेव संकल्पस्तदा प्रपमद्वितीयादिविभागः । ननु सकृत्प्रयोगेऽपि फलस्य निमि- सस्य पोद्देशन संकरपेऽप्यारम्भशन्ददर्शनान्न प प्रथमारम्भ एवेति चेत् । सत्यम् । तथा सूत्रकृतः पुनर्नेष्टा न्यायेनापि न संगता । तथा हि-अस्ति च लिहून सर्पविकृतिजन्यारम्भणायेति यदयं सोमेऽभूतेषु पशुषु नान्वारम्भणीपेति पदत्येक मागभूना विष्टिवित्यपि यादतिदिष्टाया उमयत्रापि प्राप्तत्वात् । या तु निषिध्यते मा निरूदे दृष्टा । निरूतपशुबन्धेन कल्पो व्याख्यात इत्यग्नीषोमीये पशौ वक्ष्यति । सेन निरुतवत्प्राप्तिमाशङ्कय निषेधति नातष्विति भनेऽनीषोमीयादौ । तत्र चातु- मस्येिषु तान्यालभमान इति प्रकृत्य पञ्चहोतारं मनसाऽनुद्रुत्य साहं हुत्वाऽन्वारम्भ. जीयामिष्टि निर्वपतीत्युक्तम् । तत्राऽऽरम्भनिमित्तत्वान्मुख्यैवान्यारम्भणीया न तु दार्शपौर्णमासिकान्वारम्मणीयातिदेशमाप्त्यर्थोऽन्वारम्भगीयाशब्दो मुख्ये संभवत्य- मुख्पस्वीकारस्यान्याम्यत्वात् । तथा च सौत्रामणीवद्विविधाऽपि मुख्यैव पदि सस्याः स्थाने देवतान्तरं विधिसितं तदा फाल्गुन्यां चैयां वा वैश्व- देवेन यजते तत्रान्वारम्भणीयां वैश्वानरं द्वादशकपालं पानन्यं चरं निपेदिति लाघवेन ब्यानतु तान्यालममानस्येति प्रकृतित एव प्राप्तत्वानोपदेशः स्यात् । तस्मा- प्राप्ताऽन्वारम्भणीया तस्या निमित्तं कालं च पृषनिर्दिश्येष्टिमपूर्वामेव विधत्त इति पशौ नोक्तमेवं तेन तस्या अन्यत्कार्य पश्चिष्टेरन्यदिति ज्ञापयति । तत्रातिदेशेनान्या नेष्टा चातुर्मास्यविवात्रापि तथाऽऽअयगेष्टावपीति सूत्रतात्पर्यम् । अत्रोपपत्तिा-दर्श- पूर्णमासौ हि पशुचातुर्मास्यामपणेष्टीनां पूर्व तत्र कृताऽन्यारम्भणीया पुरुषसंस्कारः । स किं कर्तुर्यममानस्य मोक्तुळ विनाऽपि संस्कार कर्तृत्वसिद्धभोक्तुरिति वाच्यम् । सेन सा सकलप्रधानावेति सिध्यति । प्रधानं च यावज्जीवमनुष्ठीयमानम् । तपा दर्शपूर्णमासौ चिकीर्षन्प्रथमप्रयोगऽन्वारमणीयां कुर्यास्सा च प्रयोगाद्वहिरेव। तत्र कृता पावजीवमुत्पद्यमाने फलापूर्व स्वामिनं संस्करोति नतु प्रथमप्रयोगफळापूर्वमात्रे । नहि पूर्णमासमात्रेण फलापूर्वमुत्पद्यतेऽपि तु दर्शपूर्णमासाभ्याम् । न च पूर्णमासे कृता प्रथमं दर्शस्याङ्गं भवति । तस्मात्प्रयोगाद्वहिरेव पूर्णमासस्य प्रथमस्व संनिषावनुष्ठीय- माना । यथा दर्शानमेवं यावज्जीवं कृतका तणानुष्ठीयमाना भवति । नव काल. । सत्याषाढविरचितं श्रौतसूर्व-: [४ चतुर्थप्रश्ने- व्यवधान तत्र विस्टक वचनाद्यथा दर्श एवमुत्तरेषामपीति संतोष्टव्यम् । तथा च तन्त्रेण दर्शपूर्णमासयोरेवं प्रसङ्गेनेतरेषां यावज्जीवं ह्यन्वारम्भणी यापूर्व न समाप्यते तत्संस्कृते स्वामिनि पश्वादिविकृतीनामपि फलापूर्वमुत्पद्यतां वचनाच चातुर्मास्यफलापूर्वणापूर्वान्त- रापेक्षायामन्यारम्भणीयान्तरेऽपि न काचिदनुपपत्तिर्वचनं किं न कुर्यात् । युक्त्यन्तराणि दर्शपूर्णमासान्वारमणीयानिरूपण एव दर्शितानि । किंच प्रथमप्रयोगेऽपि न प्रयोगान्त:- पातिन्यन्वारम्भणीया । कथम् । भन्वारम्भणीया वैमृधश्च विकृती तत्र दर्शपूर्णमासी सर्वाकोपसहती पवाद्विकृतिभ्योऽतिदेशेना प्रयच्छतो नाप्समाप्तौ । यद्यन्वारम्भणी- यामृधौ गृहीतस्तदा प्रयोगः साङ्गः स्यात्तथाऽन्वारम्मणायामृधावुपकाराकाझी दर्शपूर्णमासातिदिष्टाः साङ्गौ सन्ता तदङ्गता प्राप्तोऽन सानोपकारस्य च दर्शपूर्ण- मासयोरद्याप्यसिद्धरुपकारद्वारा विकृतावङ्गग्रहणमतमञ्जसम् । अन्वारम्मणीयाशब्दोऽत्र व्युत्पन्नोऽन्वारम्यते पशुबन्धार्थोऽग्निरनयेति । इटि निर्वपति करोतीत्यर्थः कथं तत्राऽऽह-

आग्नावैष्णवमेकादशकपालम् । ।

निर्वपतीत्यनुकृष्यते । आग्नावैष्णवमन्वारम्भणीदेवतामेकादशकपालपुरोडाशद्रव्या- मिष्टिं कुर्यावित्यर्थः ।

सिद्धꣳ संतिष्ठते ।

दर्शपूर्णमासाम्यां सिद्धं यथा भवति तथाऽग्नीषोमीयविकारत्वेनेत्यर्थः । संतिष्ठते समाप्नोति । न दक्षिणा प्रधानदक्षिणयैवत्विना परिक्रयसिद्धेविशेषविधानामावाच.। यज्ञशं चेत्यपि नेति ज्ञयम् ।

अपि वा चतुर्ग्रहीतमाज्यमाग्नावैष्णव्यर्चाऽऽहवनीये जुहोति ।

इष्टिस्याने तूष्णी संस्कृतेनाऽऽज्येन चतुगृहीतेन जुहोति । आहवनीय इति दविहीं- मत्वेन प्राप्तेऽपि वचनं प्रधानार्थमुद्धृत एवं यथा स्यानत्वस्य त्यागेनान्यस्योद्धरणम् । प्रधानार्याग्निसंस्कारार्थे होम इष्ट्या समानकार्यत्वात्तस्याः संस्कार्यत्वमुक्तं तप्ते प्रातदोह इतिषत् । इष्टिहोमयोरपि संस्कारकत्वं कर्मस्वं च दीक्षणीयेष्टिवत् ।

शेषमाज्यस्य करोति धारयत्याहवनीयम् ।

इष्ठिहोमयोरन्यतरस्याऽऽज्यशेषं करोति यूपाहुत्यर्थम् । इयां होमे चाऽऽहवनी- यस्य प्रधानार्थमुवृत्तस्यैवागता शेष करोतीति वचनाच्छेपनाशे पुनमिनोत्पार्थ न किंतु प्रतिनिधिना कार्य नतु होमलोपे सति शेष इति । ५ १५०पठलः] महादेवकृतवैजयन्तीव्यास्यासमेतम् ।

उरु विष्णो विक्रमस्वेति स्रुवेणाऽऽहवनीये यूपाहुतिं जुहोति ।।

अत्राऽऽहवनीयग्रहणं यूपसमीपेऽरणीमधिते मा भूदिति कात्यायनीये मथितेऽपि तथाऽग्नोषोमीये विधानात् । दर्विहोमत्वेन जुहूपाप्तिनिवारणार्थ खुवेण जुहोतीतिश्श्रुतिप्राप्त- मुक्तम् । युपाहूतिसंज्ञकामाहुतिम् । सोमे दीक्षायपच्छेदेऽपूर्वेणाऽऽज्येन होमः । अन्वा- रम्मणीयाहोमयोरभावाच्छेषाभावात् ।

आज्यशेषं स्रुवं चाऽऽदत्ते तक्ष्णे परशुं प्रयच्छति तद्गच्छन्ति यत्र यूपं छेत्स्यन्तो भवन्ति ।

तदरण्यं गच्छन्ति ब्रह्मयजमानाध्वर्यवः । यत्र यूप्या वृक्षाः कृप्तास्तान्परि- कर्मिणस्तक्षा(स)वच्छेत्स्यन्तो भवन्ति । पचमन्यत् । परशु प्रयच्छतीति नाऽऽयो बहिरर्षे स्वीकृतो दर्शपूर्णमासयोः।

पालाशः खादिरो बैल्वो रौहीतकश्च यूप्या वृक्षाः ।

यूप्या यूपाहीं यूप्याः।

पालाशं ब्रह्मवर्चसकामस्यान्नाद्यकामस्य वा खादिरꣳ स्वर्गकामस्य बैल्वं ब्रह्मवर्चसकामस्य रोहीतकं प्रजाकामस्य ।

यूपं कुर्यादिति शेषः । एते सत्यां कामनायां तथा संकल्प्य कुर्यादन्यया नित्या एवोभयार्थाश्चैते । रोहितको वटसदृशः किंचित्सूक्ष्मपर्णः ।

त्र्यवरार्ध्या॑न्यूप्यान्वृक्षानतिक्रम्य।

यूपयोग्यान्वृक्षानतिक्रम्य । व्यवरायान , त्रयोऽवरोऽर्यो मागो)येषां ते वृक्षा- स्तथा ततोऽप्यधिकानप्यतिकम्य त्यक्त्वा ।

य ऋजुरूर्ध्व ऊर्ध्वशकल ऊर्ध्वशाखा समे भूम्यै स्वाद्योने रूढः ।

तं वृश्चेदिति वक्ष्यमाणेन संबन्धः । अवकोऽतिर्यगवृद्धो न वेष्टितशकल ऊ/- प्रशाख इति कमादर्थः । समे देशे भूम्यै भूमेः सकाशानतु पाषाणादौ रूढः । स्वाद्योनेः स्वीयोपादानान्नतु शाखायां रूढः । अत आपस्तम्बोपशाखजमिति प्रथम- काण्ड एवं रूद इति ।

यं कामयेताप्रतिष्ठितः स्यादित्यारोहं तस्मै वृश्चेद्यं कामयेतापशुः स्यादित्यपर्णं तस्मै शुष्काग्रं कामयेत पशुमान्स्यादिति बहुपर्णं तस्मै बहुशाखमशुष्काग्रम् ।

यं कामयतेति निन्दार्थवादस्तृतीयः काम्यः पक्षः । आरोहो वृक्षमारुदः शाखान इति यावत् । स्पष्टमन्यत् । १ ख. ग. ह. ण, वृषो न । - सत्यापाढविरचितं भौतसूत्रं- [ " चतुर्थप्रो-

प्रतिष्ठितं प्रतिष्ठाकामस्य ।

समे मूम्या इत्यादिनामणोको नित्यः काम्पवेत्यर्षः ।

यः प्रत्यङ्ङुपनतस्तं वृश्चेद्यः प्राङ्ङुदङ्वोपनतः ।

प्रामुखर्भ इत्यस्य विकस्पार्थ पक्षत्रये वा शब्दखिभिः संवन्ध्यते । उपनतो नम्रः ।

यस्य चर्जोः सत ईषदिवाग्रमुपनतम् ।

पूर्वममुख्य इत्यनयोधिन विकल्प उक्त हानी तयोरेव गुणान्तरं यः प्रत्यास. मना इस्पनेनोक्त इति ब्यारूपातुमेतत्सूत्रं प्रत्यक्कुपनतोऽय ईषदिवेति, तेनो मनुवं न बाधितमित्यर्थः। एवं रूपं वृश्चेच्छिन्पादिस्युक्तं तत्प्रकारमाइ-

अत्यन्यानगामिति ।। १ ।। यं जोषयते तमुपतिष्ठते ।

पज्यापा इस्पन्तः । ये यूप्यस्वेन प्रीतिकरं मन्यते तमुपतिष्ठते पूप्यं वृक्षमि. - वर्षः। मयमः

देवस्त्वा सविता मध्वाऽनक्त्विति स्रुवेण गुल्फदघ्ने जानुदघ्ने वा पर्यणक्ति ।

गुरुफः पादम्पिः । उरु नक्षयोः संधिर्मान सन्मितमघस्सात्यक्त्वाऽनन्तरे पेशे परितोऽनकि । हस्तव्यावृत्तये वेणेत्युक्तम् ।

ओषधे त्रायस्वैनमित्यूर्ध्वाग्रामोषधिमन्तर्दधाति स्वधिते मैनꣳ हिꣳसीरिति परशुना प्रहरति यः प्रथमः शकलः परापतति तमुपयच्छते ।

उपपळते स्थापयति । स्पष्टमन्यत् ।

अनक्षसङ्गꣳ स्थाणुमुच्छिꣳषन्वृश्चति गुल्फदघ्नं वा ।

अनक्षस वृश्चेदिति ब्राह्मणार्थमुच्छिषस्थाणमित्युक्तवान् । अक्षः शकटरष- पोस्तेन यथा स्पाणुन सज्जते तथा स्थाणुमवशेषपन्नित्येव गुल्फदान इति पूर्वोक्तन विकरुपः । छेदनदेशस्य देवस्त्वेति सूत्रेणाञ्जनस्थानमुक्तम् । तत्र प्रहारेण शकलं मामम् । अञ्जनस्थानं तु शकलार्थमित्यवगम्यते यूपच्छेदस्यानस्य पुनरुक्तत्वात् ।

दिवमग्रेणेति प्राञ्चमुदञ्चं वा प्रहापयति ।

पृषिच्या संभवेति मन्त्रान्तः । हापयति पातयति ।

वनस्पते शतवल्शो विरोहेत्याव्रश्चने जुहोति सह- स्रवल्शा वि वयꣳ रुहेमेत्यात्मानं प्रत्यभिमृशति ।

आवश्वनं स्थाणुः । जुहोति दविहोमधर्मेणाऽऽज्यशेषस्यैव । गतार्थमन्यत् । प... ज. स. म. स. "मुपापन" । १५०पटळ: ] महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

यं त्वाऽयꣳ स्वधितिरित्यनुलोमं परशुनाऽङ्गान्कल्पयति ।

सौभगायेत्यन्तः । महान्युपशाखा अनुलोममधस्तदारभ्योवं छेदनेन कश्पयति च्छिनत्ति ।

अच्छिन्नो रायः सुवीर इत्यग्रं परिवासयति ।

छिनत्ति यूपाग्रं मानेन यत्र यूपानं भवति तत्रैव । संस्कारोऽयम् । * अत एवं कात्यायनः (नेन) परिवास्याच्छेदनं पुनरिति पुन छेदनप्रतिषेधात् ।

एकारत्निप्रभृतीनि ब्राह्मणव्याख्यातानि काम्यानि यूपप्रमाणानि तेषां याथाकामी ।

स पत्पशना पक्ष्यमाण एकारकिं यूपं कुरुत इममेव तेन लोकं जयत्यय पद्य- राविमन्तरिक्षमेव तेन लोकं जयतीत्यादि वाजसनेयबाह्मणम् । पञ्चाधि लेनस्का- मस्येत्याधेकविंशत्यरविपर्यन्तानि स्वबामणव्याख्यातानि सानि काम्यान्येव पति कामेऽजीकार्याणि ।

सहोपरेण संख्या स्यादा त्रयस्त्रिꣳशदरत्नेः ।

उपरो भूमिखातं सदहः प्रदेशोऽतलो मूळ भागो यानाभूमिमध्ये गच्छति तेन सह यूपपरिमाणं वेदितव्यमा त्रयस्त्रिंशसंख्यापर्यन्तम् ।

त्र्यरत्निर्वा चतुररत्निर्वा पालाशो निरूढ पशुबन्धस्य यूपोऽतोऽन्ये सौम्यस्याध्वरस्य ।

ये पूर्वमविशेषेण यूपवृक्षा उका यानि युपमानानि तम्मध्ये म्यररिमचतुरस्निी पालाशो निरूतो नित्य ऐन्द्रानः सौर्यः प्राजापत्यो वा पशुबधस्तस्यान्यमानयुक्ता भन्यवृक्षमाश्च सौम्पयाध्वरस्यौग्निष्टोमप्रभृतेः । एवं हि श्रूयते स वा एष ध्यरनिक चतुररनिर्वा पशुरन्धयूपो भवतीति वाजसनेयकम् । तथा तत्रैव पालाशमेव पं कुधी- तेति नियमः।

अष्टाश्रिं तक्ष्णोति नातिस्थूलं नात्यणुमतष्टमुपरम्।

भष्टाश्रयो धारा यस्य तथा तक्ष्णोत्ये तक्ष्ण आनयनं दृष्टाः स्यात् । उपराई- प्रदेश न तणोति । स्पष्ट मन्यत् ।

पुरःपुरोणीयाꣳसं गोपुच्छं वा ।

उपरादूर्ष यावदनं किंचिस्किचिवणुपरिणाहं गोपुच्छरशं योपराय किंचिन्न्पून ततः किंचितस्थल ततः किंचित्किंचिदणुपरिणाहं तथैव गोपुच्छम् ।

  • अत एवेत्यसंगतम् ।

ग. ठ, ण, 'स्थामीषोम । सत्यापाढबिरचितं श्रौतसूत्र- [४.चतुर्थप्रो-

तस्यैव वृक्षस्याग्रतश्चषालं करोति ।

यस्य यूपस्तस्य वृक्षस्य चषालनामकं परिवासितादप्रभागादुपरितनस्यावशिष्टस्पा. वयवस्य नान्यवृक्षस्य । कथं कार्य (यस्त दाह-

अष्टाश्रिं पृथुमात्रं मध्ये संनतम् ।

अष्टावश्रयो धारा यस्य तत्त(स.त)या | पृथुराकुञ्चिताङ्गुलिकरस्य मणिबन्धमा- रम्याङ्गुल्यापर्यन्तं पृथुः । पृथुरूवों दशाङ्गुल इति बौधायनः । दशाङ्गुलं दी मध्ये सनतं पूर्वापरमागापेक्षया ।

यावदिदं प्रथममङ्गुलि काण्डं तावदूर्ध्वं चषालाद्यूपस्यातिरेचयति ।

तर्जन्याः प्रथमं पर्व तत्परिमाणं दीर्घ चषालादूल यूपस्याप्रमतिरिक्तं भवति तपो- मुखे चषाले कृतवेधे प्रवेशयाति ।

अङ्गुलिमात्रं कनीयो वाऽङ्गुलेः ।

यूपानं प्रवेशनीय स्थूलमङ्गुलिप्रमाणम् । ततोऽपि वा सूक्ष्म प्रतिमोचनं वक्ष्यति ।

द्व्यङ्गुलं त्र्यङ्गुलं चतुरङ्गुलं वैतेषामेव तक्षणानाꣳ स्वरुं करोति ।

एतेषामेव तक्षणानां तक्षणानितशकलानामन्यतरेणकेन अङ्गुलादिप्रमाणं स्वरना- मकं शकलं करोति ।

यं कामयेतान्योऽस्य लोकमभ्यारोहेदित्यर्म्यवृक्षस्य स्वरुं चषालं च कुर्यात् ।

निन्दार्थवादोऽयम् । अस्य यजमानस्य लोकं स्थानमन्यो भ्रातृव्योऽभ्यारोहत्यिति तेन तस्यैव वृक्षस्य कुर्यादित्यर्थः ।

वेदं कृत्वाऽग्रेणाऽऽहवनीयम् ।। २ ।। रथमात्रीं वेदिं करोति ।

वेः पूर्व वेदकरणं प्राप्तमेव क्रमार्थमनुवादः । आहवनीयग्रहणमतिदेशप्राप्तगाह । पत्मच्यावृत्त्यर्थम् । स्थमात्रीमित्युक्तं तयाचवे-

रथेषामात्रीं प्राचीꣳ रथाक्षमात्रीं पश्चात्तिरश्चीं विपथयुगमात्रीं पुरस्तादुदीचीम् ।

ईषादिप्रमाणं तु शुल्ने वक्ष्यति अष्टाशीतिशतमीषा तिर्यगक्षश्चतुःशत पडशीति- थुगमाहुरिति । युगस्य बाह्मच्छिद्रयोर्मध्यो विपश्वयुग आहवनीयप्राग्रेखामध्यात्प्राची- .व.क. स. म. द. एतस्यैव । १ प. २. ज. स. म द. 'न्यस्य वृ।। म. छ, ज, झ. म. द. खात्तिरथीम् । . १० पटले. ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । मष्टाशीत्युत्तरैकशताङ्गुलां पश्चाद्भागे दक्षिणोत्तरमानेन चतुरधिकं शतं प्राग्मागे . दक्षिणोत्तरमानेन षडधिकाशीतिरेवं प्रमाणां निरूढे वेदि कुर्यात् ।

अपि वा षडरत्निं प्राचीं चतुररत्निं पश्चात्तिरश्चीं त्र्यरत्निं पुरस्तात्तिरश्चीमसंनता भवति ।

वेदिशब्दः संस्कारानिमित्त इति प्रकृते वेदिशब्दाभिहिता ससंस्कारा प्राप्ता मध्ये सैनामोऽपि प्राप्तः स उपदेशेन निवर्त्यते न संनताऽसंनतेत्युभयोरपि । गतार्थमन्यत् ।

यत्प्रागुत्तरस्मात्परिग्राहात्तत्कृत्वा पूर्वार्धे वेदेर्यूपावटायावकाशमवशिष्य शम्ययोत्तरवेदिं विमिमीते ।

यदित्यनुवादश्चोदकप्राप्तस्योत्तरवैदिकालविधानार्थः । पूर्वार्धः पूर्वो मागस्तस्य प्राग्रेखामध्य एव यूपावटो यूपोच्छ्यणे खातं तदर्थमवकाशं स्थापयित्वा तस्य पश्चाच्छम्या मानेनोत्तरदिनामिकां वेदि विस्तारेण मितां करोति । संचरार्थमव- शिष्येत्यपि ज्ञेयं सूत्रान्तरे दर्शनाच्च । विमानप्रकारमाह-

पुरस्तादुदीचीनकुम्बाꣳ शम्यां निधाय वित्तायनी मेऽसीति स्फ्येनोदीचीं लेखां लिखति ।

वेदिमानं शम्यामात्रमेव । तत्र चिकीपिते स्थले पुरस्ता दाग उदीचीनं कुम्बमस्या- स्तादृशीं निधाय स्पयस्यायेणोदगपा शम्यामानेन लिखेदन्तरत इत्यग्रे वक्ष्यति । शम्यानं कुम्ब व्याख्यातं दर्शपूर्णमासव्याख्याने ।

दक्षिणतःप्राचीनकुम्बां निधाय तिक्तायनी मेऽसीति दक्षिणतः प्राचीं पश्चादुदीचीनकुम्बां निधायावतान्मा नाथितमिति पश्चादुदीचीमुत्तरतः प्राचीनकुम्बां निधायावतान्मा व्यथितमित्युत्तरतः प्राचीमभ्यन्तरं परिलिखति ।

शम्यां स्फ्येन लेखां लिखतीति पदचतुष्टयमावर्तते । यल्लिखति तदभ्यन्तरमिति तु पूर्वेण सह चतुभिः संबध्यते । उत्तरतो गमनमप्रदक्षिणं गतार्थमन्यत् ।

उत्तरेणोत्तरं वेद्यꣳसं प्रक्रमे चात्वालस्तं परिलिखत्यनेनैव कल्पेन यदन्यन्मन्त्रेभ्यः ।

यं परिलिखति स चावाल इति भाविनी संस्कारनिमित्ता संज्ञा । तस्य स्थानमुत्त- १५. ह. प. स.अ. . ण, खत्यतन । ५१ ४०२ सत्यापाढविरचितं श्रौतसूत्रं- [४ चतुर्थप्रभे- रेणोत्तरमागे वेदेर्महावेदेरंस ईशान्यकोणतस्योत्तरतः प्रक्रमो व्याख्यातस्तस्मिन्नतीते चावालस्य दक्षिणरेखामध्यो यथा परितो लिखति प्रागारम्य प्रदक्षिणशम्यानिधान- स्फ्यलेखाकरणादिना कल्पेन विधिना मन्त्रविधि विनाऽन्येन ।

देवस्य त्वेत्यभ्रिमादाय विदेरग्निर्नभो नामेति खनति ।

आदद इत्यन्तः । प्रकृतं चात्वालमेव सकृन्मन्त्रेण ।

जानुदघ्नं त्रिवितस्तं वा खात्वा ।

शम्यामानेन विस्तृतमघस्ताज्जानुदघ्नं जानुपरिमाणं वितस्तित्रयपरिमाणं वा खात्वेति वाप्रत्ययेन तावत्परिमाणमादौ खात्वा पश्चादुक्तं कार्यमाह ।

अग्ने अङ्गिर इत्यभ्रिं प्रहरति ।

खातायां मृदि प्रवेशयति ।

योऽस्यां पृथिव्यामिति पाꣳसूनपादत्ते ।

असीत्यन्तः । पासून्खातमृदं वा कात्यायनीय हस्तेन चेत्युक्तं सामर्थ्यात्स्फ्येन हस्तेन वाऽङ्गी करोति ।

आयुषा नाम्नेहीति हरति ।

पांनुत्तरवेदिप्रदेशं प्रति नयति । मन्त्रस्तावानेव ।

यत्तेऽनाधृष्टमित्युत्तरवेद्यां निवपति ।

स्वाऽऽध इत्यन्तः । विमिते देश उत्तरवेद्याश्चिकीर्षिताया निदधाति पासून् ।

एवं द्वितीयं हरत्येवं तृतीयम् ।। ३ ।।

एवं द्वितीयं तृतीयं च हरतीति लघुवाच्ये द्वितीये मन्त्रे यो द्वितीयस्यां पृथिव्या- मित्याद्यनुषको यथा स्यात्तृतीये तु सानुषङ्गः पाठस्तत्र विधिमात्रमतिदिश्यत इति । अत्र हरतीत्येतावदतिदिष्टं तत्त्वग्ने अङ्गिर इति विहरतीति श्रुतेः प्रहरणादि साङ्गं हरणं निर्दिष्टमिति प्रहरणाद्यपि ज्ञेयम् ।

यो द्वितीयस्यामिति द्वितीयमपादत्ते यस्तृतीयस्यामिति तृतीयं तूष्णीं चतुर्थम् ।

अग्ने अङ्गिर इति प्रहृत्य यो द्वितीयस्यामित्यादि हरणान्तं निवपनार्थत्वादर्थसिद्धं, निवपनं समन्त्रमेव, तथा तृतीय, चतुर्थं तु प्रहरणादि हरणान्त तूष्णीं तूष्णी निवप- नम् । कुतः । श्रुतिर्हि त्रिहरतीत्येतावदेव विधत्ते । सूत्रे तु निवयतीत्यन्तं व्याख्यात तत्र मन्त्रलिङ्गान्मध्ये मन्त्र विच्छिद्यार्थप्राप्ते नाना क्रियासु विनियोंगो व्याख्यातस्त्वत्र

  • सूत्रपुस्तकेषु एतत्सूत्रस्थाने 'एवं द्वितीय तृतीयं च हरति' इति पाठो विद्यते ।

१ च, छ, 'म्यामानेन । . १५०पटल:]: महादेवकृतवैजयन्तीव्याख्यासमेतम् । ४०६ श्रुतौ हरति(तिः)प्रापणार्थत्वेन निवपतिशब्देन व्याख्यातः । प्रापणं तु मृदो वहनपूर्व- कमिति स्वेन वहत्यर्थों हरतिर्मध्ये प्रयुक्त इति न विसंवादस्तथा चाऽग्ने अङ्गिर इत्या- रम्य निवपतीत्यन्त हरत्यर्थ एवं त्रिर्मत्रेण तूष्णी चतुर्थमिति सिद्धम् ।

सिꣳहीरसि महिषीरसीत्युत्तरवेदिं करोति ।

उत्तरवेदि वेदिश्चतुरश्रा लोकप्रसिद्धा शम्यामानेनापि चतुरम्मता च यावत्खातघा- त्वालपांसुमिरुच्छ्रितां करोतीति यावत् । तदेव व्यूहनं कात्यायनेनोक्तम् ।

उरु प्रथस्वेति प्रथयति ।

प्रथितां यावत्कृतशम्याभ्यन्तररेखाव्यापिनीं करोति । पारद्वानेनाप्युक्तं शम्यामात्री प्रपयतीति । यज्ञपतिः प्रथतामित्यन्तः ।

ध्रुवाऽसीति शम्यया सꣳहन्ति ।

संघहयति शम्यया ।

देवेभ्यः कल्पस्वेति कल्पयति ।

यथा विशीर्णा न स्यात्तथा समर्थयति प्रान्तलेपेन ।

देवेभ्यः शुन्धस्वेत्यद्भिः प्रोक्षति ।

मद्भिरित्युक्तं लौकिकीमिरेव ।

देवेभ्यः शुम्भस्वेति सिकताभिरनु प्रकिरति ।

वेदि सिकता मृत्पांसवस्तैरनपरिष्टात्कीर्णा युक्तां करोति ।

यत्ते क्रूरं यदास्थितमिति पुनरेवाद्भिरवोक्षति ।

शुन्धतामित्यन्तः प्रकरणान्तरान्तर्गतोऽप्यत्र शाखान्तरविहितः प्रतीकेनोपातः सामर्थ्याद्यावत्तियं गृह्यतेऽवोक्षणं तु न्युब्नेन करेण प्रोक्षणमुत्तानेन ।

उत्तरतो दक्षिणतो वा स्फ्येनैकस्फ्यां निःसार्यापो रिप्रं निर्वहतेत्यपाꣳ शेषं निनयति ।

उत्तरवेदेरित्यर्थीदवगम्यते तस्या एवं प्रकृतत्वाइक्षिणदेशे वोत्तरदेशे वा महावेद्या- मेव । एका स्फ्येन कृता रेखैकस्पया तो निःसार्य निःसरणमुदकशेषस्य यथा स्यात्तथा कृत्वाऽवोक्षणशेष निनयति । तस्यैव प्रकृतत्वात्प्रोक्षणस्य व्यवहितस्वात् । ययुच्चि- येत तार्ह निनयनमन्यथा नास्ति ।

विभ्राड्बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतम् । वातजूतो यो अभिरक्षति त्मना प्रजाः पिपर्ति बहुधा विराजतीत्युत्तरवेद्या अन्तान्कल्पयति ।

मृजलैर्लेपनेन दृढां करोति । १५.छ. ज. स. म. द. क्षतु म । । सत्याषाढविरचितं श्रौतसूत्र- [४ चतुर्थप्रभे-

चतुःशिखण्डे युवती कनीने घृतप्रतीके भुवनस्य मध्ये । तयोर्देवा अधिसंवसन्त उत्तमे नाक इह मादयन्तामिति वेदिमुत्तरवेदिं च संमृशति ।

द्विवचनेनोमयोः सकृन्मन्त्रेण ।

उत्तरवेद्यां मध्ये गोष्पदमात्रीमश्वशफमात्रीं प्रादेशमात्रीं वोत्तरनाभिं करोति ।

चतुरश्रामिति भरद्वाजादयः । नाभिसंज्ञकमवयवं करोति । तस्योच्छ्यस्तु नोक्तोऽ- तो यावताऽभिव्यक्तिस्तावत्येवोच्छ्रिता ।

इन्द्रघोषस्त्वा वसुभिः पुरस्तात्पात्विति प्रदक्षिणमनुपरिक्रामन्प्रतिदिशमुत्तरवेदिं प्रोक्षति

सामन्तत्वख्यापनाय प्रदक्षिणमित्युक्तम् । प्रतिदिशमनुपरिकामन्नुत्तरवेदि प्रोक्षति । दिरम्य एवैनां प्रोक्षतीति श्रुतेदिग्भ्यः सकाशादापः प्रोक्षणार्थाः प्रेरणीयास्ततस्तु पूर्व दिग्मागे स्थित्वा सर्वा वेदि प्रोक्षति । दक्षिणे स्थित्वा तथैवैवं पश्चात्तरतश्च तल्लिङ्गैः सर्वामपि प्रोक्षति । पारिवति द्वितीयादिण्वप्यनुषङ्गो मन्त्रेषु प्रकृतनाभिव्यु दासाथै वेदिमित्युक्तम् ।।

त्वष्टा त्वा रूपैरुपरिष्टात्पात्वित्युपरिष्टात्प्रोक्षति ।

शाखान्तरीयवाक्यशेषपाठेन पुनः प्रोक्षतीत्युक्तं वेदिमित्येव ।

शेषं निनयति यथा पुरस्तात् ।

प्रोक्षण्यपामेकरफ्यायां निनयति पूर्ववत् ।

औदुम्बरशाखाभिश्छन्नां परिवासयति यदि श्वः कालः ।। ४ ।।

इति सत्याषाढहिरण्यकेशिसूत्रे चतुर्थप्रश्ने प्रथमः पटलः॥१॥

छन्नामाछादितां परिवसति सा तादृशी करोति निर्व्यापारेण रात्रिं गमयतीति यावत् । सद्यस्काले पशौ छादनं निवर्तते वा साङ्गत्वात्तस्य । अनेन च पशुबन्धो खाहसाध्योऽध्यस्तीत्युक्तम् । तेन यजनीये चेत्सद्य एवान्यथा त्वसंपवादोपवमध्ये चेद्विकल्पः । चतुर्दश्यामुपक्रम्य पञ्चदश्यां यागः । अत एव तत्र तत्र वदति पूर्वस्य

  • सूत्रपुस्तकेषु तु उदुम्बरेति पाठः ।

१ग.. परिवासयति। २द्वि०पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ४०५ पर्वण औपवमध्येऽहनीति । चतुर्दश्यामन्त्राधाय सद्यो वा पञ्चदश्यां समानतन्त्रं दर्शन पूर्णमासेन वेत्यपि पूर्वमुक्तम् । तत्रापि द्यहकालोति वक्तुं यदि श्वः काल इत्युक्तम् । बौधायनोऽपीष्टिपशुबन्धाः सोपवसथाः सयो वेति । इति सत्यापाढहिरण्यकेशिसूत्रव्याख्यायां महादेवकृतायां प्रयोगवैज- यन्त्यां चतुर्यप्रश्ने प्रथमः पटलः ।। १ ।।


4.2 अथ चतुर्थप्रश्ने द्वितीयः पटलः ।

आहवनीयेऽग्निप्रणयनान्यादीपयति ।

अशिः प्रणीयते यैः काष्ठैस्तान्याहवनीय प्रज्वालयति । गार्हपत्यादेवार्थायार्थाय प्राप्त- मुद्धरणमपवदितुमाहवनीय इत्यक्तम् ।

सिकताश्चोपयमनीररुपकल्पयते ।

सिकता वालुका एवोपयमनीरुपयम्यते प्रदीप्तो याभिस्ता उपयमन्यस्ता यथोपयम- स्युस्तथा पात्रेण धृताः करोति । न च चकारादुपयमन्यो भिन्नाश्चेति वाच्यम् । उपयमनीरुपनिवपतीति सिकतानामेवोपवापयोग्यत्वाबद्दुत्वाच सिकता उप. 'यमनीः कृत्वेति भरद्वाजः । सिकतामिरुपयम्येत्यापस्तम्बः ।

उद्यच्छतीध्ममुपयच्छत्युपयमनीरुपयते धार्यमाणे ।

यान्यपि प्रणयनान्यांदीप्तानि तान्येव समुदायापन्नानीध्म इत्युच्यते । काष्ठान्येवेमो नतु संस्कारनिमित्त इति दर्शितम् । इध्ममग्निप्रणयनीयमित्येकत्वदर्शनेन नेमस्य संस्कारापेक्षा । इध्ममुपय(द्य)च्छति समूहीकृत्योर्ध्वमुस्लि( लिपति । उपयच्छति सिकताः शरावगृहीताः प्रदीप्तेध्मस्य संवरणार्थमुप समीपे यच्छत्यधस्ताद्धारयति त्ययोद्यम्यमानोऽग्निर्न विशीर्यताधस्ताच न पतेत्तेनोपयत उपयमनीमियमिते धार्यमाण इध्म उपरीत्यर्थः ।

यत्ते पावक चकृमा कच्चिदागः पूर्वो यत्सन्न परो भवासि । घृतेन त्वं तनुवो वर्धयस्व मा मा हिꣳसीरधिगतं पुरस्तादिति शेषे जुहोति ।

शिष्ट आहवनीय एव नतूद्धृते मन्त्रलिङ्गादित्यर्थः । दविहोमत्वात्स्वाहान्तो मन्त्रः । भपादानाय पावकाग्मय इदम् ।

अग्नये प्रणीयमानायानुब्रूहीति संप्रेष्यति प्रणीयमानायानुब्रूहीति वा ।

होतारमित्यर्थात्तुल्यवळत्याद्विकपः । ४०६ सत्यापाढविरचितं श्रौतसूर्च- [४ चतुमने-

त्रिरनूक्तायाꣳ हरत्युत्तरवेदिं प्राप्य जुह्वां पञ्चगृहीतं गृहीत्वा हिरण्यमन्तर्धायाक्ष्णयोत्तरवेदिं व्याघारयति ।

त्रिरनूक्तायां प्रथमायामिति ज्ञेयम् । ऊर्णावन्तं प्रथमः सीद योनिमित्यने वक्ष्यमां- णत्वान्न परिधानीयायां प्रथमायामित्येवाऽऽह मरद्वाजः । हरति तमग्निमुत्तरवैदिसमीप प्राप्येति पाठप्राप्तस्य पुनर्वचनं कात्यायनादिभिर्यदुक्तं पञ्चगृहीतं गृहीत्वाऽनिं प्रणय- तीति तन्मा भूदित्येवमर्थम् । जुहामिति वचनं जुहोतिबोदनामावे स्वाहान्तमन्त्रपाठेऽपि नं दर्विहोम इति स्पष्टयितुं हिरण्यं सुवर्णमन्तर्धाय यत्र यत्र व्याधारयति तत्र तत्रे. त्यर्थों नतु खुच्यवधानमन्तर्धानं हि स्थलाज्ययोर्मध्ये व्यवधानं कोणाकोणपर्यन्तं तु प्राङ्न्यायादिना।

सिꣳहीरसि सपत्नसाही स्वाहेति दक्षिणेऽꣳसे ।

नाम्यतिरिक्तोऽसस्तत्र नाभिलग्नकोणमारम्याग्निकोणपर्यन्तमक्ष्णयेति वचनादन्य. त्राप्येवम् ।

सिꣳहीरसि सुप्रजावनिः स्वाहेत्युत्तरस्याꣳ श्रोण्याम् ।

वायव्यकोणमारम्य नाभिवायव्यकोणपर्यन्तम् ।

सिꣳहीरसि रायस्पोषवनिः स्वाहेति दक्षिणस्याꣳ श्रोण्याम् ।

तकोणमारभ्य नामिकोणपर्यन्तम् ।

सिꣳहीरस्यादित्यवनिः स्वाहेत्युत्तरेऽꣳसे ।

नाभिकोणमारम्येशानकोणपर्यन्तम् ।

सिꣳहीरस्यावह देवान्देवयते यजमानाय स्वाहेति मध्ये ।

नामरतकोणमारम्वेशाननापिकोणपर्यन्तं तत्र तत्र हिरण्यान्तर्धानपूर्वकं सर्वत्रो तखेदिर्देवता तेम्य उत्तरवेदिरित्युपकन्य तस्मादुत्तरवाद पूर्वाभग्नाधारयन्तीति श्रुतेः ।

भूतेभ्यस्त्वेति स्रुचꣳ हिरण्यं चोद्गृह्य ।

उपयुक्तप्रतिपत्तिरतो विशेषनिर्दिष्टयोर्मन्त्रावृत्त्यैवोद्गृह्मोतिप्याप्राप्तत्वाद्विपिरनु- मेयः । य एव देवा भूता इत्याद्यर्थवादेन च देवतात्वं स्वाहाकारेण दानामावात् ।

पौतुद्रवैः परिधिभिः परिदधाति ।

पौतुदुर्देवदारुः । औदुम्बर इति केचित् । मानं वेदेर्यथा परिधीनां परस्पस्योगो यथा स्यात्तावन्मानम् ।

विश्वायुरसीति मध्यमं ध्रुवक्षिदसीति दक्षिणार्ध्यमच्युतक्षिदसीत्युत्तरार्ध्यम् ।

परिदधातीत्यनुकृष्यते । दृश्हेति मन्नान्तः । ४०७ द्वि०पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

उपक्लृप्ताः संभारा गुग्गुलुसुगन्धितेजनं शुक्लोर्णास्तुका पेत्वस्यान्तराशृङ्गे या ।

'पूर्वमेव संपादिताः संभाराः संधियतेऽग्नियस्ते । गुग्गुलुधूपपाठः । गुग्गुस्विति भाषा याम् । सुगन्धितेजनमिति तृणविशेषो यस्तिक्तत्वान्न पशुभिर्भक्ष्यते । शुक्ला चासा- पूर्णा स्तुका चेति स्तुका छिन्नारूढोर्णैव पेत्वस्य गतपुंस्कस्य भेषस्य शृङ्गयोर्मध्ये योत्पन्ना। पैत्वो वृष्णिरेवेति कात्यायनः । स्तुकामस्य च्छिन्नां छिन्नस्तुकस्येत्येकेषामिति भरद्वाजः।

तानग्नेर्भस्मासीति सकृदेवोत्तरनाभ्यां निवपति ।

तासंभारान् । मन्त्रेऽनेर्भस्मास्यग्नेः पुरीषमसीत्येकवचनश्रुतेर्गुम्गुरुवादिशः प्रत्येक मिन्नद्रव्यत्वात्प्रतिसंपारमाधाने मन्त्रदर्शनाच तथा प्राप्तमुक्तं सकृविति संभारशने नैव विधानादेकदव्यत्वादोर्खेत्पुरीषं यत्संभारा इत्येकवचननेन बहूनां सामानाधिकर. ण्यान्नाभ्यास इत्यर्थः ।

ऊर्णावन्तं प्रथमः सीद योनिमित्युच्यमाने यज्ञ प्रतितिष्ठ सुमतौ सुशेवा आ त्वा वसूनि पुरुधा विशन्तु । दीर्घमायुर्यजमानाय कृण्वन्नथामृतेन जरितारमङ्धि यज्ञः प्रत्यष्ठादिति संभारेषु प्रतिष्ठापयति ।

उच्यमाने होत्रा तं दीप्तमिध्मं न्युप्तेषु समारेषु प्रतिष्ठापयति मन्त्रेण ।

अग्नेः कुलायमसीति दक्षिणत उपयमनीरुपनिवपति ।

उपयमनीः सिकता अग्निसमीपे निवपति ।

मनुष्वत्वा निधीमहि मनुष्वत्समिधीमहि । अग्ने मनुष्वदङ्गिरो देवान्देवायते यजेत्युपसमिन्धे ।

अमिं काष्ठेन ।

अग्निर्यज्ञं नयतु प्रजानन्मैनं यज्ञहनोऽविदन् । देवेभ्यो यज्ञं प्रब्रूयात्प्रप्र यज्ञपतिं तिर स्वाहा वायुरादित्यो यज्ञो यज्ञं नयतु प्रजानन्मैनं यज्ञहनोऽविदन् । देवेभ्यो यज्ञं प्रब्रूतात्प्रप्र यज्ञपतिं तिर स्वाहेति चतसोऽतिमुक्तीर्हुत्वा ।

अतिमुक्तिसंज्ञिका आहुतीर्वायुर्यज्ञमित्यादि तथाऽऽदित्यो यज्ञमित्यादि मध्ययो. रप्यनुषङ्गेण स्वाहान्ताभ्यां मन्त्राम्यां दविहोमधर्मेण जुहोति ।

१ ग. प.क. ज. स. प. म. द. . 'शृङ्गीया । 2 ४०८ सत्यापाठविरचितं श्रीतसूत्र- [ ४ चतुर्थप्रो-

जुहूꣳ स्रुवं च संमृज्य चतुर्गृहीतेनाष्टगृहीतेन द्वादशगृहीतेन वा स्रुचं पूरयित्वा सप्त त इति पूर्णाहुतिं जुहोति ।। ५ ।।

अपूर्वत्वाद्धोमस्यापूर्व संमार्गविधानं, पूरयित्वेति वचनावादशगृहीतेनाष्टगृहीतेन चतुर्गीहोतेन वा यथा पूर्णा भवति तथा गृह्णातीत्युक्तम् । पूर्णया चाऽऽहुतिः पूर्णा- हुतिरितिसंज्ञानिर्वचनात् ।

एषोऽत्राऽऽहवनीयो यतः प्रणीयते स गार्हपत्यः ।

पत उत्तरवेद्यां प्रणीय पूर्णाहुत्यन्तेन संस्कृतः सोऽत्र पशुबन्ध एव नाग्निहोत्रहोम आहवनीयकार्यकरो यतः प्रणोयते सोऽत्र गार्हपत्यो नाग्निहोत्रे । तथा च कालेऽग्नि- होत्रं कर्तव्यं तत्रमध्येऽपि तच्च प्राकृतेष्वेव नतूतरवेविस्थे भरद्वाजेनात्र विकल्प उक्तः संस्थिते पशुबन्धे काले वेति, तन्निराकृतम् ।

आहवनीयं गार्हपत्यं दक्षिणाग्निं चान्वाधायेध्माबर्हिराहरति ।

अतिदेशप्राप्तस्यानुवादोऽयं क्रमार्थ परमतव्यदासार्थ च ।. अन्वाधान देवतापरि- महार्षमुक्तमिष्या देवतापरिग्रहसिद्धौ न वचनमस्ति तस्मान्नान्वाधानसिद्धिः । तथा च भरद्वाजः- -न पश्विष्टचामग्निं गृह्णीयादित्यपरमिति । दीक्षणीयायां हि वचनाद्देवताप. रिग्रहार्थता । प्रत्येकग्रहणं तु प्राजिहितेऽन्वाधानाभावप्रदर्शनार्थम् । इष्टयाऽऽन्वाधान. सिद्धिः सानाच्यविकारत्वाच्छाखाहरणं सूत्रान्तर उक्तं तन्मा भूदिति वक्तुमन्वाधाये. ध्माबहिरेवाऽऽनयति । द्रवद्रव्यं हि शाखया शोधनीयं न मांस तयाऽस्मिन्नविद्यमाने सह धर्मद्रव्यं निवर्तत इत्युक्तत्वात् । व्रतग्रहणपूर्वकं वेदस्य पूर्वमेव कृतत्वान्नाप्यत्र प्लक्षशाखाहरणं तस्य न प्रकृतशाखार्थेनार्थोऽपि तु विकृतावुपदेशनास्मरणार्थ ततस्तु बहिराहरणानन्तरमेवाऽऽनयति नतु तस्या आनयनविधिरस्ति बहिरर्थे विधानाना- मावात् । प्रायौगिकास्तूष्णीमानयन्ति आनयन एव वा प्राप्ते कुतस्तूष्णीमिति बर्हि । प्राकृतमेव नत्वग्नीषोमीयविकारत्वादिक्षुशलाके अपि ।

सप्तदश सामिधेन्यो न परिधीनिध्म उपसंनह्यति ।

वाचनिकं निरूढे सप्तदशत्वं विकृतौ तु विकल्प इत्येकः पक्ष उक्तोऽत्र तु निय. तमेव समिधो वर्धन्त इत्युक्तं परिधिकार्य पशौ ह्याग्निभ्रातृत्वसंस्तवाद्दृष्टार्थोऽयमुत्तरखे. दिसंस्कारस्तथाऽपि प्रसङ्गेन रक्षसामपघातलक्षणोऽदृष्टसंस्कारोऽप्येभिः कर्तुं शक्यते परिधिशब्देन विधानाच्चातोऽन्ये प्राकृता निवर्तन्ते । ततस्त्वां विशतिधेत्यूहः । त्रीपरिधोनिति लुप्यते । यज्ञायुरनुसंचरानित्युपवेषधृष्टिशब्दविवक्षया पुंस्त्वं तद्दर्शित- मेव पूर्वम् । १च. प्रकृ । . शव पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

अग्नीन्परिस्तीर्य पाणी प्रक्षाल्योलपराजीꣳ स्तीर्त्वा ।

चोदकप्राप्तानुवादः पदार्थकमार्थः । बहिराहरणानन्तरं वेदिकरणं तस्य जातत्वात् । यत्र परिस्तरणमुपवास इति क्रिया रात्रेः कालस्याभावेऽपि संस्कारलोपो नास्तीति- न्यायप्रदर्शनार्थ परिस्त रणानन्तरं पाणीप्रक्षालनमेव ।

यथार्थं पाशुकानि पात्राणि प्रयुनक्ति ।

अतिदेशप्राप्तौ चौषधपात्राणां प्रयोजनाभाव इति वक्तुं यथार्थमित्युक्तम् । यथार्थ प्रयुनक्ति पाशुकानि चेत्यर्थः ।

स्फ्यमग्निहोत्रहवणीꣳ स्रुवस्वधिती द्वे जुहूवसाहोमहवनीं द्वितीयां द्वे चोपभृतौ पृषदाज्यधानीं द्वितीयां ध्रुवां द्वे आज्यस्थाल्यौ दधिधानीं द्वितीयां वेदं समवत्तधानीं द्वे रशने द्विगुणां द्विव्यायामां त्रिगुणां त्रिव्यायामां द्वे कार्ष्मर्यमय्यौ वपाश्रपण्यौ द्विशूलामेकशूलां च कुम्भीं हृदयशूलं प्लक्षशाखां स्वरुं मैत्रावरुणदण्डं यूपं यूपशकलपरणी येन चार्थः ।

प्राकृतानि कपालशूर्पाजिनशम्यादिकं निवृत्तमौषधद्रव्याभावात् । खधिति पशो- पिंशसनशस्त्र, जुहु इति जुहूशब्दस्य न विसंज्ञा तथाऽपि जुहू इति निर्देश छान्दसो माषायां जुह्वाविति भवितव्यम् । दधिधानी द्वितीयामिति च प्रथमतो दध्येव यस्यां निरुप्यते तां दधिधानी मित्यर्थः । पृषदाज्यं यस्यां क्रियते सा च पृषदाज्यस्थाल्येव । समवत्तधानीमितीडापात्रं पाशुक, यूपशकलं तक्षणनातमञ्जनार्थम् । स्पष्टमन्यत् । येन चार्थः । येन सुवर्णशकलादिना । एवमन्यदपि ।

पवित्रे कृत्वा यजमानवाचं यच्छेति संप्रेष्यति वाग्यतः पात्राणि संमृशति ।

पवित्रकरणानन्तरं ब्रह्मन्प्रणेप्यामीत्येतदस्त्येव । वाजसनेयकबामणेन प्रणोता. प्रतिप्रसवस्य दर्शपूर्णमासयोयाख्यातमिति प्रणीताप्रणयनमामन्त्रणपूर्व के कार्यभेव । व्याख्यातं दर्शपूर्णमासयोरेव । स्पष्टमन्यत् ।

प्रोक्षितेषु वाचं विसृजते ।

हविकृता वाचं विमृनत होत कालाभावात्प्रोक्षितषु पात्रेषु । यज्ञमात्रेऽपि वाग्यतेन कर्तव्यपदार्थेषु प्राकृतेषु चोदकमाप्तेषु मध्येऽन्ये न सन्तीति प्रोसितेष्वित्युक्तम् ।

उत्तरं परिग्राहं परिगृह्य संप्रैषेण प्रतिपद्यत आज्येन दध्ना चोदेहीति संप्रैषस्यान्तंꣳ संनमति ।

स्फ्योदसनानन्तरं मोक्षणीरासादयेत्यादि सपानं, विशेष आभ्येनेत्येतस्यानन्तरं ५३ सत्यापाठविरचितं श्रौतसूत्र- [४ चतुर्थ- बधा चेति पदमूहनीयं, संनाम अहः । यथार्थमूह इत्यक्तमेव तथाऽपि मध्ये खुवं स्वधितिमिति मा भूदित्येवमर्थ श्रेषस्यान्तमित्युक्तम् । अयमभिप्राय:- यथा सुत्रः समाष्टीत्यत्र सुवस्यापि ग्रहणमेवमत्र अवग्रहणन स्वधितिग्रहणं सिध्यति दनः प्रदेयस्वाभावादाज्येन न साम्यमतोऽन्यस्मिंश्च द्रव्ये तेनार्थेन संयुज्यमाने धर्मावेश इति न प्राप्नुयात्तदर्थमुक्तं सनमतीति दर्शितम् ।

यत्प्रागाज्यनिर्वपणात्तत्कृत्वाऽऽज्यं निरूप्य दधिपृषदाज्यार्थं निर्वपति ।

प्राकृतपदार्थानन्तरं वैकृतस्य विनिवेशार्थ कमदर्शनं प्रैषानुपारेणाऽऽज्यनिर्वपणा- द्यत्प्राक्तत्कृत्वेति तत्र भुववत्स्वधितिसंमार्गोऽवदानसाधनवादाज्यनिर्वषणमात्रे सत्ये- वादितिरस्येति दधिस्थालीमादाय महीनामिति दधि निर्वपति । तस्य प्रयोजन पृषदाज्यार्थमिति पृषद्गणकमाऽयं तस्य संस्कारार्थमित्यर्थः । तेन नेदं हविरपि तु हविःसंस्कारकं तेन न दधिधर्माः सायंदोहाद्याः । यत्र हविः प्रदीयतेति वचनादत्र नाऽऽदिष्ट सामान्य मामिक्षा तथाऽपि चोक्तार्थ आज्यधर्माः। न तु(न) तस्मिन्न संस्कारा नहि दर्शपूर्णमालार्थाज्यस्थाने विधीयते(न्ते) येनाऽऽज्य- धर्माः स्युरिति तत्राऽऽह ।

तस्मिन्नाज्यधर्माः क्रियन्ते यदन्यदधिश्रयणात् ।

वाजसनेयित्राह्मणे हि भवति द्वयं वा इदं सपिः संमृष्टमाज्यं चेति धर्मप्राप्तिः स्वतन्त्रद्रव्यस्येवात उक्तं तस्मिन्नाज्यधर्माः क्रियन्त इति । तर्हि द्वयमप्यस्तु हविरिति न। पृषदाज्यभित्येकत्वं श्रुतेः । वदति च स्पष्टमेव कात्यायनः पशौ मन्त्रवर्णाच्छूते श्रेति पशौ स्वाहा देवा आज्यपानस्वाहेति । तथा पृषदाज्यं गृह्णातीत्येकवचनश्रुतेश्च न द्रव्यद्वयं पृषदाज्यमित्याज्यशब्दावान्यं संसृष्टं च दध्यपि तस्मादाज्यमेवैतत् । ननु द्वित्वश्रुतेरर्थवादत्वेन कुतः संस्कार प्राप्तिरिति चेन्न दध्यधिश्रयतीति वानसनेयिनामन्या श्रुतिरधिश्रयणं निषेधति । न ह्यप्राप्तं निषिध्यतेऽतोऽवश्यं धर्मप्राप्तिरिति । किं च येन संसृष्टेन हविरुत्पद्यते तदपि हविधर्मः संस्क्रियते यथा सायंदोहादि, संस्कृतेनैव दाऽऽमिक्षोत्पत्तिरिति अग्नावधिश्नयणे द्रव्यनाशान्न । अत एव दना चोदेहीति निगदान्तेः चोहः । न्यायमते तु न संस्कारः ।

आज्यग्रहणकाले जुहूपभृतोश्चतुर्गृहीते गृहीत्वा तृतीयमाज्यस्य दधन्यानीय ।

चतुर्गृहीतं प्रत्येकमाज्यस्य निरुतस्य तृतीयं भागनिर्देशासंस्कार्यमाज्यं ततीयमेव दधनीति गुणविभक्तेश्च । ५ क. च.ट हीत्वा । २द्वि०पटळ:]: महादेवकृतवैजयन्तीष्याख्यासमेतम् । ४११

ज्योतिरसि विश्वरूपं विश्वेषां देवानाꣳ समिदिति पञ्चगृहीतं पृषदाज्यं गृह्णाति महीनां पयोऽसीति वा ।

मन्त्रद्वयविधिना वा कृतमत्र या मन्त्रावृत्तिश्चान्यतरस्य ।

यथाप्रकृति ध्रुवायाम् ।

क्रमार्थमनुवादः ।

सन्नेष्वाज्येषु यूपसंमानेन प्रतिपद्यते ।

वेद्यास्तरणानन्तरं प्लक्षशाखास्तरणं दक्षिणोण्याम् । तथोक्तं कात्यायनीये बहिषि पक्षशाखा स्तृणाति यूपसंमानेनोपलक्षितं कर्म पूर्व च तत्करोतीत्यर्थः । तदाऽऽह-

देवस्यत्वेत्यभ्रिमादाय परिलिखितमिति त्रिःप्रदक्षिणं यूपावटं परिलिखत्यर्धमन्तर्वेद्यर्धं बहिर्वेदि ।

कृन्तामीत्यन्तः । अवट इ(मि)त्येकत्वात्सकृन्मन्त्री द्विस्तूष्णी, समन्तादिति वक्तुं. प्रदक्षिणमिति । यूपावटो यूपार्थे गस्तं मध्याद्यावान्खननायाऽऽतस्तावन्तं रेखयातित करोति । महाद्या यथार्धे खातस्य वेद्या बहिश्वार्धे यथा तथा परिलिखति । भत्र वेदिर्धिस्याङ्गत्वेन विधीयतेऽपि तु वेदिदेशो लक्ष्यते । तथा च द्यात्मके देशे खात इत्येवान्यथा देशविधाने वेदेरङ्गत्वविधाने वाक्यभेदः स्यादतो देशलक्षणा । तेन प्रांच्या यूपैकादशियां न वेद्याममिति फलम् ।

परिलिख्याग्नीद्यूपावटं खनोपरसंमितं द्व्यङ्गुलेन त्र्यङ्गुलेन चतुरङ्गुलेन वोपरमति खनतादिति संप्रेष्यति ।

समीयमानोऽवयव उपरशब्दवाच्योऽतस्तन्मानेऽवटे खाते ततोऽपि यशलायन्यत- ममानेनाधिको निम्नः । भग्नीद्यथाप्रैषं करोति ।

उपरमात्रं खात्वा ।। ६ ।।

अग्नीधपार्थ खात्वा ।

यत्ते शिल्पः परावधीत्तक्षा हस्तेन वाश्या । आपस्ते तद्यज्ञियाः पुनन्तु शुचयः शुच इति यूपं प्रक्षालयति ।

स्पटम् ।

यवमतीः प्रोक्षणीः कृत्वा पृथिव्यै त्वेति मूलं प्रोक्षत्यन्तरिक्षाय त्वेति मध्यं दिवे त्वेत्यग्रꣳ शुन्धतां लोकः पितृषदन इति यूपावटेऽपोऽवनयति ।

पवितक। . । ४१२ सत्यापाढविरचितं श्रौतसूत्र- [४ चतुर्थप्रश्ने- यवयुक्ताः प्रोक्षणामपः कृत्वा न संस्कारः। स्पष्टम् । शिषभूता अपोऽपटे' इत्येव भरद्वाजः।

यवोऽसीति यवं प्रास्यति पितॄणांꣳ सदनमसीति प्राचा बर्हिषाऽवस्तृणाति ।

यवप्राप्तनं बहिषाऽवस्तरणं च खात एव । उदगग्रत्वनिवृत्तये प्राचेति । यवोऽसी. त्यस्यारातीरित्यन्तः।

स्वावेशोऽसीति प्रथमपरापातितꣳ शकलमधस्तात्वक्कमवटेऽवदधाति घृतेन द्यावापृथिवी आपृणेथाꣳ स्वाहेति हिरण्यमन्तर्धाय स्रुवेणाभिजुहोति ।

स्वाहाकारान्तो मन्त्रोऽन्यशाखीयोऽस्मच्छाखायामिहाश्रवणात् । दविहोमस्वाज्जु- हप्राप्तौ सुवेणेति वचनादितरधर्मनिवृत्तिः । हिरण्यं शकलेऽन्तर्धाप तत्राभिहोम आग्य- स्थाच्याज्येन द्यावापृथिन्यौ देवते । वित्तादिति स्वावेश इत्यस्यान्तः ।

यूपायाज्यमानायानुब्रूहीति संप्रेष्यत्यज्यमानायानुब्रूहीति वाऽग्रेणाऽऽहवनीयं लौकिकेनाऽऽज्येन पुरस्तात्प्रत्यङ्तिष्ठन्यजयानो यूपशकलेनानक्ति ।

आध्वर्यवे याजमानविधानं विकल्पार्थ तथैव कात्यायनभरद्वाजाभ्यामुक्तम् । अमे. णाऽऽहवनीयं विद्यमान यूपं तस्य पुरस्तादागे प्रत्यङ्मुखस्तिष्ठन्यजमानो यूपशकलेन साधनेन हस्तेन ।

लौकिकेनेति ।

जातिवाचिशब्देनोभयमा गच्छति तत्राऽऽज्यं स्थालीगतं मा मूदिति लौकिकेनेत्यु: क्तम् । अञ्जनकर्मणः प्राकृत्वाभावादहोमत्वाच्च लौकिकेनेति गम्यते । होमस्तु यद्यप्य- यमप्राकृतस्तथाऽपि होमत्वेनाऽऽहवनीयाश्रयत्वेन च स्थाल्याज्येन । अञ्जनीयं कर्म न निर्दिष्टं तत्वयं चषालं चानक्ति चषालं प्रतिमुञ्चति स एवाधिकारात् ।

देवस्त्वा सविता मध्वाऽनक्त्वित्यग्रमैन्द्रमसीति चषालम् ।

अनक्तोत्यनुवर्ततेऽयं यूपस्य चषालं सर्वतः

सुपिप्पलाभ्यस्त्वौषधीभ्य इति चषालं प्रतिमुञ्चति ।

प्रतिमुञ्चत्यग्रे यूपस्यावदधाति । एतदन्नं याजमानमधवा प्रतिमोचनमध्वयोर्यजमानोऽ. नतीत्येव विधानादित ऊर्ध्व त्वञ्जनमध्यध्वयोरेव । यजमानमेव तेनसाऽनक्तीति यन- मामातिरिक्तस्य वाक्यशेष कर्तृत्वनिर्देशात् । ११. छ.ट. नवन । ख. ग. छठाण, 'बाविका। .. ! । . २वि पटलः ] महादेवकृतवैजयन्तीष्याख्यासमेतम् । ४१३

देवस्त्वा सविता मध्वाऽनक्त्वित्यान्तमग्निष्ठामश्रिमनक्ति ।

अन्तमभिव्याप्याऽऽन्तमग्निष्ठामाहवनीयसंमुखामधिं यूपस्य तामनक्ति । भनिमि. त्येव नोपरम् ।

रशनादेशे त्रिः प्रदक्षिणं परिमृशति मध्ये वा ।

यत्र रशनया परित्या तत्र यूपमध्ये वा।

अनक्तमुपरम् ।

करोतीति शेषः । पुनर्वचनं कात्यायनेनोक्तं सोपरममिष्ठादेशमङ्कवेति तन्मा भूदिति ।

आञ्जनप्रभृति यजमानो यूपं नानु(न्)त्सृजत्यापरिव्ययणात् ।

स्पष्टम् ।

यूपायोच्छ्रीयमाणायानुब्रूहीति संप्रेष्यत्युच्छ्रीयमाणायानुब्रूहीति वा ।

सष्टम्।

उद्दिवꣳ स्तभानान्तरिक्षमित्युच्छ्रयति ।

भवटाहिरेवोज़ करोति यूपमित्येव पृथिवीमुपरेण । दृश्हेत्यन्तः ।

ते ते धामानीत्यवटेऽवदधाति ।

यूपमित्येव भूरेरित्यन्तः ।

विष्णोः कर्माणि पश्यतेति द्वाभ्यां कल्पयत्यग्निनाऽग्निष्ठां सदिशं मिनोति ।। ७ ।।

सतमित्यन्ताभ्यां द्वापृश्य(भ्या)करुपयति यथास्थानम् । अग्निनाऽऽह्वनीयेनानि छेति या पूर्वमुक्ताऽतस्तां समानदिशमाहवनीयाभिमुखां मिनोति रोपयति ।

यं कामयेत तेजसैनं देवताभिरिन्द्रियेण व्यर्धयेयमित्यग्निष्ठां तस्याश्रिमाहवनीयादित्त्यं वेत्त्थं वाऽतिनावयेत्तेजसैवैनं देवताभिरिन्द्रियेण व्यर्धयति यं कामयेत तेजसैनं देवताभिरिन्द्रियेण समर्धयेयमित्याग्निष्ठां तस्याश्रिमाहवनीयेन संमिनुयात् ।

प्रथमोऽर्थवादो नित्यमग्निष्ठामश्रिमाहवनीयाभिमुखां कुर्यादिति विधेस्तादृशस्य काम- नायां संकल्पविधानार्थ द्वितीयं कामयतेति प्रथम आहवनीयात्सकाशादित्यं वेत्पं वाऽन्यविशं प्रति नावयेन्नृतं कुर्यादोषमुक्त्वा न तथा कुर्यादिति । 1 क. ग. च उ. ट. ४. च्याख्या त' । २ ५. सं. म. 'भानेत्यु' । ३ ख, ग, च, छ, द... द्वाभ्यो ।

सत्याषाढविरचितं श्रौतसूत्र- [४ चतुर्थप्रो-

अग्निं प्रत्युपनतं बहिष्ठे निर्णुनमनाविरुपरं संमिनोति ।

': अग्निमाहवनीयं प्रत्युपनतं ननं बहिमांगे निर्णतमनुतमनम्रपनाविरप्रगट उपरो यस्येति तादृशं संमिनोति सभ्यगवस्थापयति ।

ब्रह्मवनिं त्वेति प्रदक्षिणं पुरीषेण पर्यूहति ।

पुरोषेणावटखननमृदा परितः पूरयति । पहामीत्यन्तः ।

ब्रह्मदृꣳहेति मैत्रावरुणदण्डेन परिदृꣳहति ।

पुरोषं दण्डमूलेनाधस्ताद्गमयति यतीति यावत्पोषं दृश्हेत्यन्तः ।

उन्नम्भय पृथिवीमिति प्रदक्षिणमपोऽनु परिषिञ्चति ।

दृतिमित्यन्तः । खातमनु यूपस्य परितः प्रदक्षिणं सिञ्चति ।

देवस्य त्वेति त्रिगुणां त्रिव्यायामां दार्वीꣳ रशनामादाय ।

आदद इत्यन्तः । त्रिभिर्गुगैनिमिता दर्भमी प्रसारितयोहियोर्मध्ये यावान्विस्तार- स्तत्प्रमाणाम् ।

इदं विष्णुर्विचक्रम इति सरशनेन पाणिना यूपं त्रिरुन्मार्ष्टि ।

गृहीतरशनायुक्तेन हस्तेनोवं सकृन्मन्त्रेण द्विस्तूष्णी माटें । सुर इत्यन्तः ।

तद्विष्णोः परमं पदमिति यूपस्याग्रं प्रेक्षते ।

चपालादधिकमूर्ध्वस्थितम् ।

यूपाय परिवीयमाणायानुब्रूहीति संप्रेष्यति परिवीयमाणायानुब्रूहीति वा ।

स्पष्टम् ।

परिवीरसीति तया नाभिदेशे त्रिः प्रदक्षिणं परिव्ययति मध्ये वा ।

मनुष्या इत्यन्तः । वेष्टयति नाभिपरिमिते देशे यूपं मध्ये यूपस्य वा ।

उत्तरमुत्तरं गुणं करोति ।

वेष्टयन्प्रथमवेष्टनादुपरि द्वितीयं तदुपरि तृतीयं गुणं रशनावेष्टनस्य ।

यं कामयेतोर्जैनं व्यर्धयेयमित्यूर्ध्वां वा तस्यावाचीं वाऽवोहेत् ।

यजमानमूर्जा वियोगं नयेयमिति योऽध्वर्युः कामयेत तस्य यजमानस्य यूपरशनाना- भिदेशे भध्ये वा परिवीतामा सादयेदधस्ताद्वा प्रतिषेधार्यमवाद(वाहन())मनेकॉर्थ- मित्यर्थः। १ क. ज. दिष्ठां नि । स. 'हिंष्टौ नि । ग. म. ठ. ण. 'हिंछो नि । इ. ट. हिष्टान्नि । चछ, द, विष्टानि । झ. हिष्टां नि । २. र. ज... उ.द.मि...म. ब, नाभिदन्ने । ४ प्र.ठ, ण, 'मर्थवा'। ५ ग, ८. ण, कार्थः । स्तृ०पट:] . महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

यदि कामयेत वर्षुकः पर्जन्यः स्यादित्यवाचीमवोहेत् ।

सत्यां कामनायामेव तथा संकल्प्याधस्ताकुर्यान्नान्यथा । वर्षको दृष्टिप्रदानशीलः ।

यदि कामयेतावर्षुकः स्यादित्यूर्ध्वामुदूहेत् ।

अवृष्टी सत्यां पूर्ववदेव ।

यं कामयेत स्त्र्यस्य जायेतेत्युपान्ते तस्य व्यतिषज्य न प्रवेष्टयेद्यं कामयेत पुमानस्य जायेतेत्यान्तं तस्य प्रवेष्ट्य स्थविमदणीयसि प्रवयति ।

अस्य यनमानस्य रूपपत्यं भवस्विति यः कामयतेति निन्दया न तथा कार्यमि- स्यर्थः । उपान्ते यूपे त्रिवेष्टितरशनायाः कृतग्रन्थे? मूलाग्रभागाववशिष्टौ तयोरुपान्ते द्वयोर्वेष्टनमकृत्वा परस्परं चाभी मेलयित्वोत्सर्गो व्यनिषङ्गः स न कर्तव्य इत्यर्थः । शास्त्रान्तरप्रसस्य निन्दयोत्तरस्तुतियं कामयेत पुमानस्येत्येतन्नित्यं काम्यं चैतत् । प्रवे- ष्टनमेकैकस्य प्रत्येक ततोऽवशिष्टान्तौ स्थविमदणीयसि प्रवयति स्थविष्ठं स्थूलं भाग मूलभागमणियास सूझे प्रवेशयति ।

दिवः सानुरसीति स्वरुमादत्ते दिवः सूनुरसीति वा दिवः सानूपेषेति वाऽन्तरिक्षस्य त्वा सानाववगूहामीत्युत्तरेणाग्निष्ठां मध्यमे गुणे स्वरुमुपगूहत्युत्तमे वा ।। ८ ।।

इति सत्याषाढहिरण्यकेशिसूत्रे चतुर्थप्रश्ने द्वितीयः पटलः ।। २ ।।

अमिष्ठावेरुत्तरभागे गुणयपयोर्मध्ये प्रवेशयति । स्पष्टमन्यत् । इति सत्यापाढहिरण्यकेशिसूत्रव्याख्यायो महादेवकृतायां प्रयोगवैजयन्त्यां चतुर्थे पशुप्रश्ने द्वितीयः पटलः ।।


4.3 अथ चतुर्थप्रश्ने तृतीयः पटलः ।

उपक्लृप्तः पशुरकूटोऽकर्णोऽकाणोऽखञ्जोऽखण्डोऽषण्ढोऽघृष्टोऽश्लोणोऽसप्तशफः पन्नदञ्छागो यमान्यतरो यूथ्यो मातृमान्पितृमान्भ्रातृमान्सखिमाꣳस्तꣳ स्नापयति ।

पूर्वमेव तत्रारम्भादुपकृप्तः । पशुरिति सामान्यनिर्देशेऽपि च्छागस्य वपाया इत्यादि. क. स. ग. च. छ. ट. 6. . बजेदी । २ ष. ज.म. म. द. "ति शकलमा । ३. क. ज. इ. स. इ. रुमवर । ४ क, तर वा । ५ ष दुः, ज, झ, ज. स. नापयित्वा । बढच ब्राह्मणे- ४१६ सत्यापाविरचितं श्रौतसूत्र- [ ४ चतुर्थप्रश्ने- लिङ्गाच्छाग इत्यग्रिमेण संबन्धः । कटो भग्नशृङ्गः कुटिलशृङ्गोऽतोऽन्य एवमुत्तर. त्रापि परिसंख्या ज्ञेया । कर्णेन विकलोऽ(लः)कर्ण इति रूढया स न । काणश्चैक. चक्षुः स न । खञ्जो दुर्बलपादः स न । खण्डो दन्तैहीनः स न । षण्डः क्लोवः स न । घृष्टो गत्वरः स न । श्लोणो बधिरः स न । सप्तशफ एकस्मिन्पादे खुरद्वयहीनः स न । पतिता दन्ता यस्य स पन्नदन्त ग्राह्यः । आदौ पतिताः पश्चादागता इत्यर्थः । तथा च - यदा वै पशोः पुनर्दन्ता जायन्तेऽथ स मेध्यो भवतीति । तथा चाखण्डः पन्नदन्नित्यनयोरविरोधो ज्ञेयः । छागोऽनः । यमयोरुत्पन्न योर्मध्य एकः । प्रयूथ्यो यूथे समुदाये भवो नैकाकी । मातृमानित्यादिचतुष्टयं तत्कालविद्यमान(न) मातृपितृ- भ्रातृप्तखितया ज्ञेयम् । तं स्नापयति प्रक्षालयति । अत्रानुग्रहमाह भरद्वाजः-यद्य- गहीनः स्याद्र्ातो वा यथाऽर्थः संपद्येत वैष्णवीमाग्नावैष्णवी सारस्वती बार्हस्पत्यां चेति हुत्वा सर्वप्रायश्चित्तानि जुहुयादिति । वाधूलस्त्वाग्नेयोमानावैष्णवी प्राजापत्या. मैन्द्रावायव्यामिति च हुत्वोपाकुर्यादिति । यानि च सूत्रे विध्यपराधे चोक्तानि प्राय. श्चित्तानि च वाधूलपक्षेऽप्यनाज्ञातादित्रयं सर्वप्रायश्चितं च समुच्चीयते । सर्वे होमा दविहोमधर्मेणाऽऽज्यस्थाल्यान्येनापूर्वा होमाः स्थास्याज्येन होमव्यतिरिक्तमान्यसाध्य कर्म लौकिकाज्येनेति सर्वत्र ज्ञेयम् ।

इषे त्वेति बर्हिषी आदत्ते ।

दी द्वौ ।

उपवीरसीति प्लक्षशाखाम् ।

आदत्त इत्यनुकर्षः।

इन्द्राग्निभ्यां त्वा जुष्टमुपाकरोम्युपो देवान्दैवीर्विशः प्रजापतेर्जायमाना इमं पशुं पशुपते त इति बर्हिर्भ्यां प्लक्षशाखया च पशुमुपाकरोति ।

देवीविंशः प्रागुरित्यादिरेवती रमध्वमित्यन्तः । प्रजापतेरिति च, इमं पशुमिति च मन्त्रैर्गृहीतबहिः प्लाशाखाभिः पशं स्पृशन्देवतार्थत्वेन संकल्पयति ।

प्रजानन्त इत्युपाकृत्य पञ्च जुहोति ।

जुह्वा व्यापृतत्वादपूर्वत्वात्स्थाल्याज्यं वसाहोमहवन्यां पञ्च गृहीत्वा दर्विहोम. धर्मेण प्रनानन्तः येषामोशे० ये बध्यमान० य मारण्याः प्रमुञ्चमाना० इति पञ्चभिर मन्त्रैर्जुहोति । क्रमप्राप्त उपाकृत्येति वचनमुपाकरणाङ्गता दर्शयितुं, तेनोपाकृतस्य पशोरूहः सिद्धः। १ ख. ग. छ. ठ. ण, 'गतदन्त ई । २ ग. ठ. ण, 'मैन्द्र वा । ३ घ, ङ. ज. स. म. द. 'नन्तः प्रतिगृहन्ति पूर्व है। , २४० पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

पशुपतेः पशवो विरूपाः सदृशा उत । तेषां यं वव्रिरे देवास्तꣳ स्वराडनुमन्यतामिति वा मध्ये पञ्चमीं जुहोति ।

प्रमुच्चमाना इत्येतस्य विकलाः।

अग्नेर्जनित्रमसीत्यधिमन्थनशकलमादायापरेणाऽऽहवनीयं बर्हिषि निदधाति ।

अधिकृत्य मय्या येन शकलेन तत्तथा । बहिषि स्तोगें।

वृषणौ स्थ इति प्राञ्चौ दर्भौ शकलेऽवदधाति ।

निहिते त्वधिमन्यनशकले कौचिद्दी स्थापयति । शकलसंस्कारोऽयमुपाकरण- बहिषोरन्यत्र विनियोक्ष्यमाणत्वात् ।

उर्वश्यसीत्यधरारणिमादत्ते पुरूरवा इत्युत्तरारणिम् ।

संस्कृते तयोरेव बुद्धिस्थत्वात् ।

घृतेनाक्ते इत्याज्यस्थाल्या बिलेऽनक्ति ।

अपूर्वाज्यनिवृत्तये चाऽऽज्यस्थाल्या इत्युक्तम् । नुवादीनां ग्रहणनिवृत्तये बिल इत्युक्तम् । अरणी सहैवाऽऽज्यस्थाल्या बिल एवानत्ति न धारयेति वक्तुं बिल इत्य- धिकरणोपादानम् ।

आयुरसीति समवदधाति वृषणं दधाथामिति वा ।

अरणी एकत्र संनिधापयति । अरणी समवधायेति भरद्वाजः ।

अग्नये मथ्यमानायानुब्रूहीति संप्रेष्यति मथ्यमानायानुब्रूहीति वा ।

गतम् ।

त्रिरनूक्तायां गायत्रं छन्दोऽनुप्रजायस्वेत्येतेस्त्रिः प्रदक्षिणमारभ्य यथासुखमत ऊर्ध्वं मन्थति ।

एतरिति म अत्रित्वे च क्रमेण प्रतिमन्नं प्रदक्षिणं प्रदक्षिणमारम्मं कृत्वा ततो यथा. सुखं प्रदक्षिणमप्रदाक्षिणं च मन्थति । मन्त्रत्रित्व करणानुषङ्गत्रैष्टुभं छन्दाऽनुप्रनायस्वेति प्रथमायां त्रिस्नूक्तायाम् ।

जातायानुब्रूहीति ।। ९।। जाते संप्रेष्यति प्रह्रियमाणायानुब्रूहीति प्रह्रियमाणे ।

गतम् । १५द विश्व । २..ज.स. भ. ढ, लेसन'। ५३ स ४१८ सत्यापाढविरचितं श्रौतसूत्र- ["चतुर्थप्रश्ने-

भवतं नः समनसावित्यग्रेणोत्तरं परिधिसंधिं प्रहरति ।

मय न इत्यन्तः । मषितमानमुत्तरवेनौ प्रक्षिपति ।

अग्नावग्निरिति प्रहृत्य स्रुवेणाभिजुहोति।

घेयमित्यन्तः । दहितेन पाती तम्या पातलोन वसाहोमहवनी समा. नार्या प्राप्ता । स्वृणनीतरधर्मनिवृत्तम् । आभार मनिं लक्षीकृत्य प्रविष्टोऽ मरें। पता । अत्रानुग्रहमाह माद्वानः-यदि मध्यमानी न जायते तस्य स्थाने हिरण्य- शकलं प्रत्याभिनुहोतीति ।

देवस्य त्वेति द्विगुणां द्विव्यायामां दार्भीꣳ रशनामादाय तस्य रशनान्तेन दक्षिणं बाहुमुन्मार्ष्टि।

दर इस्पतः । उन्माननं तूणीम् । तस्य पशोदक्षिणं चाहनित्यन्वयः ।

ऋतस्य त्वा देवहविः पाशेन ऽऽभि इति दक्षिणे पूर्वपादेऽर्धशिरसि च प्रतिमुञ्चति ।

पार्शनेति मनलि हादशन गा दक्षिणे बाहौ सण्ठदक्षिणेऽर्धशिरप्ति शृङ्गयुक्तमेव पाशरशनेकदेशकृतं प्रतिमचति रशनापाशमापञ्जयति ।

धर्षामानुषानिति पुरस्तात्प्रत्यञ्चमुदञ्चं वा यूपे नियुनक्ति ।

पशुं यूपस्य पुरस्तात्पुरोभागे प्रस्यङ्मुखमुद खं वा यूपे नियोनयति ।

अद्भ्यस्त्वौषधीभ्यः प्रोक्षामीति प्रोक्षति ।

पशुमिति शेषः।

अपां पेरुरसीति पाययति ।

पशुमेवोदकं पायति यदि पिचेतना मश्रः ।

स्वात्तं चित्सदेवमित्यधस्तादुपोक्षति।

स्वदनिमित्यन्तः । पशोर वस्ताद्धस्नेनी नुक्क मुन्नन्प्रोक्षनि ।

सामिधेनीप्रभृतीनि कर्माणि प्रतिपद्यते ।

वेदं निधायेत्यादि प्राकृतपर कमावतरार्थम् ।

आघारमाघार्य पशुꣳ समनक्ति ।

द्वितीयाधारमाघाव भुसमजने प्राप्त आधारमाघार्य पशुमिति श्रुतेः पशु समनक्ति। कथं तत्राऽऽह- प. र. ज. म. ढ, रिधि संधिना वाऽनुप्र'। श. 'रिधिसंधिमप्र . क. च. र" कटे द। तु० पटलः ] महादेवकृतवैजयन्तीब्याख्यासमेतम् ।

सं ते प्राण इति दक्षिणे ऽर्धशिरसि सं यजत्रैरङ्गानीत्यꣳसोच्चारे स यज्ञपतिनिराशिषेति भसदि ।

समनक्ति जला शिरमोऽधमगिरी दक्ष व नदीशेरश्चेति तत्र । गच्छता- मित्यन्तः प्रथमस्यान्ययोस्तु गच्छन्नामिति बहुवचनविपरिणामेन मध्यमे ऽन्त्ये तु गच्छना. मित्यनुषको यज्ञपनिरीवास्याऽऽशिषं गमयीनि वाक्पशेषात् । अंसाचारेऽसयोः कोट्योत्तमाद्वित्वाटूिरिति मन्यन्ते । तत्रांच रशदेन मलनदेशस्य ग्रहणादेकद्र. व्यत्वम् । यत्रैकस्मिन्निति न्यायवा(यात्सव मन्त्रः । अमोघार इत्येकवचनेन प मदेव ज्ञापितम् ।

ध्रुवा समञ्जनप्रभृतीनि कर्माणि प्रतिपद्यते ।

धुवासमजनादि प्राकृतं तद्वैकृतादनन्तरमिति कमः सर्वत्रैवति ज्ञापितम् ।

प्रवरं प्रवृत्य ।

अत्र निरूले प्राकृतमेव प्रवरप्रवरण मैत्रावरुणस्यापि प्रारं प्रवृ येत्येवाविकृता- भिधानात् ।

मैत्रावरुणाय दण्डं प्रयच्छति ।

मध्वर्युमत्रावरुणाय दण्डं प्रयच्छति सामे तु दण्डस्य य नमानः प्रदाता न निरूदे ।

अविक्षुरो विखुरो भूयासमित् प्रतिगृह्णाति ।

मैत्रावरुणः । याजुषे हौत्र मन्त्राविधान बाढवे तदृक्तमेव मत्रावरुणस्य होतृधर्म- स्वात् ।

प्रयाजानूयाजेषु पशुपुरोडाशस्विष्टकृति वनस्पतौ पशुस्विष्टकृति च याज्यासंप्रैषस्य प्रैषाः ।

ये प्राप्ता इति शेषः । परिगणनया च प्रगानापिञ्चस्ते। ये प्राप्ता याज्यासप्रै- षस्य !षाः।

तत्राध्वर्युराश्राव्य प्रत्याश्रावितेऽमुष्मै प्रेष्येति मैत्रावरुणं प्रेष्यति स होतारं चोदयति।

परिगणनया पुरोडाशे पायां पशो मेषु प्रधान गागेषु प्राप्तोऽमुष्मै प्रेष्यति मैत्रा- वरुणं प्रति प्रेषः स परिमरूपात एतेषु न कार्यः प्रमानादिकोष पञ्चमु कार्य इत्यर्थः । अमुष्मा इत्येकवचनमविवासितं सामन्य इत्यादि यत्र यत्याप्त द्विवचन बहुवचनं वा तत्तत्र ज्ञेयम् ।

  • एतस्यास्यानानर धेन स दक्षिणार्धशिर- पाटो शेयः ।

१.ख.ग. ट...नमे'।२ख. मठ, ण, नाभावात् । ३... य. 'अशे वि। - ४२०॥ सत्याषाढविरचितं श्रौतसूत्रं- [४ चतुर्थप्रश्शे-

समिद्भ्यः प्रेष्येति प्रथमं प्रयाजꣳ संप्रेष्यति प्रेष्य प्रेष्येत्युत्तरान् ।

प्रयानानिति शेषः । मात्रवणिक्यो देवता वसन्तादिभिरविकृतस्नुमन्त्रणम् । ननु मन्त्रवणे समिधो देवता नावगम्यन्ते कथमत्र तन्निमित्तं समिभ्य इति । उच्यते- आप्रीसूक्तेषु क्वचित्समिद्धशब्दः क्वचित्समिच्छन्दोऽस्ति तावता नामधेयोपपत्तिः । अथवा समिधः प्रथमप्रयानस्यायं विकार इति तथा नामधेयं बहुवचनान्तं देवतानि. देशस्तु समित्समिदिति. सूक्ते समिदित्येकवचनान्तेन प्रयोगेण, समिद्धो अति सूक्त समिद्धशब्देन पुंलिङ्गेन । एवमन्येषु सूक्तेषु ज्ञेयम् । समिद्भ्य इति बहुवचनं तु विरूपै. रन्यैर्नामधेयरेकशेषात् । प्रकृतौ समिधो यद्यपि बद्धास्तथाऽपि तत्र विरूपनामधेयेस्तनू. नपादादिभिरेकशेषस्याभिमतत्वात् । यतः प्रथमेन स चातिदेशं मत्वा विना तनूनपादा- दिनाम्ना केवलं यनेति च औषं विधत्ते देवान्य नेत्यन्यानेषु देवशब्दे सरूप एक इति प्रकृती समिधो यति प्रथमे यन यजेतोतरेषु प्राप्तेषु प्रेषेषु तद्वदेते विहिताः समान- कार्यकरत्वात्तद्वाध एतैः । अत एव कात्यायनः-प्रेष्येत्याह यजस्थान इति ।

चतुर्थे समानीयाष्टमे सर्वꣳ समानयते ।

यत्प्रकृतौ चतुर्थे समानयनमौपभृतस्योक्तं तदत्रार्ध चतुर्थेऽवशिष्टं सर्वमष्टम. उत्प. त्तावेव या संख्या श्रूयते पञ्च प्रयाजान्यजतीति न संख्यागुणयुक्तेषु प्राकृतेषु यत्रान्य. संख्याविधानं विकृती नव प्रयाजानेकादश प्रयाजानिति तत्र प्राकृतबाधेनापि तु प्राकृ. ताम्यासेनैवेति न्यायमतं दर्शयितुमुक्तमष्टमे सर्वमिति वैकृतस्याभ्यस्तस्याष्टमस्यापि चतुर्थत्वमिति भावः । सर्वमित्यन्यानार्थमवशेषाभावात् । आचार्यस्तु चतुर्थस्योपान्त्य स्याभ्यासमष्टमपर्यन्तं मन्यतेऽन्त्यस्याम्यासेन नवमदशमैकादशान् । तद्याजमाने स्पष्टं भविष्यति । तथा च यथाप्रकृति चतुर इष्ट्वोत्तरत एव चान्यानपि चतुरस्ततस्त्रीमध्ये यजति ।

दशेष्ट्वैकादशायाऽऽज्यमवशिष्य ।

स्पष्टम्।

घृतेनाक्ताविति जुह्वा स्वरुस्वधिती अनक्ति ।

अत्र द्विवचनमुपरवबहुवचनवव्याख्येयमेकैकत्र तस्यानुपपत्तेर्नच द्वयोः सहैवानं द्रन्यपृथक्त्वादिः सकृदिति धर्मविशेषेणाऽऽवृत्तिदर्शनाच्च ।

द्विः स्वरुं सकृत्स्वधितेरन्यतरां धाराम् ।

सकृन्मन्त्रस्तूष्णीं सकृत्स्वधितरेकामेव धारामनक्कीत्यनुकृष्यते । तत्रापि मन्त्रः स्वरुस्वपित्ती अनक्तीति यदुक्तं तदेव प्रपञ्चितं न पृथगनेन विधानमकवाक्यमेक. क्रियात्वम् । . तृप ० पटळ:] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ४२२

घृतेनाक्तौ पशुं त्रायेथामिति ताभ्यां पशुꣳ समनक्ति ।

सर्वमत्रपाठः पूर्वस्य तावन्मात्रत्वख्यापनार्थोऽन्यथोभयत्रापि प्रतीकोपादानेन पूर्णों मन्त्रः स्यात्पूर्वस्तु शाखान्तरीयस्तावानेव ताम्या प्रकृतस्वरुस्वधितिभ्याम् ।

शमितरेषा तेऽश्रिः प्रज्ञाताऽसदित्यक्तां धारामादिशच्छमित्रे स्वधितिं प्रयच्छति ।

स्वया मनाताऽक्ता धाराऽस्तु विशमनार्थमनयेव विद्याधि नान्यसपः।

यथास्थानꣳ स्वरुमवगुह्य ।। १० ।।

पस्मिन्गुणे पूर्व स्पितस्तत्रैव नान्यत्र । पर्यप्रये क्रियमाणायानुमूहीति संमेष्यति पर्यनयेऽनुबूहीति वा। सष्टम् ।

आहवनीयादुल्मुकमादायाऽऽग्नीध्रः परिवाजपतिरिति पञ्च पर्यग्नि करोति पशुꣳ शामित्रदेशं चात्वालं यूपमाहवनीयं च त्रिः परिद्रवति ।

पर्यमिकरणं व्याख्यातमत्र विशेषः परितस्तस्य तस्य समन्ताद्दान्नुस्मुकेन स प्रद- लिणं परितो गच्छम्पञ्च द्रव्याणि पश्चादीनि प्रत्येक सकृन्मन्त्रेण द्विस्तूष्णी पनि करोति । द्रव्यप्राधान्याविरिति प्रत्येकमभ्यासः । अत्रोमुकेन सह परितो द्रवणमेव पर्यग्निकरणम् । तेन द्रवणमपि त्रित्रिों कैकस्यैव । तथैवोक्तं कात्यायनेन-उल्लुकमादा- यानीतिः समन्त पर्येति । न च सर्वेषामेकवारं परिद्रतणमिति वाच्यं, द्रव्यपकत्वा- दावृत्तिरेव पश्वादिक्रमानुपपत्तेश्च ।

आज्यानि चेत्येकेषाम् ।

षष्ठमाग्यान्यपि तथैव पर्यग्नि करोतीत्येकेषां शाखिनामस्माकं विकरूपः ।

ये बध्यमानमनुबध्यमाना इति पर्यग्नौ क्रियमाणे त्रीण्यपाव्यानि जुहोति ।

पर्यप्निलक्षणे कर्मणि क्रियमाण आग्नीधेगापर्युरपाव्यनामकान्होमानपूर्ववादाज्यस्था- स्याज्येन त्रिगृहीतेनात्र न समिदाधानं सामिधेनीसमिन्द्रिः प्रम सिद्धान्यो दर्विहोम- धर्मोऽस्त्येव ।

आहवनीय उल्मुकं निधाय त्रिः पुनः प्रतिपर्येति ।

उस्मुकेन विना प्रतीपमप्रदक्षिणं यथाक्रम प्रत्येकं त्रिनिः पर्येति । 4. न. ग: प.क.प.७. ज. स. स. ₹ उ. वगूम । - ४२२ सत्याषाढविरचितं श्रौतसूत्र- (१ चतुर्थप्रो-

प्रमुच्य पशुमाश्राव्य प्रत्याश्रावित उपप्रेष्य होतर्हव्या देवेभ्य इति संप्रेष्यति ।

होतारमिति शेषः । तस्यैव प्रेपितार्थ कर्तृत्वार्थमाह ।

अध्रिगुꣳ होता प्रतिपद्यते ।

भनिगुसंज्ञकं निगदम् ।

रेवतीर्यज्ञपतिं प्रियधाऽऽविशतेति बर्हिर्भ्यां वपाश्रपणीभ्यां प्लक्षशाखया च पशुमन्वारभेते यजमानोऽध्वर्युश्च ।

त्रितयेनोभायां गृहीतेनान्वारने 'पृशतः ।

नानाप्राण इत्यध्वर्युर्यजमानमभिमन्त्रयते ।

कामा इत्यन्तः । स्पष्टम् ।

प्रास्मा अग्निं भरतेत्युच्यमाने तदेवोल्मुकमादायाऽऽग्नीध्रः पूर्वः प्रतिपद्यते ।

पशोः पुरतो गच्छति यत्पूर्व पर्यग्निकरणार्थ गृहीत्वा स्थापितं तदेवाऽऽनाय ।

उरो अन्तरिक्षेत्यन्तरेण चात्वालोत्करावुदञ्चो निष्क्रामन्ति ।

निष्कामन्तीति बहुतचनादामधे ऽयुजमानश्च । पशूना सहे यः । शमितेन कण्ठे बद्धा नयतीति वानमनेयिश्रोत तथा का चालालात्करगोमध्यन निर्गच्छन्ति ।

उत्तरेण चात्वालꣳ शामित्रदेशस्तस्मिन्नुल्मुकं निधायोत्तरेण शामित्रमतिक्रामति ।

आमीन एव ।

उदीचीनाꣳ अस्य पदो निधत्तादित्युच्यमाने समस्य तनुवा भवेत्युपाकरणयोर्बर्हिषोरन्यतरत्प्रागग्रमुदगग्रं वा न्यस्यति तस्मिन्नेनं प्रत्यक्शिरसमुदीचीनपादं निघ्नन्त्यमायुं कृण्वन्तं संज्ञपयताच्छङ्क्यं प्रब्रूतादित्युक्त्वा ।

पाहीत्यन्तः । बहिन्यसन शामित्रस्य पश्चादिति कात्यायनः । तस्मिन्बहिषि निपात्य भनिन शमितारः । संगृह्य मुलं नमनत्यताइगमानमिति कात्यायनः । नमः यन्ति श्वासवि(नि)रोधेन । अयुरमायुमग कृ शब्दमन्तिं तदेवावाश्यमानमरी- रूयमाणमिति संज्ञपयताप्राणपियो न शक ब्रहीत्युक्त्वा ।

पराङावर्तते यजमानोऽध्वर्युश्च नानाप्राण इत्यध्वर्युर्यजमानमभिमन्त्रयते ।

पराभैगृपृष्ठतः परावृत्ती येन निर्गतौ तेन विह रागच्छनः । गतार्थमन्यत् । 12.. ज. अ. अ. ४. "ति वपाश्रपणीमा बर्दिभ्यो पल'। २ क. ख..च. छ. ट. ताशक्य 1.क. ' तान्यं प्र । ३ क, ख. च. छ. ८. प. शक्य । ख. ख. च. छ.८, पशुं। ४सपटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ४२३

इह पशवो विश्वरूपा रमन्तामग्निं कुलायमभि संवसानाः । अस्माꣳ अवन्तु पयसा घृतेन । । यासामूधश्चतुर्बिलं मधोः पूर्णं घृतस्य च । ता नः पयस्वतीः सन्त्वस्मिन्गोष्ठ ऋतावृध इति पृषदाज्यमवेक्षमाणौ वाग्यतावासाते यजमानोऽध्वर्युश्च ।

पृषदाज्यं स्थालीगतम् । अत्र यानमान स्वदिसि स्वत्वेत्यादि । स्पष्टमन्यत्

इन्द्रस्य भागः सुविते दधातनेमं यज्ञं यजमानं च सूरौ । यो नो द्वेष्ट्य त तꣳ रभस्वानागसो यजमानस्य वीरा इत्यध्वर्युः पशुमभिमन्त्रयते यदि रौति ।। ११ ।।

इति सत्याषाढहिरण्यकेशिसूत्रे चतुर्थप्रश्ने तृतीयः पटलः ।। ३ ।।

रौति संज्ञप्यमानः शब्दं करोति । नैमित्तिको मन्त्रः । । इति सत्यापाढहिरण्यकेशिसूत्रव्याख्यायां महादेव कृतायां प्रयोग- वैजयन्त्यां चतुर्थप्रश्ने तृतीयः पटलः ॥ ३ ॥


4.4 अथ चतुर्थप्रश्ने चतुर्थः पटलः ।

यत्पशुर्मायुमकृतेति संज्ञप्ते जुहोति ।

पशी संज्ञसे गतासौ मति । तहस इत्यनः ।

शमितार उपेतनेति संज्ञप्तमुपायन्ति ।

बहुवचनात्सर्वे: प्युलिनो यजमानश्चोप पशुपं[]नमागच्छन्ति । परीत्यन्तः ।

अदितिः पाशं प्रमुमोक्त्वेतमिति पशोः पाशं प्रमुच्यैकशूलयोपसज्ज्य चात्वालेऽवदधाति ।

करोगीत्यन्तः । कण्ठे यया पशुव॑द्धः पाशेन तं पाशं निःसार्य तां रशनामेक- छया वपाश्रपण्योपतउज्य गृहीत्वा चात्वालेऽवदधाति तूष्णीं निदधाति विमोचने मन्त्रों लिङ्गात् ।

अभिचरतोऽरातीयन्तमधरं कृणोमीति शुष्के स्थाणौ दर्भस्तम्बे वाऽभिनिदधाति ।

पाशमित्यन्तः । मन्त्रेण निदधाति । दर्भस्तम्बेऽपि शुष्क एव । वैरिणो मरणं कामयमानस्य यजमानस्य । १ क, ख, ग, च. छ. ज. स. म. द. द. ग. वक्ष्यमा । २ ख. ग. छ. ग. ज्ञप्तमा । ४२४ सत्याषाढविरचितं श्रौतसूत्र- [चतुर्षप्रने-

नमस्त आतानेति पत्न्यादित्यमुपतिष्ठते ।

पश्चालोका या एषा प्राच्यदानीयत इत्युक्तं प्रागानयनमित्युक्तं यस्याः पश्चादेव स्थानं सा प्राची प्रारमुख्यादित्याभिमुखी कथम्दानीयतेऽनोधन योपद्यतस्तमना (1)- थाऽऽदित्यरश्मीन्नमस्कुर्यादितिवाक्योवगतेरर्थवानोदानयनाङ्गता प्रतीयत उपस्था- नस्येति प्रतिपत्नि संस्काराङ्गत्वादावर्तते ।

अनर्वा प्रेहीति प्रतिप्रस्थाता पूर्णपात्रं धारयमाणां पत्नीमुदानयति ।

उदकपूर्णपात्रं गृहीत्वाऽऽमीनां पत्नीमृत्थाप्याऽऽनयति चात्वालं प्रति मश्रेण । पोषणेत्यन्तः । द्वितीयादिनिर्दिष्ट पत्नी संस्कारोऽयं प्रतिपरत्यावर्तते । पूर्णपात्रधारण- मेकस्या एवाऽऽप्यायनार्थत्वात् ।

आपो देवीरिति चात्वालेऽपोऽवनयति ।

पूर्णपात्रमता अपो मन्त्रेण किंचिनिक्षिपति । द्वितीयानिर्दिष्टा आपः संस्कार्या एव । भूयास्मेत्यन्तः । शुद्धा वयमिति संस्कारत्वावगीतमन्त्रलिङ्गादतः प्रतिपरिन ।

प्रतिषिद्धमेकेषाम् ।

अपामवनयनं विहितप्रतिषिद्धत्वाद्विकरूपते ।

एतेनैव सर्वे समुत्क्रम्य चात्वाले मार्जयन्ते ।

एतेन मन्त्रेण चात्वालप्रदेशे स्थित्वा मानयन्ते । एवकारेण सर्वो मन्त्रो मार्जन भाप्यायनसमुत्क्रमणे च विनियुक्तः । भरद्वाजेनोवामित्यन्तः समुत्क्रमणे शुद्धा वय- मित्यादिौन उक्तस्तन्मा भूदिति तथोक्तं नो चेदानक्यमेवकारस्य । एतेनैव सर्वेण सह समुत्क्रम्यतेनैव मार्नयन्त इत्यन्वये सत्येवकारः सार्थकः । संभूय संजप्तपशोः सकाशावुत्क्रम्य निर्गत्य चात्वालमागत्य मानियन्ते सपत्नीका इति भरद्वानः ।

अध्वर्युरभिषिञ्चति पत्न्याप्याययति पत्न्यभिषिञ्चत्यध्वर्युराप्याययतीत्येकेषाम् ।

ततस्थानमविलक्षाविवा(या)पः प्रतिपति । प्रतितोदकस्थानाभिमर्शनमाम्यायनम् । तं पराधान्यकेन क्रियेन्निति मुख्यवाभिषेचनमाप्यायनं करोति ।

वाक्त आप्यायतामित्येतैर्यथारूपम् ।

अभिषेचनं तूष्णीमाप्यायनं मन्त्रेण । यथा यस्य मन्त्रस्य रूपमर्थास मन्त्रस्तस्यार्थ- स्याऽऽप्यायने विनियोक्तव्यः । तत्र चत्वारि स्पष्टानि । या त इति हृदयदेशमित्याप- स्तम्बो ग्रीवामिति भरद्वानः। यत्ते क्रूरमिति भिन्नमन्त्रेणाङ्गानीति भरद्वाजकात्यायनौ ।

  • तमिति सर्व पुस्तकेषु विद्यते परं तु असंबद्धत्वात्प्रामादिकमिति हेयम् ।

१८. ग. लन्मना । १ क न, ट, 'क्यार्य । ३ घ. छ, ज. झ. म. द. 'माणाम। 188- प्रष०पटलः ] महादेवकृत्तवैजयन्तीव्याख्यासमेतम् । ४२५ या श्रोत्रमित्यस्य पृषङ्मन्नत्वपक्षे तु तत्त आप्यायतामित्यादिकोऽनुषङ्ग उत्तरस्मा- दप्यनुषङ्गो न्यायविद्भिरुक्तः ।

नाभिस्त आप्यायतामिति नाभिं मेढ्रं त आप्यायतामिति मेढ्रं पायुस्त आप्यायता मिति पायुः शुद्धाश्चरित्रा इति संनिधाय पादाञ्छमहोभ्यामित्यनुपृष्ठꣳ शेषं निनयति ।

आप्यायतामित्यनुपङ्गः । शाखान्तरीयमन्त्रस्य मेटमित्यस्य मध्ये संनिवेशाप नाभिः पायुरिति पूर्वोत्तरयोः प्रदर्शनम् । में मेहनं प्रजननं शिश्नमिति यावत् । पायु- मुदः(दम्) । शुद्धाश्चरित्रा इति शं पृथिव्या इत्यन्तेन संनिधाय पादासकृदेवाऽऽप्या- ययति । अनुपृष्ठं पृष्ठदर्थेणाभिषेचनीयानामपा शेषं प्रासंस्थमेव निनयति सति शेषेऽन्यथा लोपः । निनयत्यध्वयुरभिषक्त्री पत्नी वा । शेषनिनयनं पृथिव्यामेव पृथिव्यै शुन५ शमयतीति वाक्यशेषात् ।

उत्तानं पशुमावृत्यौषधे त्रायस्वैनमित्युपाकरणयो- र्बर्हिषोरवशिष्टं दक्षिणेन नाभिं त्र्यङ्गुले त्र्यङ्गुले चतुरङ्गुले वा वपादेशे निदधाति ।

स्पष्टम् । उपाकरणाथै ये गृहीते बहिषी तयोरेकं पशूपाकरणदेशे न्यस्तमवशिष्ट- मत्र सष्टमन्यत् ।

स्वधिते मैनꣳ हिꣳसीरिति स्वधितिना तिर्यगाच्छिनत्ति ।

प्रागप्रमेव बहिनिहितं तदुपरि स्वधितेरियाऽक्तया तिरदक्षिणोत्तरमाकर्षन्न नुप्रह- रम्प्रहारेण वपादेशे छिनत्ति दीर्घच्छेदं करोति यथा वपादेशे वपा लभ्यते तावदा- च्छिनत्ति ।

छिन्नस्य तृणस्याग्रं पाणौ कृत्वा स्थविमल्लोहितेऽङ्क्त्वा रक्षसां भागोऽसीत्युत्तरापरमवान्तरदेशं निरस्याप उपस्पृश्य ।

छिन्नस्य बहिषोऽप्रभार्ग वामे पाणाविति कात्यायनादयः । कृत्वा स्थापयित्वा स्थूलं मूलमागमाच्छेदनप्रदेशे लोहितेऽङ्क्त्वा । उभयतोऽङ्क्त्वेति कात्यायनः । मेन. मधर्म तमो नयामौत्यन्तेन मन्त्रेण निरस्यत्युत्तरापरं वायव्यकोणं दिङ्मात्रस्याधिकर. णता मा भूदपि तु स्थलस्येति वक्तु मवान्तरदेशमित्युक्तं स्थल एव नान्तारक्षे निरस्य- तात्यर्थः । राक्षसत्वादुदकोपस्पर्शनम् । । १ प. ज.म. म. ठ. द 'तेनाट्यत्वा । ४२६ सत्याषाढविरचितं श्रौतसूत्र- [ ४ चतुर्थप्रश्ने- इषे त्वेति चपामुतिखदत्यूर्जे त्वेति तनिष्टयकर्लयोपतृणचि । उखिदति लग्ना पृथक्कराति नतु सर्वा बहिः करोति । तत्स्थैकशलया वपाश्रपण्यो- पतृणत्ति संश्लेषयति वपैकदेशमेव ।

देवेभ्यः शुन्धस्वेत्यद्भिः प्रोक्षति देवेभ्यः शुम्भस्वेति स्वधितिना वपां निमार्ष्टि ।

नीचैाष्टिं । स्पष्टम् ।।

घृतेन द्यावापृथिवी प्रोर्ण्वाथामिति द्विशूलामेकशूलां च प्रच्छादयति ।

वपाश्रपण्यौ । अप्याच्छादयति ।

इन्द्राग्निभ्यां त्वा जुष्टामुत्कृन्तामीत्युत्कृन्तत्यच्छिन्नो रायः सुवीर इति वा।

पशोः सकाशात्पृथक्करोति ।

मुष्टिना शमिता वपोद्ग्रहणमभिगृह्याऽऽस्त आवपाहोमात् ।

वोद्ग्रहणं यस्माद्देशापोद्गृहीता निर्गमिता तद्विदारितं . स्थानमभ्युपरि मुष्टि नाऽऽच्छाद्याऽऽस्ते यावद्वपाहोमः स्यात् ।

प्रत्युष्टमिति शामित्रे वपां प्रतितपति ।

शामित्राग्नौ । अरातय इत्यन्तः ।

नमः सूर्यस्य संदृशो युयोथा इत्यादित्यमुपतिष्ठते ।

गतम् ।

श्रपणार्थमग्निमवशिष्य तदेवोल्मुकमादायाऽऽग्नीध्रः पूर्वः प्रतिपद्यते ।

शामिवदेशेऽग्निशेषमुल्मुकाल्पाकार्थ स्थापयित्वा यदेवोल्मुकं पूर्वमानीतमेव गृही. स्वाऽऽनोन आहवनीयं प्रत्यागच्छत्यध्वर्योः पूर्वः पुरतो गच्छति ।

उर्वन्तरिक्षमिति गच्छति ।

अध्वर्युः । अन्विहीति मन्त्रान्तः । आहवनीयं प्रति ।

वपाश्रपणी पुनरन्वारभेते यजमानोऽध्वर्युश्च ।। १२ ।।

यजमानग्रहणं प्रकृनामोधनिवृत्त्यर्थम् । नतु(न) पुनःशब्दादालम्भकोरेव प्रवृत्तिः स्यात्ततो द्वयोरपि ग्रहणं न कर्तव्यम् । सत्यम् । भरद्वाजेनोक्तं यजमानोऽन्वारमत १ क. ख. च..छ. ट. वपया श्र। २ घ. छ, ज. स. प. उ. द. 'पौद्धरण । ३ग. उ. ग. 'योद्धरणं । र य. इ. ज. स. अ. ठ, द." दृश। . 1 ४च पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ४२७ इति तन्मा भूदिति द्वयोर्ग्रहणम् । अध्वर्युपां गृहीत्वा गच्छन्वपाश्रपण्योरन्वारम्भ करोत्येवेति यजमानश्चेत्येतावदेव वक्तव्यम् । न । अध्वर्योर्वपालम्भमानं मा भूदपि तु वपाश्रपण्योरेवोभयोरारम्भ इति ।

उप त्वाऽग्ने दिवे दिव इति तिसृभिराहवनीयमुपायन्ति ।

राजन्तमध्वराणां स नः पितेवेति द्वे अन्ये ऋचौ । तिसृभिरेताभिराहवनीयसमीप- मागच्छन्ति । प्रकृता यजमानाध्वर्वाग्नीघ्राः ।

उपसृष्ट उल्मुके प्रत्युष्टमित्याहवनीयस्यान्तिमेऽङ्गारे वपां निगृह्णाति ।

आग्नीघेणाऽऽहवनीय उपसृष्टे मेलिते तस्मिन्नुल्मुके सत्यध्वर्युः प्रत्युष्टमिति समग्रेण मन्त्रेणान्तिमे यतोऽन्योऽङ्गारो बहिर्नास्ति तस्मिन्नणारे निगूढे वपां निगृह्णाति नियच्छ. त्युत्तरत एव ।

वायो वीहि स्तोकानामिति बर्हिषोऽग्रं प्रास्यत्यधस्ताद्वपाया उपास्यतीत्येकेषाम् ।

छिन्नस्य बहिषो वामपाणौ स्थितं यदनं तदाहवनीय एव न चेदानीमेवं वपाया अधस्तादाहवनीयोऽस्ति निग्रहणे कृते न पुनरुपर्येव वपास्त(१)माहवनीये । ए[के]षा- मस्माकमेव शाखिनामस्ति हि वायो वीहि स्तोकानामित्याह तस्माद्विमक्ताः स्तोका अवपद्यन्तेऽयं वा एतत्पशूनां यद्वपाप्रमोषधीनां बर्हिरग्रेणैवाग्र५ समर्धयत्यथो ओषधी- वेव पशून्प्रतिष्ठापयतीति ब्राह्मणमतो वपायाः श्रप्यमाणाया अनुदूतस्तोकाया एवाध- स्तादिति युक्तमुत्पश्यामः । स्पष्टमिदमेवोक्तं भरद्वाजेन-प्रतिप्रस्थाता श्रपयत्याहवनीये वपामधस्ताद्वपाया बहिषोऽयं प्रास्यतीति ।

अन्तरा यूपमाहवनीयं च प्रतिप्रस्थात्रे वपां प्रयच्छति ।

यूपाहवनीययोर्मध्यतः कृत्वा दक्षिणतः स्थिताय प्रतिप्रस्थात्रे ददाति ।

दक्षिणत उदङ्ङासीनः प्रतिप्रस्थाता वपाꣳ श्रपयति ।

उदमुख उत्तरवेद्या दक्षिणत आसीनो वपां शृतां करोति । अत्र बहिरग्रस्य वपाया अधस्तान्निरसनम् ।

त्वामु ते दधिरे हव्यवाहमिति वपामभिजुहोति ।

जुह्वा व्यापृतत्वात् वेण, अभि पपायर्यामेव जुहोत्याज्यस्थाल्याज्येनाध्वर्युरेवः । जुषस्वेत्यन्तः। . 3 १५.अ.ज. पश्या। न. ढ. अपिसृष्टः । २ ग ठ. नद्भुत । ३ . 6. ण. 'ति प्रस्थात्रे वफां ie ४२८ सत्याषाढविरचितं श्रौतसूत्रं- [" चतुर्थप्रभे-

प्रादुर्भूतेषु स्तोकेषु स्तोकेभ्योऽनुब्रूहीति संप्रेष्यति ।

स्तोका वपायां श्रप्यमाणायां मध्ये मध्ये बुख़ुदा इवोन्नता येऽवयवास्ते तेषु प्रक- टेषु सत्स्वैव प्रेष्यति मैत्रावरुणम् ।

श्येनीꣳ सुशृतां कृत्वा सुपिप्पला ओषधीः कृधीति दक्षिणस्यां वेदिश्रोण्यां प्लक्षशाखायां निदधाति ।

अत्र सुशृतां कृत्वा निदधातीति समानकर्तृक त्वावगतेः पाके च प्रतिप्रस्थातुः कर्तत्वान्निधानमपि तेनैवेति माति, तथाऽप्यभिहोमप्रभृतिसमाख्ययाऽध्वयोरेव कर्तृत्वादन स्वाप्रत्ययेन पूर्वकालत्वमात्रमुक्तमिति गम्यतेऽथवा श्येनी सुगृतामध्वर्युरेव कृत्वति ज्ञेयम् । श्येनी श्वेता श्वेता पूर्वमेवास्ति तस्य वर्णस्यानपगमे सत्येव सुशृतां कृत्वा । अत्र सांनाय्यवदभिघार्योत्तरत उदास्य यूपाहवनीयान्तरा नीत्वा सुपिम्पला इति बाहि प्येव प्लक्षशाखायां महावेदिदक्षिणोण्यामास्तीर्णायां निदधाति । तदुक्तं भरद्वाजेन-सांनाय्यवदभिवार्य तथोद्वास्य बहिपि प्लक्षशाखायां प्रतिष्ठापयतीति । सांना. व्यस्य कुम्म्या सहोद्वासनमत्र वपाश्रपणीभ्यां सहैवोद्वास्य सहैव निदधाति ।

प्रद्युता द्वेषाꣳसीति वपाश्रपणी प्रवृहति ।

निधानानन्तरं वपाश्रपणी वपयाऽऽच्छादिते प्रवृहति षपातो निर्गमयति । यस्त आत्मा, इयमिन्द्रियम्, अनयेन्द्राय तया देवा वपामयीत्यूह इति केचिदन्ये तन्नेच्छन्ति । हविष्देन मनस्त्वेन वा नपुंसकत्वैकवचनत्वोपपत्तेरविकृतो मन्त्रो वपा मयि श्रयतामित्येव विकृतमिति । याजमानमयं यक्षः पञ्चहोता।

स्रुचौ होताऽऽदापयति घृतवतीमध्वर्यो स्रुचमास्यस्वेत्युच्यमाने जुहूपभृतावादायात्याक्र- म्याऽऽश्राव्य प्रत्याश्राविते स्वाहाकृतीभ्यः प्रेष्येति संप्रेष्यति वषट्कृते हुत्वा प्रत्याक्रम्य प्रयाजशेषेण पृषदाज्यमभिघार्य वपामभिघारयति [ द्विर्वपाꣳ सकृत्पृषदाज्यम्] ।

चोदकप्राप्तपदार्थाः प्रयानेभ्यः पूर्व कर्तव्यास्तेषामुस्कृष्टानामत्र कर्तव्यत्वेनानुस्म. रणं स्वाहाकृतीभ्यः प्रेष्येत्येतस्मात्पूर्वविधानार्थ प्रकृता( त प्रयानशेषेण पृष. दाज्यममिधार्य वपामभिधारयतीत्यस्य विधानार्थ पृषदाज्य स्थालीगतं वनस्पति- यागोपयोक्ष्यमाणं न सुग्गतं नोपभृतमन्तत इति भरद्वाजः । तेन परिसंख्येयं वपामेवेति पृषदाज्यमभिधार्य वपामभिधारयतीति श्रुतेः पौर्वापर्य नतूपयोगक्रमेण । १०. इदमि। - ४५ ० पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ४२९

ध्रुवां वा प्रथमं यद्याज्यभागौ यक्ष्यन्भवति कृताकृतावाज्यभागौ ।

कृताकृतौ विकल्पिती । यदि तो यमनस्यात्तदैव प्रथम ध्रुवामपि नान्यदा। अत्रैव तयोर्यागः। व्याख्याते पञ्चहोतारे-

जुह्वामुपस्तीर्य हिरण्यशकलमवधाय कृत्स्नां वपामव- द्यत्युपरिष्टाद्धिरण्यशकलमवधायाभिघार्येन्द्राग्निभ्यां छागस्य वपाया मेदसोऽनुब्रूहीति संप्रेष्यति ।

मध्येशकलविधानाद्यर्थमातिदेशिकपदार्थानुवादः । द्वित्रिरवदानबाधाय कृत्स्ना- मित्युक्तं, मा भेरित्युक्त्वा सकृत्तमिवदाय । स्पष्टमन्यत् । उत्तरत एव स्थित एत. सर्व कुर्यात् । वपावदानार्थं वो प्रविश्य पाया उत्तरतः स्थित्वाऽवयेनत्वप्रेणाऽऽ. हवनीयं गत्वा दक्षिणत: स्थितः । एवं हविषामवदानेवपि द्रष्टव्यम् । अत्याकम्य-

आश्राव्य न प्रेष्यति मैत्रावरुणो होतारं चोदयति।

पूर्वोक्तपरिसंख्यातमेव स्मारयति । न प्रेष्यतीति मैत्रावरुणमिति शेषः । प्रेष्यति न प्रेषोऽत्रेत्यर्थः । अप्रेषित एवं मैत्रावरुणो होतारं निगदेन चोदयति प्रेरयति ।

पुरस्ताद्वपाया होमात्स्वाहा देवेभ्य इति पूर्वं परिवप्यं जुहोति ।

क्रमप्राप्ते पुरस्ताद्वपाया होमादिति वचनमव्यवधानख्यापनार्थ, वपायागार्थमाश्रा. वणादि कृत्वा पूर्व वयसंज्ञकहोम स्थाल्याज्येन हवन्या न सुवेण जुहोति । आप. स्तम्बमते तु वपावदानात्पूर्वमेव पूर्ववप्यहोमो जुदैव तन्मा मदित्येतदर्थं पुरस्तादि- त्यादिवचनं, खुचावन्यस्य हस्ते दत्त्वाऽणाऽऽहवनीयं गत्वा वसाहोमहवन्यामाज्य. मादाय यथेतं प्रत्ये त्य दविहोमधर्मेण हुत्वा सुचावादाय पुरस्तात्स्वाहाकारा वा अन्ये देवा इति श्रुतेन पुनरन्ते स्वाहाकारः स्वाहादेवतापैदाव्यवधान एव हौत्रेऽपि दर्शनात्स्वाहा वाचे खाहा वाचस्पतय इत्यादी पदान्तरव्यवधाने तु स्यादन्तेऽपि स्वाही स्वाहा त्या सुभवः सूर्यायेत्यादौ । तत्रापि लिङ्गं स्वाहाऽऽधिमाधीतायत्यादि । अमुमर्थ सूत्रकार एवं वसाहोमे स्पष्टयिष्यति ।

जातवेदो वपया गच्छ देवानिति वषट्कृते वपां देवेभ्यः स्वाहेत्युत्तरम्।

जहोतीत्यनुवर्तते । देवा इति मन्त्रान्तेन वषटकारे कृते सति वषां प्रक्षिपति । न क. स. ग. च. छ. ट, ठ. प. 'धायेन्द्रा २ ग. ह. भ. पदव्य । ३ ग.दणन। ४क.ब.ट."हा त्या। T - ४३० सत्याषाढविरचितं श्रौतसूत्रं- [४ चतुर्थप्रश्ने- चात्र स्वाहाकारो दानार्थस्तस्येन्द्राग्निभ्यामेव. वषट्कारेण दत्तत्वादन्यदेवताभ्यो न स्वाहाकारेण पुनर्दानम् । अतोऽयं न दर्षिहोमो जुहोतिचोदितोऽपि यदेकथा जुहुया. दितिः याज्यापुरोनुवाक्याभ्यां कृते तु न दर्षिहोमत्वम् । . तथा यत्प्रयाजानूयाजान्कु. यद्विकस्तिः सा यज्ञस्य, दविहोमं करोतीत्यत्रापि प्रयाजादिरहिते होमे दर्विहोमत्व मुक्तं तत्तु न सप्रयानादिके प्रामोतीति न स्वाहाकारप्राप्तिः । अत्र वषट्कृते जुहोती- त्यतिदेशप्राप्तानुवादस्तेन वषट्कारे प्रक्षेपस्तु. नियतस्तथा मन्त्रान्तरसंनिपातश्च । तच्चोभयं सह प्रायिकं न नियमेन भवति । तत्र वषट्कारे प्रक्षेपाकरणे प्रायश्चित्तविधानादवश्य प्रक्षेपः । मन्त्रस्य तु पूर्वमेव समाप्तौ पुनरारम्मणीयः कृतेऽपि प्रक्षेपे समापनीयः । तथापि(हि)-पद्यपि मन्त्रान्तेन संनिपातो न स्यात्तथाऽपि मन्त्रसंनिपातमात्रं तु सर्वथा साधनीयमेव न घशक्यं विधिना विधीयतेऽतोऽत्र मन्त्रसंनिपातमात्रमप्युण्यन्तरैरुक्तम- नुज्ञातमिति गम्यते । तदुक्तं कात्यायनेनानियमं वात्स्य इति। सर्वप्रायश्चित्तं च कार्यम् । मन्त्रासंनिपाते तु न प्रायश्चित्तम् । उत्तरं परिवष्य जुहोतीत्यनुकृप्यते । जुद्धः स्थास्या- ज्येन पूर्ववप्यवत् ।

प्रत्याक्रम्य स्वाहोर्ध्वनभसं मारुतं गच्छतमिति विषूची वपाश्रपणी प्रहरति प्राचीं द्विशूलां प्रतीचीमेकशूलाम् ।

विपूच्यो चानुलोमप्रतिलोमागे तंत्र नियमार्थ प्रागना दिशूनामिनि ।

सꣳस्रावेणाभिहुत्य ।

वपाश्रपण्यावाहवनीयाहते अभिमत्र वेण जुहोति ।

चात्वाले मार्जयन्ते ॥ १३ ॥

सपत्नीकाः सर्वेऽपीत्यर्थः। मार्जने मन्त्रानाह-

आपो हि ष्ठा मयोभुव इति तिसृभिरिदमापः प्रवहता वद्यं च मलं च यत् । यच्चाभिदुद्रोहानृतं यच्च शेपे अभीरुणम् । अग्रिर्मा तस्मादेनसो विश्वा मुञ्चत्वꣳहसः । निर्मा मुञ्चामि शपथान्निर्मा वरुणादुत । निर्मा यमस्य पड्वीशात्सर्वस्माद्देवकिल्बिषादतो मनुष्यकिल्बिषादिति मार्जयित्वा ।

सर्वमन्त्रान्तेन मार्जनम् ।

पशुपुरोडाशस्य पात्रसꣳसादनप्रभृतीनि कर्माणि प्रतिपद्यते यथार्थमौषधपात्राणि प्रयुनक्त्येकादश

१ ख, ग, घ, ङ, च, ज. स. स. 8. द. ण, 'म् । आपोमा.त'। २ घ. क, ज.म. म. ठ.. मौषधिपा। . .. ४च.पटळ:] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ४३१

द्वादश वा कपालानि तैः सह शूर्पं कृष्णाजिनꣳ शम्यामुलुखलं मुसलं दृषदमुपलां कुटरुं पात्रीं मेक्षणं वेदं प्राशित्रहरणं प्रणीताप्रणयनमिडापात्रं च ।

पशोरङ्गभूतः पुरोडाशः पशुयागस्याभूतपुरोडाशयागस्य पात्रसंप्सादन- प्रमुखाण्येव नत्वावाधानादिकमप्यस्ति तस्य पश्वर्षे कृतस्य प्रसङ्गेनात्राप्युपकारक- स्वात् । प्रतिपद्यते करोति । पशुपात्राणां प्रयुक्तत्वात्साधारणानां स्फ्याग्निहोत्र- हवा प्रादीनामपि प्रयुक्तवादमाधारणान्योषधात्राण्येव प्रयुज्यन्त इत्यर्थप्राप्ते - यथा- यमितिवचनादुग्वेषमदन्तीवेदपरिवामनानामपि ग्रहणम् ।' पशावासादितस्य वेदस्याप्यामादनविधानात्म्पयाग्निहोत्रहवण्योरासादितयोः पुनरासादनस्याविधानादेव गुज्यते यानि प्रम) नोपकुर्वन्ति तेषां यधपि न पुनरासादनं तथाऽपि येषां -प्राति- स्विकतया यज्ञसंवन्धविवादो विहितस्तेषां पुरोद्धाशोपक्षीणानां पशौ पुनरुपयोक्ष्य- माणस्वाभावादन्येषामेव प्रयोगो युक्तः । प्रणीताविमोकोपवेषोदसनयोषिधास्यमानत्वा- द्वेदस्यापि होत्रा त्यागस्य दर्शनात्मनानाभावेऽपि तूष्णीकं विमुच्य विसर्जनमध्यनु- ज्ञायते । पुनर्वेदासादनविधानादैन्द्राग्ने पुरोडाशे सत्यप्येकादशानां द्वादशानां च निकसे चोदकप्राप्ते सौर्य प्राजापत्येऽपि पशौ नाष्टाकपालतेति वक्तुं नियमः । अन्येष्वपि पशृषु नियमो ज्ञेयः । स्पयाग्निहोत्रहवण्यापासाद्य पश्चात्पश्वर्थ सत्यपि प्रणीताप्रणयने तस्यादृष्टायस्यैव तदुद्देशमात्रेण कृतस्य नान्यत्र दृष्टविनियोगः । कृतविनियोगस्य च विमोकविधानादासंस्थं चालनानुपपत्तेश्च पुनः पृथक्क परालैः सह शूर्पमित्युक्तं द्वयम् । . इडायाः पश्चर्थप्रयुक्ताया अद्याप्यकृतोपकाराया अन्यत्र विनियोक्कुमशक्यत्वात्प्राकृताया अत्र ग्रहणम् । पश्चर्थमपूर्वाया एवोपादानम् । समवत्तधानांशब्देन तस्या निर्देशात् । इडापात्रमुक्तमेकमेव । नान्वाहार्यो दक्षिणा प्रधानदक्षिणयविनां परिक्रीतत्वात् । औषधपात्राणीति प्रकृतौ पुरोडाशार्थतया गृहीतानीत्येव त्वौषधंपात्रस्य दृषदुपलयोश्वरावभावात् । ब्रह्मन्नपः प्रणेष्यामि य नमान वाचं यच्छेति संप्रेष्यति । वाग्यतः पात्राणि संमृशति ।

निर्वपणकाले व्रीहिमयं पशुपुरोडाशं निर्वपति समानदैवतं पशुना ।

पुरोडाशस्येत्येतावति वक्तव्ये पशुग्रहणं यद्देवल्यः पशुस्तद्देवत्यः पुरोडाश इति प्रद- र्शनार्थम् । तेन पञ्चमप्रयानवत्प्रधानदेवतासंस्कारकर्मता दानांशे चाऽऽरादुपकार- । १ ग. 8. सौर्यप्रा । ९ ग. उ. 'श्वयें स । ३ क. "युक्तम् । ख. ग. ठण. 'धमान । ५ क. "शुना प्र। > ४३२ सत्याषाढविरचितं श्रौतसूत्रं- [४ चतुर्थप्रश्ने- कता च । प्रकृतौ ब्रोहियवयोर्विकल्पे सति नियमार्थमेतद्वीहिमयमिति । तथा प विकृतौ सर्वत्र व्रीहय एव नियता इत्याहुस्तन्नेष्टमाचार्यस्यात्र नियमकरणात् । पशुयागेन समानदैवतमिति सौर्ये सौर्य प्राजापत्ये प्राजापत्यमन्यत्रापि तथैवैति दर्शितम् । सर्वत्र पशुपुरोडाशे ब्रीहिमयत्वं च नियतम् । अयं च प्रधानदेवतासंस्कार इति वक्तुं तथोक्तं यद्देवत्यः पशुस्तद्देवत्यः पुरोडाश इति श्रुतेः ।

तस्य हविष्कृता वाचं विसृज्य पशुं विशास्ति ।

तस्य पुरोडाशस्य त्रिष्फलीकरणसंप्रेषेण वाचं विसृज्येत्यनुवाद उत्तरविधित्सया । संजप्तं पशुं विशास्ति । वाचं विसृज्य विशास्तीत्यनेन विकर्तनेऽध्वर्युरेव कर्तेत्युक्तं न शमितेति । तत्राध्वर्योर्मुदं मा निर्लेपीरित्यादिप्रेषकर्तृत्वदर्शनात्प्रेष्योऽन्य एव सच नत्विक् । शमितरेषा तेऽश्रिः प्रज्ञाताऽसदिति विशसने शमिता विकृष्यते । अध्वयों: प्रयोजकत्वाद्विशसनकर्तृत्वं न विरुध्यते । अध्वरिन्य ऋत्विगेवेति कात्यायनः । तत्र पशोशिसन भागकरणं तत्कथमित्याकासिते हृदयमित्यादिक उपयोगपूर्वको निर्देशः।

हृदयम् ।

पद्मकोशसदृशम् ।

जिह्वा ।

प्रसिद्धा।

वक्षः।

क्रोडश्येना कृति समासमस्थिककपदधस्ताद्धदयस्योपरि ।

स्तनिम ।

यकृत्कालजमिति पर्यायः । तत्तु हृदयस्य दक्षिणभागे किंचिच्छेतमिव ।

मतस्ने ।

वृक्यौ पार्श्वस्थौ पिण्डावाम्रफलाकृती।

पार्श्वे ।

वतिसंहती दक्षिणोत्तरे । अस्थीनि त्रयोदश श्रयोदशैकैकत्र संहतानि ते पार्श्वे

सव्यं दोः ।

षकारान्तो नपुंसकलिङ्गो बाहुवचनः । वामबाहुसक्थीति यावत् ।

दक्षिणा च श्रोणिः ।

दक्षिणं सक्थि पश्चिमपादस्य दक्षिणभागस्थस्य फलकमिति यावत् । १ ख. ग. छ. ट. ण. तिन ब। २ क. ख, ग, च, छ, ट..ण. "णा श्रो। H ४१० पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ४३३

दैवतानि ।

अवदानानि प्रधानदेवता नि कालेऽवदानाहाणि मांसानि ।

दक्षिणं दोः सव्या च श्रोणिः सौविष्टकृते ।

विष्टकृते देवताया महदे (1) अवदाने ।

गुदः साधारणः ।

देवतसौषिष्टकृत डावदानार्थ उपयड्ढोमार्थश्च । गुरशब्देन पक्कं पुरी यस्मिन्स गुदं भत्याकृष्यते तद्गुदं गुदकाण्डमित्युच्यते ।

गुदं मा निर्व्लेषीः क्लोमानं प्लीहानं पुरीततं मेदः समवधातया इति संप्रेष्यति ।

क्लोमा नाम गलनाडिका:(का) प्लीहा यकृत्सहशो वामभागपार्श्वस्थः । एतन्मांसं कयाऽपि नाड्या न परिगृहीतमसंलग्न मेव तिष्ठति । पुरीत पुरी हृदयं तयेनाऽऽच्छा. दितं तत्पुरीततम् । पुरी हृदयं तत्पुरीतता प्रच्छादयतीति श्रुतत्वात् । मेदो नाम बद्धं त्ययोदयस्य च वेष्टनकोशः । एतानि गुई मा निन्लेषीरिति. गुदस्याऽऽन्तरप्रदेश चहिर्मा कार्कीरित्यर्थः । शमिता तु-

न गुदं निर्व्लिषति न वनिष्ठुं निर्भुजति ।

स्थूलसकृदाधार आन्त्रं स्थूलं बनिष्ठुः । तद्विपरीत बहिर्भागमान्तरं न कुर्यात् । गतम् ।।

अध्युद्धिं जाघनीं वनिष्ठुं चान्ववदधाति ।

अध्युद्धिरूषस उपरितनं मांसम् । जापनी जघनप्रदेशे भवा जापनी पुच्छंच पनिष्टुं तान्प्रत्येकं लक्षयित्वाऽवधानेन स्थापयति ।

यदन्यच्च मेध्यं मन्यते ।

मांसनातमिति शेषस्तदप्यन्ववदधातीत्यनुकृप्यते ।

कुम्भ्यां पशुꣳ समवधाय श्रपयति ।

पशुमामान्युद्धनानि तानि सानारगम्भोधर्मेण शामित्रेऽनो स्थापितायां पशुकुभ्या- मध्वर्युरवधाय मानास्यमन्त्रेण शमित्रा कृत्वा पनि । पाकामिनिमवशिष्येत्युक्तत्वा- च्छामित्रेऽग्नावेव पाकः । शृतर हवी३: शमितरिति प्रश्नलिङ्गाच्छमिता पचति । तं मेप्यतीत्येतावता अपयतीत्युपपद्यते ।

शूलेन पार्श्वतो हृदयम् ।

अपयतीत्यनुकृष्यते । पूर्ववदेव यथासंभव कुम्भीधर्मेण शूलेन प्रवृद्धं हदयं शामि- मानिसमीपे श्रपयति । सत्यापाठविरचितं श्रौतसूत्रं- [४ चतुर्थप्रश्ने-

ऊवध्यगोहं पार्थिवं खात्वा तत्र शकृत्संप्रविध्यति ।

अध्वर्युरेवोवध्यं शकृत्तह्मते येनावटेन स गर्त ऊवध्यगोहस्तं पृथिव्यां खात्वा तत्र सर्व पुरीष प्रक्षिपति ।

शृते पशौ पशुपुरोडाशेन प्रचरति ।

शाखान्तरीयोऽयं विचिदर्शितः । वपायागानन्तरं मानयिस्वा पशुपुरोडाशस्य पात्र- सरसादनप्रभृतीनि कर्माणि प्रतिपद्यत इस्युक्तस्ततस्तु हविष्कृता वाचं विसृज्येति शृते पशौ पशुपुरोडाशेन प्रचरतीत्यन्तः । अस्मच्छाखीयस्तु पशुमालम्य पुरोडाशं निर्वपति समेधमेबैनमालभते वपया प्रचर्य पुरोडाशेन प्रचरतीति श्रूयते तेन विकल्पः । तत्रार्य क्रमः-संज्ञप्ते पशौ वाचं पिसृन्य पशुपुरोडाशस्य पात्रससादनप्रभृतीनि कर्माणि प्रतिपद्य तण्डुलप्रक्षालनान्ते कृते पशुमुपायन्तीत्यादिवपाप्रचारे मार्जनान्ते पशुपुरोडा- शस्य कृष्णानिनादानादिना पशुपुरोडाशप्रचारेण कपालविमोचनान्ते कृते पशु विशा. स्तीत्यादिना शृते पशौ जुबां पञ्चगृहीतमित्यादि वक्ष्यमाणं पशुतन्त्रमव्यवधानेन करो- तीत्यस्मच्छाखाक्रमः। प्रकृतमनुपरामि गते पशौ पशुपुरोडाशेन प्रचरतीत्युक्तं कृष्णानिनादानादिन हविरासादनान्ते कृते पश्चरेव प्रसङ्गात्पशुपुरोडाशोपकारे सति वैशेषिकमेव तत्रं दर्शयति-

जुहूपभृतोरुपस्तीर्यावदायाभिघार्य ।

जुह्वा हविरवदानेन दैव उपभृति विष्टकृदवदानं तत उभयत्र यथाविध्यमिवार्य ।

इन्द्राग्निभ्यां पुरोडाशस्यानुब्रूहीति संप्रेष्यति ।

गतम् । अत्याकम्य-

आश्राव्य न प्रेष्यति मैत्रावरुणो होतारं चोदयति ।

कृतव्याख्यानम् । वपकृते जुहोतीत्यन्ते कृते-

औपभृतं जुह्वां पर्यस्याग्नयेऽनुब्रूह्यग्नये प्रेष्येति संप्रेष्यति ।

दक्षिणे स्थित एवापभृतमवदान जुबां प्रक्षिपत्यग्नय इत्यादि आश्नाव्याग्नये प्रेष्येति संप्रेष्यति । वषट्कृते स्विष्टकृद्धर्मेण जुहोति । प्रत्याकम्येत्येतदन्ते कृते- १, च. द. ति स्विष्टकृति सं। P ११० पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

प्राशित्रमिडा च क्रियेते प्राशितायां मार्जनं पिष्टलेपफलीकरणहोमौ प्रणीतासुमार्जनमुपवेषोदसनं कपालविमोचनं च क्रियन्ते ।

प्राशितायामित्यादिकानि क्रियन्त इति बहुवचनेन संबध्यन्ते । वैशेषिकाङ्गप्रदर्शन प्रप्त सिद्धानपरिसंख्यार्थ प्रसकेनोपकरिष्यमाणाङ्गपरिसंख्याथै च । वैशेषिकस्यापि यजमानभागस्य परिसंख्या ।

तस्मिन्कृते जुह्वां पञ्चगृहीतं गृहीत्वा ।

विमोचनान्ते कृते सानाम्यवदभिधारणं स्थास्याज्येनेति पञ्चगृहीतं स्यात्याज्येन, वृषेणापिधारणानिवृत्तये जुवामित्युक्तम् ।

पृषदाज्यस्रुवमादाय ।

पृषदाज्यपूर्णबुवस्तथा स्थालीपृषदाज्यं स्नुषेण गृहीत्वा ।

शृतꣳ हवी३ः शमितरित्यभिक्रम्याभिक्रम्य त्रिः पृच्छति शृतमिति शमिता त्रिः प्रत्याह ।

पञ्चगृहीतं वं च गृहीत्वा किंचिदभिमुखं गत्वा शृतर हवी ३: शमिसरिति श्रावय. पृच्छति पुनरभिक्रम्य तयैव पृच्छति तृतीयमप्यमिकम्य तथैव प्रतिप्रभ व शृतमिति प्रत्याहैवं त्रिः प्रभस्त्रिरुत्तरम् ।

उत्तरतः परिक्रम्य शूलाद्धृदयं प्रगृह्य कुम्भ्यामवदधाति ।

परिक्रम्प कुम्म्या उत्तरतः प्रदक्षिणं गत्वा शूळे प्रोतं हृदयं निर्गमग्य हृदयं प्रज्ञातं कुम्भ्यामवधाय ।

सं ते मनसा मन इति पृषदाज्येन हृदयमभिघारयति ।

वेण गृहीतेन पृषदायेन कुम्भ्यामवहितं हायं तेनाभिघारयति । स्वाहान्तो मनः ।

स्वाहोष्मणोऽव्यथिष्या इत्यूष्माणमुद्यन्तमनुमन्त्रयते ।

कुम्भीस उद्यतः । स्पष्ट मन्यत् ।

यस्त आत्मा पशुषु प्रविष्ट इत्याज्येन पशुमभिघार्य ।

जुह्वाज्येन पश्चगृहीतेन पशुं कुम्मीगतम् । मह्यमित्यन्तः । पञ्चगृहीतेनामिषारण वक्तुं चोदकप्राप्तस्यानुवादः । मन्त्रप्रदर्शनं सं ते मनसेतिमन्त्रानुवृत्तिनिरासार्थम् ।

येन वपां तेन हृत्वा यत्र वपा तत्र पञ्चहोत्राऽऽसादयति ।

येनाऽऽहवनीयस्य यूपस्य च मध्येन वपा हता. तेनैव हृत्वा बहिषि क्षशाखा यां १५. ज. स. म. द. स्विष्टकरप्राशि । २ प.स.स. स. द. क्रियन्ते । ३.घ..जझ. ग. र. क्रियते। ४ प. रु. ज. स. म. द. खुर्व चाया। ५ग.. ग. सुतं । - सत्यापाढविरचितं श्रौतसूत्रं- [४ चतुर्थप्रभे- तस्यामेवाग्निहोते त्यासादयति । प्राकृतमन्त्रनिवृत्तिः । यस्त आत्मेति यानमानम् । स्वमिन्द्रियमित्यविकृतं हविषोऽत्राSSमादितत्वात् । हविषो ऽवदीयमानम्यानुब्रहीति च्छामस्य हविष इत्यादि शृतर हवीरित्यत्रापि हविष एवावदीयमानत्वं नवनाना- मिति न्यायेन साधितं न्यायविद्भिस्त एव द्रष्टव्याः।

हृदयशूलं प्रज्ञातं निदधाति ॥ १४ ॥

इति सत्याषाढहिरण्यकेशिसूत्रे चतुर्थप्रश्ने चतुर्थः पटलः ।। ४ ।।

अग्रे प्रतिपत्तिविधानार्थमित्यर्थः । इति सत्यापाढहिरण्यकेशिसूत्रव्याख्यायां महादेवकृतायां प्रयोग- वैजयन्त्यां चतुर्थे पशुपने चतुर्थः पटलः ॥ ४ ॥


४.५ अथ चतुर्थप्रश्ने पञ्चमः पटलः ।

यजमानेन व्याख्याते पञ्चहोतरि-

जुहूपभृतोर्वसाहोमहवन्याꣳ समवत्तधान्या चोपस्तृणीते ।

जुहूपभृतोर्बुवाज्यमन्ययोः स्थाल्याज्यं समवत्तमिडार्थ तस्य धान्याम् ।

जुहूपभृतोर्हिरण्यशकलाववधाय मनोतायै हविषोऽवदीयमानस्यानुब्रूहीति संप्रेष्यति ।

जुहूपभृतोहिरण्यशकलाववधाय ततः संप्रेष्यति ।

प्लक्षशाखायामक्तया धारया दैवतानां द्विर्द्विरवद्यति ।

यत्प्लाशाखोत्तरबर्हिर्भवति समेधस्यैव पशोरवद्यतीतिश्रुतेहिण्येव स्तीर्णे स्तीर्णायां प्लक्षशाखायामित्यर्थः । सानाय्यवदङ्गुष्ठपर्वमात्राण्येव ततः स्यूलानि सौविष्टकृतानि ततोऽपि स्थूलान्यतानीति सुवेणावदाने चोदकपाते धारयेत्यर्थे सामर्थ्यादित्युक्तं पूर्वमेव प्रज्ञातयाऽक्तया स्वधितेरिया दैवतान्यवदानानि पूर्वमेवोक्तानि तेषां द्विद्विरेकैकम् । अत्र चोदकपाते द्विरवदाने सति पुनििद्वरिति विधानं प्रत्येकमङ्गेषु यथा स्यादिति नो चेत्सर्वस्यैव सकृविरवदानमिति चोदकेन प्राप्नुयादेकादशावदानान्यवद्यतीति श्रुतेरपू- वोऽवदानविधिरित्युक्तम् ।

हृदयस्याग्रेऽवद्यत्यथ जिह्वाया अथ वक्षस इत्येतेषामनुपूर्वमवदाय ।

श्रुतिपाठेन दर्शितः ।

यथाकाममुत्तरेषामवद्यति ।

श्रुतिरेव । साष्टार्थम् । और

६१० पटल: ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ४३७

पुरस्ताच्छ्रोणेर्गुदस्यावद्यत्युपरिष्टाद्वा।

श्रोण्यवदानाच्या पूर्व पश्चाद्वति विकल्येन त(य)याकाममित्यत्र नियमः । अत्र यद्यपि हविष एकत्वान्मा मेरिति सकृत्याप्तं तथाऽप्यवान्तरप्रदेशभेदान्नामभेदाच प्रत्येक मन्त्री यदवदानानीत्ययमपि हृदयादीनि श्रोण्यन्तान्येकश उक्तानि तेषा- मविशेषेण द्विद्विरवदानम् । गुदः साधारण इत्युक्तम् । तत्र विभागप्रकारमाह-

गुदं द्वैधं करोति स्थवीय उपयड्भ्यो निदधाति ।

द्वेषाकृतस्य गुदस्य स्थूल काण्डमुपयड्ढो मार्थे निदधाति ।

अणीयस्त्रैधं कृत्वा तस्य मध्यमं गुदकाण्डं द्वैधं विभज्य दैवतेष्ववद्यति ।

द्वेषाकृतस्य गुदकाण्डस्य यदीयो भागस्त त्रेधा कृत्वा तस्य मध्यमभागो द्वेधाकृतो द्विरवदानं दैवतेष्ववद्यति स्थापयति । अत्रैवावदानानां मन्त्रप्रत्यभिधारणे, अवद्यतीत्यचैव श्रवणाद् द्वैधं करोतीत्यादिना विभागमात्रमवदेयवद्व्याणां कृतमिति नावधानत्वम् । एवं चैकादशावदानानि द्विरवत्तानि भवन्ति ।

उपभृति महत्त्र्यङ्गयोरवद्यत्यवशिष्टयोश्च गुदकाण्डयोरन्यतरत् ।

महकुदकाण्ड श्रेधाविभक्तस्य यौ भागाववशिष्टौ तयोर्मध्ये यन्महत्स्थूळ तत्तथा व्यङ्गयोदक्षिणबाहुसव्यत्रोण्योस्तयोरेव रूढ्या व्यङ्गसंज्ञा गुदस्य च दोषपूर्वार्धय गुदं मध्यतः श्रोणि जवनार्धस्य ततो देवा. अभवन्पराऽसुरा यज्यशाणा समवद्यतीति श्रुते- स्त्रीप्येवावदानान्युपमृति ।

त्रेधा मेदः कृत्वा यूषेऽवधाय तृतीयेन जुहूं प्रच्छादयति तृतीयेनोपभृतम् ।

प्रच्छादयतीत्युभयत्र धाकृतस्य मेदसस्तृतीयेन तृतीयेन यूषे पशुरसे रसो वा एष पशूनां यद्यूरिति श्रुतेः । मेदो व्याख्यातम् । अत्र हि पशुना यतेन्द्रामः पशरित्या- दिना पशोरेव देवतायै दीयमानत्वेन हविष्दैन प्रत्येकमेकादशावदानानाम् । तेन यया मध्यात्पूर्वार्धाच्च पुरोडाशावदानमुत्तराधीस्विष्टकृत इति नियमः (१)। पुरोडाशे देवता. संबन्धेन यागदव्य एव पृथस्थानतया विभाग एव पशावपि स्थानभेदेन दैवतसौविष्ट- कृतेडावदानानां करणेऽपि सौविष्टकृतादीनां हविःशेषप्रतिपत्तिरूपतानामुपैतीति ज्ञेयम् ।

समवत्तधान्याꣳ हृदयं जिह्वां वक्षः स्तनिममतस्ने

१ क. च.ट. 'विष्ट्वेन । २ च. "तामु । ३ क. ग. च. छ. स. उ. प. "म् । भवत्तत्वान्न । स। क. ख. ग. घ. द. न. छं. ज, झ. म. ट, ठ, ण, जिला । 1 सत्याषाढविरचितं श्रौतसूत्रं- [४ चतुर्षप्रशे-

अवशिष्टं च गुदकाण्डं तृतीयं च मेदसो वनिष्ठुꣳ सप्तमं यदि शृतो भवत्यनस्थिभिरिडां वर्धयति ।

यदि वनिष्ठुः शृतो भवति तस्य बहुपाकप्तहत्वाद्यदि पशुना सह न पक्कस्वदा नाव- धति पक्कशेदवद्यति । मतन्नान्तानि षडतदानानि । मृतश्चेद्वनिष्ठतं सप्तममवदाय ततो गुदकाण्डं ततो मेदै इति क्रमप्रदर्शनार्थ वनिषु सप्तममित्युक्तम् । अनस्थिभिर्मासैः क्लोमादिभिरिडों वर्धयति पुष्टां करोति नैतान्यवद्यति । वानपेयेऽनबहानीयानि वाज- सृभ्यः प्रयच्छतीत्यादि तत्र तत्राननदानीयत्वं वक्ष्यति तच्चोषपन्नं भवति । अन्यानि यानि मेध्यानि मांसानि तेषामप्यत्रैव विनियोगोऽन्यथा तेषामुद्धरणमनर्थकं स्यात् । भत्र यनमानमागावदानं देवतेभ्यो दशभ्य एव गुदस्य विभज्य विनियोगात् । औप- भृतेडानां च पृथक्तया विभागकरणेन प्रतिपादनान्न शेषार्थेभ्यः शेषकार्य यजमानभाग- लक्षणं तस्मात्प्रधानावदानेभ्य एव । तथाचायं क्रमः-इडायाँ हृदयादीनां गुदान्ताना- मष्टानामेकैकं समवदायडायामवधाय ततो हृदयादिभ्यो दशभ्यो यजमानभागस्ततः पुनरावदानमष्टभ्यस्ततोऽनस्थिभिरिडां वर्धयतीति ।

शृतमशृतं च पशुꣳ संनिधायैन्द्रः प्राण इति संमृशति ।

शृतमशृतं मन्त्रेण संमृशति । माता पितरो मदन्त्वित्यन्तः ।

वसाहोमहवन्यां वसाहोमं गृह्णाति ।

वसा रसः । वसा चासौ होमश्चेति हुयतेऽसौ होमो ग्रहणम् । वसां गृह्णातीति वक्तव्ये श्रुतिप्रसिद्ध्योक्तं पार्श्वन वसाहोमं प्रयोतीति श्रवणात् ।

श्रीरसीति स्रवन्तीं धाराꣳ स्वधितिना तिर्यगाच्छिनत्ति ।

वसाहोमग्रहणप्रकार एवोच्यते । श्रीणात्वित्यन्तेन मन्त्रेण स्वधितिना धारा दक्षिणहस्तेन कृतां वामेन विच्छिनत्ति | स्त्रवन्ती संतताम् ।

सकृच्चतुरवदानस्य द्विः पञ्चावत्तिनः ।

सकृच्छेदेन द्विरवदानं भवति धतुरवदानवतः । उपस्तरणाभिधारणाभ्यां चतुरवत्तं स्यात्पश्चावत्तिनस्तु द्विच्छेदेन त्रीण्यवदानानि भवन्तीत्यर्थः ।

आपः समरिणन्निति पार्श्वेन वसाहोमं प्रयौति स्वधितिना प्रयौतीत्येकेषां पार्श्वेनापिदधतीत्येकेषाम् ।

प्रयोत्सालोडयति वसाहोमहवनीगतां वसाम् । पार्श्वस्य स्वधितेश्च प्रयवणे विकल्पः। प्रयवणस्यापिधानस्य च विकल्पः । रोहिप्या इत्यन्तो मत्रस्त्रिष्वपि ।

अत्रैक ऊष्मणोऽनुमन्त्रणꣳ समामनन्ति ।

कुम्भ्यां यदुक्तं स्वाहोष्मणोऽव्यथिष्या इत्यनुमश्रणं तदत्रैकेषां शाखिनाम् । १६. °निष्टु स। २ घ. अ. ज. झ. घ. द. "गाच्छपति । अत्याकम्य- ६५० पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ४३९

यूषेणोपसिच्योपरिष्टाद्धिरण्यशकलाववधायाभिघार्य ।

जुह्वाधवत्तानि यूषेणोपसिच्य यथेतमुत्तरत आनीय जुइपभृतोहिरण्यशकलाववधाय यथाविधि सर्वाग्यमिवार्य ।

इन्द्राग्निभ्यां छागस्य हविषोऽनुब्रूहीति संप्रेष्यति ।

सौर्यप्राजापत्ययोरपि प्रदर्शनार्थ, सष्टमन्यत् ।

आश्राव्य न प्रेष्यति मैत्रावरुणो होतारं चोदयति ।

कृसव्याख्यानम् ।

घृतं घृतपावान इत्यर्धर्चे ।। १५ ।।

याज्यायाः प्रतिप्रस्थाता वसाहोमं जुहोति ।

प्रतिप्रस्थाता उप्रेणाऽऽहवनीयं गत्वा घृतमिति मन्त्रं याज्यया सहाऽऽरम्य तस्या अधः समाप्तेऽन्तरिक्षाय स्वाहेत्यन्तेन जुहोति । वषट्कृतेऽध्वर्युह विर्जुहोति । इन्द्रि. यावी भूयासमिति नेमानमिति वा सर्वपशुवपानुमन्त्रणम् ।

वसाहोमोद्रेकेण दिशः प्रति यजति ।

यमति जुहोति । उदेकेण शेषेण होमे कृतधाराया अविच्छेदेन जुहोति अग्रिमा- नपि होमान्न मध्ये विच्छेदं कुर्वन् ।

दिश इति पुरस्तात्प्रदिश इति दक्षिणत आदिश इति पश्चाद्विदिश इत्युत्तरत उद्दिश इति मध्ये स्वाहेति सर्वत्रानुषजति ।

सर्वप्रेति स्वाहाऽन्तरिक्षायेत्यत्राप्यन्तेऽनुषङ्गः । दर्विहोमत्वादन्ते प्राप्तेऽपि यन्मध्य- मस्वाहाकारस्तीकारो भरद्वानादीनामन्ते च कर्तव्यः प्रक्षेपान्तव्यावृत्त्यर्थे । दिश इत्या. दावपि प्रतियजति चोदितत्वेन न दर्षिहोमतेत्याशक्य यजतेनमात्रार्थस्यात्राप्रयो- गायाज्याया अभावान्न वषट्कार इति स्वाहानुषङ्गेणैव प्रदानमत्रापि प्रतियजतिना लक्ष्यते तादृशमेव दिशो जुहोतीति श्रुतेदविहोमताविधानार्थ च ननु(तु) पुरस्तात्स्वाहा- कारो धृतमित्ययं मन्त्रो नापि देवतापदात्पूर्व स्वाहाकारेण पुरस्तात्स्वाहाकारो भवति स्वेतिपदेन व्यवधानादन्तरिक्षायेति देवतापदान्ये(दस्य)त्यनेन ज्ञापितमेव विकृतं वय- होमे । अनुषतोऽत्र स्वाहाऽन्तरिक्षाय यत्रत्यस्य स्वाहाकारस्थाथवा स्वाहा दिग्म्य इत्यस्य पूर्वमप्यनुषङ्गः । स्वाहा दिग्भ्य इत्ययं न दविहोम इत्याह -

स्वाहा दिग्भ्य इति प्रदक्षिणमनुपरिषिञ्चति ।

अनुपरिषिश्चतीति प्रयोगान्न दविहोमता नापि यत्र च स्वाहाकार इत्यनेन मता- न्तरविवक्षितत्वात् । कुतः । यद्यवदानस्य तथापि दविहोमत्ये सति स्वाहा दिग्भ्य ४४० सस्याषाढविरचितं श्रौतसूत्रं- [ ४ चतुर्थन इति प्रदक्षिणमित्येव चूयात् । प्रतिय जतीतिदानार्थस्य धातोरप्रयोगान स्वाहाकारापेक्षा । ततस्वियं शेषप्रतिपत्तिारेति प्रदक्षिणमनुपरिषिञ्चतीति प्रयोगेण दर्शितम् । तस्मात्र पुरस्तात्स्वाहाकारेण दर्विहोमता तेन स्वाहानमतं मारुतमंत्र न दर्विहोमतेत्यलमति- प्रसङ्गेन ।

नमो दिग्भ्य इति हुत्वोपतिष्ठते ।

हुन्वेति वचनं प्रतिप्रस्थातुरेवोपस्थानार्थम् ।

अत्रैव तिष्ठन्पृषदाज्यस्रुवं जुह्वामानीय वनस्पतयेऽनुब्रूहि वनस्पतये प्रेष्येति संप्रेष्यति ।

अत्रैव दक्षिणत एवकारी भरद्वाजोक्त उत्तरतोवस्थाननिवृत्त्यर्थः । पृषदाज्येन पूर्ण सुर्व स्थालीगतेनौपभृतस्यानूयानार्थत्वात् । वषट्कृते जुहोतीति शेषः । अत्र हविःसामा- न्येनोपांशुयागधर्मसकृदवदानस्विष्ट कृदेवतासंस्काराम्यां स्विष्टकृद्धर्मेण बाध्यते (!)। कुतः । हविःसामान्यं प्रधानयागे बलवन्न स्विष्टकृत्वप्रधाने ।

औपभृतं जुह्वां पर्यस्याग्नये स्विष्टकृतेऽनुब्रूह्यग्नये स्विष्टकृते प्रेष्येति पशुस्विष्टकृति संप्रेष्यति ।

पर्यस्य रेचयित्वा । स्पष्टमन्यत् । वषट्कृते जुहोतीति शेषः । अत्रैव तिष्ठन्नित्य- प्यनुवर्तते ।

अत्रैवैके पशुसंमर्शनं दिशां प्रतीज्यामिति समामनन्ति ।

शृताशृतपशोः । गतार्थम् । यथाप्रकृति याजमानम् ।

मेदोमिश्रमवान्तरेडामवद्यति ।

विशेषाभिधानं मेदोमिश्रमवान्तरेडामिति ।

यं कामयेतापशुः स्यादित्यमेदस्कं तस्मा आदध्याद्यं कामयेत पशुमान्त्स्यादिति मेदस्वत्तस्मा आदध्यात् ।

अमेदस्कावान्तरे डावदाननिन्दया प्रथमोऽर्थवादो द्वितीयो विधिः सत्यां कामनाया- मसत्यामपि मेदोयुक्तैवावान्तरेडेत्यर्थः ।

उपहूतां मैत्रावरुणषष्ठाः प्राश्नन्ति ।

पूर्वपशुपुरोडाशेडां मैत्रावरुणपञ्चमा एव प्राशितवन्तोऽत्र न तथा प्रतिप्रस्थातुर्वपा- अपण उपयोगात्पश्विडा तस्यापीति वक्तमुक्तं मैत्रावरुणषष्ठा इति न यनमानपर्युवा- सार्थमिति । १ क, म. प. . द। २ ग. ह. न. प्रधाः । १ - ५५०पटलः] महादेवकृतबैजयन्तीव्याख्यासमेतम् । ४४१ किमविशेषेण नेत्याह-

अध्युद्धिꣳ होत्रे हरति वनिष्ठुमग्नीधे षडवत्तꣳ संपादयति ।

हरन्ती(ती)त्यभयत्र ताभ्यां दत्त्वाऽवशिष्ट प्राश्नन्ति । होता -स्वेडामागेन सह भानाति वनिष्ठुमध्वर्युः षडवत्तं चतुर्धाकरणवत्संपाद्य प्रयच्छति । यथाविधि सः प्राशितायामिडायां मार्जयन्त इत्याह-

प्राशितायां मार्जयित्वा ।

यजमानस्यापि यथाप्रकृति प्राशनं मार्जनं च ।

अग्नीदौपयजानङ्गारानाहरोपयष्टरुपसीद ब्रह्मन्प्रस्थास्यामः समिधमाधायाग्नीत्परिधीꣳश्चाग्निं च सकृत्सकृत्समृड्ढीति संप्रेष्यति ।

उपयानार्थमङ्गारा औपयना उपयजतीत्युपयष्टा प्रतिप्रस्थाता । भङ्गाराणां समीपे तिष्ठ । स्पष्टमन्यत् ।

शामित्रियादाग्नीध्रोऽङ्गारानाहृत्योत्तरस्यां वेदिश्रोण्यां बर्हिर्व्यू(र्व्यु)ह्य न्युप्योपसमादधाति ।

शामित्रियादमेबहि!()तृणादि तत्र न्युप्योपसमादधाति काष्ठः प्रश्वास्य परिस्तृणाति।

प्रतिप्रस्थातरेतद्गुदकाण्डं तिर्यगसंभिन्दन्नेकादशधा सं छिद्य वसाहोमहवन्या हस्तेन वोपयजेति संप्रेष्यति ।

तिर्यगेकादशधा संछिद्यासंमिन्दन्नविदारयन्नपर्यावर्तयंश्च । छेदनं तिर्यगेव नानूनी- नम् । एकादशधा छिन्ता पश्चाद्धोमो नतु प्रत्याहुति च्छेदः ।

पृषदाज्यं जुह्वामानीय पृषदाज्यधानीमुपभृतं कृत्वा पृषदाज्येनैकादशानूयाजान्यजति ।

पृषदाज्यधानीगतं पृषदाज्यम् । स्पष्टमन्यत् ।

देवेभ्यः प्रेष्येति प्रथममनूयाजꣳ संप्रेष्यति प्रेष्य प्रेष्येत्युत्तरान् ।

सर्वानपि दक्षिणतो गत्वा । स्पष्टम् । अत्र देवेभ्य इति विरूपाणां सरूपाणां पैक- शेषेण महुवचनं सर्वान्यानार्थम् । एवं च प्रेष्येत्यनेन यजेत्यस्याविशेषेण प्रयानेष्विवानूयाजेवपि माघे प्राप्ते बचनेन द्वितीयतृतीयान्यामाचिकारेषु प्रतिप्रसवमाह४४२ सत्याषाढविरचितं श्रौतसूत्र- [४ चतुर्थप्रश्ने-

चतुर्थप्रभृतिषु यजेति मैत्रावरुणेनोच्यमाने यज यजेत्यध्वर्युराहान्यत्र दशमात् ।

मैत्रावरुणेन होतर्यनेत्युच्यमाने तत्र यनेत्यनेन सहैवाध्वर्युर्यन यजेत्याह दशमं पिना चतुर्थप्रभृतिषु सप्तस्वपि दसमस्य प्रथमविकारत्वात्त्रयः प्रथमविकाराः क्रमेण सतो मध्यमस्य ततो द्वाबुत्तमस्याष्टमो मध्यमस्य नवम उत्तमस्य दशमः प्रथमस्योत्तम उत्तमस्पति तथेज्याऽपिया।

समुद्रं गच्छ स्वाहेति ।। १६ ।। एतैः प्रतिप्रस्थाताऽनूयाजानाꣳ हुतꣳ हुतमुपयजति ।

यत्र च स्वाहाकार इति वचनाद्दविहोमेऽपीतरधर्मनिवृत्तिः स्वतन्त्रधर्मविधानात् । हुत हुतमनूयाजानां प्रक्षेपमुप.समीपे यजति जुहोतीत्यर्थः । समुद्रं मच्छेत्येतैरेकादश- मिमन्त्रैरेकादशोपयजो जुहोति ।

उपयज उपेज्याद्भ्यस्त्वौषधीभ्य इत्युत्तरतो बर्हिषि लेपं निमार्ष्टि ।

क्रमप्राप्तस्योपयन उपेज्येति वचनं प्रतिप्रस्थातुरेवोपयजावदानलेवप्रतिपत्तिविधा- नार्थ वेद्यां स्तीर्णे बहिषीत्युक्तम् ।

मनो मे हार्दि यच्छेति हृदयदेशमभिमृशति ।

स एव । अशीयेत्यन्तः।

जुह्वा त्रिः स्वरुमङ्क्त्वा द्यां ते धूमो गच्छत्वन्तरिक्षमर्चिः पृथिवीं भस्मना पृणस्व स्वाहेति जुह्वाऽऽहवनीयेऽध्वर्युः स्वरुं जुहोति ।

जुहोतिचोदितदविहोमधर्मनिवृत्त्यर्थहनीयजुर्मात्रग्रहणं, प्रतिप्रस्थातुरधिकारनिन वृत्यर्थमध्वर्यग्रहणम् । स्पष्टम् ।

वाजवतीप्रभृतीनि कर्माणि प्रतिपद्यते ।

प्राकृतपदार्थावसरार्थमिदं, वाजवत्या क्रियमाणं वाजवतीत्येव कर्म तत्प्रभृति । द्वयो- जुहूसंतत्वावयोश्चोपभृत्संज्ञवात्सर्वा व्यूहति । सर्वासु प्रस्तरमनक्ति । तथा चाऽऽह भरवानः-सर्वा मुहूपभूतो न्यूहति सर्वासु प्रस्तरमनक्तौति सर्वाः कस्तम्भ्यां सादयतीति ।

सूक्ता प्रेष्येति सूक्तवाके संप्रेष्यति ।

विकृत्यर्थमिदं सूक्ता ब्रहीत्यस्य स्थाने प्रकृतिवदन्यच्छंयुवाकान्तम् ।

प्रतिपरेत्य पत्नीः संयाजयति ।

विशेष वक्तुमनुवादस्तदेवाऽऽह-- १ ट. "ध्यमौ द्वौ मध्यम । २ ग. उ. प. नीये जु। ३ ख, ग, घ, छ, ज. श. म. उ... ग. संयाजयन्ति । १५-परछः महादेवकृतवैजयन्तीव्याख्यासमेतम् ।।

जाघन्या देवानां पत्नीरग्निं गृहपतिं च यजत्याज्येनेतरौ ।

इतरी सोमत्वष्टारौ।

उत्तानायै जाघन्यै देवानां पत्नीभ्योऽवद्यति नीच्या अग्नये गृहपतये ।

अवद्यतीत्युमयत्र गुदेन लम्रो माग उपरि क्रियते तदोत्तानं पञ्चम्यर्थे चतुर्थी । स्पष्टम् ।

उत्तानायै जाघन्यै होत्र इडामादधाति नीच्या अग्नीधे षडवत्तꣳ संपादयति ।

आज्येडास्थाने पडवत्तं संपादयति । चतुरखदानमुपस्तरणामिषारणाभ्यां वडवत्त- मनौधे तथैव चतुरवत्तं होत्र इत्यर्थः ।

प्राशितायां जाघनीशेषं पत्न्यध्वर्यवे ददाति बाहुꣳ शमित्रे ।

एकमेव । सष्टम् ।

तꣳ स ब्राह्मणाय ददाति यद्यब्राह्मणो भवति

तं बाहुं यदि शमिता ब्राह्मणो न भवति तदा ब्राह्मणाय दयादन्यदा स्वय में को- पधुनक्ति । एतेन शमिता ब्राह्मणोऽन्यो वेति दर्शितं कलौं ब्राह्मणस्य शामित्रप्रति- धात् । अन्यस्यैव द्विजस्य तदभाव आर्याधिष्ठितस्य वा तस्यापि पाकसंस्कर्तृवं धर्मेषु स्वयमेव वक्ष्यति ।

यज्ञ यज्ञं गच्छ यज्ञपतिं गच्छेति जुह्वाऽऽहवनी- येऽध्वर्युस्त्रीणि समिष्टयजूꣳषि जुहोति ।

स्वाहान्तात्रयोऽपि मन्त्रा एषां तृतीये द्विमध्यमस्वाहाकारेऽपि घाः स्वाहेति दविहोमत्वं ज्ञेयम् । ध्रुवानिवृत्त्यर्थं जुहूमहणम् । इतरधर्मनिवृत्त्यर्षमितरयोः प्रकृती विकल्पनिवृत्त्य त्रीणीति ।

हृदयशूलेन प्रचरन्ति।

बहुवचनान्सपत्नीकाः सर्वेऽपि प्रचारार्थ गच्छन्ति । तदाह-

असꣳस्पृशन्हृत्वा शुगसि तमभिशोचेति शुष्कस्य चाऽऽर्द्रस्य च संधामुद्वासयति ।

द्विष्म इत्यन्तः । शुष्कादिव्यवस्थितायाः संधौ प्रक्षिपति हृदयशूलम् । . ग. प. ह. ज. स.न.ठ.दे..च्याम। ग, घ,.ज.अ.म.उ... 'च्यामी ।कस. ग. च. ट. 3. फ. स्वाहेति । ४ घ.. ज.म. म. द.न । ५क.च, ट. द्रदिन्यस्थाता ख.दिन्यता । ग, छ, ठ, ण, 'दिव्यत्यता । ४४४ सत्याषाढविरचितं श्रौतसूत्र- [* चतुर्षप्रो-

यत्र चाऽऽर्द्रमनुगतं तदुपोप्तम् ।

वत्राऽऽमनुगतं प्राप्तं तद्पोप्तमाच्छादितमद्वासनयोग्यमित्यर्थः ।

धाम्नो धाम्न इत्युपतिष्ठन्ते ।

मो मुत्यन्तः । सर्वेऽप्युपतिष्ठन्ते ।

सुमित्रा न इति मार्जयन्ते ।

द्विष्म इत्यन्तः । तस्मिश्चात्वाले वेत्यापस्तम्बः ।

एधोऽस्येधिषीमहीत्याहवनीये समिधोऽभ्यादधति ।

भत्र मन्त्रस्यैकत्वादेकामेव समिधमम्यादधति प्रत्येकं बहुस्वारसूत्रे महुवचनं समिधामि नमस्यन्त उपायन्तीति श्रुतेरेकै कामेव गृहीत्वाऽऽगत्यैकैकामेवाम्पा- दधते ।

अपो अन्वचारिषमित्याहवनीयमुपतिष्ठन्त एवं पत्नी गार्हपत्येऽभ्याधायोपतिष्ठते ।

अत्र पयस्वार अन्न भागममिति पुंलिङ्गेन नोहः सौमिकावभृथे हि मन्त्रः पठ्यते विनियुज्यते च साऽवधप्रकृतिस्तत्रोहप्रतिषेधाद्विकृतावपि नोह इत्युक्तमेव । सश्म् ।

सर्वपशूनामेष कल्पः ।

सर्वेषां पशुबन्धानां साजो विधिरेष एव नायमतिदेशोऽपि तु सोमाः संकीर्णोड- भीषोमीयसवनीयानां विधिरिति ततो निष्कृष्टो निरूदेऽतिदेशप्राप्तो निरूत एष व्याख्यातः । स सर्वेषां समान औपवेशिकाग्नीषोमीयादीनामितरेषामातिदेशिकः । एवं च निलौ सौर्यप्राजापत्यावपि ये वैशेषिका मन्त्राः शाखान्तरीया इन्द्राग्निभ्यां स्वा जुष्ट मुगकरोमीत्यावयो निरूढे श्रूय माणास्तेऽग्नीषोमीयादौ सौर्यप्राजापत्ययोरपि चातिदेशादह्याः । तत्राग्नीषोमीयादयोऽपि निरूढस्यांशे विकृतयः । अन्याध्वर्यवे चैते प्रकृतयो निरूको विकृतिः । उक्तमेतदर्शपूर्णमासप्रकृतय इष्टिपशुबन्धास्ते स्वधर्माणः सामान्याद्विकार इति येषां प्रत्यक्षाग्यङ्गानि तेषामन्ये विकारा ये त्वप्रत्यक्षाङ्गा इति ।

पशुः प्रातर्दोहविकारः कालसामान्यात् ।

पद्यपि माधुर्येण साम्यमस्ति तदेव निर्णायक न्यायमते तपाइप्यद्रवणसाम्येन सायदोहविकारत्वमाशयमानमधिकेन कालसामान्येन बाध्यते । प्रातःकाले हि प्रातःहस्य पशोश्वोत्पत्ती समाने इति तद्विकारत्वेन दर्शविकृतित्वम् । . १ घ. क. ज. स. म. द. 'मित्युप । २ स. "प्राप्ते नि"। ५५०पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ४४५ प्रसङ्गेनान्यत्रापि न्यायमतिदिशति-

तथाऽऽमिक्षा।

तस्यामुभयदोहसंसर्गेऽपि तस्या एकवचनानोमयोहविष्ट नापि संसष्टमेक पयोवि. कारमात्रदर्शनान्मन्नवणे च जुषन्तां युज्यं पय इति पयःशब्देनैकत्वेनैव ग्रहणादामिक्षा पयोविकारः । आमिक्षा च प्रात क्रियत इति तस्यामपि कालसाम्यमुक्तम् ।

आग्नेयैन्द्राग्नयोस्तद्विकारेषु चैतदविकृतम् ।

अग्निष्टोमोक्थ्यसंस्थयोरेतौ सवनीयो पशू तयोरमिकृतमन्यूनानतिरिक्तमेतत्तत्रं पभिरून उक्तम् । तयोर्या विकृतयस्तेष्व(स्तास्वपि तथा तयोः प्रत्यक्षधर्मत्वादन्येषा तत्समानां विकारत्वं प्रत्यक्षमनुपविष्टं पशुधर्मागां धर्माकारिणामङ्गपशुत्वसामान्येन नेतयोविकारत्वम् ।

अग्नीषोमीये तद्विकारेषु चाऽऽश्ववालः प्रस्तर ऐक्षवी तिरश्ची कार्ष्मर्यमयाः परिधयोऽधिकाः पौतुदारवेभ्योऽमुष्मा अमुष्य वपाया मेदसः प्रेष्यामुष्मै पुरोडाशस्य प्रेष्यामुष्मा अमुष्य हविषः प्रेष्येति पशोर्दैवते संप्रेष्यति ।

भनीषोमीय उपवसीयः पशुस्तद्विकारे वीपवमध्येषु निरूढादधिकमाश्ववानादिक तत्तु पूर्वमातिथ्यायामिष्टौ कृतं यदेवाऽऽतिथ्यावहिस्तदग्नीषोमीयस्येत्यादिनाऽग्नीषोमी- पार्थमेवोक्तमिति तद्विकारेष्वपि तव न निरः सवनीये तद्विकारेषु च प्रणयने पौतुवाः परिधयो न कामयमयाणामेवाग्नीषोमीये वचनेन प्राप्तत्वात् । मेषविशेषास्तु शाखान्तरेण व्यवस्थापितास्ते निरूढे न सन्तीत्युक्तमत्रैव ते तथैव शास्त्रान्तरात्सवनीये- यपि न सन्तीत्येतदविकृतमित्यनेनोक्तम् ।

ऐन्द्रे सारस्वत्यां तद्विकारेषु च दार्शपूर्णमासिकः प्रवरणकल्पः प्रचरणकल्पः ।। १७ ।।

इति सत्याषाढाहिरण्यकेशिसूत्रे चतुर्थप्रश्ने पञ्चमः पटलः ।। ५ ।।

इति हिरण्यकेशिसूत्रे चतुर्थः प्रश्नः ।। ४ ।।

अनयोर्न मैत्रावरुणब्यापार इत्यर्थः । एवं चाग्नीषोमीयस्य चतुणी सवनीयानां निरूढस्य च षष्ठस्य सर्वपशुप्रकृतित्वमुक्तं भवति । नतु(नु) मीमांसकैरग्नीषोमीयस्यैव सर्वपशुप्रकृतित्वमुक्तं तत्रैव पशुधर्माणां प्रत्यक्षान्नानादिति । अस्मच्छाखाया होत्र १. श. म. ठ. शेपौणे । ४४६ सत्याषाढविरचित भौतसूत्रं- [१ चतुर्थप्रो- पशोस्तु निरूदं प्रकृत्यैवोक्तमञ्जन्ति त्वेति प्रश्नेन तद्हेनान्यपशुषु चोदकैनैक प्राप्नोति । न च तेषु प्रत्यक्षं विधानमस्ति । तस्मात्प्रत्यक्षाङ्गत्वादन्येषु नैमित्तिकका. म्येषु स्वतन्त्रपशुष निरूदो हौत्रं प्रयच्छत्ते(च्छंस्तेषां प्रकृतिर्भवत्येव । तथा चाऽऽध्य. येवं वैशेषिकं वैदिमानादिकं चौपदेशिकमेव प्राप्यान्येषु प्रयच्छत्तथाऽग्नीषोमीयादि प(?)आध्वर्यवमतिदिष्टं प्राप्य तद्विकृतेऽपि भवति नहि भिक्षुको मिक्षुकाद्याचत इति न्यायात् । एवं च तत्रान्तर्गतेषु पशुषु सादृश्यादग्नीषोमीयादय एवं प्रकृतिस्तत्रापि व्यवस्यौपवमध्ये क्रियमाणानामग्नीषोमीय एव सवनेषु क्रियमाणानामागेयादयस्तत्राफि व्यवस्थाऽऽमेयेन्द्रामयोस्तयोस्तुस्यत्वेऽपि पशुपुरोडाशधर्मभेदाव्यवस्था येषां लाग्नेय- पुरोडाशविकाराः पशृपुरोडाशास्तेषामानेयः सवनीयः प्रकृतिर्येषां तु द्विदेवत्यानां बहु- देवत्यानां वा पशुपुरोडाशा ऐन्द्रामपुरोडाशविकारास्तेषामैन्द्राग्न एष प्रकृतिः । येषा- मनेकदेवतानामग्नीषोमीय एव पुरोडाशः पशुपुरोडाशप्रकृतिस्तेऽप्याग्नेियस्यैव सवनी. यस्य विकारा आग्नेयवत्तेषां कपालधर्मसादृश्यात् । येषामेकदेवतानामैन्द्रामपुरोडाश- धर्मकाः पशुपुरोडाशास्तेषामैन्द्राग्नः सवनीयः प्रकृति ऽऽग्नेयो हविःसामान्यं बलीय इत्युक्तमेव । ये वन्ये सरस्वतीदेवताकाः सरस्वदेवताकास्ते प्रातिपदिकसाम्येन ये च स्त्रीदेवताकास्ते स्नीदेवतासाम्येन सरस्वत्या मेण्याः सक्नीयाया एव विकारा इति व्यवस्था । सवनीयानां चतुर्णामग्नीषोमीयपशुत्रदेवोपदिष्टधर्मत्वेन नाग्नीषोमीयवि. कृतित्वं मीमांसकाभिमतम् । कुतः । यतस्तेषां ज्योतिष्टोमसंस्थान्तर्गतानां ज्योतिष्टो- मप्रकरणगतयस्त्वङ्गोपदेशस्याविशिष्टत्वात् । नहि तत्राग्नीषोमीयादीनां देवताविशेषा विहिताः सन्ति नावान्तरप्रकरणेन नियमो भवेत् । किं तु यदग्नीषोमीयं पशुमालमत इत्यर्थवादावाश्यमन्नं दीक्षितस्येति विधेर्हेतुप्समर्पणे प्रस्तावकाद्विधिरनुमीयते नतु तद्वि. धिरस्मच्छाखायां साक्षादस्ति । तथाऽऽग्नेयादीनामप्यनुवादादेव विधय उन्नीयन्ते । वानपेये हि श्रूयते-"आमेयं पशुमालमते । अग्निष्टोममेव तेनावरुन्धे । ऐन्द्राने- नोक्थ्यम् । ऐन्द्रेण षोउशिनः स्तोत्रम् । सारस्वस्याऽतिरात्रम् । मारुत्या वृहतः स्तोत्रम् " इत्यर्थवादेन वाजपेयपशुदेवताविधिः परेणाग्निष्टोमादिसंस्थास्वाग्नेयादि- पशुविधयोऽनुमीयन्तेऽतस्तु ते सर्वेऽपि पशवो झविशेषेण ज्योतिष्टोमं प्राप्ता अतस्तेषां सर्वेषामप्यवान्तरप्रकरणं समानमेव । तथा चात्यन्यानगामित्यादिधाम्नो धाम्नो राजनित्यन्ता मन्त्राः प्रकरणे पठचमाना न कामपि पशुदेवतां विशेषे. णाभिदधते । तथा, ताह्मणमपि वैष्णव्यर्चा हुत्वा यूपमित्यादि यं द्विष्यात्तं ध्यायेच्छुचैवैनमर्पयतीत्यन्तं यूपादिविधानहृदयशूलोद्वासनान्तं समानमेव न कारि देवतां विशेषेणोपादत्तेऽतो यावन्तो ज्योतिष्टोमपशवस्तावन्तः सर्वेऽप्यविशेषादवान्तर- १ क. च. छ. ट. "यादिः य । २ ख. ग. छ.ठ, ण, योस्तु । ३ क, च, ट. शस्य वि"। २ ५५०पटळ:] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ४४७ प्रकरणिन एवेति सर्वेषामोपदेशिकमेवाऽऽध्वर्यवम् । उपाकरणमन्त्रादयस्तु निरूवाद. तिदिष्टास्तथा गैषविशेषा अपि ऎन्द्रे सारस्वत्या मैत्रावरुणप्रैषाभावश्च शास्त्रान्तरादेव । तथा शास्त्रान्तरवशात्प्रेषविशेषनियमो बहिर्विधृतिप्रस्तरकार्यमयपरिधिनियमोऽपि वचनादेवेत्युक्तम् । तस्मादग्नीषोमीयादयः पश्चापि सोमे तन्त्रान्तर्गतानां व्यवस्थिताः प्रकृतयः । सोमे तन्त्रबाहि नानां तु निरूद ऐन्द्राग्न एवेति । पञ्चापि पशवः प्रत्य. क्षधर्माणो हौत्रेण निरूढस्य विकृतय इतर आध्वर्यवेण वैशेषिकेण च होत्रमतिदेशा. समानमेव प्राप्तमपि शास्त्रान्तरादैन्द्रे सारस्वत्यां च मैत्रावरुणब्यापारप्रतिबन्धेनैव व्यवस्थापितमित्यछमतिप्रसङ्गेन । जैमिनीयस्तु पञ्चपशुप्रकृतित्वमाशय दूषितं न्यायेन तत्त्वस्मच्छाखोपदेशसूचितन्यायव्याख्याने सूत्रतात्पर्य दर्शितमतोऽस्मत्सूत्रेऽय. मेव प्रकारो ज्ञेयः। न्यायोपदेशयोः केचिद्विकल्पं ब्रुवते न तत् । युक्तं न्यायोऽनुमानं तु श्रुतितुल्यं कथं मवेत् ॥ इति सत्यापादहिरण्यकशिसूत्रव्याख्यार्या महादेवकृतायां प्रयोगवैजयन्त्यां चतुर्थे पशुभने पञ्चमः पटलः ॥५॥ इति हिरण्यकेशिसूत्रव्याख्यायां चतुर्थः प्रश्नः ॥ ४ ॥

5.1 अथ पञ्चमप्रश्ने प्रथमः पटलः ।

यद्यपि राजसूये हि चातुर्मास्यानि पठ्यन्ते तेषां हि दर्श पूर्णमासी चातुर्मास्यानीति नित्येष्वपि पाठ उपलभ्यते स्मृतावपि चातुर्मास्यानि चैव होत्यादौ तत्र तेषां राजसूये पठितानामत्र नित्यफलवत्त्वान्नित्यान्यपीत्यर्थः ।

अक्षय्यꣳ ह वै सुकृतं चातुर्मास्ययाजिनः ।

चातुर्मास्यर्यजते स तथा तस्य सुकृतमक्षय्यफलत्वादक्षम्य ह वै शब्दौ श्रुतिगतावेव वे पठितौ । हशब्दः प्रसिद्धमित्यर्थे । वैशब्दो ह्यर्थः । तस्माचातुर्मास्यैरवश्यं यष्टन्यमि- त्यर्थः । न चार्थवादात्फलकल्पनेति वाच्यम् । पक्ष एतेषामम्याप्तस्य विधास्यमानत्वात् । न च काम्येष्वम्यासोऽस्ति । अयं प्रयोगो नित्यानामेव काम्यप्रयोगस्याने स्वयमेव वक्ष्यमाणत्वात् । चतुर्पु चतुर्षु मास्यानीति यागानां गृहमेधीयत्रैयम्बकपरिचर्याम्यां दविहोमाम्यां सहितानां नामधेयं यजतिचोदितत्वेन यागानां समुदायस्य । तया चातु- मस्यैिर्यक्ष्ये तैर्यज्ञनारायणं प्रीणयानीति संकल्पः । भन्वारम्भणीषार्थमृविवरणम् ।