कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्/प्रश्नः १२

← प्रश्नः ११ कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्
प्रश्नः १२
हिरण्यकेशिः/सत्याषाढः
प्रश्नः १३ →

12.1
अथ द्वादशप्रश्ने प्रथमः .पटलः ।
सर्वासु चितिषु प्रवर्ग्योपसदावादितः पौर्वाह्निक्यावुपरिष्टादापराह्निक्यौ प्रवर्ग्योपसदश्चिति होमोऽश्वपरिणयनं च व्याख्यातम् । .श्वोभूते द्वितीयां चितिं चिनोति ।। १ ।।
ध्रुवक्षितिर्ध्रुवयोनिरिति पञ्चाऽऽश्विनीरुप दधाति । चतस्रः प्रतिदिशमेकां मध्ये ।। २ ।।
सजूर्ऋतुभिरिति पञ्चर्तव्या आश्विनीरुपदधाति ।। ३ ।।
अनुपरिहारꣳ सादयति प्राणं मे पाह्यपानं मे पाहीति पञ्च वायव्या ऋतव्या अनूपदधाति वायोर्यान्यसि देवानां वायो यान्यसीति द्वे संयान्ये । शुक्रश्च शुचिश्चेति द्वे ऋतव्ये ।। समानतया देवते भवतः ।। ४ ।।
अपस्पिन्वेति पञ्चापस्या वायव्या अनूपदधाति । अनुपरिहारꣳ सादयति । विष्टम्भो वय इति चतस्रः । मूर्धन्वती पुररस्तादुपदधाति ।। ५ ।।
त्र्यविर्वय इति पञ्च दक्षिणतो वयस्विनीः । पष्ठवाड्वय इति पञ्च पश्चाद्द्वेऽनुमती वस्तो वय इति पञ्चोत्तरतः सिꣳहवतीः । अपि वा .वस्तो वय इति दक्षिणेऽꣳस उपदधाति । वृष्णिर्वय इत्युत्तरे । व्याघ्रो वय इति दक्षिणे पक्ष उपदधाति । सिꣳहो वय इत्युत्तरे । पुरुषो वय इति मध्ये ।। ६ ।।
ऋषभप्रभृतिर्व्याख्यातश्चित्यन्तः ।। ७ ।।
श्वोभूते तृतीयां चितिं चिनोति ।। ( ख० १ ) ।। ८ ।।
इन्द्राग्नी अव्यथमाना इति स्वयमातृण्णामभिमृश्याश्वेनावघ्राप्य विश्वकर्मा त्वा सादयत्वन्तरिक्षस्य पृष्ठे व्यचस्वतीमिति मध्येऽग्नेरविदुषा ब्राह्मणेन सहोपदधाति । भुव इति चैतया व्याहृत्या ।। ९ ।।
चित्तिं जुहोमीति स्वयमातृण्णायाꣳ हुत्वाऽनुव्यनित्यविद्वान्ब्राह्मणो वरं ददाति ।। १२.१.१० ।।
ज्योतिरसि ज्योतिर्मे यच्छान्तरिक्षं यच्छान्तरिक्षान्मा पाहीति हिरण्येष्टकाम् । अधि द्यौरन्तरिक्षं ब्रह्मणा विष्टा मरुतस्ते गोप्तार इति मण्डलेष्टकाम् । अनुरेतः सिचो विवयस उपदधाति । विश्वकर्मा त्वा सादयत्वन्तरिक्षस्य पृष्ठे ज्योतिष्मतीमिति विश्वज्योतिषम् । अन्तरिक्षस्य यान्यसि देवानामन्तरिक्ष यान्यसीति द्वे संयान्यौ ।।१ १ ।।
नभश्च नभस्यश्चेषश्चोर्जश्चेति चतस्र ऋतव्या द्वे द्वे समानतया देवते भवतः ।। १२ ।।
राज्ञ्यसि प्राची दिगिति पञ्च दिश्याः । चतस्रः प्रतिदिशमेकां मध्ये ।। १३ ।।
आयुर्मे पाहीति दश वैराजीः पुरस्तादुपधाय ।। १४ ।।
षट्त्रिꣳशतं बृहतीरुपदधाति । मा छन्द इति द्वादश दक्षिणतः । पृथिवी छन्द इति द्वादश पश्चात् । अग्निर्देवतेति द्वादशोत्तरतः ।। १५ ।।
मूर्धाऽसि राडिति सप्तवालखिल्याः पुरस्तात्प्रतीचीरुपदधाति । यन्त्री राडिति सप्त पश्चात्प्राचीः १ ६।।
पृथिव्यै स्वाहेति द्वादश भूतेष्टकाः ।। १७ ।।
प्राच्या त्वा दिशा सादयामीति पञ्चाऽऽत्मेष्टकाश्चतस्रः प्रदिशमेकां मध्ये ॥ (ख०२) ॥ १८ ॥
इन्द्रो दधीचो अस्थभिरित्येतेनानुवाकेनाथर्वशिरो दशातिप(रि)क्ता इष्टका उपदधाति ॥ १९ ॥
ऋषभप्रभृत्तिर्व्याख्यातश्चित्यन्तः ॥ १२.१.२० ॥
श्वोभूते चतुर्थीं चितिं चिनोति ॥ २१ ॥ .
आशुस्त्रिवृदग्नेर्भागोऽसीत्येताभ्यामनुवाकाभ्यां
यथाब्राह्मणमुपदधाति ॥ २२ ॥
अन्तरिक्षमन्तरिक्षाय त्वेति द्वे संयान्यौ ।। २३॥
सहश्च सहस्यश्चेति द्वे ऋतव्ये । समानं तया देवते भवतः ।। २४॥
एकयाऽस्तुवतेति सप्तदश सृष्टीः ।। २५ ॥
इयमेव सा या प्रथमा व्यौच्छदिति पञ्चदश व्युष्टीः ॥ २६ ॥
अग्ने जातान्प्र णुदा नः सपत्नानिति पुरस्तादुपदधाति । सहसा जातानिति पश्चात् । चतुश्चत्वारिꣳशः स्तोम इति दक्षिणतः । षोडशः स्तोम इत्युत्तरतः ।। २७ ।।
इष्टकायां पुरीषमध्यू( ध्यु )ह्य पृथिव्याः पुरीषमस्यप्सो नामेति मध्येऽग्नेः पुरीषवतीमुपदधाति ॥ २८ ॥
ऋषभप्रभृतिव्या(र्व्या )ख्यातश्चित्यन्तः॥ २९ ॥
श्वोभूते पौर्वाह्णिकीभ्यां प्रचर्य पञ्चमीं चितिं चिनोति ॥१२.१.३०॥
एवश्छन्दो वरिवश्छन्द इति चत्वारिꣳशतं विराजो दश दश प्रतिदिशमक्ष्णया ॥ ३१ ॥
रश्मिरसि क्षयाय त्वा क्षयं जिन्वेत्येकत्रिꣳशतꣳ स्तोमभागाः सप्त सप्त प्रतिदिशं तिस्रो मध्ये ॥ ३२॥
राज्ञ(ꣳय)सि प्राची दिगिति पञ्च नाकसदश्चतस्रः प्रतिदिशमेकां (मध्ये । ) पश्चात्प्राचीमुत्तमामुपधायायं पुरो हरिकेश इति नाकसत्सु पञ्चचोडा उपदधाति । ता उपधाय वृत्तां चितिं चिनोति ।। ३३ ॥
तपश्च तपस्यश्चेति द्वे ऋतव्ये समानतया देवते भवतः ॥ (ख०३ ) ॥ ३४ ॥
देवानां यान्यसि देवानां देवयान्यसीति द्वे संयान्यौ ॥ ३५ ॥
प्रजापतिस्त्वा सादयतु दिवः पृष्ठे ज्योतिष्मतीमिति विश्वज्योतिषम् । अत्र रेतःसिचः स्थविरस्योपदधाति ।३६ ॥
द्यौरपराजिताऽमृतेन विष्टाऽऽदित्यास्ते गोप्तार इति मण्डलेष्टकाम् । सुवरसि सुवर्मे यच्छ दिवं यच्छ दिवो मा पाहीति हिरण्येष्टकाम् ॥ ३७॥
आपराह्निकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचर्य यदक्रन्दः प्रथमं जायमान इति श्वेतमश्वं प्रदक्षिणं परिणीय वसन्ति ।। ३८ ॥
औदुम्बरीस्तिस्रः समिधः प्रादेशमात्रीर्घृते वासयति ॥ ३९॥
श्वोभूत उत्तमाभ्यां पौर्वाह्निकीभ्यां प्रवर्ग्योपसद्भ्या प्रचर्य पञ्चम्याश्चितेः शेषं याज्ञसेनीं चितिं चिनोति ॥ १२.१.४०॥
अग्निर्मूर्द्धेति तिस्रो गायत्रीर्मूर्धन्वतीः पुरस्तादुपदधाति । उत्तरतस्त्रिष्टुभस्तिस्रो दक्षिणा उत्तरा जगतीस्तिस्रः पश्चादुत्तरा अनुष्टुभस्तिस्र उत्तरतो बृहतीरुष्णिहाः पङ्क्तीरक्षरपङ्क्तीरिति विषुरूपाणि च्छन्दाꣳसि यथावकाशमुपदधाति ॥ ४१ ॥ अत्रैवातिच्छन्दसमुपदधाति । द्विपदामुत्तमामुपधाय ॥ ४२ ॥
आयोस्त्वा सदने सादयामीति स्वयमातृण्णामभिमृश्याश्वेनावघ्राप्य परमेष्ठी त्वा सादयतु दिवः पृष्ठे व्यचस्वतीमिति मध्येऽग्नेरविदुषा ब्राह्मणेन सहोपदधाति । सुवरित्येतया व्याहृत्या । चितिं जुहोमीति स्वयमातृण्णायाꣳ हुत्वाऽपानिति। प्रोथदश्वो न यवसे अविष्यन्नित्युत्तरेऽꣳसे विकर्णीमुपदधाति । स्वयमातृण्णां च विकर्णीं च नान्याभिरिष्टकाभिरभ्युपदधाति ।। ४३ ॥४४॥
अग्ने गोभिर्न आगहीत्येतेनानुवाकेन गोचितिमुपदधाति । सहस्रं पादमात्रीरिष्टकाः ॥ ४५ ॥
ता मध्यमायां चित्यां चित्यां पशुकाम उपदधाति ॥ ( ख० ४)॥ ४६॥
इति सत्याषाढहिरण्यकेशिसूत्रे द्वादशप्रश्ने प्रथमः पटलः ॥ १॥

12.2
अथ द्वादशप्रश्ने द्वितीयः पटलः ॥
इन्द्राग्निभ्यां त्वा सयुजा युजा युनज्मीत्यष्टौ सयुजः ॥ १ ॥
अम्बा नामासीति सप्त कृत्तिकाः॥२॥
पुरो वातसनिरसीति पञ्च वृष्टिसनीरनुपरिहारꣳ सादयति ॥३॥
सलिलाय त्वा सर्णीकाय त्वेत्यष्टावादित्येष्टकाः॥ ४ ॥
ऋचे त्वा रुचे त्वेति पञ्च घृतेष्टका अनुपरिहारꣳ सादयति ॥५॥
यशोदां त्वा यशसि सादयामीति पञ्च यशोदाः ।। ६ ॥
भूयस्कृदसि वरिवस्कृदसीति पञ्च भूयस्कृतः ॥७॥
अप्सुषदसि श्येनसदसीति पञ्चाग्निरूपाणि ॥ ८॥
पृथिव्यास्त्वा द्रविणे सादयामीति पञ्च द्रविणोदाः ॥ ९ ॥
प्राणं मे पाह्यपानं मे पाहीति षडायुष्याः ॥ १२.२.१० ॥
अग्ने यत्ते परꣳ हृन्नामेत्यग्नेर्हृदयम् ॥ ११ ॥
या वा अयावा इति सप्तर्तव्याः । १२ ॥
अग्निना विश्वाषाडित्येतेनानुवाकेनेन्द्रतनूरुपदधाति ॥ १३ ॥
अभीषाच्चाभिषवी चाभिवयाश्चोर्ध्ववयाश्च बृहद्वयाश्च सवयाश्च सह्वाꣳश्च सहमानश्च सहस्वाꣳश्च सहीयाꣳ श्चेत्येतेनानुवाकेनेन्द्रनामान्युपदधाति॥१४
प्रजापतिर्मनसाऽश्वोऽच्छेत इति त्रयस्त्रिंशतं यज्ञतनूः ॥१५॥
ज्योतिष्मतीं त्वा सादयामीति द्वादश ज्योतिष्मतीः ॥ १६॥
रोहितेषु वा जीमूतेषु सादयामि । अरुणेषु त्वा जीमूतेषु सादयामि । सितेषु त्वा जीमूतेषु सादयामि । नीलेषु त्वा जीमूतेषु सादयामि। कृष्णेषु त्वा जीमूतेषु सादयामीति पञ्च जीमूताः।।१७॥
कृत्तिका नक्षत्रमित्येतेनानुवाकेनाꣳस्यष्टा नक्षत्रेष्टका उपदधाति।।१८॥
अग्ने रुचः स्थेति सर्वास्वनुषजति ॥ १९॥
पूर्णा पश्चादिति पुरस्तात्पौर्णमासीमुपधाय पूर्वीं पूर्वामुपधायापरामपरामुपदधाति । आ विशाखाभ्याम् । यत्ते देवा अदधुरिति पश्चादमावास्यायामुपधायापरामपरामुपधाय पूर्वां पूर्वामुपदधात्याऽपभरणी
भ्योऽन्ततः ॥१२.२.२०॥
हिरण्यगर्भः समवर्तताग्र इत्यष्टौ सरितः ॥ २१ ॥
विश्वकर्मा दिशां पतिरिति पञ्च हिरण्येष्टकाश्चतस्रः प्रतिदिशमेकां मध्ये ॥ २२॥
प्राणाय त्वा चक्षुषे त्वेति चतस्रः शर्कराः स्वयमातृण्णाः प्रतिदिशम् । [ संवत्सरस्य प्रतिमामिति प्रतिमामत्रैवर्षभ आम्नातः] ॥ २३ ॥
अग्न आयाहि वीतये । अग्निं दूतं वृणीमहे । अग्निनाग्निः समिध्यते । अग्निर्वृत्राणि जङ्घनत् । अग्ने स्तोमं मनामहे सिध्रमद्य दिविस्पृशम् । देवस्य द्रविणस्य व इति पञ्चाह्नां रूपाणि । [अथ व्रतमुपदधाति ॥ २४॥
शतायुधायेति पञ्चाज्यानीः । इन्द्रस्य वज्रोऽसि वार्त्रघ्न इति चतस्रो वज्रिणीः प्रतिदिशं ( अश्मन इषुहस्त उपदधाति ) पञ्चैके समामनन्ति यो न उपरिष्टादिति मन्त्रꣳ संनमति ॥ २५॥
अग्ने यशस्विन्यशसे ममर्पयेति चतस्रो राष्ट्रभृतः । गायत्रीं पुरस्तादुपदधाति त्रिष्टुभं दक्षिणतो जगतीं पश्चादनुष्टुभमुत्तरतः पङ्क्तिं मध्ये । गायत्रीं दक्षिणत उपदधाति । एवमनुपूर्वाः सर्वाः । सर्वत्राग्निर्मूर्धा । भुवो । जनस्य गोपाः। त्वां चित्रश्रवस्तम । अग्ने तमद्याश्वमित्येता आम्नाता भवन्ति ।। (ख० ६) ॥ २६ ॥
इति सत्याषाढहिरण्यकेशिसूत्रे द्वादशप्रश्ने द्वितीयः पटलः ॥२॥

12.3
अथ द्वादशप्रश्ने तृतीयः पटलः ।
सहस्रस्य प्रमा असीति सहस्रेण हिरण्यशल्कैः प्रदक्षिणमनुपरिक्रामन्प्रतिदिशमग्निं प्रोक्षति द्वाभ्यां द्वाभ्याꣳ शताभ्याम् । मध्य उत्तमाभ्यां प्राङ्मुखः ॥ १॥
इमा मे अग्न इष्टका धेनवः सन्त्वितीष्टका धेनूः कुरुते ॥ २ ॥
ऐडिक्या चित्याऽभिमृशत्यारण्येऽनुवाक्या भवन्ति ॥ ३ ॥
शतरुद्रीयं जुहोति जर्तिल यवाग्वा वा गवीधुकयवाग्वा वा गवीधुकसक्तुभिर्जर्तिलैः सर्पिषा मृगक्षीरेणाजक्षीरेण वाऽर्कपर्णेनोर्ध्वस्तिष्ठन्नुत्तरार्ध्यायामिष्टकायां नमस्ते रुद्र मन्यव इत्येताननुवाकाꣳस्त्रैधं प्रतिविभज्य प्रथमेनानुवाकेनाशीत्या च जानुदघ्नेऽशीत्यैव नाभिदघ्नेऽशीत्या यच्च प्रागवतानेभ्यस्तेनाऽऽस्यदघ्ने सहस्राणि सहस्रश इत्यसंख्यातान्दशावतानान् प्रत्यवरोहाञ्जुहोति॥ ४ ॥ नगो रुद्रेभ्यो ये दिवीत्यास्यदघ्ने नमो रुद्रेभ्यो येऽन्त'रिक्ष इति नाभिदघ्ने नमो रुद्रेभ्यो ये पृथिव्यामिति जानुदघ्ने ॥ ५ ॥
असंचरेऽर्कपर्णमुदस्यति ॥६॥
यं द्विष्यात्तस्य संचरे पशूनां न्यस्येद्यः प्रथमः पशुरभितिष्ठति स आतिमार्छति ॥ ( ख० ७)॥
शतरुद्रीयस्य ब्राह्मणम् ॥७॥
यो रुद्रो अग्नौ यो अप्सु य ओषधीष्विति रौद्रं गावीधुकं चरुं पयसि शृतं यस्यामिष्टकायाꣳ शतरुद्रीयं जुहोति तस्यां निदधाति ॥ ८॥
तिसृधन्वमयाचितं ब्राह्मणाय दद्यात् ॥ ९॥
वसवस्त्वा रुद्रैः पुरस्तात्पान्त्विति प्रदक्षिणमनुपरिक्रामन्प्रतिदिशमाज्येनाग्निं प्रोक्षति ॥ मध्य उत्तमेन प्राङ्मुखो यत्ते रुद्र पुरो धनुरिति प्रदक्षिणमनुपरिक्रामन्प्रतिदिशं नमस्कारैरुपतिष्ठते मध्य उत्तमेन प्राङ्मुखः ॥१२.३.१०॥
उदकुम्भमादायाश्मानमवधायाश्मन्नूर्जमिति त्रिः प्रदक्षिणमग्निं परिषिञ्चन्पर्येति ॥ ११ ॥
निधाय कुम्भं त्रिरपरिषिञ्चन्प्रतिपर्येति । यद्यभिचरेदिदमहममुष्याऽऽमुष्यायणस्य प्राणं प्रक्षिणोमीति दक्षिणस्याꣳ श्रोण्यां कुम्भं प्रक्षिणोति ।
द्वेष्यस्य नाम गृह्णाति ।। १२ ॥
पृष्ठैरुपतिष्ठते । गायत्रेण पुरस्तात् । बृहद्रथंतराभ्यां पक्षौ । ऋतुस्था यज्ञायज्ञीयेन पुच्छम् । दक्षिणस्याꣳ श्रोण्यां वारवन्तीयं गायत्युत्तरस्यां वामदेव्यमपि पक्षं प्रति प्रजापतेः साम ऋचं गायति ॥ १३ ॥
इष्टो यज्ञो भृगुभिराशीर्दा वसुभिस्तस्य त इष्टस्य वीतस्य द्रविणेऽह भक्षीयेति स्तुत शस्त्रयोर्दोहे यजमानं वाचयति ॥ १४ ॥
पिता मातरिश्वेति संचितोक्थ्येन होताऽःशꣳसति ।
होतर्यकामयमानेऽध्वर्युः ॥ १५ ॥
अत्र धेनूः करणमेके समामनन्ति ।। (ख० ८) ॥ १६ ॥
इति सत्याषाढहिरण्यकेशिसूत्रे द्वादशप्रश्ने तृतीयः पटलः॥

12.4
अथ द्वादशप्रश्ने चतुर्थः पटलः
अवकां मण्डूकं वेतसशाखां च दीर्घवꣳशे प्रबध्य समुद्रस्य त्वाऽवाकयाग्ने परिव्ययामसीति सप्तभिरष्टाभिर्वाऽग्निं विकर्षति ॥ १॥
अनुगमयित्वा मण्डूकस्य प्राणान्संल्लोभ्य सर्वान्त्समुद्योत्करे न्यस्यति ॥ २ ॥
यं द्विष्यात्तमुपस्पर्शयेत् ॥ ३॥
स्वयं कृण्वानः सुगम [प्र]यावं तिग्मशृङ्गो वृषभः शोशुचानः । प्रत्नꣳ सधस्थमनु पश्यमाना आ तन्तुमग्निर्दिव्यं ततान ॥ त्वं न तन्तुरुत सेतुरग्ने त्वं पन्था भवसि देवयानः । त्वयाऽग्ने पृष्ठे वयमारुहेमाथा देवैः (वः)सधमादं मदेम । अतिसर्गं ददतो मानवायर्जुं पन्थानमनुपश्यमानाः। अजुषन्त मरुतो यज्ञमेतं वृष्टिर्देवानाममृतꣳ स्व(सुव)र्विदम् । आ वर्तमानो भुवनस्य मध्ये प्रजा विकुर्वञ्जन्यन्विरूपाः। संवत्सरः परमेष्ठी धृतव्रतो यज्ञं नः पान्तु रजसः परस्तात् । प्रजां ददातु परिवत्सरो नो धाता ददातु सुमनस्यमानः । बह्वीः साकं बहुधा विश्वरूपा एकव्रता मामभि संविशन्त्विति पञ्चान्वारोहाञ्जुहोति । (ख०९)॥४॥
पृथिवीमाक्रमिषं प्राणो मा मा हासीदिति कृष्णाजिनस्योपानहावुपमुञ्चतेऽन्यतरां वा ॥ ५॥
अपामिदं न्ययनं नमस्ते हरसे शोचिष इति द्वाभ्यामाग्निमधिक्रामति ॥ ६ ॥
जुह्वां पञ्चगृहीतं गृहीत्वा नृषदे वडिति पञ्चभिरक्ष्णयाऽग्निं व्याघारयति । यथोत्तरवेदिम् । ७॥
ये देवा देवानामिति द्वाभ्यां दध्ना मधुमिश्रेण दर्भग्रुमुष्टिनाऽग्निमनु परिचारमवोक्षति ॥ ८ ॥
कूर्मपृषन्तं कृत्वा प्राणदा अपानदा इति प्रत्यवरोहति ॥ ९॥
जुह्वां पञ्चगृहीतं गृहीत्वाऽग्निस्तिग्मेन शोचिषा सैनाऽनीकेनेति सꣳहिताभ्यामग्नयेऽनीकवत एकामाहुतिं जुहोति ॥ १२.४.१० ॥
षोडशगृहीतेन स्रुचं पूरयित्वा य इमा विश्वा भुवनानि जुह्वदिति सूक्ताभ्यां नाना वैश्वकर्मणानि जुहोति । सर्वाभिर्वा ॥ ११ ॥
यं कामयेत चिरं पाप्मनो निर्मुच्येतेत्येकैकं तस्य जुहुयात् । यं कामयेत ताजक्पाप्मनो निर्मुच्येतेति सर्वाणि तस्यानुद्रुत्य जुहुयात् ।। १२॥
समुद्राय वयुनाय सिन्धूनां पतये नम इति यद्येनमुदकेऽभिविन्देदञ्जलिनोदकमादायाप्सु जुहुयात् । अयज्ञसंयुक्तः कल्पः ।। (ख०१०)॥ १३ ॥
इति सत्याषाढहिरण्यकेशिसूत्रे द्वादशप्रश्ने चतुर्थः पटलः ॥ ४ ॥

12.5
अथ द्वादशप्रश्ने पञ्चमः पटलः ।
उत्तमाभ्यामापराह्निकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचर्योदेनमुत्तरां नयेति तिसृभिर्घृतोषितास्तिस्रः समिध आहवनीयेऽभ्यादधाति ॥१॥
उदु त्वा विश्वे देवा इत्यग्निमुद्यच्छते ॥२॥
पञ्च दिशो देवीर्यज्ञमवन्तु देवीरिति षड्भिर्हरति ॥ ३॥
आशुः शिशान इति दक्षिणतो ब्रह्मा दशर्चेनाप्रतिरथेनान्वेति । मैत्रावरुणो ब्राह्मणाच्छꣳसी वा॥४॥
विमान एष दिवो मध्य आस्त इति द्वाभ्यामाग्नीध्रेऽश्मानं निदधाति ॥ ५॥
इन्द्रं विश्वा अवीवृधन्निति चतसृभिरा पुच्छादेति ॥ ६ ॥
प्राचीमनु प्रदिशमिति पञ्चभिरग्निमाक्रमन्ते ॥ ७ ॥
कृष्णायै श्वेतवत्सायै पयसा दध्ना वौदुम्बरीꣳ स्रुचं पूरयित्वा नक्तोषासा, अग्ने सहस्राक्षेति सꣳहिताभ्याꣳ स्वयमातृण्णायामेकाहुतिं जुहोति ॥८।
ऊर्णावन्तं प्रथमः सीद योनिमित्युच्यमाने सुपर्णोऽसि गरुत्मान्पृथिव्याꣳ सीदति तिसृभिः स्वयमातृण्णायामग्निं प्रतिष्ठापयति द्वाभ्यां वा ॥ ९ ॥
प्रेद्धो अग्ने दीदिहि पुरो न इत्यौदुम्बरीꣳ समिधमादधाति । विधेम ते परमे जन्मन्नग्न इति वैकङ्कतीꣳ सवितुर्वरेण्यस्य चित्रामिति शमीमयीम् । शमीमयीं पूर्वामेके समामनन्ति । वैकङ्कतीमुत्तराम् ॥ (ख०११) ॥ १२.५.१० ॥
अग्ने तमद्याश्वामित्यक्षरपङ्क्त्या जुहोति ॥ ११ ॥
जुहूꣳ स्रुवं च संमृज्य चतुर्ग्रहीतेनाष्टगृहीतेन द्वादशगृहीतेन वा स्रुचं पूरयित्वा सप्त त इति पूर्णाहुतिं जुहोति ॥ १२ ॥
तां जुह्वदिह सोऽस्त्विति दिग्भ्योऽग्निं मनसा ध्यायति ॥ १३ ॥
वैश्वानरीयस्य तन्त्रं प्रक्रमयति । तत्र यावत् क्रियते तद्व्याख्यास्यामः ॥ १४ ॥
वेदं कृत्वाऽग्नीन्परिस्तीर्य पाणी प्रक्षाल्योलपराजीꣳ स्तीर्त्वा यथार्थं पात्राणि प्रयुनक्ति ॥ १५॥
न प्रणीताः प्रणयति ॥ १६॥
निर्वपणकाले वैश्वानरं द्वादशकपालं निरुप्य सप्त मारुतान्त्सप्तकपालान्निर्वपति ॥ १७॥
तूष्णीमुपचरिता मारुता भवन्ति ॥ १८ ॥
यजुरुत्पूताभिः संयौति । अभिवासित आप्यलेपं निनीय । संप्रेषेण प्रतिपद्यते ॥ १९॥
यदन्यदिध्माबर्हिषः पत्नीसंनहनाच्च तत्संप्रेष्यति ॥१२.५.२०॥
यत्प्रागाज्यग्रहणात्तत्कृत्वा ध्रुवायामेव गृह्णाति ॥२१॥
प्रोक्षणीरभिमन्त्र्य ब्रह्माणमामन्त्र्य वेदिं प्रोक्ष्य प्रोक्षण्यवशेषं निनीय पवित्रे अपिसृज्य ध्रुवाꣳ स्रुवं च सादयति ॥ २२ ॥
एषाऽसददिति मन्त्रꣳ संनमति ॥ २३ ॥
विष्ण्वसि वैष्णवं धाम प्राजापत्यमित्याज्यमभिमन्त्रयते । (ख०१२)।२४
वैश्वानरमासाद्य मारुतानासादयति ॥ २५॥
उच्चैर्वैश्वानरस्याऽऽश्रावयति ॥ २६ ॥
सर्वहुतमपर्यावर्तयञ्जुहोति ॥ २७॥
ईदृङ्चान्यादृङ्चेत्यासीनो हस्तेनोपाꣳशु मारुतान्सर्वहुतान्गणेन जुहोति ॥ २८ ॥
पूर्वं पूर्वं गणमनुद्रुत्योत्तरेणोत्तरेण जुहोति ॥ २९ ॥
स्वतवाꣳश्च प्रघासी च सांतपनश्च गृहमेधी च क्रीडी च साकी चोर्जिषी चेत्युत्तमं गणमनुद्रुत्य प्रथमेन जुहोति ॥ १२.५.३० ॥
इन्द्रं दैवीर्विशो मरुतोऽनुवर्तमान इति हुत्वोपतिष्ठते ॥ ३१॥
यदि कामयत विशा क्षत्त्रꣳ हन्यामिति ग्राम्येऽनुवाक्यस्य गणस्य त्रीणि चत्वारि वा पदान्यनू(पादाननू )च्यारण्येऽनुवाक्यस्य शेषेण जुहोति ॥ ३२॥
एवं त्रिभिरादितो यथासमाम्नातं ग्रामेऽनुवाक्यस्य यथा पूर्वैरेवं त्रिभिरुत्तरैर्गणैः ॥३३॥
यदि कामयेत क्षत्त्रेण विशꣳ हन्यामित्यारण्येऽनुवाक्यस्य षट्सु पदान्तरालेषु षड्गणानोप्य ग्रामेषु वाक्यं जपित्वाऽऽरण्येन वाक्यशेषं जुहोति ॥ ३४॥
एवं त्रिभिरादितो यथासमाम्नातं ग्रामेऽनुवाक्येन यथा पूर्वैरेवं त्रिभिरुत्तरैर्गणैः ॥ ३५ ॥
न संप्रेष्यति । न संमार्ष्टि । नानूयाजान्यजति ॥ ३६ ।।
यं कामयेत क्षत्रियं प्र स्वादायतनाच्च्यवेतेति तस्यारण्येऽनुवाक्य(क)स्य गणस्याग्निष्ठं रथवाहनं वा व्यङ्गयेदित्ययज्ञसंयुक्तः कल्पः ॥ (ख०१३) ॥३७॥
इति सत्याषाढहिरण्यकशिसूत्रे द्वादशप्रश्ने पञ्चमः पटलः ॥ ५॥

12.6
अथ द्वादशप्रश्ने षष्ठः पटलः ॥
वसोर्धारां जुहोति । आज्येनौदुम्बर्या स्रुचाऽग्नाविष्णू सजोषसेत्यनुद्रुत्य वाजश्च मे प्रसवश्च मे इति संततामा मन्त्रसमापनात् ॥१॥
यं कामयेत प्राणानस्यान्नाद्यं विच्छिन्द्यामिति विग्राहं तस्य जुहुयात् । यं कामयेत प्राणानस्या नाद्यꣳ संतनुयामिति संततां तस्य जुहुयात् ॥२॥
यदाज्यमुच्छिष्येत तस्मिन्ब्रह्मौदनं पक्त्वा चतुरोऽध्वर्यून्भोजयेत्तेभ्यश्चतस्रो धेनूर्दक्षिणा दद्यात् ॥३॥
चतुःशरावमोदनं पक्त्वा तद्व्यञ्जनं भोजयति ॥ ४ ॥
वाजप्रसवीयं जुहोति । सप्त ग्राम्या ओषधयः सप्ताऽऽरण्याः । पृथगन्नानि द्रवीकृत्य वाजस्येमं प्रसवः सुपव इति चतुर्दशभिर्ऋग्भिरौदुम्बरेण स्रुवेणैकैकयर्चाऽन्नमन्नं जुहोति ।। ५ ॥
पितुं नु स्तोषं महोधर्माणं तविषीम् । यस्य त्रितो व्योजसा वृत्रं विपर्वमर्दयत् ।। स्वादो पितो मधो पितो वयं त्वा ववृमहे । अस्माकमविता भव । उप नः पितवाचर शिवः शिवाभिरूतिभिः ॥ मयोभुरद्विषेण्यः सखा सुशेवो अद्वयाः । तव त्ये पितो रसा रजाꣳस्यनुविष्ठिताः ॥ दिवि वाता इव श्रिताः । तव त्ये पितो ददतस्तव स्वादिष्व(ष्ठ)ते पितो ।। प्रस्वात्या (द्या)नो रथा(सा)नां तुविग्रीवा इवेरते । त्वे पितो महानां देवानां मनो हितम् ॥ अकारि चारु केतुना तवाहिमवसाऽवधीत् । यददो पितो अजगन्विवस्व पर्वतानाम् ॥ अत्रा चिन्नो मधो पितोऽरं भक्षाय गम्याः । यदपामोषधीनां परिंशमा रिशामहे ॥ वातापे पीव इद्भव | यत्ते सोम गवाशिरो यवाशिरो भजामहे ।। वातापे पीव इद्भव । करम्भ ओषधे भव पीवो वृक्क उदारथिः वातापे पीव इद्भव । तं त्वा वयं पितो वचोभिर्गावो न हव्या सुषूदिम ।। देवेभ्यस्त्वा सधमादमस्मभ्यं त्वा सधमादमिति हुत्वा हुत्वा पात्र्याꣳ संपातमवनयेत् ॥ (ख०१४ )॥ ६॥
अपिवा यस्यान्नस्याग्रे जुहुयात्तस्येध्मं कुर्यात् ॥ ७ ॥
यजमानायतन औदुम्बर्यामासीनमाग्निमन्वारब्धं कृष्णाजिने संपातैरभिषिञ्चति ॥ ८॥
दक्षिणे वा पक्षावस्मिन्कृष्णाजिने ब्राह्मणं व्याघ्रचर्मणि राजन्यं बस्तचर्मणि वैश्यं पशुकाममिति ॥ ९ ॥
नित्यवदेके समामनन्ति ॥ १२.६.१० ॥
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां बृहस्पतिꣳ साम्राज्येनाभिषिञ्चामीति ब्राह्मणम् ॥ ११ ॥
इन्द्रꣳ साम्राज्येनाभिषिञ्चामीति राजन्यम् । अग्निꣳ साम्राज्येनाभिषिञ्चामीति वैश्यम् ॥१२॥
पुरस्तात्प्रत्यङ्तिष्ठन्पश्चात्प्राङ्मुखमासीनं शीर्षतोऽभिषिच्याऽऽमुखादन्ववस्रावयति ॥ १३ ॥
कृष्णायै श्वेतवत्सायै पयसा दध्ना वौदुम्बरीꣳ स्रुचं पूरयित्वा नक्तोषासेत्याहुतिं जुहोति॥१४॥
ऋताषाडृतधामेति षड्भिः पर्यायैर्वासेदशगृहीतेन द्वादश राष्ट्रभृतो जुहोति ॥१५॥
पर्यायमनुद्रुत्य तस्मै स्वाहेति पूर्वामाहुतिं जुहोति।।१६॥
ताभ्यः स्वाहेत्युत्तराम् ।। भुवनस्य पत इति रथमुखे पञ्चाऽऽहुतीर्जुहोति ॥(ख०१५) ।। दश वा पर्यायै रथ्यस्याऽऽहवनीये धार्यमाणꣳ रथशिरोऽभि जुहोति । रथशिरसा जुहोतीत्येकेषाम् ॥ १७॥
समुद्गहीतꣳ रथमध्वर्योरावसथꣳ हरन्ति । अनुनयन्ति त्रीनश्वाꣳश्चतुर इत्येकेषाम् ॥१८॥
तान्सरथानध्वर्यवे ददाति ॥ १९॥
समुद्रोऽसि नभस्वानित्यञ्जलिना त्रीन्वातनामानि जुहोति ॥ १२.६.२० ॥
कृष्णाजिनपुटेन वा ॥ २१ ॥
अग्न उदधे यात इषुर्युवा नामेति पञ्चभिः पर्यायैः प्रदक्षिणमनुपरिक्रामन्प्रतिदिशं पञ्चाऽऽज्याहुतीर्जुहोति । मध्य उत्तमेन प्राङ्मुखः । समीची नामासि प्राची दिगिति षड्भिः पर्यायैर्दध्ना मधुमिश्रेण षण्महाहुतीर्जुहोति । यथा सर्पाहुतीर्यास्ते अग्ने सूर्ये रुच इति तिस्रो रुचो जुहोति ॥ २२ ॥
सुवर्णघर्मस्वाहेति पञ्चार्काहुतीर्हुत्वा ।। २३ ॥
वेदिस्तरणप्रभृतीनि कर्माणि प्रतिपद्यते ॥ २४ ॥
ममाग्न इत्येतेनानुवाकेन प्रतिमन्त्रमिष्टकाभिर्धिष्णियाꣳश्चिनोति । एकैकेन मन्त्रेणैकैकं धिष्णियमु(म ) पवर्जयति । अष्टावाग्नीध्रीय उपदधात्यश्मा नवम इत्येकेषाम् ॥ २५ ॥
द्वादश चतुर्विꣳशतिं वा होत्रीय एकादशैकविꣳशतिं वा प्रशास्त्रीये षण्मार्जालीयेऽष्टावितरेषु (खं०१६)॥ तव श्रिये व्यजिहीत पर्वतो गवां गोत्रमुदसृजो यदङ्गिरः। . इन्द्रेण युजा तमसा परीवृतं बृहस्पते निरपामौब्जो अर्णवम् । बृहस्पते अतियदर्यो अर्हात् । एवा पित्र इति तिसृभिर्ब्राह्मीभिर्ब्रह्मसदने यमो दाधार पृथिवीं यमो विश्वमिदं जगत् । यमाय सर्वमित्तस्थे यत्प्राणाद्वायुरक्षितम् । यथा पञ्च यथा षड्यथा पञ्चदशर्षयः ॥ यमं यो विद्यात्स ब्रूयाद्यथैक ऋषिर्विजानते ॥ त्रिकद्रुकेभिः पतति षडुर्वीरेकमिद्बृहत् । गायत्री त्रिष्टुप् छन्दाꣳसि सर्वा ता यम आहितेति तिसृभिर्यामीभिर्मार्जालीये त्वेषं वयꣳ रुद्रं यज्ञसाधवं कुकविमवसे निह्वयामहे । आरे अस्मद्दैव्यꣳ हेडो अस्य तु सुमतिमिद्वयमस्या वृणीमहे ॥ अश्याम ते सुमतिं देवयज्यया क्षयद्वीरस्य तव रुद्र मीढ्वः । सुम्नायन्निद्विशो अस्माकमा च रारिष्ट वीरा जुहवाम ते हविः॥ मृडा नो रुद्रोत नो मयस्कृधीति तिसृभी रौद्रीभिश्चात्वाले हव्यं प्रीणीहि हव्यꣳ श्रीणीहि हव्यं पच हव्यꣳ श्रपय हव्यमसि हव्याय त्वा हव्येभ्यस्त्वा हव्ये सीदेत्यष्टौ शामित्रे हव्यसूदोऽव ते हेड उदुत्तमं तत्त्वा यामि ब्रह्मणा वन्दमान इति तिसृभिर्वारुणीभिरवभृथे (तासु प्रचरन्ति । खण्डाः कृष्णा लक्ष्मणाश्चोत्कर उदस्यति अवशिष्टाश्च ) ॥२६॥
यत्प्राग्यूपसंमानात्तत्कृत्वैकयूपमेकादश वा यूपान्संमिनोति ॥ २७ ॥
तेषामग्निष्ठं पूर्वेद्युरुच्छ्रयति ॥ २८ ॥
अत्रैव वा । इतराञ्श्वो वा । अग्नीषोमीयस्य पशुपुरोडाशं निरुप्य देवसुवाँ हवीꣳष्यनुनिर्वपत्यग्नये गृहपतय इति यथासमाम्नातम् । पशुपुरोडाशस्य देवसुवां च हविषाꣳ समानꣳ स्विष्टकृदिडम् ॥ (ख० ॥ १७ ) ॥ २९ ॥१२.६.३०॥
इति सत्याषाढहिरण्यकशिसूत्रे द्वादशप्रश्ने षष्ठः पटलः ॥ ६ ॥

12.7
अथ द्वादशप्रश्ने सप्तमः पटलः ।
पशुकाल एकयूप एकादश पशूनुपाकरोति एकादशसु वा ॥१॥
अग्निं युनज्मि शवसा घृतेनेति तिसृभिः प्रात:सवनेऽग्निमभिमृशति ॥ २ ॥
दक्षिणाकाले हिरण्यपात्रं मधोः पूर्णं शतमानस्य कृतं चित्रं देवानामित्यवेक्ष्य मध्यंदिनेऽश्वेनावघ्राप्य ब्रह्मणे ददाति ॥ ३ ॥
अध्वर्यवे कल्याणीर्दक्षिणा दद्यात् ॥ ४ ॥
यदस्यान्याश्चिनुयायत्तं दक्षिणाभिर्न राधयेदग्निमस्य वृञ्जीत ॥ ५॥
उपाकृते यज्ञायाज्ञि (ज्ञी)यस्य स्तोत्र एकया प्रस्तुत एकस्यां वा गीतायां समुद्रे ते हृदयमिति द्वाभ्यामग्निमभिमृशति ॥ ६॥
हारियोजनेन चरित इमꣳ स्तनमूर्जस्वन्तं धयापामित्यग्निविमोचनीयामेकाहुतिं जुहोति । वि ते मुञ्चामीति वा ॥ ७ ॥
एकादश समिष्टयजूꣳषि जुहोति ॥८॥
नवाऽऽध्वरिकाणि हुत्वा-इष्टो अग्निराहुत: स्वाहाकृतः पिपर्तु नः। इष्टꣳ हविः स्वाहेदं नम इति दशमैकादशे जुहोति ॥ ९ ॥
अनूबन्ध्यावपायाꣳ हुतायां यदाऽऽकूतात्समसुस्रोदित्येतेनानुवाकेन प्रतिमन्त्रमाकूतीर्जुहोति ॥ १२.७.१० ॥
आपं त्वाऽग्ने मनसेति प्रयास्यन्नाप्ती(प्ति)भिरग्निमुपतिष्ठते ॥ ११॥
येऽग्नयः पुरीष्या इति यत्र स्वीयमग्निं पश्यति तमुपतिष्ठते ॥ १२ ॥
 उप त्वाऽग्ने दिवे दिव इति तिसृभिरन्येषामग्नीन्दृष्टा(ष्ट्वा) ॥१३॥
अग्निं चित्वा सौत्रामण्या यजेत । मैत्रावरुण्या चाऽऽमिक्षया ॥१४॥
अग्निं चित्वा संवत्सरं न कंचन प्रत्यवरोहेन्न पक्षिणोऽश्नीयात् ॥ १५ ॥
यावज्जीवं वर्षति । न धावेन्न रामामुपेयान्न द्वितीयं चित्वाऽन्यस्य स्त्रियमुपेयात् ।। १६ ॥
न तृतीयं चित्वा कांचनोपेयाद्भार्यां वोपेयात् ।। १७ ॥
अग्निं चित्वा य एतस्मिन्संवत्सरे न विरोचेत । स क्रतुमारभमाण एकचितीकमग्निं चिन्वीत ॥१८।।
सलिलाय त्वा सर्णीकाय त्वेत्यष्टौ नानामन्त्राः ॥ १९ ॥
यथार्थं लोकंपृणाः । अथ पुरीषम् ॥१२.७.२०॥
अग्निं चित्वा य एतस्मिन्संवत्सरे न प्रतिष्ठेत्स क्रतुमारभमाण एकचितीकमग्निं चिन्वीत संयच्च प्रचेताश्चेति पञ्च नानामन्त्राः । यथार्थं लोकंपृणाः । अथ पुरीषम् ।। २१ ॥
पुनश्चितिं व्याख्यास्यामः । सा त्रिष्वर्थेषु श्रूयते श्र( तेऽस्र )वणार्थे वा समृद्ध्यर्थे वा संतानार्थे वा ॥२२॥
श्र( अस्र )वणार्थां व्याख्यास्यामः । यदीष्ट्या यदि पशुना यदि सोमेन यजेत ॥ २३ ॥
यत्रैवास्य पूर्वोऽग्निश्चितः स्यात्तदपरमन्ववसाय यजेत ॥ २४ ॥
अपिवा येनर्षय इत्यष्टौ नानामन्त्रा अष्टौ च लोकंपृणाः । अथ पुरीषम् ॥ २५ ॥
श्वोभूतेऽष्टौ नानामन्त्रा एकादश लोकंपृणाः । अथ पुरीषम् । श्वोभूते एता नानामन्त्रा द्वादश च लोकंपृणाः । अथ पुरीषम् । अथ समृद्ध्यर्थां व्याख्यास्यामः । अग्निं चित्वा य एतस्मिन्संवत्सरे नर्ध्नोति । स क्रतुमारभमाणस्त्रिचितीकमग्निं चिन्वीत । सलिलाय त्वा सर्णीकाय त्वेत्यष्टौ नानामन्त्रा एकादश च लोकंपृणाः । अथ पुरीषम् । श्वोभूत एताश्च नानामन्त्रा द्वादश च लोकंपृणाः । अथ पुरीषम् । श्वोभूत एताश्च नानामन्त्रास्त्रयोदश च लोकंपृणाः । अथ पुरीषम् । संतानार्थायां तु तृतीयमग्निं चिन्वानस्तृतीयस्यां चितौ येनर्षय इत्यष्टौ च नानामन्त्रा अपरिमिताश्च लोकंपृणाः । अथ पुरीषम्॥(ख०१९)॥२६॥
इति सत्याषाढहिरण्यकेशिसूत्रे द्वादशप्रश्ने सप्तमः पटलः ।

12.8
अथ द्वादशप्रश्नेऽष्टमः पटलः ॥
काम्यानग्नीन्व्याख्यास्यामः । तेषामाकृतिविकारा ब्राह्मणव्याख्याताः ॥ १ ॥
अर्थसंयोगश्चानियमश्च तत्प्रयोगे छन्दश्चितं चिन्वीत पशुकाम इति । यानि प्रकृतौ छन्दाꣳसि तैरग्निं चिन्वीत । अष्टौ गायत्रीः। मूर्धन्वतीः पुरस्तादुपदधाति ॥ २॥
श्येनचितं चिन्वीत सुवर्गकाम इति । वक्रपक्षो व्यस्तपुच्छः श्येनाकृतिर्भवति ॥३॥
कङ्कचितं चिन्वीत यः कामयेत शीर्षण्वानमुष्मिँल्लोके स्यामिति । कङ्काकृतिर्निरायतग्रीवः शीर्षण्वान्भवति ॥ ४॥
अलजचितं चिन्वीत चतुःसीतं प्रतिष्ठाकाम इति चतस्रश्चतस्रः सीताः सꣳहिताः कृषति ॥ ५॥
प्रउगचितं चिन्वीत भ्रातृव्यवानिति शकटाकृतिर्भवति ॥ ६॥
उभयतःप्रउगं चिन्वीत यः कामयेत प्रजातान्भ्रातृव्यान्नुदेयँ प्रतिजनिष्यमाणानित्युभयतः शकटाकृतिर्भवति । यथा विमुखे शकटे ।। ७ ॥
रथचक्रचितं चिन्वीत भ्रातृव्यवानिति परिमण्डलो भवति ।। ८॥
द्रोणचितं चिन्वीतान्नकाम इति द्वयानि तु खलु द्रोणानि चतुरश्राणि परिमण्डलानि च तत्र याथाकामी ॥ ९॥
पश्चात्स्वरुर्भवत्यनुरूपत्वायेति ॥ १२.८.१० ॥
समूह्यं चिन्वीत पशुकाम इति समूहन्निवेष्टका उपदधाति ॥ ११ ॥ दिक्षु चात्वालात्खात्वा
तेभ्यः पुरीषमभ्यूहतीत्येकेषाम् ॥ १२ ॥
परिचाय्यं चिन्वीत ग्रामकाम इति मध्यमाꣳ स्वयमातृण्णां प्रदक्षिणमिष्टकागणैः परिचिनोति ॥१३ ।।
सपरिचाय्योपचाय्यं चिन्वीत ग्रामकाम इति परिचाय्येनोक्तः ॥१४॥
श्मशानचितं चिन्वीत यः कामयेत पितृलोक ऋध्नुयामिति चतुरश्रः परिमण्डलो वा । यथा महापैतृकी वेदिरित्येकेषाम् । त्र्यश्रिरित्येकेषाम् ।।(ख०२०)।१५।।
तापश्चितं व्याख्यास्यामः ॥ १६ ॥
संवत्सरं दीक्षितो भवति ॥ १७॥
संवत्सरे पर्यागते राजानं क्रीणाति ॥ १८॥
पुरस्तादुपसदामाग्नेयमष्टाकपालं निर्वपेदैन्द्रमेकादशकपालं वैश्वदेवं द्वादशकपालं बार्हस्पत्यं चरुं वैष्णवं त्रिकपालं संवत्सरमुपसदोऽनुपसदमग्निं चिनोति ॥ १९ ॥
द्वौ द्वौ मासावेकैका चितिश्चतुर उत्तमा त्रीन्मासाꣳश्चतुस्तनानि व्रतानि भवन्ति । एवं त्रिस्तनानि द्विस्तनानि एकस्तनानि ।। १२.८.२० ॥
यदृषीणामाग्नेयं सूक्तं तेन संवत्सरं चिन्वीत ॥२१॥यानि दशतयीष्वाग्नेयानि सूक्तानि तेषामेकैकेन सूक्तेनैकैकामिष्टकामुपदधाति ॥ २२ ॥
सूक्तपरिमाणा नानामन्त्राः । यथार्थं लोकंपृणाः ॥२३॥
आवृत्तासूपसत्सु तृतीये संवत्सरेऽभिजिता विश्वजिता वा यजेत । सहस्रदक्षिणाः सर्ववेदसं व्याख्यास्यामः । परिवासं परिवासम् ।। ॥ (ख० २१) । २४ ॥
इति सत्याषाढहिरण्यकेशिसूत्रे द्वादशप्रश्नेऽष्टमः पटलः ।।
इति सत्याषाढहिरण्यकेशिसूत्रे द्वादशप्रश्नः ॥

७६ : सत्यापादविरचितं श्रौतसूत्रम् -- १२ प्रश्नै

अपराह्ने भये आपराह्निक्यौ ताभ्यां प्रवोपसङ्ख्या प्रेचर्य श्वेतमश्वं प्रदक्षिणीकृत्य चितेः प्रागुदग्वाऽऽरभ्यते प्रदक्षिणं कृत्वा वसन्ति विरमन्ति कर्मणः । भाष्यकारस्तु मध्यरात्रे व्रतप्रदाने कृतेऽश्वपरिणयनान्तं कृत्वा वसन्तीति व्याचष्टें । केचित्तु बसत्यङ्ग परिणयनमित्याहुः । तस्मात्पञ्चम्यां चितौ न परिणयनम् । यसत्यङ्गं तु तत्परिणयनं, तत्प्रकरणत्वात्तस्मात्पञ्चम्यामपिं क्रियते। अभ्यासः प्रश्नपरिसमाप्त्यर्थः ॥ २७ ॥ ' इति सत्यापाढहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयोगचन्द्रि कायामेकादशप्रश्नेऽष्टमः पटलः ॥ ८ ॥ . . इति हिरण्यकेशिसूत्रव्याख्यामेकादशप्रश्नः समाप्तः ॥ ११ ॥

12.1 अथ द्वादशप्रश्ने प्रथमः .पटलः ।

सर्वासु चितिषु प्रवर्ग्योपसदावादितः पौर्वाह्निक्यावुपरिष्टादापराह्निक्यौ प्रवर्ग्योपसदश्चिति होमोऽश्वपरिणयनं च व्याख्यातम् । .श्वोभूते द्वितीयां चितिं चिनोति ॥ १ ॥

श्वोभूते श्वः प्रभाते पौर्वाहिकीभ्यां प्रवग्योपसद्भया प्रचर्य । प्रवर्यश्योपसच्च प्रवयों· पसदी ताभ्यां प्रचर्य सुब्रह्मण्यान्ते द्वितीयां चिति चिनोति । यदि प्रथमस्याश्चितोरिष्टकाः संसादयति, इति कृतं तदा चितौ चितौ प्रणयनम् । उत्तरवेद्यभिमर्शनं तु सकृत् । अन्यङ्गत्वात्तथाऽऽत्मन्यग्निग्रहणं स्वयंचित्याऽसिमर्शनं शालामुखीयहोमः, अरन्यर्थत्वात् सकृदेव । इष्टका उपधास्यश्वेतमश्वमभिमृशेत्पुरीषमुषधास्य कृष्णम् । इति चिंतौ चिती पुरीषान्ता चितिरिति चित्यङ्गत्वादश्वाभिमर्शनं, तस्याः सर्वत्राऽऽरोहणं जपतीति वचनादेतदपि चितौ चितौ । [पक्षे]यदा तु तिस्त्रः स्वयमातृण्णास्तिस्त्रश्च विश्वज्योतिष इति कृतः पक्षस्तदा न पुनः प्रणयनम् । अश्वावभितः स्थापिती कृष्ण उत्तरतः श्वेतो दक्षिणतस्तदा श्वेतमालम्य ॥ १ ॥

ध्रुवक्षितिर्ध्रुवयोनिरिति पञ्चाऽऽश्विनीरुप दधाति । चतस्रः प्रतिदिशमेकां मध्ये ॥ २ ॥

अश्विदेवयुक्तैर्मन्त्रैरुपधेया इष्टका आश्विन्यः । आश्विनीरुपदधाति (तै० सं० ५-३-१ ) इति विधेराश्विनीरिष्टका उपदध्यात् । संख्यां विधत्ते-पञ्चोपदधाति' .. (५-३-१) इत्यादि । पञ्च पूर्वार्धेऽनेः ॥ २ ॥

सजूर्ऋतुभिरिति पञ्चर्तव्या आश्विनीरुपदधाति ॥ ३ ॥ १ पटलः ]. महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । - आश्विनीनां पश्चात् --सर्ऋतुभिरिति पश्चर्तन्या उपदधाति । आस्वृतव्यासु ना(अ) पकाम् । द्वंद्वमन्या उपदधाति चतस्रो मध्ये धृत्यै' इत्यवकामनूपदधातीत्यधिकारात् । यद्वा---एतैर्मन्त्रैः साध्यमुपधानं विधत्ते--ऋतव्या उपदधाति ( ६-३-१) इत्यादि। वसन्तादीनामृतूनां स्वरवव्यापारसामर्थ्यायैतदुपधानम् । इष्टकासंख्यां विधत्ते-'पञ्चोपदधाति' (ते. सं०.५-३-१ ) इत्यादि । हेमन्तशिशिरयोः समासेनतूनां पश्चस्वम् ॥३॥

अनुपरिहारꣳ सादयति प्राणं मे पाह्यपानं मे पाहीति पञ्च वायव्या ऋतव्या अनूपदधाति वायोर्यान्यसि देवानां वायो यान्यसीति द्वे संयान्ये । शुक्रश्च शुचिश्चेति द्वे ऋतव्ये ॥ समानतया देवते भवतः ॥ ४ ॥

प्राणं मे पाहीस्यूतन्यानां पश्चात्पञ्च प्राणभृतः । ( अपस्पिन्वेति पश्चापस्या इत्याप. स्तम्बः ।) अनुपरिहत्य चाग्निमित्येकैकया प्रतिदिशमुपदधाति, इति श्रुतेः । भरद्वाजस्यतु यदेकधोपदध्यादिति तस्याः श्रुतेरयमर्थस्तेन विकल्पितः । संयान्यौ च हे वायोर्यान्यसि, इति । शुक्रश्च शुचिश्चेति द्वे ऋतव्ये अवकोपधानं च पूर्ववत् ।। ४ ॥

अपस्पिन्वेति पञ्चापस्या वायव्या अनूपदधाति । अनुपरिहारꣳ सादयति । विष्टम्भो वय इति चतस्रः । मूर्धन्वती पुररस्तादुपदधाति ॥ ५ ॥

अपसिन्वेत्यपस्याः पश्च, वायव्या दिश उपधानम् । विष्टम्भों वय इति चतस्रो वयस्याः, पुरस्तादारभ्य प्रत्यगपवर्गा इति भाष्यकृत् । मूर्धशब्दोपेतैर्मन्त्रैरुपधेया इष्टका मूर्धन्वत्यः । यस्मात्पूर्वस्यां दिश्युपधेया मूर्धशब्दोपेतमन्त्रसाध्यास्तस्मात्पक्ष्याकारण चीयमानस्याग्नेरपि मूर्धा पूर्वस्यां दिशि भवतीति भाष्ये विस्तरः ॥ ५ ॥

त्र्यविर्वय इति पञ्च दक्षिणतो वयस्विनीः । पष्ठवाड्वय इति पञ्च पश्चाद्द्वेऽनुमती वस्तो वय इति पञ्चोत्तरतः सिꣳहवतीः । अपि वा .वस्तो वय इति दक्षिणेऽꣳस उपदधाति । वृष्णिर्वय इत्युत्तरे । व्याघ्रो वय इति दक्षिणे पक्ष उपदधाति । सिꣳहो वय इत्युत्तरे । पुरुषो वय इति मध्ये ॥ ६ ॥

न्यविर्वय इति पञ्चाग्नेर्दक्षिणस्या श्रोण्याम् | उत्तरस्थां-पष्ठवाद्वय इति ताः पञ्च । बस्तो वय इत्येको दक्षिणेऽसे । वृष्णिय इत्युत्तरेऽसे । न्यानो वय इत्येका दक्षिणे पक्षे । सि हो वय इत्युत्तरे । पुरुषो वय इति मध्ये || ६... . ७८ सत्यापाढविरचितं श्रौतसूत्रम् .. १२.

ऋषभप्रभृतिर्व्याख्यातश्चित्यन्तः ॥ ७ ॥

वामने वृषभमित्यषभादि समानं नित्यन्तम् । त्रिष्टुभा द्वितीयामिति तु विशेषः । आपराहिकीभ्यां प्रवग्र्योपसचा प्रचर्याश्वपरिणयनमित्येवमन्तं चित्यन्तम् ॥ ७ ॥

श्वोभूते तृतीयां चितिं चिनोति ॥ ( ख० १ ) ॥ ८ ॥

श्वः प्रभाते पीर्वाहिकीभ्यां प्रचर्य सुब्रह्मण्यान्तं विधाय तृतीयां चितिं श्वेतमश्चमाभिमृश्य वाङ्म आसन्निति चोक्त्वा ॥ ८॥

इन्द्राग्नी अव्यथमाना इति स्वयमातृण्णामभिमृश्याश्वेनावघ्राप्य विश्वकर्मा त्वा सादयत्वन्तरिक्षस्य पृष्ठे व्यचस्वतीमिति मध्येऽग्नेरविदुषा ब्राह्मणेन सहोपदधाति । भुव इति चैतया व्याहृत्या ॥ ९ ॥

इन्द्राग्नी अन्यथमानामिति स्वयमातृष्णा प्रणीतामभिमृश्य । इतरथा तु तृतीयस्यावितेरिष्टकाप्रणयनादि । अश्वेन ता स्वयमातृण्णामवत्राप्य चितिस्थ एवं-विश्वकर्मा -स्वा सादयत्वित्यैवमादि लया देवतयाऽङ्गिरस्वध्रुवा सीद भुव इत्येवमन्तेन मन्त्रेणोम दधाति ॥ ९॥

चित्तिं जुहोमीति स्वयमातृण्णायाꣳ हुत्वाऽनुव्यनित्यविद्वान्ब्राह्मणो वरं ददाति ॥ १२.१.१० ॥

चित्ति जुहोमीति जुह्वा स्वयमातृण्णायां च हुत्वाऽन्या(नुव्य)ननं निरुच्छासेनावस्थानं वरदानं साम गायेति प्रैषः । ऊर्ध्वजानुश्चोपदधाति ॥ १० ॥

ज्योतिरसि ज्योतिर्मे यच्छान्तरिक्षं यच्छान्तरिक्षान्मा पाहीति हिरण्येष्टकाम् । अधि द्यौरन्तरिक्षं ब्रह्मणा विष्टा मरुतस्ते गोप्तार इति मण्डलेष्टकाम् । अनुरेतः सिचो विवयस उपदधाति । विश्वकर्मा त्वा सादयत्वन्तरिक्षस्य पृष्ठे ज्योतिष्मतीमिति विश्वज्योतिषम् । अन्तरिक्षस्य यान्यसि देवानामन्तरिक्ष यान्यसीति द्वे संयान्यौ ॥१ १ ॥

ज्योतिरसीति हिरण्येष्टकाम् | अधि द्यौरिति मण्डलेष्टकाः । सर्वा रेतःसिनो मध्यमे (ध्ये 'वि) वयसः । विश्वकर्मा त्वा सादयविति प्रणीतानामेका विश्वज्योतिः । अन्तरिक्षस्य यान्यसीति द्वे संयान्यौ ॥ ११॥

नभश्च नभस्यश्चेषश्चोर्जश्चेति चतस्र ऋतव्या द्वे द्वे समानतया देवते भवतः ॥ १२ ॥ १ पटल: महादेवशाखिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । ७६.

नभश्च नभस्यश्चेत्यृतव्याश्चतस्रः, द्वे द्वे समानतया देवते । अवकोपधानं च, द्वे द्वे उपद्धाति । केचित्तु- चतस्र उ(सणामुपधानं कुर्वन्ति, इति ॥ १२ ॥

राज्ञ्यसि प्राची दिगिति पञ्च दिश्याः । चतस्रः प्रतिदिशमेकां मध्ये ॥ १३ ॥

दिक्शब्दोपेतैर्मन्त्रैरुपधेया इष्टका दिश्याः । प्रतिदिशमेको मध्ये पुरस्तादारभ्य । राश्यसि प्राची दिगिति पश्च दिश्या उपदधाति (५ ।३ । २)इति श्रुतेश्च ॥ १३ ॥

आयुर्मे पाहीति दश वैराजीः पुरस्तादुपधाय ॥ १४ ॥

पुरस्तादग्नेः । ताश्च ब्राह्मणे सूत्रान्तरे च-दश प्राणभृतः पुरस्तादुप दधाति, इत्याद्या द्रष्टव्याः । प्राणशब्दोपेतान्मन्त्रानुपधानकाले विनतीति प्राणभृतः । अत्रैवं घरममन्त्रे ज्योतिःशब्द प्रशंसति-'ज्योतिष्मतमुत्तमामुपदधाति' (तै० सं ५-३-२) इति । ज्योतिःशब्दयुक्तेन · मन्त्रेणोपधातव्येष्टका ज्योतिष्मती । चरमा सेवोत्तमा भवतीति भाष्यकारोक्तेः ॥ १४ ॥

षट्त्रिꣳशतं बृहतीरुपदधाति । मा छन्द इति द्वादश दक्षिणतः । पृथिवी छन्द इति द्वादश पश्चात् । अग्निर्देवतेति द्वादशोत्तरतः ॥ १५ ॥

यथा बृहती छन्दसा मध्ये प्रशस्ता, एवं बृहत्याख्या इष्टका अपि प्राशस्ता इति भाष्यकृत् । बृहतीः षट्तिशतमुपदधाति दक्षिणतोऽग्नेरारभ्य पश्चादुत्तरतश्च । ता एता इष्टका दिग्विशेषु विधत्ते-मा छन्द इति दक्षिणत उपदधाति तस्माद्दक्षिणावृतो मसिंह पृथिवी छन्द इति पश्चात्प्रतिष्ठित्या अग्निर्देवतेत्युत्तरत ओजो वा अझिरोज.एनोत्तरतो धत्ते तस्मादुत्तरतोऽभिप्रयाजी जयति (तै० सं० ६-३-२) इति । मन्त्रपाठप्राप्तामिन टकासंख्यां विधत्ते-पत्रिशसंपद्यन्ते (ले० सं० ५-३-२) इत्यादि ॥ १५ ॥

मूर्धाऽसि राडिति सप्तवालखिल्याः पुरस्तात्प्रतीचीरुपदधाति । यन्त्री राडिति सप्त पश्चात्प्राचीः ॥१ ६॥

सप्त वालखिल्याः पुरस्तादारभ्य प्रत्यगपवर्गाः । सप्त पश्चादारभ्य प्रागर्मः । यद्वा-वालखिल्यनामकैर्मुनिभिरादौ दृष्टत्वादिष्टका अपि वालखिल्याख्याः । इष्टकागतया सप्तसंख्यया शीर्षण्यच्छिद्रसाम्य, पुरस्तादेकं सप्तकं पश्चादेकं सप्तकमिति सप्तकयोर्ट्सिस्वादधोदेशवर्तिच्छिद्रद्वयसाम्यम् । सप्तकद्वये मन्त्रविभाग विधत्ते--मूर्धाऽसि राडिति पुरस्ता. दुपदधाति; यन्त्री राडिति पश्चात् (तै ० सं० ५-३-२) इति ॥ १६ ॥

पृथिव्यै स्वाहेति द्वादश भूतेष्टकाः ॥ १७ ॥

भूतेष्टका द्वादश, शाखान्तरपठिताः॥१७॥ ८७ सत्यापाढविरचिनं श्रौतसूत्रम्- - - [१२ प्रश्ने

प्राच्या त्वा दिशा सादयामीति पञ्चाऽऽत्मेष्टकाश्चतस्रः प्रदिशमेकां मध्ये ॥ (ख०२) ॥ १८ ॥ गतार्थः।

इन्द्रो दधीचो अस्थभिरित्येतेनानुवाकेनाथर्वशिरो दशातिप(रि)क्ता इष्टका उपदधाति ॥ १९ ॥

दशातिष(तिरि)क्ताः शिरस्युपदधाति ॥ १९ ॥

ऋषभप्रभृत्तिर्व्याख्यातश्चित्यन्तः ॥ १२.१.२० ॥

ऋषभाद्यश्वपरिणयनान्तं चित्यन्तं पूर्ववत् । विशेषस्तु तृतीयस्याम्धितेरभिमर्शन जमत्या ॥ २० ॥

श्वोभूते चतुर्थीं चितिं चिनोति ॥ २१ ॥

श्वोभूते पौर्वाहिकीभ्यां प्रवर्योपसद्भयां सुब्रह्मण्यन्ताम्यांप्रचर्य चतुर्थी चिनोति चितिम् । अश्वालम्मं कृत्वा वाङ्म आसन्निति जपः । इतरथा तु तस्याश्चितेरिष्टकाप्रणय. नादि ॥ २१ ॥

आशुस्त्रिवृदग्नेर्भागोऽसीत्येताभ्यामनुवाकाभ्यां यथाब्राह्मणमुपदधाति ॥ २२ ॥

यथा-ब्राह्मणं उक्त तथोपधान पुरस्तादक्षिणतः पश्चादुत्तरतश्च । प्रथमानुवाके चत्वारः पर्याया। द्वितीयानुवाके त्रयः । आशुयॊम धरुणो भान्तः प्रतूर्तिरभिवतों वर्चस्तपो योनिर्मी ओजः संभरणः ऋतुध्नस्य प्रतिष्ठा नाकः, अग्नेर्नृचक्षसां मित्रस्येन्द्रस्य वसूनामादित्यानामदित्यै देवस्य धों यावानामृभूणां विवर्त इति । अत्र विनियोगसंग्रहकारस्त्वेवम् --- आशुरष्टादशाऽऽदध्यादक्ष्णया स्तोमसंयुताः । अग्नेः शिष्टा दशाऽऽदध्यादक्ष्णया स्तोमसंज्ञकाः ॥ २२ ॥

अन्तरिक्षमन्तरिक्षाय त्वेति द्वे संयान्यौ ॥ २३॥

यत्संयानीर्यत्संयनीरुपदधाति, इति ब्राह्मणम् ।। २३ ॥

सहश्च सहस्यश्चेति द्वे ऋतव्ये । समानं तया देवते भवतः ॥ २४॥

स्पष्टोऽर्थः ॥ २४ ॥

एकयाऽस्तुवतेति सप्तदश सृष्टीः ॥ २५ ॥

सृजतिधातुयुक्तैर्मन्त्रैरुपधेया इष्टकाः सुष्टयः । सृष्टीरुपदधातीत्यर्थः ।।। ननु-सृष्टीरुप. दधाति (जै० सू० १-४-१७) इति सृष्टिशब्दो गुणविधिरुतार्थवाद इति संशयः । ६. पटल:.] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । ४१

तत्राऽऽख्यातसंबन्धाद्विध्यन्तरैकवाक्यत्वाभावादर्थवत्त्वाच्च विधिः । सृष्टिलिङ्गा मन्त्रा उपधानार्थत्वेन विधीयन्ते । मैवम् । लिङ्गप्रकरणाम्यामेव प्राप्तत्वान्न विधिमन्त्राणां संभवति । तथा सति परिसंख्या स्यात् । तत्र बहुषु मन्त्रेषु प्रकरणप्राप्तेषु सृष्टिविधानादन्ये परिसंख्यायेरन् । सा च त्रिदोषा, परिसंख्यातानां च मन्त्रान्तराणामानर्थत्यं स्यात् । तस्मादुपधानमेवात्र विधेयम् । सृष्टीरिति तु लिङ्गप्राप्तमन्त्रानुवादमानं यथा सृष्टमेवावरुन्धे (त० सं०५-३-४) इत्यस्यार्थवादस्योपपत्त्यमिति भाज्याभिप्रायः । केचित्तु-मन्त्रविधिमेव समर्थयन्ते । न ह्येकयाऽस्तुवत (ले० सं० ४-३-१०) इत्येवमादीनामुषधान ऐकान्तिक लिङ्गमस्ति येन प्राप्तिः स्यात् । साधारणलिङ्गत्वाद्रि ग्रहणासादनादिष्वपीष्टकानां प्राप्नुयुः, तत्रास्ति विधेरवकाशः । सत्यामप्युप. धानप्राप्ती मध्यमचितिसंवन्धार्थमपि प्रत्यक्षविधानमर्यवद्भविष्यति । वक्ष्यति हि मध्यमायां तु वचनाहाह्मणवत्य ' इति । न चास्मिन्सूत्रे सृष्टीनां विधानमवश्यमादर्तव्यम् । गुणवृत्तिनिमित्तकथनमात्रपरत्वात् । कः पुनरत्र गुणः, भूमा । सृष्टिसमुदाये हि भूमाऽस्ति । सृष्टयसृष्टिसमुदायेऽपि । एकयाऽस्तुवत' (ते० सं०४-३-१०) इत्यनुवाके सृष्टिभूमाऽस्ति, इत्यनेन सादृश्येन सृष्टिशब्दः ॥ २१ ॥

इयमेव सा या प्रथमा व्यौच्छदिति पञ्चदश व्युष्टीः ॥ २६ ॥

विशेषेणोच्छति तमो विनाशयतीति व्युष्टिरुषःकालस्तद्वाचकशब्देनोपेतर्मन्त्रैरुषधेया इष्टका व्युष्टयः । ता उपदध्यादित्यर्थः ॥ २६ ॥

अग्ने जातान्प्र णुदा नः सपत्नानिति पुरस्तादुपदधाति । सहसा जातानिति पश्चात् । चतुश्चत्वारिꣳशः स्तोम इति दक्षिणतः । षोडशः स्तोम इत्युत्तरतः ॥ २७ ॥

पश्चादुपदधातीत्यनुवर्तते । एतन्मन्त्रसाव्यमुपधानं विधत्ते --- अग्ने जातान्नणदा मः सपत्नामिति पुरस्तादुपदधाति । सहसा जातानिति पश्चात् , चतुश्चत्वारिंशः स्तोम इति दक्षिणतः, षोडशः स्तोम इत्युत्तरतः । (तै० सं०५-३-५ ) इत्यादि ॥ २७ ॥

इष्टकायां पुरीषमध्यू( ध्यु )ह्य पृथिव्याः पुरीषमस्यप्सो नामेति मध्येऽग्नेः पुरीषवतीमुपदधाति ॥ २८ ॥

एतन्मन्बसाध्यमुपधानं विधत्ते-'पुरीषवती मध्य उपदधाति पुरीपं वै मध्यमात्मनः सात्मानमेवाग्निं चिनुते ' (ते० सं० ५-३-५ ) इति । पुरीषमध्यू( ध्यु )ह्य तस्यो सत्यापादविरचितं श्रौतसूत्रम्--- [१२ प्रश्

नेपर्युपधीयमानत्वात्पुरीषवती । पुरीष वा, आत्मनो गवादिशरीरस्य मध्यमुदरमध्ये वर्तमानत्वात् । अतः पुरीषवत्त्वेन सात्मानं शरीरसहितमेवानिं चिनुत इत्यर्थः ॥ २८ ॥

ऋषभप्रभृतिव्या(र्व्या )ख्यातश्चित्यन्तः॥ २९ ॥

ऋषभादिश्चित्यन्तः । अश्वपरिणयनान्तः पूर्ववत् । अनुष्टुभाऽभिमृश्यते चतुर्थी चितिः

श्वोभूते पौर्वाह्णिकीभ्यां प्रचर्य पञ्चमीं चितिं चिनोति ॥१२.१.३०॥

श्वोभूते श्वः प्रभाते पौर्वाहीकीम्यां प्रचर्य सुब्रह्मण्यान्ते पञ्चमी चितिः । श्वेतमश्वमभिमुश्य वाङ्म आसन्निति जपित्वा, इतरथा पञ्चम्याश्चितरिष्टकाप्रणयनादि (समानम्)

एवश्छन्दो वरिवश्छन्द इति चत्वारिꣳशतं विराजो दश दश प्रतिदिशमक्ष्णया ॥ ३१ ॥

उत्तमायां पञ्चम्यां चितौ विराडाख्या इष्टका उपदध्यादिति शेषः । विरानस्तु'उत्तमायां चित्यामुपदधाति विराजमेवोत्तमाम् ' (ले० सं० ५-३-५) इति ब्राह्मणे द्रष्टन्यः । एकैकस्यां दिशीष्टकासंख्यां विधत्ते-- 'दश दशोपदधाति । (५३-५ ) इति । सम्यक्पङ्क्तिरूपत्वं वारयितुं वक्रत्वं विधत्तें-- 'अक्ष्णयोपदधाति । (ते. सं० ५-३-५) इति ॥ ३१ ।।

रश्मिरसि क्षयाय त्वा क्षयं जिन्वेत्येकत्रिꣳशतꣳ स्तोमभागाः सप्त सप्त प्रतिदिशं तिस्रो मध्ये ॥ ३२॥

रश्मिरित्यादयः स्तोमभागाः । एतैर्मन्त्ररुपधेया इष्टका अपि स्तोमभागाः । उपदधाति, इति सामान्येन विहित पुनर्विशेषाकारेण प्रशंसति --सप्त सप्तोपदधाति सवीर्यत्वाय तिस्रो मध्ये प्रतिष्ठित्यै ' (ले० सं०.५-३-५), इति । एकैकस्या दिशि सप्तसप्तोपधानेन सवीर्यत्वं दाढ्यं भवति । मध्ये तिसणामुपधानेन प्रतिष्ठा स्पैय भवतीत्यर्थः ।। ३२ ॥

राज्ञ(ꣳय)सि प्राची दिगिति पञ्च नाकसदश्चतस्रः प्रतिदिशमेकां (मध्ये । ) पश्चात्प्राचीमुत्तमामुपधायायं पुरो हरिकेश इति नाकसत्सु पञ्चचोडा उपदधाति । ता उपधाय वृत्तां चितिं चिनोति ॥ ३३ ॥ १ पटलः ] - महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाच्याख्यासमेतम्। ८३

नाकः स्वर्गः सद्यते प्राप्यते यैर्मन्स्ते नाकसदः । तथा च मन्त्रलिङ्गम्- 'नाकस्य पृष्ठे सुवगें लोके यजमानं च सादयन्तु '(ते सं० ४-४-२) इति । एतैर्मन्त्रैरुपधेया इष्टका अपि नाकसदः । अर्धेन तु ध्यायन्द्वेप्यम् , तत्र चाऽऽपस्तम्बः सूत्रयामास-द्वेष्यं मनसा ध्यायन्पश्चात्प्राचीमुत्तमाम् ' (आप० श्री० १७-१-४-५) इति । पञ्चमेन कृतास्तासु पुरीपं क्षिप्त्वा तृप्णीम् , अयं पुरो हारकेश इति पञ्च घोडास्तासामुपर्युपधाने या तु प्रतीच्या सा तु पश्चादुपधीयते । अयं पश्चाद्विश्वव्यचा, इत्युपदधाति । पञ्च चोडा द्वेप्यं मनसा ध्यायति जम्भे दधामि देवदत्तमिति । यद्वाचुड संवरण इत्यस्माद्धातोरुत्पन्नश्चोडाशब्दः | नाकसदामुपार च्छिद्रावरणार्थत्वादेता इष्टकाश्चोडा इत्युच्यन्ते । पञ्चसंख्याकाथोडाः पश्चचौडा उपदधातीत्यर्थः । उपधानकाले ध्यानविशेष विधत्ते–'यं द्विष्यात्तमुपदधद्ध्यायेदेताम्य एवैनं देवताभ्य आवृश्वति ताजगातिमा→ति ' ( ते० सं० ५-३-७) इति । यजमानो यं पुरुषं द्विष्यात्तं देण्यमध्वर्युरुपधानं कुर्वन्ध्यायेत् । तेन ध्याने ताभ्य एवाऽग्निसेनान्यादिभ्यो देवताभ्य एनं द्वेष्यमावृश्चति सर्वतो विच्छिन्नं करोति । ताजगार्तिमाईति तदानीमेव मरणं प्राप्नोति । नाकमद मुपार पञ्चचोडोपधानं विधत्ते-उत्तरा नाकसद्भध उपदधाति यथा जायामानीय गृहेषु निषादयति तागेव तत् , (ते. सं० ५-३-७) इति । गृहस्थानीया नाकसदो जायास्थानीयाः पञ्च चौडाः । तत्रायं पश्यादिति तृती. यमन्त्रेणोपधेया येयमिष्टका तस्याश्चरमत्वं विधत्ते- पश्चात्प्राचीमुत्तमामुपद्धाति तस्मात्पश्चात्प्राची पत्न्यन्वास्ते ! (ले० सं० ५-३-७) इति । यस्मात्पश्चिमायां दिशि प्राङ्मुखत्वेनोपधेयामिष्टका चरमत्वेनोपधत्ते, तस्मात्पश्चिमायां दिश्यवस्थाय प्राहमुखी पत्नी गार्हपत्यमुपविशतीत्यर्थः ॥ ३३ ॥

तपश्च तपस्यश्चेति द्वे ऋतव्ये समानतया देवते भवतः ॥ (ख०३ ) ॥ ३४ ॥

भाष्यकारस्तु---वसन्तेनैवास्य पूर्वार्धमचिनुत, इति प्रथमे पूर्वार्धेऽमेरुपर्धीयते, दक्षिणे पक्षे द्वितीये-'प्रीष्मेण दक्षिणं पक्षम् ' इति । पुच्छे तृतीये-वर्षाभिः पुच्छम् । इति पुच्छसमीपे द्वे । 'शरदोत्तरं पक्षम् ' इति चोत्तरपक्षसमीपे । हेमन्तेन मध्यमिति हेमन्तशिशिरनामधेये इष्टके मध्ये इति ब्याचष्टे । अत्रोपधान–अनुग्रह- अप्युक्तं ( नेऽनुक्रमोऽप्युक्तः)। वैखानसेन तु यथावकाशम्, इति ।। ३४ ॥

देवानां यान्यसि देवानां देवयान्यसीति द्वे संयान्यौ ॥ ३५ ॥

गतार्थः ॥ ३५ ॥ ६४ . सत्यापाढविरचितं श्रौतसूत्रम्-..: [ १२ प्रश्ने

प्रजापतिस्त्वा सादयतु दिवः पृष्ठे ज्योतिष्मतीमिति विश्वज्योतिषम् । अत्र रेतःसिचः स्थविरस्योपदधाति ।३६ ॥ द्यौरपराजिताऽमृतेन विष्टाऽऽदित्यास्ते गोप्तार इति मण्डलेष्टकाम् । सुवरसि सुवर्मे यच्छ दिवं यच्छ दिवो मा पाहीति हिरण्येष्टकाम् ॥ ३७॥

... .. - अथवाऽन्यः क्रमः-- पञ्चचोडांन्ता उपधाय देवानां . यान्यसीति संयान्यौ, तपश्च 'तपस्यश्चेत्युतव्ये, प्रजापतिस्त्वा सादयतु दिवः पृष्ठ इति विश्वज्योतिः" स्वराः ज्योतिरिति रेतःसिक् । सुवरसीति हिरण्येष्टका चौरपराजितेति मण्डले का प्रोपदश्च इति विकर्णी परमेष्ठी त्वा सादयतु दिव इति स्वयमातृष्णा, इत्यापस्तम्बसूत्रे, एष वा कमो भवत्युपंधानस्य ॥ ३१ ॥ ३७॥

आपराह्निकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचर्य यदक्रन्दः प्रथमं जायमान इति श्वेतमश्वं प्रदक्षिणं परिणीय वसन्ति ॥ ३८ ॥

गतम् ॥ ३८॥

औदुम्बरीस्तिस्रः समिधः प्रादेशमात्रीर्घृते वासयति ॥ ३९॥

औदुम्बरीः समिधो घृते क्षिपति ॥ ३९ ॥

श्वोभूत उत्तमाभ्यां पौर्वाह्निकीभ्यां प्रवर्ग्योपसद्भ्या प्रचर्य पञ्चम्याश्चितेः शेषं याज्ञसेनीं चितिं चिनोति ॥ १२.१.४०॥

श्वोभूते श्वःप्रभाते पौर्वाह्निकीभ्यां प्रचर्य पञ्चम्याश्चितः शेष द्वयमुत्तमा चितिः, इत्युक्तम् । चित्रनामकस्य कस्यचित्पुरुषस्य वंशे समुत्पन्नो यज्ञसेननामकरन दृष्टा चितिर्याज्ञसेनी तां चिनोतीत्यर्थः ॥ ४० ॥

अग्निर्मूर्द्धेति तिस्रो गायत्रीर्मूर्धन्वतीः पुरस्तादुपदधाति । उत्तरतस्त्रिष्टुभस्तिस्रो दक्षिणा उत्तरा जगतीस्तिस्रः पश्चादुत्तरा अनुष्टुभस्तिस्र उत्तरतो बृहतीरुष्णिहाः पङ्क्तीरक्षरपङ्क्तीरिति विषुरूपाणि च्छन्दाꣳसि यथावकाशमुपदधाति ॥ ४१ ॥ अत्रैवातिच्छन्दसमुपदधाति । द्विपदामुत्तमामुपधाय ॥ ४२ ॥

अग्निभूति तिस्रो गायत्रीः पुरस्तादुपदधात्येवमुत्तराण्यपि च्छन्दांसि त्रीणि त्रीण्युप १ पटलः ] महादेवशास्त्रिसंकलिसप्रयोगचन्द्रिकाच्याख्यासमेतम् । ४५

दधातीत्यापस्तम्बवैखानसौ । त्रिष्टुभो दक्षिणतोऽः । जगतीः · पश्चादनुष्टुभ उत्तरतः । बृहतीरुष्णिहाः पतीरक्षरपङ्क्तीरित्येतानि बृहत्यादीनि यथावकाशं : त्रीणि त्रीण्येव स्युः । अधिका या अक्षरपक्तिः सा विकल्पार्था । अतिच्छन्दस्तु मध्येऽ:-अग्नि होतारमिति । द्विपदास्त्वन्ततः पुच्छे तास तुप्यते कर्मकाले द्विपदासु नेप्यत इति च्छन्दोविचितिवचनात् ॥ ११ ॥ ४२ ॥

आयोस्त्वा सदने सादयामीति स्वयमातृण्णामभिमृश्याश्वेनावघ्राप्य परमेष्ठी त्वा सादयतु दिवः पृष्ठे व्यचस्वतीमिति मध्येऽग्नेरविदुषा ब्राह्मणेन सहोपदधाति । सुवरित्येतया व्याहृत्या । चितिं जुहोमीति स्वयमातृण्णायाꣳ हुत्वाऽपानिति। प्रोथदश्वो न यवसे अविष्यन्नित्युत्तरेऽꣳसे विकर्णीमुपदधाति । स्वयमातृण्णां च विकर्णीं च नान्याभिरिष्टकाभिरभ्युपदधाति ॥ ४३ ॥४४॥

आयोस्त्वा सदने सादयामीति प्रणीताः स्वयमातृण्णा अभिमृश्य श्वेतेनाश्वेन चावप्राप्य, आरूढ एवावघ्रापणं करोतीत्येके, नीत्याऽश्वसमीपं, परमेष्ठी त्वा स.दयतु दिवः पृष्ठ इत्यविदुषा ब्राह्मणेन सहोपदध्यात्। तया देवतयाऽङ्गिरस्व वा सीद सुवरित्यन्तेन मन्त्रेण, चित्ति जुहोमीति तस्यां हुत्वाऽपाननर्मूच श्वासवायुनीयते । वरदान सामयानप्रैषश्च, स्थिते नोपधानं ताभ्याम् । प्रोथदश्व इति विकर्णीमुत्तरेऽस उपदधाति । ते विष्टके स्वयमातृण्णा विकर्णी च तयोरुपरि नान्यामिष्टकामुपदधाति । ४३ ॥ ४४ ॥

अग्ने गोभिर्न आगहीत्येतेनानुवाकेन गोचितिमुपदधाति । सहस्रं पादमात्रीरिष्टकाः ॥ ४५ ॥ ता मध्यमायां चित्यां चित्यां पशुकाम उपदधाति ॥ ( ख० ४)॥ ४६॥

इति सत्याषाढहिरण्यकेशिसूत्रे द्वादशप्रश्ने प्रथमः पटलः ॥ १॥

अग्ने गोभिर्न आगहीत्यनुवाकेन प्रतिमन्त्रमुपदधाति, यावत्सहस्रमपहित(मुपधान)मिति पुनः पुनरभ्यस्यतेऽनुवाकः । पूर्ण सहस्रमधिका ऋचस्त्यज्येरन् । अयं विधिः सहस्राग्निसंख्याधिक यथा न भवति तथेति । अन्यत्र सहस्रात्प्रथमा तामुक्त्वा, द्विसाहस्रादिषु पशुकामस्य यजमानस्य । गोचितिरित्यस्या नामधेयम् । योऽग्निश्चीयते तस्य ६ . सत्यापादविरचितं श्रौतसूत्रम्- [-१२ प्रश्ने

यादमात्रीः, ताः प्रथमायां मध्यमायां पञ्चम्यां वा समाप्चायां, न पुरीपमुपदध्यादित्यर्थः । ॥ ४५ ॥ १६॥ इति सत्याषाढहिरण्यकशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां ..... प्रयोगचन्द्रिकायां द्वादशप्रश्ने प्रथमः पटलः ॥ १॥

12.2 अथ द्वादशप्रश्ने द्वितीयः पटलः ॥

इन्द्राग्निभ्यां त्वा सयुजा युजा युनज्मीत्यष्टौ सयुजः ॥ १ ॥

देवताभिः सहाग्निं योजयन्तीति सयुजो मन्त्राः । तेर्मन्त्रैरुपधेया इष्टका अपि सयुजः । यत्सयुज. उपदयाति ( तै० सं०५-३-९.) इत्यादिदर्शनात् ॥ १ ॥

अम्बा नामासीति सप्त कृत्तिकाः॥२॥

असमानेन सप्त कृत्तिकाः ॥ २ ॥

पुरो वातसनिरसीति पञ्च वृष्टिसनीरनुपरिहारꣳ सादयति ॥३॥

वृष्टि सनिशब्दयुक्तैर्मन्त्रैरुपधेया इष्टका वृष्टिसनयः । एकामिष्टका हस्ते धृत्वा चयनक्षेत्र प्रदक्षिणीकृत्योपदध्यात् । एवं पश्चानुपरिहारं प्रतिदिशमेकां च मध्ये। । यदेकधोपद्ध्यादेकमृतु वर्षेत् ! ( तै० सं०५-३-९) इत्येकप्रयत्नोपधानं वारमितुमनुक्रमेण परितो हृन्वा हत्वा तदुपधानं विदधाति भगवती श्रुतिः ॥ ३॥

सलिलाय त्वा सर्णीकाय त्वेत्यष्टावादित्येष्टकाः॥ ४ ॥

आदित्यशब्दोंपेतैर्मन्त्रैरुपधेया इष्टका आदित्येष्टकाः ॥ ४ ॥

ऋचे त्वा रुचे त्वेति पञ्च घृतेष्टका अनुपरिहारꣳ सादयति ॥५॥

घृतपिण्डा एवं घृतेष्टकाः । अमृन्मयीप्विष्काम सूत्रकारेण परिगणितत्वात् । तत्रापि पूर्ववदेकैकस्या इप्टकायाः प्रदक्षिणावृत्तिपूर्वकत्वं विधत्ते 'अनुपरिहार५ सादय. त्यपरिवर्गमेवास्मिस्तेगो दधाति ' (तै० सं० ५-३-१०) इति ॥ ५॥

यशोदां त्वा यशसि सादयामीति पञ्च यशोदाः ॥ ६ ॥

असमासेनोपदध्यात् । । यशोदा उपदधाति ' (५-३--१० ) इत्यादिब्राह्मणम्

भूयस्कृदसि वरिवस्कृदसीति पञ्च भूयस्कृतः ॥७॥

भूयों बाहुल्यं करोतीति भूयस्कृत् । ताः पञ्चोपदध्यादित्यर्थः ॥ 1.7 २ पटलः ] महादेवशास्त्रिसंकलितपयोगचन्द्रिकाच्य ख्यासमेतम् । ८७

अप्सुषदसि श्येनसदसीति पञ्चाग्निरूपाणि ॥ ८॥

अनिरूपवाचिमिर्मरुपधेयस्वादिष्टवा अप्यनिरूपाणीत्येवोच्यन्ते । 'अप्सुषदसि श्येनसदसीलाहतद्वा. अग्ने रूप५ रूपेणवाशिमवरुन्धे' (तै० सं०.५-३-१०) इति । आन्याकारवाचिनां पदानां पाठेन योग्यरूपेण युक्तमग्निमेव प्राप्नोतीत्यर्थः ॥ ८॥

पृथिव्यास्त्वा द्रविणे सादयामीति पञ्च द्रविणोदाः ॥ ९ ॥

द्रविणोदाः पञ्च । द्रविणोदाशब्दयुक्तर्मन्त्रैरुपधेयत्वाद्रविणोदा इत्यासां नाम ॥९॥

प्राणं मे पाह्यपानं मे पाहीति षडायुष्याः ॥ १२.२.१० ॥

आयुष्याः षट् । आयुःशब्दोपेतैर्मन्त्रैरुपधेयत्वादेता इष्टका आयुष्याः ॥ १० ॥

अग्ने यत्ते परꣳ हृन्नामेत्यग्नेर्हृदयम् ॥ ११ ॥

अग्ने यत्ते पर हन्नामेत्येका । मध्य उपध्याद्धृदयसाम्यादिति भावः ॥ ११ ॥ .

या वा अयावा इति सप्तर्तव्याः । १२ ॥

एतद्यावादिशब्दानामृतुसंवन्धित्वात्तैरुपधेया इष्टका अप्युतन्या इत्युच्यन्ते ॥ १२ ॥

अग्निना विश्वाषाडित्येतेनानुवाकेनेन्द्रतनूरुपदधाति ॥ १३ ॥

इन्द्वतनवों द्वाविंशतिः । विश्वाषाडित्यादिशब्दा इन्द्रतनविशेषवाचकास्तद्युक्तैर्मन्त्ररुपधेया इष्टका इन्द्रतनवः ॥ १३ ।।

अभीषाच्चाभिषवी चाभिवयाश्चोर्ध्ववयाश्च बृहद्वयाश्च सवयाश्च सह्वाꣳश्च सहमानश्च सहस्वाꣳश्च सहीयाꣳ श्चेत्येतेनानुवाकेनेन्द्रनामान्युपदधाति॥१४

अभीषाचेति दशेन्द्रनामानि ॥ १४ ॥

प्रजापतिर्मनसाऽश्वोऽच्छेत इति त्रयस्त्रिंशतं यज्ञतनूः ॥१५॥

यज्ञतनुप्रतिपादकशब्दयुक्तमन्त्ररुपधेया इष्टका यज्ञतनवः ॥ १५ ॥

ज्योतिष्मतीं त्वा सादयामीति द्वादश ज्योतिष्मतीः ॥ १६॥

ज्योतिप्मतीशब्दयुक्तमन्त्रैरुपधेया इष्टका ज्योतिष्मत्यः । ते च मन्त्रा आरण्यकाण्डे समान्नाताः ॥ १६ ॥

रोहितेषु वा जीमूतेषु सादयामि । अरुणेषु त्वा जीमूतेषु सादयामि । सितेषु त्वा जीमूतेषु सादयामि । नीलेषु त्वा जीमूतेषु सादयामि। कृष्णेषु त्वा जीमूतेषु सादयामीति पञ्च जीमूताः॥१७॥

पञ्च जीमता असमासेन ॥ १७ ॥

कृत्तिका नक्षत्रमित्येतेनानुवाकेनाꣳस्यष्टा नक्षत्रेष्टका उपदधाति॥१८॥ १८ . सत्यापाढविरचितं श्रौतसूत्रम्- [१२ प्रश्ने

नक्षत्रशब्दोपेतर्मन्त्रैरुपधेया इष्टका नक्षत्रेष्टकाः ॥ १८ ॥

अग्ने रुचः स्थेति सर्वास्वनुषजति ॥ १९॥

( अग्ने रुचः स्थ प्रजापतेर्धातुः सोमस्येति प्रथमायामेव । सर्वारवनुषङ्गः, इति प्रत्यक्षवचनादस्मत्सूत्रे सूत्रान्तरे वा ॥ १९ ॥

पूर्णा पश्चादिति पुरस्तात्पौर्णमासीमुपधाय पूर्वीं पूर्वामुपधायापरामपरामुपदधाति । आ विशाखाभ्याम् । यत्ते देवा अदधुरिति पश्चादमावास्यायामुपधायापरामपरामुपधाय पूर्वां पूर्वामुपदधात्याऽपभरणीभ्योऽन्ततः ॥१२.२.२०॥

पूर्णा पश्चादिति पौर्णमासी पुरस्तादग्नेरुपदधाति । कृत्तिका नक्षत्रमिति नक्षत्रेष्टकाः पुरस्तादारभ्य प्रत्यगपवर्गा असंरपृष्टाश्च परस्परम् । पूर्वामुपधाय वृत्तिका नक्षत्रमिति जमोतिषे त्वेत्यन्तेन । एवमपरामपरामा विशाखाभ्याम् । दक्षिणेन स्वयमातृण्णाया यथा रीतिर्भवति तथा करोति । यत्ते देवा अदधरिति पश्चादोर परत उपधायामावास्याम् । अनुराधा नक्षत्रं मित्रो देवतेल्यवशिष्टानां नक्षत्रेष्टकानां पूर्वी पूर्वामाऽपभरणीभ्य उपदधाति । सहारभरणीभिरसमासेन पूर्ववत् । .. ___ यद्वा --अयोपधाने कंचिद्विशेष - विक्ते- । यत्स स्पृष्टा उपध्यावृष्टये लोकमपि ध्यादवर्षक: पर्जन्यः स्यादसस्पृष्टा : उपदधाति वृष्टया एव लोकं करोति वर्धकः पर्जन्यो भवति' (ले० सं० ५-३-१) इति इष्टकानां परस्परं स्पर्श सति वृष्टेः स्थानस्याऽऽच्छादितत्वात्पर्जन्यो वृष्टिरहितो भवति । असंस्पर्शे तु तच्छिद्रस्य वृष्टिस्थानत्वान्मघो वर्षणशीलो भवति । उपधाने विशेषान्तरं विधत्ते—पुरस्तादन्याः प्रतीपीरुपदधाति पश्चादन्याः प्राचीस्तस्मात्प्राचीनानि च प्रतीचीनानि च नक्षत्राण्यावर्तन्ते (ते०सं०५-४-१) इति । स्वयमातृष्णाया दक्षिणभागे पूर्वी दिशमारभ्य प्रत्यनवसानाः कृत्तिकादिविशाखान्ता इष्टका उपदध्यात् । अनुराधाद्यपमरण्यन्ता इष्टकाः स्वयमातृण्णाया उत्तरभागे प्रतीची दिशमारभ्य प्रागवसाना उपदध्यात् । स्वयमातृण्णाया दक्षिणोत्तरभा. स्थितयोः पङ्कृत्योर्मध्ये पश्चिमायां दिशि समरूपेणामावास्याख्यामिष्टकामुपदध्यात्। . स्वयमातृण्णाया दक्षिणोत्तरभागस्थितयोः पङ्क्त्योमध्ये पूर्वस्यां दिशि समरूपेण पौर्णमास्याख्यामिष्टकामुपदध्यात । यस्मादेवं तस्माल्लोकेऽपि नक्षत्राणि गोलकस्यापि दक्षिणे भागे पश्चिमाभिमुदानि, उत्तरभागे तु प्राङ्मुखानीत्येवमावर्तन्ते ॥ २० ॥

१५. 'सर्वास्वनुषजति इति । २ पटला ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकान्याख्यासमेतम् । ८९

हिरण्यगर्भः समवर्तताग्र इत्यष्टौ सरितः ॥ २१ ॥

हिरण्यगर्भ इत्यष्टौ सरित उपदधातीत्यर्थः ॥ २१ ॥

विश्वकर्मा दिशां पतिरिति पञ्च हिरण्येष्टकाश्चतस्रः प्रतिदिशमेकां मध्ये ॥ २२॥

हिरण्येष्टकाः प्रतिदिशनसमासेन ॥२२॥

प्राणाय त्वा चक्षुषे त्वेति चतस्रः शर्कराः स्वयमातृण्णाः प्रतिदिशम् । [ संवत्सरस्य प्रतिमामिति प्रतिमामत्रैवर्षभ आम्नातः] ॥ २३ ॥

प्राणाय त्वा चक्षुषे त्वा तया देवतया, व्यानाय त्वा चक्षुषे त्वा तया, अपानाय त्वा बक्षुषे त्वा तया, वाचे त्वा चक्षुषे त्वा तया, इति चतस्रः स्वयमातृण्णा उपदधाति ॥२३॥

अग्न आयाहि वीतये । अग्निं दूतं वृणीमहे । अग्निनाग्निः समिध्यते । अग्निर्वृत्राणि जङ्घनत् । अग्ने स्तोमं मनामहे सिध्रमद्य दिविस्पृशम् । देवस्य द्रविणस्य व इति पञ्चाह्नां रूपाणि । [अथ व्रतमुपदधाति ]॥ २४॥

शाखान्तरस्थाः पठिताः पञ्चाहा रूपाणि । अत्र व्रतमुपदधातीति शाखान्तरोक्तम् । एवमापस्तम्बेऽपि ॥ २४ ॥

शतायुधायेति पञ्चाज्यानीः । इन्द्रस्य वज्रोऽसि वार्त्रघ्न इति चतस्रो वज्रिणीः प्रतिदिशं ( अश्मन इषुहस्त उपदधाति ) पञ्चैके समामनन्ति यो न उपरिष्टादिति मन्त्रꣳ संनमति ॥ २५॥

अज्यांनिशब्दोपेतैर्मन्त्रैरुपधेया इष्टका अज्यानयस्ता एता उपदध्यात् । वज्रिणीशपदधाति (ते० सं० ५-७-३) इति ब्राह्मणे विधिर्दष्ट यः । वजिणीरश्मनस्ताः प्रतिदिशमुपधीयन्ते । असमासेन यो न उपरिष्टादिति । इषुहस्तेन पञ्चमीति शाखान्तरस्था । उपरिष्टादघायुरभिदासतीति ॥ २५ ॥

अग्ने यशस्विन्यशसे ममर्पयेति चतस्रो राष्ट्रभृतः । गायत्रीं पुरस्तादुपदधाति त्रिष्टुभं दक्षिणतो जगतीं पश्चादनुष्टुभमुत्तरतः पङ्क्तिं मध्ये ।

१ धनुश्चिनान्तर्गतग्रन्थः सूत्रपाठे नास्ति । सत्यापाढविरचितं श्रौतसूत्रम्- - [ १२ प्रश्ने

गायत्रीं दक्षिणत उपदधाति । एवमनुपूर्वाः सर्वाः । सर्वत्राग्निर्मूर्धा । भुवो । जनस्य गोपाः। त्वां चित्रश्रवस्तम । अग्ने तमद्याश्वमित्येता आम्नाता भवन्ति ॥ (ख० ६) ॥ २६ ॥

इति सत्याषाढहिरण्यकेशिसूत्रे द्वादशप्रश्ने द्वितीयः पटलः ॥२॥

अग्ने यशस्विन्निति राष्ट्रभृतः पुरस्तादनेश्चतस्त्रः । हिरण्येष्टकाभिः सर्वतोमुखमुपदधाति, इत्यापस्तम्बः । उपधानम्- यो वा अग्निर सर्वतोमुखं चिनुते ' ( ते० सं० ५-७-४) इत्युक्तं ब्राह्मणे । गायत्रीमग्निति पुरस्तादुपदधाति । त्रिष्टुभं दक्षिणतोऽग्ने वो यज्ञस्येति । जगती पश्चाज्जनस्य गोपाः । अनुष्टुभमुत्तरतस्त्वां चित्रश्रवस्तमेति । पङ्क्ति मध्ये, अग्ने तमद्याश्वमिति । एष सर्वतोमुखोऽग्निर्हिरण्येष्टकाभिश्चीयते ॥ २६ ॥ इति सत्याषाढहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयो गचन्द्रिकायां द्वादशप्रश्ने द्वितीयः पटलः ।.


12.3 अथ द्वादशप्रश्ने तृतीयः पटलः ।

सहस्रस्य प्रमा असीति सहस्रेण हिरण्यशल्कैः प्रदक्षिणमनुपरिक्रामन्प्रतिदिशमग्निं प्रोक्षति द्वाभ्यां द्वाभ्याꣳ शताभ्याम् । मध्य उत्तमाभ्यां प्राङ्मुखः ॥ १॥

सहस्रस्य प्रमा असत्येतर्मन्त्रहिरण्यशनैरूस्थितो न वकं शताभ्यां द्वाभ्यामेकै कस्यां दिशि प्रोक्षति, आज्यप्रोक्षणवत् । सहस्रस्येति वचनं द्विसाहलादिनप्यनूहः । सहस्रादीनामपारमितवाचित्वात् ॥ १॥

इमा मे अग्न इष्टका धेनवः सन्त्वितीष्टका धेनूः कुरुते ॥ २ ॥

अनेन मन्त्रेण श्रोण्यन्ते तिष्ठन्नुत्तरा धेधेनुम्थीनाया एवेष्टकाः कुरुते । यजमानो धेन्ः करोतीति वैखानसभरद्वाजौ ॥ २ ॥

ऐडिक्या चित्याऽभिमृशत्यारण्येऽनुवाक्या भवन्ति ॥ ३ ॥

ऐडिकी चितिः--अग्निरसिं वैश्वानरोऽसीत्यनुवाकः । तेनाभिमृशत्यध्वर्युरग्निम् । ३. पटलः ] महादेवशास्त्रिसंकलितपयोगचन्द्रिकान्याख्यासमेतम् । ९१ सथाचाऽऽहाऽऽपस्सम्बः- ऐडिक्या चित्याऽध्वर्युरासिमभिमृश्य ' इति । तेन धेनु. करणं याजमान पुनरध्वर्युग्रहणमभिमर्शनार्थमिति ॥ ३ ॥

शतरुद्रीयं जुहोति जर्तिल यवाग्वा वा गवीधुकयवाग्वा वा गवीधुकसक्तुभिर्जर्तिलैः सर्पिषा मृगक्षीरेणाजक्षीरेण वाऽर्कपर्णेनोर्ध्वस्तिष्ठन्नुत्तरार्ध्यायामिष्टकायां नमस्ते रुद्र मन्यव इत्येताननुवाकाꣳस्त्रैधं प्रतिविभज्य प्रथमेनानुवाकेनाशीत्या च जानुदघ्नेऽशीत्यैव नाभिदघ्नेऽशीत्या यच्च प्रागवतानेभ्यस्तेनाऽऽस्यदघ्ने सहस्राणि सहस्रश इत्यसंख्यातान्दशावतानान् प्रत्यवरोहाञ्जुहोति॥ ४ ॥ नगो रुद्रेभ्यो ये दिवीत्यास्यदघ्ने नमो रुद्रेभ्यो येऽन्त'रिक्ष इति नाभिदघ्ने नमो रुद्रेभ्यो ये पृथिव्यामिति जानुदघ्ने ॥ ५ ॥ असंचरेऽर्कपर्णमुदस्यति ॥६॥

शतरुद्रीयमिति कर्मनामधेयम् । रुद्रा वहयो योज्यन्त इति । जतिला आरण्य. तिलाः । तेषां यवाग्वा । कसके( कुशयवै र्गवीधुकैर्वाऽऽरण्यतिलैरेव · वा गवीधुकसक्तुभिरेव. वा. कुस ( श ) य [ व सर्पिपति वैखानसः । तच्च जीर्ण घृतभित्येके । अजक्षीरेणाऽऽरण्यानां होममुदङ्मुख उत्तराळयामुत्तरस्य पक्षस्योत्तरापरकोणस्तस्मिञ्जुहोति विका वा । उत्तरेऽसेऽनेः स्वयमातृण्णायां वा तृतीयायां यथाऽग्निर्नाऽऽक्रम्यने तथा बध्यते, न प्रचारः । अनुपरिचारोऽप्रदक्षिणं संततधारया जुहोतीति वैखानसः । अपरिवर्गमेवैन शमयतीति लिङ्गात् । वाजसनेयिनामपि संतता होतन्येति स्पष्टवचनान्न मन्त्रान्तेन होमः । नमस्ते रुद्र मन्यव इति विभागः पदैत्रेधा येषामनुवाकानां तेषा सहस्रयोजन इत्येवमन्तास्तिस्त्र आहुतयः । जानुदनेन नाभिदघ्नेनाऽऽस्यदन्नेन चोत्तराभिस्तिस्रो नमो रुद्रेश्यों ये पृथिव्यामित्यादि । आस्यदन्ने नाभिदघ्ने जानुदप्ने चैव हुत्वाऽसमासेन या उत्तमास्ता यजमान वाचयति, इति । एता एव यजमानो वाच्यते । एष विधिस्तैत्तिरीयाणाम् । अथवा प्रथमानमस्त इत्यारभ्य जानुदन्ने नमस्तक्षभ्यः स्वाहेति जुहोति । सर्वत्र रुद्रा देवताः । स्थकारेभ्यश्च व इत्युपक्रम्य नाभिदध्ने नमः स्वायुधाय च स्वाहेति जुहोति । भाष्यकारस्तु नमः स्वायुधाय च स्वाहेति हुत्वा सुधन्वन इत्युत्तरत्राऽऽरम्भ इति । सुधन्वने चेत्यारम्याऽऽस्यदघ्ने शेषमन्त्रगणेन प्रागवतानेभ्यः पूर्वमवतानेभ्यस्तासामीशान इत्यास्यदन्ने हुत्वा सहस्राणि सहस्रश इत्यसमासेन दशावताना हूयन्ते । केचित्तु-एकादशाव- , सत्याषाढविरचितं श्रौतसूत्रम्- [१२

प्रक्षेतानान्ये वनानीति पठन्ति । विकल्पार्थे न्वारोहः । नमो रुद्रेभ्यो ये पृयिव्यामित्यातमासेन जानुदने नमो रुद्रेभ्यो येऽन्तरिक्ष इति नाभिदन्ने नमो रुद्रेभ्यो ये दिवि, इत्यास्यदन्ने । एतानेव यजमानं वाचयत्यन्वारोहान् । एतानेय विपरीतान्- नमो रुद्रेभ्यो ये दिवि, इत्यास्यदन्ने, नमो रुद्रेभ्यो येऽन्तरिक्ष इति नाभिदन्ने, नमो रुद्रेभ्यो ये पृथिव्यामिति जानुदने, तं वो जम्भे दधामीत्येवमन्तम् ॥ ___ यद्वा-शतरुद्रीयं जुहोति ( तै० सं० ५-४-३) इति । शतमित्यपरिमितत्त्वं लक्ष्यते । अपरिमिता रुद्रा यस्मिन्नध्याये प्रतिपाद्यन्ते सोऽध्यायः शतरुद्रीयः । जर्तिला आरण्यातिलाः । गीधुका आरण्यगोधूमाः । अथवाऽजक्षीरेण जुहुयात् । अर्चनीयेन पूज्येन प्रवर्दीघृतेन तथाविधनाजारोमसंघातेन चोत्पन्नत्वादस्य स्थावरस्यार्कनाम संपन्नम् । तेनार्कपर्णेन जुहुयात् । तत्र त्रेधा विभाग एवं करणीयः-नमस्ते रुद्रेत्यारम्य सभापतिभ्यश्च वो नम इत्यन्तः प्रथमो भागः । नमो अश्वेभ्य इत्यारम्यावार्याय चेत्यन्तो द्वितीयो भागः । नमः प्रतरणाय चेत्यारभ्य य एतावन्तश्चेत्यूचा सहितस्तृतीयो भागः। त्रिष्वप्याहुतिषु क्रमेण जानुदघ्नादिदेशेषु झुग्धारणं हस्ताभिनयेन व्याख्यातम् । नमो रुद्रेभ्य इत्यादयस्ता अध्वर्युर्यजमानं वाचयेत् । यत्र पशवो न संचरन्ति तत्रार्कपर्णत्यागः ॥ ४ ॥ ५ ॥ ६ ॥ : अर्कपर्णस्य परित्यागदेशमाह -

यं द्विष्यात्तस्य संचरे पशूनां न्यस्येद्यः प्रथमः पशुरभितिष्ठति स आतिमार्छति ॥ ( ख० ७)॥ शतरुद्रीयस्य ब्राह्मणम् ॥ ७॥

यं पुरुषं यजमानो द्विष्यात्तस्य पशूनां संचरप्रदेशे तर्कपर्ण परित्यजेत् । तत्त्यक्त पण यः पशुः प्रथम इतरेभ्यः पशुभ्यः पूर्वः सन्नभिक्रम्य तिष्ठति स नियेत । इदं शतरुद्रीयस्य ब्राह्मणमित्यर्थः ॥ ७ ॥

यो रुद्रो अग्नौ यो अप्सु य ओषधीष्विति रौद्रं गावीधुकं चरुं पयसि शृतं यस्यामिष्टकायाꣳ शतरुद्रीयं जुहोति तस्यां निदधाति ॥ ८॥ तिसृधन्वमयाचितं ब्राह्मणाय दद्यात् ॥ ९॥ वसवस्त्वा रुद्रैः पुरस्तात्पान्त्विति प्रदक्षिणमनुपरिक्रामन्प्रतिदिशमाज्येनाग्निं प्रोक्षति ॥ मध्य उत्तमेन प्राङ्मुखो यत्ते रुद्र पुरो धनुरिति प्रदक्षिणमनुपरिक्रामन्प्रतिदिशं नमस्कारैरुपतिष्ठते मध्य उत्तमेन प्राङ्मुखः ॥१२.३.१०॥ ३ पटलः ] महादेवशास्त्रिलं फलितमयोगचन्द्रिकान्याख्यासमेतम। ५

यो रुद्रो अग्नाविति रौद्रं रुद्रदेवत्यम् । एतेन यजुषोत्तरापरस्यां वक्त्या इयि)एका सैवोपद(सर्वोप)धानस्यान्ते क्रियते चरमायामिष्टकायां निदध्यादिति तस्यां प्रतिष्ठापयो गावीधुकश्वरुः । अन्यस्यां वा यस्यां शतरुद्रीय जहोति । पाषाणा निखन्यन्ते यानसने. यिनाम् । जानुदन्ने उपधाय, तैत्तिरीयाणामप्युपधान चित्यादि क्रियते, अपांमुपस्पर्शने कृते । तिमभिरिषुभिर्धनुर्ददाति यजमानोऽध्वर्यवे, अयाचितं न कर्मकृतमिति । यत्ते रुद्र . पुरो धनुरिति यजमानस्यैवोपस्थानम् ॥ ८ ॥ ९ ॥ १० ॥

उदकुम्भमादायाश्मानमवधायाश्मन्नूर्जमिति त्रिः प्रदक्षिणमग्निं परिषिञ्चन्पर्येति ॥ ११ ॥

अध्वर्युर्गृहीत्वोदकुम्भमश्मन्नूजमिति त्रिः प्रदक्षिणं परिषञ्चन्गच्छति ॥ ११ ॥

निधाय कुम्भं त्रिरपरिषिञ्चन्प्रतिपर्येति । यद्यभिचरेदिदमहममुष्याऽऽमुष्यायणस्य प्राणं प्रक्षिणोमीति दक्षिणस्याꣳ श्रोण्यां कुम्भं प्रक्षिणोति । द्वेष्यस्य नाम गृह्णाति ॥ १२ ॥

निधाय कुम्भं स्थापयित्वा घटम् । अश्मस्ते क्षुदमुमिति नामग्रहण शत्रोः । देक दत्तं ते शुगृच्छतु यं द्विष्म इति त्रिरेव पुनर्निवर्तते । त्रिः पारीषश्चन्पति (ले० सं० ५-४-४) इति वचनात् । केचित्तु-कुम्भं पुनर्गृह्णान्ति यद्यभिचरेद्यजमानः प्रतिनिवृत्त्या. ध्वर्युरिदमहं देवदत्तस्य भार्गवस्याऽऽयुः प्रक्षिणोमीत्यनेन मन्त्रेण दक्षिणस्यां वक्तयामाग्नेयकोण उत्तरे वा कुम्भं मिन्यादित्यर्थः ॥ १२ ॥

पृष्ठैरुपतिष्ठते । गायत्रेण पुरस्तात् । बृहद्रथंतराभ्यां पक्षौ । ऋतुस्था यज्ञायज्ञीयेन पुच्छम् । दक्षिणस्याꣳ श्रोण्यां वारवन्तीयं गायत्युत्तरस्यां वामदेव्यमपि पक्षं प्रति प्रजापतेः साम ऋचं गायति ॥ १३ ॥

तां पृष्ठेरुपतिष्ठतेऽध्वर्युः सामादिभिः । तान्यध्वर्युर्गायेदिति वाजसनेयिनः श्रुतेः । छन्दोगानां वा तेषां विधानात् । गायत्रेण साम्ना पुरस्तादुपतिष्ठते रथंतरेण दक्षिणं पक्ष बृहतोत्तरम् , अल्पान्तरम् (पा० सू०२-२-३४ ) इति बृहतः पूर्वनिपातः । ऋतुस्था यज्ञायज्ञीय साम तेन पुच्छं, दक्षिणा या श्रोणी तस्यां वारवन्तीयनोपस्थानम् । केचिदुत्तरस्यां योऽग्निस्तमुपतिष्ठत इति वर्णयन्ति । वामदेव्यस्य स्थाने तैत्तिरी यकवस्थल

१क.ख. सामानुर्च ।

सत्यापाढविरचितं श्रौतसूत्रम्- १२ प्रश्ने

मफि दक्षिणस्याऽऽत्मनश्च या परा स्वक्तिः प्रजापतेः साना तत्रोपरथानं प्रजापतेर्हद.

इष्टो यज्ञो भृगुभिराशीर्दा वसुभिस्तस्य त इष्टस्य वीतस्य द्रविणेऽह भक्षीयेति स्तुत शस्त्रयोर्दोहे यजमानं वाचयति ॥ १४ ॥

स्पष्टोऽर्थः ॥ १४ ॥

पिता मातरिश्वेति संचितोक्थ्येन होताऽःशꣳसति । होतर्यकामयमानेऽध्वर्युः ॥ १५ ॥

स्तुतशस्त्रयोदोहे यजमानं वाचयतीत्यनुकर्षः । तस्मिंस्तुते स्तुतस्य स्तुतमसीति यजमानो वाच्यतेऽध्वर्युणा, पिता मातरिश्चेति संचितम्याग्नेर्यच्छस्त्रं तेन होताऽग्नेः पश्चास्थितः ( सन् ) शंसति । अकामयमानेऽनिच्छति होतरि शंसनं कर्तुमध्वर्युरेव शंसति । पिता मातरिश्वत्यारभ्य पादानुतक्षुरिति विरम्य बृहस्पतिरुक्था मदानिः शसिपदित्येतामेव त्रिः । पराचाऽनुशंसतीति वचनात् । अथवा बचानामेका अग्निरश्मि(स्मि)जन्मना, इत्यनूच्यत इति सकृदेव प्रयोग इति भाप्यकृत् । इदानीं शस्त्रस्य शस्त्रमसीति वाचयति यजमानम् ॥ १५॥

अत्र धेनूः करणमेके समामनन्ति ॥ (ख० ८) ॥ १६ ॥

इति सत्याषाढहिरण्यकेशिसूत्रे द्वादशप्रश्ने तृतीयः पटलः॥

. स्पष्टोऽर्थः ॥ १६ ॥ इतिः सत्यापाढहिरण्यकशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयोगचन्द्रिकाया द्वादशप्रश्ने तृतीयः पटलः ॥ .

12.4 अथ द्वादशप्रश्ने चतुर्थः पटलः

अवकां मण्डूकं वेतसशाखां च दीर्घवꣳशे प्रबध्य समुद्रस्य त्वाऽवाकयाग्ने परिव्ययामसीति सप्तभिरष्टाभिर्वाऽग्निं विकर्षति ॥ १॥

अवकां शैवालं वेतसस्य वजुलस्य शाखां मण्डूकं च दीर्धेऽपरिमिते वंशे बद्ध्वा पुरुषमण्डकेन विकर्षति दीर्घवंशे बद्ध्वेति वैखानसः ॥ समुद्रस्य त्वेति सप्तभिरष्टाभिर्वा ऋम्भिरग्निं विकर्षति विलिखति । अथवा-योऽयं वेतसः सोऽयमपां पुष्पस्थानीयोऽप्सु

..४ सिषोनि' । . ४ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । १५

जायमानत्वात् । याश्चावका; शैवालाभिधास्ता अपां शरः सारं दध्नो मण्डमिव । तस्मादेताभ्यामग्निं विकत् । पूर्वोक्तद्रव्यद्वयेन सह मण्डूकस्यापि विकर्षणसाधनत्वं विधत्ते-'यो वा अग्नि चितं प्रथमः पशुरधिकामतश्विरो वै तशचा प्रदहो. मण्ड़केन विकर्षत्येष वै पशूनामनुपजीवनीयो न वा एष ग्राम्येषु पशुषु हितो नाऽऽरण्येषु तमेव शुचाऽर्पयति' (ले० सं० ५-४-४) इति । गोमहिषानादीनां मध्ये यः पशुरिममिष्टकाभिश्चितमझिं प्रथममधिरुह्य पादेनाऽऽक्रामति तं पशुं संतापेन प्रदग्धुमयमग्निः प्रमुर्भवति । तस्मात्पश्वन्तरेण विकर्षणं न कुर्यात्कितु मण्डुकेन कुर्यात् । मण्डकश्च यागयोग्येषु ग्राम्येष्वारण्येषु च पशुष्वनन्तर्भावाल्लोकेऽपि गोमहिषादिवदुपयोगादर्शनाच्च केनाप्युपजीव्यो न भवति । अतस्तेन विकर्षणे तमेव मण्डुकं संतापेन योजयति ॥ १॥

अनुगमयित्वा मण्डूकस्य प्राणान्संल्लोभ्य सर्वान्त्समुद्योत्करे न्यस्यति ॥ २ ॥ यं द्विष्यात्तमुपस्पर्शयेत् ॥ ३॥

विकर्षन्नेवानु गमयित्वा मण्डुकस्य प्राणान् प्राणस्थानानि नासिकाद्यादीनि सर्वाणि संल्लोभ्य यथा न ज्ञायन्तेऽङ्गानीयं नासिका इमे अक्षिणीति तथा कृप्यते । उत्करे शेषमुदस्यति । यं द्विप्यायजमानस्तमेतैरवकादिभिः स्पृशेत् ॥ २ ॥ ३ ॥

स्वयं कृण्वानः सुगम [प्र]यावं तिग्मशृङ्गो वृषभः शोशुचानः । प्रत्नꣳ सधस्थमनु पश्यमाना आ तन्तुमग्निर्दिव्यं ततान ॥ त्वं न तन्तुरुत सेतुरग्ने त्वं पन्था भवसि देवयानः । त्वयाऽग्ने पृष्ठे वयमारुहेमाथा देवैः (वः)सधमादं मदेम । अतिसर्गं ददतो मानवायर्जुं पन्थानमनुपश्यमानाः। अजुषन्त मरुतो यज्ञमेतं वृष्टिर्देवानाममृतꣳ स्व(सुव)र्विदम् । आ वर्तमानो भुवनस्य मध्ये प्रजा विकुर्वञ्जन्यन्विरूपाः। संवत्सरः परमेष्ठी धृतव्रतो यज्ञं नः पान्तु रजसः परस्तात् । प्रजां ददातु परिवत्सरो नो धाता ददातु सुमनस्यमानः । बह्वीः साकं बहुधा विश्वरूपा एकव्रता मामभि संविशन्त्विति पञ्चान्वारोहाञ्जुहोति । (ख०९)॥४॥

जुह्वा पञ्चगृहीतं गृहीत्वा · स्वयं कृण्वान इत्यादिचित्येऽसावन्वारोहनामक होम कुर्यात् । सर्वत्राग्निदेवता ॥ ४ ॥ सत्यापाढविरचितं श्रौतसूत्रम्- [१२ प्रश्ने

पृथिवीमाक्रमिषं प्राणो मा मा हासीदिति कृष्णाजिनस्योपानहावुपमुञ्चतेऽन्यतरां वा ॥ ५॥

काणी (ष्ण्यौं) कृष्णमृगस्य चर्मणा कृतावुपानही लङ्गयति । एकां वा ॥ ५ ॥

अपामिदं न्ययनं नमस्ते हरसे शोचिष इति द्वाभ्यामाग्निमधिक्रामति ॥ ६ ॥

द्वापामग्भ्यामग्निमधिरोहति चितिमध्वर्युः ॥ ६ ॥

जुह्वां पञ्चगृहीतं गृहीत्वा नृषदे वडिति पञ्चभिरक्ष्णयाऽग्निं व्याघारयति । यथोत्तरवेदिम् । ७॥

सुवर्विद वडित्यन्तः । पञ्चभिर्मन्त्रैरग्निं (नौ)व्याघारणं स्वयमातृण्णायां वेत्यापस्तम्बबौधायनौ । उत्तरवेदिवत् । अक्ष्णया विधानं ब्राह्मणे-'नृषदे वडिति व्याघारयति' इत्यारम्य-अक्ष्णयां व्याघारयति तस्मादक्ष्णया पशवोऽङ्गानि प्रहरन्ति प्रतिष्ठित्य । (ले० सं०५-४-५)इति ॥ ७ ॥

ये देवा देवानामिति द्वाभ्यां दध्ना मधुमिश्रेण दर्भग्रुमुष्टिनाऽग्निमनु परिचारमवोक्षति ॥ ८ ॥

स्नुवित्यन्तः । द्वाभ्यामृग पामनु परिचारं गत्वा प्रदेशमा व्यवोक्षणं करोति, दना मधुमिश्रेण दर्भाणां च महता मुष्टया गृहीत्वाऽग्निं विविधमवोक्षति । गुरुः स्थूलो दर्भमुछिीमुष्टिरिति भाष्यकृत् ॥ ८ ॥

कूर्मपृषन्तं कृत्वा प्राणदा अपानदा इति प्रत्यवरोहति ॥ ९॥

यथा कूर्मपृष्ठं भवति नानाविन्दुचित्रितं तथा पृष्ठमध्ये कृत्वा । (ए)कस्य मन्त्रः प्राणदा अपानदा इति । तूष्णीं यजमानः प्रत्यवरोहति ॥ ९॥

जुह्वां पञ्चगृहीतं गृहीत्वाऽग्निस्तिग्मेन शोचिषा सैनाऽनीकेनेति सꣳहिताभ्यामग्नयेऽनीकवत एकामाहुतिं जुहोति ॥ १२.४.१० ॥

अग्निस्तिन्मेनेति द्वाभ्यामेकाहुतिः, अग्निरनीकवान्देवताज्ञानं कङ्गिम् ॥ १० ॥

षोडशगृहीतेन स्रुचं पूरयित्वा य इमा विश्वा भुवनानि जुह्वदिति सूक्ताभ्यां नाना वैश्वकर्मणानि जुहोति । सर्वाभिर्वा ॥ ११ ॥

षोडशगृहीतेनाऽऽज्येन जुहूं संपूर्य विश्वकर्मा सर्वकर्मा येषां देवता वैश्वकर्मणानि, सानि जुहोति । य इमा विश्वा भुवनानीत्यारभ्य, अपां गर्ने व्यदधात्पुरुषा स्वाहेत्येका. ५ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । ९७

हुतिः । चक्षुषः पितेत्यारभ्य, अयमुनो विढ्यो यथाऽसत्वाहेति द्वितीयेन सूक्तेन नानासूक्ताभ्यां सूक्तेन सूक्तेनाऽऽहुतिद्वयमित्यर्थः ॥ ११ ॥ .. अत्रेदं चिन्त्यते-- किमयं वैश्वकर्मणहोमः प्रतिमन्वं पृथकार्यः किंवा मुक्तद्वयं सहोचार्य सकृदनुष्ठेय आहोस्विदेकेकं सूक्तमुच्चार्यानुष्ठेय इति । तत्राऽऽद्य पक्षद्वयं शाखान्तरगतत्वेनाङ्गीकरोति

यं कामयेत चिरं पाप्मनो निर्मुच्येतेत्येकैकं तस्य जुहुयात् । यं कामयेत ताजक्पाप्मनो निर्मुच्येतेति सर्वाणि तस्यानुद्रुत्य जुहुयात् ॥ १२॥

एकैकमन्त्रहोमेन शनैः शनैः पापनिर्मोको भवति । सर्वसूक्तहोमेन तु तदानीमेव पापनिर्मोकः । पृथक्सूक्तद्वयेऽपि सामर्थं पृथक्संपादितं भवति । अपि च सूक्तद्वित्वं यजमानस्य प्रतिष्ठायै संपद्यते । तस्मादयमेव पक्षः श्रेयानित्यर्थः ॥ १२ ॥

समुद्राय वयुनाय सिन्धूनां पतये नम इति यद्येनमुदकेऽभिविन्देदञ्जलिनोदकमादायाप्सु जुहुयात् । अयज्ञसंयुक्तः कल्पः ॥ (ख०१०)॥ १३ ॥

इति सत्याषाढहिरण्यकेशिसूत्रे द्वादशप्रश्ने चतुर्थः पटलः ॥ ४ ॥

यद्येनं पुरुषमुदके वर्तमानस्य विन्देत मीमीतिर्जायतेत्यर्थः । शुचिभूतोदक जलि. मादाय—समुद्राय वयुनायेति तास्वेवाप्सु जुहुयात्, यासु भयमुत्पन्नम् । यथालिङ्ग स्यागः ॥ १३ ॥ इति सत्याषाढहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयो गचन्द्रिकायां द्वादशप्रश्ने चतुर्थः पटलः ।। ४ ।।

12.5 अथ द्वादशप्रश्ने पञ्चमः पटलः ।

उत्तमाभ्यामापराह्निकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचर्योदेनमुत्तरां नयेति तिसृभिर्घृतोषितास्तिस्रः समिध आहवनीयेऽभ्यादधाति ॥१॥

आदधाति प्रक्षिपति । अन्य स्पष्टम् ॥ १ ॥

उदु त्वा विश्वे देवा इत्यग्निमुद्यच्छते ॥२॥

इमं प्रणयनीयं क्षिप्त्वा सिकताभिश्चोफ्यम्य, अग्नये प्रणीयमानायेति संपः । उदु त्वा विश्वे देवा इत्यनेरुद्यमनं कृत्वोयतहोमः ॥ २ ॥ सत्याषाढविरचितं श्रौतसूत्रम्- [१२ प्रश्ने

पञ्च दिशो देवीर्यज्ञमवन्तु देवीरिति षड्भिर्हरति ॥ ३॥

जुषन्तामित्यन्तः । प्रथमायां त्रिरतक्तायां पश्व दिशो देवीरिति हरत्याग्रीधादिति शेषः । यदाऽपि षड्भिस्तदाऽपि पञ्चम्यावृत्तिः । पड्भिहरति षड्वा ऋतब ऋतुभिरेवैनर हरति' (तै. सं० ५-४-६ ) इति ब्राह्मणम् ॥ ३ ॥

आशुः शिशान इति दक्षिणतो ब्रह्मा दशर्चेनाप्रतिरथेनान्वेति । मैत्रावरुणो ब्राह्मणाच्छꣳसी वा॥४॥

आशुः शिशान इति दशर्चेन दक्षिणतोऽग्नेः स्थितो ब्रह्माऽनुगच्छति, मैत्रावरुणो वा • यदाऽप्रतिरथं द्वितीयो होता' (तै० सं० ५-४-६ ) इति ब्राह्मणाद्ब्रह्मगणस्य द्वितीयो होता ब्राह्मणाच्छंसी । प्रतिप्रस्थाता वेत्यापस्तम्बः ॥ ४ ॥

विमान एष दिवो मध्य आस्त इति द्वाभ्यामाग्नीध्रेऽश्मानं निदधाति ॥ ५॥

आग्नीघो यस्मिन्प्रदेशे भविष्यति( भवेत् स आग्नीध्र इति तस्मिन्प्रदेशे विमान एष दिव इति द्वाभ्यामश्मानं निदधाति, उपधानार्थे शुभ्रप्रस्तरम् । मध्ये दिवो निहितः पृश्निरश्मेति लिङ्गात् । मध्य उपधानकाले उपधीयते ॥ ५ ॥

इन्द्रं विश्वा अवीवृधन्निति चतसृभिरा पुच्छादेति ॥ ६ ॥

अग्नीध्र निर्गत्य पुच्छपर्यन्तमेतैर्मन्त्रैच्छेत् । द्वितीया त्वनवसाना ॥ ६ ॥

प्राचीमनु प्रदिशमिति पञ्चभिरग्निमाक्रमन्ते ॥ ७ ॥

स्वस्तीत्यन्तः । पञ्चाभिरग्निमधिरोहत्यध्वर्युः ॥ ७ ॥

कृष्णायै श्वेतवत्सायै पयसा दध्ना वौदुम्बरीꣳ स्रुचं पूरयित्वा नक्तोषासा, अग्ने सहस्राक्षेति सꣳहिताभ्याꣳ स्वयमातृण्णायामेकाहुतिं जुहोति ॥८।

अधिरुह्य नक्तोष साउने सहस्राक्षेति द्वाभ्यामृग्भ्यां संहिताभ्यां देवा अग्निं धारयन्द्र. विणोदा अग्ने सहस्राक्षेत्येवं संहिताभ्याम् । अन्ये त्वाहुः- अवसानं क्रियते नोच्छ्स्य ते, मध्य ऋचोः । दनः पूर्णामौदुम्बीमताभ्यामृग्भ्यां हूयते स्वयमातृण्णायाम् । अग्निर्दे. वता । एतन्म-प्रसाध्य होम ब्राह्मणे-- नः पूर्णामोदुम्बरी ५ स्वयमातृण्णायां जुहोति । (तै० सं० ५-४-७) इति विदधाति । जुहूसदृशी काचित्गौदुम्बरी ॥ ८॥

ऊर्णावन्तं प्रथमः सीद योनिमित्युच्यमाने सुपर्णोऽसि

१५. श्वेतवर्णोऽश्मा उप। ५ पटलः ] महादेवशास्त्रिसंकलितपयोगचन्द्रिकाच्याख्यासमेतम् । ९९

गरुत्मान्पृथिव्याꣳ सीदति तिसृभिः स्वयमातृण्णायामग्निं प्रतिष्ठापयति द्वाभ्यां वा ॥ ९ ॥

उर्णावन्तं प्रथमः सीद योनिमिति होतुः शब्दं श्रुत्वा पाशुकाः संभराः परिध्यादपोऽनवतीर्ण एव विश्वायुरसीति । यदेतान्त्संभरान्त्संभरति, इति श्रुतेः । अनेरधस्तात् फियते, अन्यस्मै प्रदायाग्निम् । उत्तरवेदिविकारत्वाग्नेः । अग्नेर्भस्मासीति संभरा गुग्गुलसुगन्धितेजनोर्णाः स्तुका:-सुपर्णोऽसि गरुत्मानिति तिसृभिः स्वयमातृप्णायां संभा(भ). रवत्या प्रतिष्ठापनमग्नेः सुपर्णोऽसि गरुत्मान् भासाऽन्तरिक्षमा पृण ( इति द्वे ऋची वा), आजुह्वान इति वार्गवसानवती, अनवसाने तु पूर्वे प्रतिष्ठापितेऽनावग्नेः पुरीषमसीत्युत्तरत उपयमनी(न्या)न्युप्य ॥ ९॥

प्रेद्धो अग्ने दीदिहि पुरो न इत्यौदुम्बरीꣳ समिधमादधाति । विधेम ते परमे जन्मन्नग्न इति वैकङ्कतीꣳ सवितुर्वरेण्यस्य चित्रामिति शमीमयीम् । शमीमयीं पूर्वामेके समामनन्ति । वैकङ्कतीमुत्तराम् ॥ (ख०११) ॥ १२.५.१० ॥

मनुष्व त्वेत्युपसमिन्धनं, समिन्धनार्थत्वात्प्रकृतस्योपसमिन्धनस्य वैकृतमन्त्रेणप्रेद्धो अग्न इत्यौ?म्बरी, आधीयते । विधेम त इति वैकती । ता५ सवितुरीति शमीमयीम् । शमीमयी पूर्वा वैकऋत्युत्तरा च शारनान्तरस्था । केचित्तु -सर्वत्र समिधमादधातीत्यनुवर्तत इति पठन्ति ।। १०॥

अग्ने तमद्याश्वामित्यक्षरपङ्क्त्या जुहोति ॥ ११ ॥

चित्तिं जुहोमि, अग्ने तमद्याश्वमिति द्वे आहुती हुत्वेत्यापस्तम्बः ॥ ११ ॥

जुहूꣳ स्रुवं च संमृज्य चतुर्ग्रहीतेनाष्टगृहीतेन द्वादशगृहीतेन वा स्रुचं पूरयित्वा सप्त त इति पूर्णाहुतिं जुहोति ॥ १२ ॥

आज्येन चतुर्गृहीतेनाष्टगृहीतेन द्वादशगृहीतेन वा चुचं पूरयित्वा प्राकृती पूर्णाहुतिः । अग्निः सप्तवान्देवता । द्वादशगृतीतेनाऽऽज्येन पूर्णा जुहूस्तया जुहुयादित्यर्थः

तां जुह्वदिह सोऽस्त्विति दिग्भ्योऽग्निं मनसा ध्यायति ॥ १३ ॥

तां जुह्वयो दिवाग्निरिह सोऽस्त्विति ध्यानम् । ततोऽतिमुक्ती:- अग्निर्यज्ञं नयतु

. १ ग. औदुम्बरी समिधमाधी । १०० सत्यापाढविरचितं श्रौतसूत्रम्- [१२ प्रश्

नेप्रजानन्नित्येवमाद्याः पशुबन्धवत्प्रणयनोपदेशात्तन्मते तु व्याघारणान्तामुत्तरवेदि कृत्वा पाशुकान्त्संभारान्न्युप्य ति ( ते ) संभारा एकोप्यन्ते, ततः पारधयो लुप्यन्त इति । अत्राप्याहाऽऽपस्तम्यः ----आ वेदिप्रोक्षणात्कृत्वा, ( आप० औ० १५-६-१) इति । सह वेदिप्रोक्षणेनेत्यभिविधिः । तस्मादाहोत्तरत्र वेद्यास्तरणादि सौमिक फर्म. प्रतिपद्यते, इति । अग्निबत्त्युत्तरं परिग्राहं पारगृह्णातीति । अनुवीक्षणान्तं कृत्वा शाखामाहृत्य मैत्रावरुण्याः पयस्याया वत्सापकरणम् । अन्तर्वेदि शाखायाः पलाशप्रशातनोपवेषान्तं : करोति । गोमयलेपनान्तं कृत्वा कुम्भ्याः प्रोक्ष्य बहिस्त्रिवैदिमिति प्रोक्षति लौकिकेनों- . दकेन तूष्णीकेन ॥ १३ ।

वैश्वानरीयस्य तन्त्रं प्रक्रमयति । तत्र यावत् क्रियते तद्व्याख्यास्यामः ॥ १४ ॥

वैश्वानरस्याग्नेस्तन्त्रमङ्गसमुदायं प्रक्रमयत्यारम्यते कर्तुं बर्हिः प्रस्तरवण यदा ध्रुवा प्रस्तरे साद्यते परिस्तरणानीध्माघारसमित्प्रथमा प्रयाजानूयाजसमित्, त्रीपरिधीनेका समिधं यक्षायुर नृसंचरानितीध्ममन्त्र इध्मप्रवृश्चनानि निदधाति । १४ ॥

वेदं कृत्वाऽग्नीन्परिस्तीर्य पाणी प्रक्षाल्योलपराजीꣳ स्तीर्त्वा यथार्थं पात्राणि प्रयुनक्ति ॥ १५॥

वेदं कृत्वा समूहन्त्यम्यागारमायतनोपलेपनादि क्रियते पूर्वमकृतमिति । अग्नीप रिस्तीर्य पाणिप्रक्षालनादिकर्म प्रतिपद्यते कर्तुम् । यथार्थ पात्राणि न दर्शपूर्णमासवत्सवाणि प्रयुनक्तीत्यर्थः ॥ १५॥

न प्रणीताः प्रणयति ॥ १६॥

विमोकाद्यभावात् ॥ १६॥

निर्वपणकाले वैश्वानरं द्वादशकपालं निरुप्य सप्त मारुतान्त्सप्तकपालान्निर्वपति ॥ १७॥

अग्नेर्वैश्वानरस्य द्वादश कपालानि मारुतानां सप्तकपालमिति । केचित्तु-सर्वाण्यपराणि प्राशिवहरणेडापात्रमन्वाहार्यस्थालीवर्जानि पूर्वाणीति । निर्वपणकाले प्राप्ते-नेवैश्वानरस्य निर्वापं कृत्वा सप्त मारुताः सप्तकपालास्तस्मिंश्च शूर्पे पृथक् ॥ १७ ॥

तूष्णीमुपचरिता मारुता भवन्ति ॥ १८ ॥

तूष्णीमुपचरितत्वाइर्विहोमा एत इति । अत उपसादनप्रोक्षणादयस्तूष्णीमवहननफलीकरणप्रक्षालनावेक्षणोत्पवनकपालोपधानाधिश्वयणादीनि पृथक्तूष्णीमुपचरितत्वात् ॥१८

यजुरुत्पूताभिः संयौति । अभिवासित आप्यलेपं निनीय । संप्रेषेण प्रतिपद्यते ॥ १९॥ यदन्यदि ५ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाच्याख्यासमेतम् । १११

ध्माबर्हिषः पत्नीसंनहनाच्च तत्संप्रेष्यति ॥१२.५.२०॥

पिष्टेषु यजुरुत्पूताभिरद्भिः संयोति । संप्रेषकाले पत्नीवर्स संप्नेष्यति । नित्यः संप्रेषः । अवास्ते तु पत्नी ॥ १९ ॥ २० ॥

यत्प्रागाज्यग्रहणात्तत्कृत्वा ध्रुवायामेव गृह्णाति ॥२१॥

आज्यग्रहणकाले ध्रुवायामेव गृह्णाति, अयाजानूयाजाभावात् ॥ २१ ॥

प्रोक्षणीरभिमन्त्र्य ब्रह्माणमामन्त्र्य वेदिं प्रोक्ष्य प्रोक्षण्यवशेषं निनीय पवित्रे अपिसृज्य ध्रुवाꣳ स्रुवं च सादयति ॥ २२ ॥

प्रोक्षणीनामभिमन्त्रणादि कर्म प्रतिपद्यत इत्यापस्तम्बोक्तेः प्रकृतिवत्। पुनर्वचनात् । इतरथा तुष्णीकं प्रोक्षित इति न क्रियते वेदिप्रोक्षणम् । तेन निवर्तते । सर्वत्रोपसत्से. स्फुटदर्शनात् । स्तरणकालेऽपरेणानि बहिस्तीवा । एकाऽऽघारसमित् । वीतिहोत्रमिति सर्वमन्यत्प्रकृतिवत् । ध्रुवां सुवं च सादयति प्रस्तरे वर्हिषि वा ॥ २२ ॥

एषाऽसददिति मन्त्रꣳ संनमति ॥ २३ ॥

एतावसंदतामित्यभिमन्त्रण ध्रुवायाः सुवस्य च ॥ २३ ॥

विष्ण्वसि वैष्णवं धाम प्राजापत्यमित्याज्यमभिमन्त्रयते । (ख०१२)।२४

विष्ण्वसीति घौवस्याऽऽज्यस्यामिमन्त्रणम् ॥ २४ ॥

वैश्वानरमासाद्य मारुतानासादयति ॥ २५॥

कपालवत्पुरोडाशादित्याद्यासन्नाभिमर्शनान्तं प्रकृतिवत् । आग्नेयविकारवत्तूष्णीक मारुतानाम् ॥ २५ ॥

उच्चैर्वैश्वानरस्याऽऽश्रावयति ॥ २६ ॥

इदानमेिव वेदनिधानं वेद्यन्तापरिस्तरणं होतृषदनपरिकल्पनं च । ततः सामिधेन्यः । उपवा(वी)जनं वेदेन । धौवाघारः । न संप्रेप्यति- अग्नीत्परिधीनिति च । इदानीमपि न समार्टि पारधीनग्निं च । ततः प्रवरो देवस्य मानुषस्य च । नापि प्रयाजा इज्यन्ते । न तेम्य आज्यम् । तत आवाहनप्रतिषेधः क्रियते । प्रचर्य चाऽज्यमागाभ्याम् । नुहामुपस्तीर्य कृत्स्नं वैश्वानरमवदाय तूष्णीमवदानानि । तत अवदानानीत्यवस्थाभिधेयामा. वात्। द्विरमिधारणं चतुरवत्तं जुहोतीति । उच्चैर्मध्यमादपि स्वराद्वैश्वानरस्याऽऽाश्रवणं भवति ॥ २६ ॥

सर्वहुतमपर्यावर्तयञ्जुहोति ॥ २७॥

स्पष्टोऽर्थः ॥ २७॥

ईदृङ्चान्यादृङ्चेत्यासीनो हस्तेनोपाꣳशु मारुतान्स . सत्याषाढविरचितं श्रौतसूत्रम्- १२ प्रश्ने

र्वहुतान्गणेन जुहोति ॥ २८ ॥ पूर्वं पूर्वं गणमनुद्रुत्योत्तरेणोत्तरेण जुहोति ॥ २९ ॥ स्वतवाꣳश्च प्रघासी च सांतपनश्च गृहमेधी च क्रीडी च साकी चोर्जिषी चेत्युत्तमं गणमनुद्रुत्य प्रथमेन जुहोति ॥ १२.५.३० ॥

उपांशु . मारुतान् प्रतिनिवृत्य वैश्वानरं हुत्वा हूयन्ते दर्विहोमाः । ईदृञ्चेत्यनुद्रुत्य शुक्रज्योतिथेति होमः । सर्वत्र मरुतो देवता । शुक्रज्योतिश्चेत्यनुद्त्य ऋजिच्चेति होमः । ऋतनिश्चेत्यनुद्रुत्याऽऽरण्यकेन धुनिश्चेति होमः । धुनिश्चेत्यनुद्रुत्य ऋतथ्य सत्यम्धेति होमः । ऋतश्च सत्यश्चेत्यनुहृत्य स्वतवाश्चेति होमः । स्वतवांश्चैत्यनुद्रुत्य ईदृक्षास इति होमः । ईदृक्षास इत्यनुहृत्य ईदृचान्यादृङ्चेति होमः । गणेन गणेन वा . होमः । तथाऽपि चतुर्थ आण्योऽनुवाकः । षष्ठश्च स्वतवान् । सर्वतो वा वेष्टयते मारु.. तैवैश्वानरम् । आपस्तम्चे तु स्वतवाँश्चेति षष्ठो मितासम्वेति होम एना षङ्गः । नानुद्रवणो. मानुषीश्चानुवानो भवन्तु स्वाहेत्यन्तोऽनुषङ्गस्य । अथवा- अप्रत्येषु मन्त्रेप्वाम्नाताः पञ्च गणाः । आरण्यकाण्ड आन्नातो धुनिश्च ध्वान्तश्चेत्यपरो गणः । सूत्रान्तरोक्तः स्वतवानित्यादिरेकः । अतो ब्राह्मणे तु सप्त भवन्ति सप्त गणा वै मरुतो गणश एवं विशमवरुन्धे (त० सं०५-४-७) इति पुरोडाशाना संख्या द्रष्टव्या । होमकाले मन्त्रोच्चार कंचिद्विशेष विधत्ते- गणेन गणमनुद्वत्य जुहोति' (तै० सं० ५-४-७) इति । यदा प्रथमगणेन हुत्वा द्वितीयगणेन जुहोति तदानीं प्रथमगणमुच्चार्य पश्चाद्वितीयगणेन जुहोति । तथा द्विती- . यगणमुच्चार्य तृतीयगणेन जुहुयात् ॥ २८ ॥ २९ ॥ ३० ॥

इन्द्रं दैवीर्विशो मरुतोऽनुवर्तमान इति हुत्वोपतिष्ठते ॥ ३१॥

यजमान इति शेषः॥३१॥

यदि कामयेत विशा क्षत्त्रꣳ हन्यामिति ग्राम्येऽनुवाक्यस्य गणस्य त्रीणि चत्वारि वा पदान्यनू(पादाननू )च्यारण्येऽनुवाक्यस्य शेषेण जुहोति ॥ ३२॥ एवं त्रिभिरादितो यथासमाम्नातं ग्रामेऽनुवाक्यस्य यथा पूर्वैरेवं त्रिभिरुत्तरैर्गणैः ॥३३॥ यदि कामयेत क्षत्त्रेण विशꣳ हन्यामित्यारण्येऽनुवाक्यस्य षट्सु पदान्तरालेषु षड्गणानोप्य ग्रामेषु वाक्यं जपित्वाऽऽरण्येन वाक्य ६ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । १०३

शेषं जुहोति ॥ ३४॥ एवं त्रिभिरादितो यथासमाम्नातं ग्रामेऽनुवाक्येन यथा पूर्वैरेवं त्रिभिरुत्तरैर्गणैः ॥ ३५ ॥

यदि कामयेत यजमानः क्षत्रं क्षत्रिया वैश्येभ्य ओजस्विनः स्युरिति प्रामेऽनुवाकस्य त्रीणि चत्वारि वा पदान्यर्थ पदानि, ईचेति पदम् । एवं विधान्यपि पश्चादरण्येऽनुवाक्ये उच्यते, पञ्चमे वाक्य आरभ्य चतुर्थे वा नामेऽनुवाक्य(कोशेषेण होमः । एवमास्त्रिभिोमं कृत्वा पश्चादरण्येऽनुवाक्ये(के) केवलेन होमः । यथा पूर्वं तं त्रिमिर्गणैस्त्रीणि चत्वारि वा पदान्यनुहृत्यत्येवमादि । एवमुत्तरस्त्रिाभिर्जुहुयात् । ___ यदि कामयेत वैश्याः क्षत्रियेभ्य ओजस्विनो भवन्त्विति यथापरिपठितमादितस्त्रिमिगणगणेन गणेन हुत्वाऽऽरण्येऽनुवाक्य(क)स्य षटसु पदान्तरालेषु षड्गणाः क्षिप्यन्ते । धुनिश्च ईदृङचेति गण उच्यते । ध्वान्तश्चेत्युक्त्वा शुक्रज्योतिश्चेति ध्वनश्च ऋतजिच्चेत्युच्यते । ध्वनय श्च ऋतश्चेति विलिम्पश्चेत्युक्त्वा स्वतबाँश्वेत्युच्यते । विलिम्पश्चेत्युक्त्वा ईदृक्षास इत्युच्यते । विक्षिप इत्युक्त्वा पुनः केवलेनाऽऽरण्यकेन होमः । यथा पूर्खतमेवमुत्तरैरपि होमो गणैः । मारुतहोमान्तो वैश्वानर इति भाग्यकृत् । उग्रश्च धुनिश्चेति वैकल्पिकः ॥ ३२ : ॥३३ ॥ ॥ ॥३४ ॥ ॥ ३५ ॥

न संप्रेष्यति । न संमार्ष्टि । नानूयाजान्यजति ॥ ३६ ॥

न संप्रेष्यति ब्रह्मन्प्रस्थारयाम इत्येवमादि । न संमार्टि परिधीनग्निं च । न याति चानूयाजान् । अस्मिन्काल आज्यं गृहीत्वाःनूयाजार्थं प्रतिषिद्धवजे सर्व कर्तव्यमिति न्यायः । आग्नेयविकारत्वाद्वैश्वानरस्य न संप्रेष्यति न संमाष्टर्टीति यथाश्चति पठितं सूत्रकारेण । मारुतान्हुत्वा नारिष्ठान्वैश्वानरे हविरिदमिति च । अर्थलोपास्विष्टकृदादिचतुर्धाकरणान्तानां लोपः । व्यूहनं वाजवतीभ्याम् । यदि प्रस्तरो ध्रुवार्थ कृतः । ततः प्रकृतिवसंत्रावान्तम् । यदि तु न कृतो न तदा । प्रापरिधिप्रहरणात् । सूक्तवाको याज्येति वचनात् । ततः प्रकृतिवत्संस्त्रावान्तम् । ततः पत्नीसंयाजादि ब्राह्मणभोजनान्त प्रकृतिवत् ॥ ३६ ॥

यं कामयेत क्षत्रियं प्र स्वादायतनाच्च्यवेतेति तस्यारण्येऽनुवाक्य(क)स्य गणस्याग्निष्ठं रथवाहनं वा व्यङ्गयेदित्ययज्ञसंयुक्तः कल्पः ॥ (ख०१३) ॥३७॥

इति सत्याषाढहिरण्यकशिसूत्रे द्वादशप्रश्ने पञ्चमः पटलः ॥ ५॥

यंक.मयेत राजानं राजशणां क्षत्रेणास्य स्वेन स्वैरेव क्षत्रिया हन्येरन् । अन्ये यस्माच्च प्रच्यवेत देशान्तरं शत्रुभिनींयेतेति तरयारण्येऽनुवावये(के)नाहोरात्रे वोदी. १९६४ : सत्यापाढविरचितं श्रौतसूत्रम्-- [१२ प्रश्

नेरयतामित्यग्निप्रवाहणं शकटे यद्येताद्ध रथवाहनं शकटं तदरण्येऽनुवाक्ये(के)न व्यङ्गं करोति । 'अन्यद्वा किंचिदस्य प्रदेशमिति । अयज्ञसंयुक्तो विधिः सर्वार्थः ॥ ३७॥ इति सत्याषाढहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां .. ' प्रयोगचन्द्रिकायां द्वादशप्रश्ने पञ्चमः पटलः ॥५॥

12.6 अथ द्वादशप्रश्ने षष्ठः पटलः ॥

वसोर्धारां जुहोति । आज्येनौदुम्बर्या स्रुचाऽग्नाविष्णू सजोषसेत्यनुद्रुत्य वाजश्च मे प्रसवश्च मे इति संततामा मन्त्रसमापनात् ॥१॥

वैश्वानरे परिसमाप्तेऽनाविष्णू सजोषसेति चतुर्गृहीतं जुहोति । औदुम्बरी ५ स्रचं ज्यायाममात्री मृदा प्रदिग्धां पश्चादासेचनवती घृतस्य पुरयित्वा ( आप औ०१७'६-१७) इत्यापस्तम्बः | औदुम्बरी उक् , उदुम्बरेण कृता व्यायाममात्री चतुररनि:, मृदा प्रलिप्यते यथा न दह्यते पश्चात्तस्या आसेचनं रिलं पश्चिमभागे व्यायामस्य दण्डोमः, मुख दीर्घ तां धृतस्य पूरयित्वा पूर्णाहुतिरेका वाजश्च म इत्यारभ्य, वान शब्द एवं घारा संतताऽविच्छिन्ना यावत्सर्वैमन्त्रैः समाप्ता । भुवनश्च स्वाहा, अधिपऋतिश्च स्वाहा, इति मन्त्र मन्त्रे स्वाहाकारः । वानश्च मे स्वाहा प्रसवश्च मे स्वाहा इत्येवमन्ता अर्धेन्द्राणि जुहोति, द्वादश द्वादशानि जुहोति (ले० सं० ५-४-८) इति च श्रुतेः । भाष्यकारस्तु-अन्त एव स्वाहाकार इति । एतच्च सूत्रकारमतात् । मरवाहेत्यारभ्य संतता धारा इति मीमांसकाः । तथाहि- संतता वसोर्धारां जुहोतीत्यत्र संततवचनात्तस्य च साहित्यवाचित्वात्साहित्यस्य चानेकापेक्षितत्वात्कर्मणश्चैकत्वात्कर्ममिश्चयो साहित्यमिदमुच्यते । अतोऽत्र मन्त्रादेः कर्मादेश्व संनिपातः । स्यादेवं यद्येक कर्म स्यात् , भिन्नानि त्वत्र द्वादश द्वादशानि जुहोति इति संख्यया कर्माणि तेषामविच्छेदः संततशब्देनीच्यते । जुहोतीति तेषामुपात्तत्वान्न मन्त्रकर्मणोः साहित्यं मन्त्र. स्थानुपात्तत्वात् । अविच्छेदेऽपि संततशब्दो वर्तते न केवलं साहित्ये । अतोऽत्रापि पूर्व एव स्यायः ॥ १० ॥ __ अन्वयष्यरिरकाभ्यां सं तत्य विधत्ते -

यं कामयेत प्राणानस्यान्नाद्यं विच्छिन्द्यामिति विग्राहं तस्य जुहुयात् । यं कामयेत प्राणानस्या ६ पटल ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकान्याख्यासमेतम् । १.०५

नाद्यꣳ संतनुयामिति संततां तस्य जुहुयात् ॥२॥

अस्य यजमानस्य प्राणानन्नं च विच्छिन्द्यामित्येवं द्विषन्नध्वर्युरेतं मन्त्र मध्ये विगृह्य जुहुयात् । यस्तु प्राणानामन्नस्य च सातत्यं कामयते सोऽयं संततामाहुति जुहुयात् । प्रतिषेधार्थमिति न्यायः । अवयुकाम इति भाप्यकृत् ।। २ ॥

यदाज्यमुच्छिष्येत तस्मिन्ब्रह्मौदनं पक्त्वा चतुरोऽध्वर्यून्भोजयेत्तेभ्यश्चतस्रो धेनूर्दक्षिणा दद्यात् ॥३॥ चतुःशरावमोदनं पक्त्वा तद्व्यञ्जनं भोजयति ॥ ४ ॥

यदाज्यमुच्छिष्येत स्नुचि तस्मिन्नाज्य ओदनश्चतुःशरायः पच्यते । अर्थमं लौकिकेन न्यायेन तं ब्राह्मणाश्चत्वारः प्राश्नीयुरिति पुनरुपदेशाच्चतुर्णा ब्राह्मणानाम् । भाष्य कारस्तु गार्हपत्ये पाक इति । चतुःशरावश्चतुर्मल्लकः । ओदनं पक्त्वा हुतातिरिक्त घृतेन यच्छिष्टं धारयाऽहतं तस्यौदनस्य व्यञ्जनं भवति । यद्यपि ब्राह्मणग्रहणमविशेष तथाऽपि प्राकृता एवाध्वर्युप्रभृतयो . गृह्यन्ते । प्राशितवद्भयो भुक्तबद्धयश्चतस्रो धेनूदद्याद यजमानः । यद्यप्याज्यगृहीतेन व्यञ्जनं भुज्यते तदप्याज्ये श्रप्यते ॥ ३ ॥ ४ ॥

वाजप्रसवीयं जुहोति । सप्त ग्राम्या ओषधयः सप्ताऽऽरण्याः । पृथगन्नानि द्रवीकृत्य वाजस्येमं प्रसवः सुपव इति चतुर्दशभिर्ऋग्भिरौदुम्बरेण स्रुवेणैकैकयर्चाऽन्नमन्नं जुहोति ॥ ५ ॥

वाजप्रसवशब्दो यस्मिन्होमसमुदाये विद्यते स वाजप्रसवीयस्त जुहोति । सप्त माझ्या ओषधयस्तस्मिन्यन्ते सप्त चाऽऽरवाः पूर्वोक्ताः । पृथक्पृथगन्नानि ग्राम्यारण्यानां द्रव्याणामाज्या कृत्वेति भाष्यकृत् । पपमानानि यथा द्रवाणि भवन्ति तथा कर्तव्यमितिः न्यायः । केचिदपक्वान्याज्येन द्वाणि - कृत्वा होमं कुर्वन्ति । अपरे तु अपऽप्यन्नशब्दो विद्यतेऽन्नस्यान्नस्य वपति, इति ब्रुवन्तः । तत्वयुक्तं ( भवति ) भविष्यति । तदन्नमिति तस्मिन्नन्नशब्दः । औदुम्बरेण उदुम्बरमयेण सुवेण वाजस्येमं प्रसवः सुषव इति प्रत्यूचं ग्राम्यान हुत्वाऽऽरण्यानुहोति- वाजो नः सप्त इति । . केचित्-तिलगापबीहियवप्रियमवणवो गोधूमा इति सप्त साम्या । वेणुश्यामाकादय उदाहला आरण्याः । उभयविधधान्यसमृद्धये चतुर्दशामिॉमः । एकैकेन मन्त्रेणैकैकस्य होमं विधत्ते – अन्नस्यानस्य जुहोति ( तै० सं० ५-४-९) इति । असांक येण सत्याषाढविरचितं श्रौतसूत्रम्- [ १२ प्रश्

नेतत्तदन्नप्राप्त्यर्थमीदृशो होमः । चोदकप्रप्तां जुहं बाधितुं साधनान्तरं विधत्ते-औदुम्बरेण सुवेण जुहोति (तै० सं० ५-४-९) इति ॥ ५ ॥

पितुं नु स्तोषं महोधर्माणं तविषीम् । यस्य त्रितो व्योजसा वृत्रं विपर्वमर्दयत् ॥ स्वादो पितो मधो पितो वयं त्वा ववृमहे । अस्माकमविता भव । उप नः पितवाचर शिवः शिवाभिरूतिभिः ॥ मयोभुरद्विषेण्यः सखा सुशेवो अद्वयाः । तव त्ये पितो रसा रजाꣳस्यनुविष्ठिताः ॥ दिवि वाता इव श्रिताः । तव त्ये पितो ददतस्तव स्वादिष्व(ष्ठ)ते पितो ॥ प्रस्वात्या (द्या)नो रथा(सा)नां तुविग्रीवा इवेरते । त्वे पितो महानां देवानां मनो हितम् ॥ अकारि चारु केतुना तवाहिमवसाऽवधीत् । यददो पितो अजगन्विवस्व पर्वतानाम् ॥ अत्रा चिन्नो मधो पितोऽरं भक्षाय गम्याः । यदपामोषधीनां परिंशमा रिशामहे ॥ वातापे पीव इद्भव | यत्ते सोम गवाशिरो यवाशिरो भजामहे ॥ वातापे पीव इद्भव । करम्भ ओषधे भव पीवो वृक्क उदारथिः वातापे पीव इद्भव । तं त्वा वयं पितो वचोभिर्गावो न हव्या सुषूदिम ॥ देवेभ्यस्त्वा सधमादमस्मभ्यं त्वा सधमादमिति हुत्वा हुत्वा पात्र्याꣳ संपातमवनयेत् ॥ (ख०१४ )॥ ६॥

हुन्वा हुत्वा पाच्या संपातशेषमवनयति सर्वान्नानाम् ॥ ६ ॥

अपिवा यस्यान्नस्याग्रे जुहुयात्तस्येध्मं कुर्यात् ॥ ७ ॥

शाखान्तरोक्तानुवादः ॥ ७ ॥

यजमानायतन औदुम्बर्यामासीनमाग्निमन्वारब्धं कृष्णाजिने संपातैरभिषिञ्चति ॥ ८॥ दक्षिणे वा पक्षावस्मिन्कृष्णाजिने ब्राह्मणं व्याघ्रचर्मणि राजन्यं बस्तचर्मणि वैश्यं पशुकाममिति ॥ ९ ॥ नित्यवदेके समामनन्ति ॥ १२.६.१० ॥ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां बृहस्पतिꣳ ६ पटलः ] महादेवशास्त्रिसंकलितमयोगचन्द्रिकाव्याख्यासमेतम्। १०७

साम्राज्येनाभिषिञ्चामीति ब्राह्मणम् ॥ ११ ॥ इन्द्रꣳ साम्राज्येनाभिषिञ्चामीति राजन्यम् । अग्निꣳ साम्राज्येनाभिषिञ्चामीति वैश्यम् ॥१२॥ पुरस्तात्प्रत्यङ्तिष्ठन्पश्चात्प्राङ्मुखमासीनं शीर्षतोऽभिषिच्याऽऽमुखादन्ववस्रावयति ॥ १३ ॥

दक्षिणं प्रत्यपि पक्ष यन्त्र प्रजापतेर्हृदयेन कृतमुपस्थानं तत्रौदुम्बरीमासन्दी प्रतिष्ठाप्य सस्यामासन्धां कृष्णाजिनं प्राचीनग्रीवमुपरि लोमानि यथा भवन्ति तथा विस्तीर्य (प्रसार्य) तस्मिन्कृष्णाजिन आसीनमुपविष्टं प्राङ्मुखमानिमन्वारभ्य स्थितं संपातैरनशेषैभिषिञ्चति ब्राह्मणम् । व्याघ्रचर्मणि राजन्य क्षत्रियम् । छागस्याभिने वैश्यम् । कृष्णानिने ब्रह्मवर्चसकामं क्षत्रिय वैश्यमपि । वस्तानिने तु पुष्टिकामं ब्राह्मणमपि । देवस्य वा, इत्यनुत्य मन्त्रं, पूणो हस्ताभ्यामग्नेस्त्वा साम्राज्येनाभिषिञ्चामीति ब्राह्मणमाभषिञ्चति । पूर्ववदनुद्वत्येन्द्रस्य स्वा साम्राज्येनाभिषिञ्चामीति क्षत्रियम् । पूर्ववदनुद्रुत्य बृहस्पतेस्त्वा साम्नाज्येनाभिषिञ्चामीति वैश्यम् । 'मन्त्रविपर्यासमेके समामननन्ति' (आप.श्री०१७-४) इत्यापस्तम्बः । भाप्यकारस्तु-देवस्य त्या सवितरित्याउभ्य सरस्वत्यै वाचो यन्तुर्यन्त्रेणास्त्वा साम्राज्येनाभिषिञ्चामीत्यभिषिञ्चति । माहेन्द्रस्य स्तोत्रं प्रत्यभिषिच्यते । यथाऽग्निचित्यायामिति स एव वाजपेयपाठो दर्शित इति । इह तु प्रत्यक्षपाठः । अग्नेस्त्वा साम्राज्येनाभिषिञ्चामीत्याहैष वा अग्नेः समः ( ० सं०५-६-३) इति प्रत्यक्षपाठो ब्राह्मणे । प्राङ्मुखमासीनं प्रत्यङ्मुखस्तिष्ठन्नध्वर्युः लिप्त्वा हुतशेषमामुखाद् यावन्मुखं तावदेव खावयति । अत्राभिषिक्तस्य माहारम्य दर्शयत्यापस्तम्बः-'तदाहु)तव्यमेव नहि सुषुवाणः कंचन प्रत्यवरोहनीति' (आप. श्री०१७-७-६) इति । तदाहुब्रह्मवादिनोऽन्ये शाखान्तरस्था होतज्यमेव लाविलेकार्भ शेषः कर्तव्य इति । न भिषिक्तः सन्यजमानः कंचन दृष्टं गुरुमपि प्रत्यवरोहति, यावज्जीव प्रत्युत्थानं न कुर्यात् । एषोऽभिषेकस्य धर्मः ॥ १० ॥ ११ ॥ १२ ॥ १३ ॥

कृष्णायै श्वेतवत्सायै पयसा दध्ना वौदुम्बरीꣳ स्रुचं पूरयित्वा नक्तोषासेत्याहुतिं जुहोति॥१४॥

अग्निर्देवता । दधिहोमो शाखान्तरस्थः ॥ १४ ॥

ऋताषाडृतधामेति षड्भिः पर्यायैर्वातिदशगृहीतेन द्वादश राष्ट्रभृतो जुहोति ॥१५॥ पर्यायमनुद्रुत्य तस्मै स्वाहेति पूर्वामाहुतिं जुहोति॥१६॥ ताभ्यः स्वाहेत्युत्तराम् ॥ भुवनस्य पत इति रथमुखे ६०४.. सत्यापादविरचितं श्रौतसूत्रम्- ... [.१२ प्रश्ने

पञ्चाऽऽहुतीर्जुहोति ॥(ख०१५) ॥ दश वा पर्यायै रथ्यस्याऽऽहवनीये धार्यमाणꣳ रथशिरोऽभि जुहोति । रथशिरसा जुहोतीत्येकेषाम् ॥ १७॥ समुद्गृहीतꣳ रथमध्वर्योरावसथꣳ हरन्ति । अनुनयन्ति त्रीनश्वाꣳश्चतुर इत्येकेषाम् ॥१८॥ तान्सरथानध्वर्यवे ददाति ॥ १९॥

कामाहुतीः षड्भिः पर्यायैः परिवर्तकादश जुहोति राष्ट्रभृन्मन्त्रैः- अताषाऋतधामाः, ऊों नामेत्येवमन्तः पर्यायः । सकृदेवोक्त्वा तस्मै स्वाहेति प्रमाहुतिः । ताभ्यां 'स्वाहेत्युत्तराहुतिः । एवमुत्तरेष्वपि पर्यायेषु विभागः । वस्ताषाऋतधामाऽग्निर्गन्धर्षः स इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा इति । तस्यौषधयोऽप्सरस ऊों नाम ता इदं ब्रह्म क्षत्रं पान्तु ताभ्यः स्वाहा इत्येवं मा भूदर्थसंबन्धो विभागः । परिपाठसामर्थ्यादन्यथा परिपठितस्य । मन्त्रस्यान्यथा किया न युक्ताऽसति कारणे . नोहेत् । अर्थानाभिदधाति कृतिवदित्यत उहः क्रियते विकृती प्रकृतिवच्छन्दोभावात् ।। भुवनस्य पत इति पर्यायाणां सप्तमी । भुवनस्य पत इति सप्तमी जुहोती त्यापस्तम्बः । पर्यायानधिकृत्यैषा श्रुतिर्विदधाति । भुवनस्य पत इति · त्रयोदशी जुहोतीत्यन्या श्रुतिराहुतीरधिकृत्य, एवमेकार्थत्वाच्छ्रतिद्वयस्य । एतेन व्याख्यातं पर्यायमनु[त्य तस्मै स्वाहेति प्रथमाहुतिः, ताभ्यः स्वाहेत्युत्तरा । एवं पञ्चाऽऽहुती रथमुखे पञ्च । केचिदाहः-आवायस्य स्थशिरो धार्यमाणममिजहोतीति । पञ्चभिर्दशामिवोऽभिहुतास्वाहुतिषु रथमुख आहवनीयस्योपरिष्टाद्धार्यमाणेऽध्वयोरावसथं नयन्ति, उद्यम्यैव हरन्तो न कर्षन्तोऽनुनयन्ति पश्चाद्रथस्य त्रीनश्वान् । यदि पष्टवाही. त्रियुअथः । चतुरो वा । यदि चतुर्युग्रथः । लानश्वारथं चाध्वर्यवे ददाति । पृथगश्वाना प्रतिग्रहः पृथग्रथस्य । न चोहः प्रकृतिविकृत्यर्थत्वान्मन्त्राणाम् । यजमानो हि निमित्ते तिस्रो वडवा द्वे वा वडवे ॥ १५ ॥ १६ ॥ १७ ॥ १८ ॥ १९ ॥

समुद्रोऽसि नभस्वानित्यञ्जलिना त्रीन्वातनामानि जुहोति ॥ १२.६.२० ॥कृष्णाजिनपुटेन वा ॥ २१ ॥

समुद्रोऽसि नभस्वानित्यञ्जलिना वात एव हूयते त्रिः । न ह्येतस्य वायोरवदानं शक्यते ग्रहीतुम् । भाष्यकारस्तु-अजलिना तिस्त्र आज्याहुतीः, इति । कृष्णाजिनपुटेन वा वातहोमः । नाजालना। उपदेशोऽपि वायुरेवात्र हूयत इति ॥ २० ॥२१॥ १ पटलः ], महादेवशास्त्रिसंकलितपयोगचन्द्रिकाच्यास्यासमेतम् । १०९

अग्न उदधे यात इषुर्युवा नामेति पञ्चभिः पर्यायैः प्रदक्षिणमनुपरिक्रामन्प्रतिदिशं पञ्चाऽऽज्याहुतीर्जुहोति । मध्य उत्तमेन प्राङ्मुखः । समीची नामासि प्राची दिगिति षड्भिः पर्यायैर्दध्ना मधुमिश्रेण षण्महाहुतीर्जुहोति । यथा सर्पाहुतीर्यास्ते अग्ने सूर्ये रुच इति तिस्रो रुचो जुहोति ॥ २२ ॥

अग्न उदध इत्यसमासेन पञ्चाऽऽज्याहुतीः । वायुः प्रकृत इत्याज्याहुतीरित्युच्यते । समीची नामासि प्राची दिगिति दध्ना मधुमिश्रेण सर्पाहुती: पट् । असमारेन परिक्रम्याग्नि प्रतिदिशमभिजहोति । पञ्चमी षष्ठी च प्राङ्मुख एव पश्चादुपरिष्टाज्जुहोति । अनुपरिकामान्नित्यर्थः । हेतयो नाम स्थेति षण्महाहुर्तार्जुहोति । यथैव सर्पाहुतीमधुमिश्रेण दना । तिस्रो रुचो यास्ते अन इति ॥ २२ ॥

सुवर्णघर्मस्वाहेति पञ्चार्काहुतीर्हुत्वा ॥ २३ ॥

अर्काहुतीः पश्चाऽऽज्येनैव ।। २३ ।

वेदिस्तरणप्रभृतीनि कर्माणि प्रतिपद्यते ॥ २४ ॥

अथैनां बार्हषा बहुलं प्राचीन स्तीत्वेति वैखानसोक्तेस्तरणादि सौमिकं प्राग्धिष्णियनिवपनात्कृत्वा सर्वतः प्रसते दृशीकवः संचरेयुः, इत्येवमन्तं विधायोपवपनप्रत्यानायश्चयनम् ॥ २४ ॥

ममाग्न इत्येतेनानुवाकेन प्रतिमन्त्रमिष्टकाभिर्धिष्णियाꣳश्चिनोति । एकैकेन मन्त्रेणैकैकं धिष्णियमु(म ) पवर्जयति । अष्टावाग्नीध्रीय उपदधात्यश्मा नवम इत्येकेषाम् ॥ २५ ॥ द्वादश चतुर्विꣳशतिं वा होत्रीय एकादशैकविꣳशतिं वा प्रशास्त्रीये षण्मार्जालीयेऽष्टावितरेषु (खं०१६)॥ तव श्रिये व्यजिहीत पर्वतो गवां गोत्रमुदसृजो यदङ्गिरः। . इन्द्रेण युजा तमसा परीवृतं बृहस्पते निरपामौब्जो अर्णवम् । बृहस्पते अतियदर्यो अर्हात् । एवा पित्र इति तिसृभिर्ब्राह्मीभिर्ब्रह्मसदने यमो दाधार पृथिवीं यमो विश्वमिदं जगत् । यमाय सर्वमि - सत्याषाढघिरचितं श्रौतसूत्रम्- .१२ प्रश्ने

त्तस्थे यत्प्राणाद्वायुरक्षितम् । यथा पञ्च यथा षड्यथा पञ्चदशर्षयः ॥ यमं यो विद्यात्स ब्रूयाद्यथैक ऋषिर्विजानते ॥ त्रिकद्रुकेभिः पतति षडुर्वीरेकमिद्बृहत् । गायत्री त्रिष्टुप् छन्दाꣳसि सर्वा ता यम आहितेति तिसृभिर्यामीभिर्मार्जालीये त्वेषं वयꣳ रुद्रं यज्ञसाधवं कुकविमवसे निह्वयामहे । आरे अस्मद्दैव्यꣳ हेडो अस्य तु सुमतिमिद्वयमस्या वृणीमहे ॥ अश्याम ते सुमतिं देवयज्यया क्षयद्वीरस्य तव रुद्र मीढ्वः । सुम्नायन्निद्विशो अस्माकमा च रारिष्ट वीरा जुहवाम ते हविः॥ मृडा नो रुद्रोत नो मयस्कृधीति तिसृभी रौद्रीभिश्चात्वाले हव्यं प्रीणीहि हव्यꣳ श्रीणीहि हव्यं पच हव्यꣳ श्रपय हव्यमसि हव्याय त्वा हव्येभ्यस्त्वा हव्ये सीदेत्यष्टौ शामित्रे हव्यसूदोऽव ते हेड उदुत्तमं तत्त्वा यामि ब्रह्मणा वन्दमान इति तिसृभिर्वारुणीभिरवभृथे (तासु प्रचरन्ति । खण्डाः कृष्णा लक्ष्मणाश्चोत्कर उदस्यति अवशिष्टाश्च ) ॥२६॥

ममाग्ने वर्चो विहवेष्वित्यनुवाकेनैकेष्टका ऋचा ऋचोपधीयते प्रतिमन्त्रम् । हिर॑ण्यकेशिनस्तु- एकैकयर्चा एकैकधिष्णियमपवर्जयन्ति । इतिश्रुत्यन्तरम् । तैत्तिरीयाणां तु यद्विहव्या उपदधाति, इत्युक्त्वा · होतुर्धिष्णिय उपदधाति' (तै० सं० ५-४-११) इति । विहव्या इति बहुवचनमेकैकस्मिन्बह्वीभिरिष्टकाभिर्धिष्णियपरिमाणाभिश्चिनोतीति । अश्मा नवमा( म आ )ग्नीध्रीयेऽष्टाविष्टकाश्चतुरस्रा ( श्रा) दीर्घा इति नियमो नास्ति । ( ममाग्न इत्यारभ्य ) नवमिर्ऋग्भिरुपधानम् । अश्मा तु मध्य एकस्या ऋचस्त्यागः । उपधाय क्रमेण चयनं भवति । होत्रीयं प्राशास्त्रीयं ब्राह्मणाच्छंसीयं पौत्रीयं नेष्ट्रीयमच्छावाकीयमिति । ततो ब्रह्मसदनं मार्जालीयमिति । यदा द्वादशहोत्रीयं तदा पञ्चमी दशमी च द्विरभ्यस्यते । यदा षोडश तदा पञ्चमी चतुरावर्तते दशमी च । यदैकविंशतिस्तदा द्विरेकैका उत्तमा तु त्रिः । यदा चतुर्विशतिस्तदा

१ इदं सूत्ंर ब्यानपुस्तकयोर्विद्यते । २ ग. पुस्तके आचार्यास्तु ।। ई पटलः ] महादेवशास्त्रिसंकलितश्योगचन्द्रिकाव्याख्यासमेतम् । १११

पञ्चमी, अष्टकृत्वोऽभ्यस्यते दशमी च । एवं संख्यां पूरयेत् । एकादश ब्राह्मणाच्छंसीये षडिष्टकास्तु मार्जालीयेष्टावष्टावन्येषु धिष्णियेषु उपधानमनुदेशेष्वपि चतुरश्रा वा भवन्ति धिष्णियाः परिमण्डला वा । केचित्त्वाहुर्गुणविकारेषु पार्रमण्डला इति । तेषां धिष्णियानां यस्य यावत्य इष्टका उपधास्यन्ते शर्करा अपि पारश्रितास्तावत्य एव परिश्रयणार्थाः । अच्छावाक( स्य) धिष्णियोपधानं कृत्वा ब्रह्मसदने पञ्चोपधाय विहव्यास्तव श्रिये इति षष्ठी । बृहस्पते अति यदर्यो अर्हात् , इति सप्तमी । बृहस्पतेः समजयदित्य. ष्टमी । मार्जालीये विहव्या उपधाय तिस्रो यमो दाधारेति च तिस्र उपदधाति । चाल्वाले विहत्याः पञ्चोपधाय त्वेषमिति षष्ठी । अस्या( श्या )मत इति सप्तमी । मृडा नो रुद्र इत्यष्टमी चात्वाले । हव्यं प्रीणीहीति यजुर्भिरष्टौ शामित्रस्थाने । ततोऽवभृथस्थानं गत्वा विहव्याः पञ्चोपधाय-अव ते हेड, उदुत्तमं, तत्त्वा यामि, इत्युपदधाति तिस्रः, कृत्वा परिस्तरणं पूर्व पश्चादुपधानमिष्टकानामिहाप्यवभृथे तासु प्रचरणं साङ्गस्यावभृथस्य काले । भाष्यकारस्तु-बर्हिरभिजुहोत्याहुतीनां प्रतिष्ठित्या इति बर्हिः प्रत्याम्नायत्वादिष्टकानां प्रचरन्तीति तस्मिन्नेव काल उपदधाति नास्मिन्काल इति । अस्मिन्काल इति न्यायः । अस्मिन्काल उपहिता अपि तृणप्रत्याम्नाया एतेनैव तृणं प्रह्रियते । खण्डाः कृष्णा इष्टका यासां च किंचिच्चिह्नं च न सर्वत्र लोहितास्ता उत्करे क्षिपति । अवशिष्टा अपि गुणयुक्ता हित्वोत्करे क्षिपति ॥ २५ ॥ २६ ॥

यत्प्राग्यूपसंमानात्तत्कृत्वैकयूपमेकादश वा यूपान्संमिनोति ॥ २७ ॥ तेषामग्निष्ठं पूर्वेद्युरुच्छ्रयति ॥ २८ ॥

यत्प्राग्यूपसमानात्तत्पूर्व कर्म-अध्वनामध्वपते नमस्ते अस्तु मा मा हिसारिति त तमभिक्रामत्येवमादि पूर्ववदाज्यान्यभिमन्व्यैवमत(न्त)मविकृतेन ज्योतिष्टोमेन विधिना । यद्यप्येकादश युपास्तथाऽपि वेदिसंमितेनैव न रथाक्षेण विमानम् । एकयुपं वा करोति । अग्नीषोमी काल एकादश वैकादशिनधर्मेण वेदिसंमिता । साग्निचित्रे वेदिसंमिता या ] एवाऽऽन्नानान्न रथाक्षविमानं लभ्यते तेषां यूपानाम् । योऽग्निष्ठः स पूर्वेधुरग्नीषोमीयकाले मिनोति । वेदिसंमानविधानं कथं लभ्यत इति पुनरालभ्यते ये त्वग्निष्ठादाश्विन गृहीत्वोच्छी(च्छूि )यन्ते ( इति।) प्रधानकालत्वादङ्गानाम् । अग्नीषोमीयकाल एव वा। येऽप्यग्निष्ठाद्विभज्यैकादशधा वेदिम् । एष एकाहेषु विधिः ॥ २७ ॥ २८ ॥

अत्रैव वा । इतराञ्श्वो वा । अग्नीषोमीयस्य पशुपुरोडाशं निरुप्य देवसुवाँ हवीꣳष्यनुनिर्वपत्यग्नये गृहपतय इति यथासमाम्नातम् । ११२ सत्यापाढविरचितं श्रौतसूत्रम्- [१२ प्रश्ने४-

पशुपुरोडाशस्य देवसुवां च हविषाꣳ समानꣳ स्विष्टकृदिडम् ॥ (ख० ॥ १७ ) ॥ २९ ॥१२.६.३०॥

इति सत्याषाढहिरण्यकशिसूत्रे द्वादशप्रश्ने षष्ठः पटलः ॥ ६ ॥

वो वेत्यहीनार्थः । श्वो वा यावन्तः पशव आलभ्यन्ते तावतामुच्छ्रयो यूपानाम् । यथा द्विरात्रे पञ्च पूर्वेऽहन्या लभ्यन्ते षड्डत्तर इति । त्रिरात्रे तु प्रथमेऽहान त्रयः पशवो द्वयोरुच्छ्यणं यूपयोरग्निष्ठ एवाऽऽलभ्यत आग्नेयः। द्वितीये यूपचतुष्टयं पशवश्चत्वारस्तथा तृतीये । एवमन्यत्राप्यहीनेषु विभागः । स तु प्रत्यक्षविभागः । यदि युपैकादशिनी स्यात् , अन्वहमन्यहनि न तु प्रथमेऽहन्युच्छ्यः , अग्निष्ठस्य विद्यमानत्वात् । द्वितीयप्रभृतिज्वहःसु एकैकस्य समानम् । दीर्घसत्रेषु पशुरेवाऽऽवर्तते न यूपोच्छ्रय उच्छूितत्वात् । श्वो वेति विकल्पविधानाद्विरात्रादिष्वपि अग्नीषोमीयकाल उच्छ्यणं लभ्यते । अग्नीषोमीयशोः सर्वसोमार्थत्वादेकयूपे वा सर्व ऐकादशिनी (न) आलभ्यन्ते । स तु यूपस्तेषामेवैकोऽ. निष्ठ इति । अग्नीषोमीयकाल एव द्वाभ्यां रशनाभ्यां परिवीयते । प्रतिपशु स्वरुः (रवः) स स्वरुभिः पशून्व्यर्धयति इति लिङ्गात् । अग्नीषोमीयस्य पशोः पशुपुरोडाशं निरु..प्याष्टौ देवप्सुवां हवींषि निर्बपति-'अग्नये गहपतये पुरोडाशमष्टाकपालं निर्वपति कृष्णानां ब्रीहीणा सोमाय वनस्पतये श्यामाकं चरु५ सवित्रे सत्यप्रसवाय पुरोडाशं द्वादशकपालमाशूनां बीहीणा५ रुद्राय पशुपतये गावीधुकं चरुं बृहस्पतये वाचस्पतये नेवारं चरुमिन्द्राय ज्येष्ठाय पुरोडाशमेकादशकपालं महाबीहीणां मित्राय सत्यायाss. म्बानां चरं वरुणाय धर्मपतये यवमयं चरुम् ' (ते० सं० १-८-१०) इति । पष्टिमि(षष्टिसंख्य)रेव दिनः पच्यमाना आशुत्रहयः । स्थूलबीमं महानाय । आम्बा धान्यविशेषाः । कमलवीजमित्येके । अंत्र याजुपहीत्रसत्वे त्वमने वृहद्वयः (ते. सं. • ३-४ ११) इत्यनुवाकोक्ता याज्यापुरोनुवाक्या ग्राह्याः । समानं तु स्विष्टकृदिडं स्विष्टंकृच्चेडा च पशुपुरोडाशस्य मुख्यत्वादग्निगुणक: स्विष्टकृत्स देवसुवामपि भवति । : इडाप्राशनं च मैत्रावरुणपष्ठो भवति ॥ २९ ॥ ३० ॥ - इति सत्यापाढहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रि संकलितायां प्रयो. .. गचन्द्रिकायां द्वादशप्रश्ने षष्ठः पटलः ।।

12.7 अथ द्वादशप्रश्ने सप्तमः पटलः ।

पशुकाल एकयूप एकादश पशूनुपाकरोति एकादशसु वा ॥१॥

पशुकाले प्राप्त पशुनेहीति । आग्नेयं सवनीय पशुमुपाकरोति । आप० श्री. १५(-२) इत्यापस्तम्बः । निवृता यूपं परिवीय ऋतुपशवोऽपि लभ्यन्ते, तेषां प्रदर्शन ७ पटेलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । ११३

माग्नेयग्रहणम् । भाप्यकारस्त्वाग्नेय एवोक्थ्यादिषु सर्वसंस्थासु च लभ्यते पुनर्विधाना'दिति । न त्वन्यासु शाखासु संगच्छते ऋतुपशुप्रदर्शनार्थ इत्येव संगच्छते । एकादशंसु वेति । वेदिसंमितां मिनोतीति पुनर्विधानात् । एकयुपे चैकादशिनानां यदनावेकादशिनी मिनुयात् , इति यूपमेदनिन्दा कृत्वा एकयूपत्वं चैकादशिनानां विधीयते । एकादशिनीति च यस्यां यूपभेदस्तामेवोपचरन्ति | 'वनो वा एषा समीयते यदेकादशिनी' इति सा समर्था । प्रत्यञ्च यज्ञ समर्दितोर्यत्पात्नीवत मिनोति यज्ञरय प्रत्युत्तब्ध्यै सयत्वाय' इति श्रुतेः । न पश्चैकादशिन्या पात्नीवतं यूपैकादशिन्यामेव सर्वे वा अन्ये यूपाः पशुमन्तः, इति बहुत्वं यूपानामुक्त्वोपशयपशुविधानानुपशयोऽपि यूप. भेदद्वारकः । तस्मादेकयूपेष्वैकादशिनेषु न भवति सौत्रामण्यां च । तच्च कात्यायनेनाप्युक्तम्-'यूपैकादशिन्यामेवोपशयपात्नीवतो न पश्चैकादशिन्याम्' इति । अतब्ध पशुगणे बहिः सोमे तत्र समर्दितस्याभावान्नापात्नीवतः, यूपभेदद्वारत्वात्तपशयः क्रियते । साग्निचित्य एवैकयपो लभ्यते तत्रोक्त इति । अन्येषु तु गणेषु बहिस्तन्त्रवर्तिषु यूपभेद एव । यत्रिषु यूपेष्वालभेत, इति लिङ्गात् ॥ १ ॥

अग्निं युनज्मि शवसा घृतेनेति तिसृभिः प्रात:सवनेऽग्निमभिमृशति ॥ २ ॥

पुरस्तात्प्रातरनुवाकादग्रावसूपावहृत्य सोमम् , अग्निं युनज्मीति तिभिरभिमृशन्ने. वाग्नि युनक्ति, यज्ञबाहनाथ न मन्त्रान्तेनाभिमृशति । यत्सर्वाभिः पञ्चभिर्यज्यात । इति दोषमुक्त्वा यज्ञायज्ञीयस्य स्तोत्रे द्वाभ्यामभिमृशति ' इति तदप्यभिमर्शनं, नमो अस्तु मा मा हि सीरिति द्वाभ्यामभिमर्शनं योग एव वक्ष्यति स्वयमेव सूत्रकारः

दक्षिणाकाले हिरण्यपात्रं मधोः पूर्णं शतमानस्य कृतं चित्रं देवानामित्यवेक्ष्य मध्यंदिनेऽश्वेनावघ्राप्य ब्रह्मणे ददाति ॥ ३ ॥

दक्षिणाकाले प्राप्त प्रतिहनें तत इति कृते हिरण्मयं पात्रं मधुनः पुर्ण शतमानस्य हिरण्यस्य कृतं चित्रं देवानामिति यजमानोऽवेक्ष्याश्वेनावघाप्य ( पणं कारयित्वा ) ब्रह्मणे ददाति हिरण्यपात्रम् । तस्य प्रतिग्रहोआये हिरण्यमिति तस्य हिरण्मयत्वात् । हिरण्यपात्र मधोः पूर्ण ददाति, इति पात्रस्य प्रतिग्रहणं न मधुनः ।। ३ ॥

अध्वर्यवे कल्याणीर्दक्षिणा दद्यात् ॥ ४ ॥

अध्वर्यवे कल्याणी: सुरूपा बहुमूल्याश्च ददाति यदि चिनोत्या वयुः । तथा चोक्त माह्मणे- तं वा एतं यजमान एव चिन्वीन यदस्यान्यश्चिनुयाद्यतं दक्षिणाभिर्न राध. सत्यापाढविरचितं श्रौतसूत्रम्- [ १२ प्रश्नेयेदग्निमस्य वृञ्जीत योऽस्याग्निं चिनुयात्तं दक्षिणाभी राधयेदग्निमेव तत्स्पृणोति' (ते. सं० ५-६-९) इति चयनव्यापार यजमान एव कुर्यात् । अध्वर्युमन्त्रान्वयात् । यदा यजमानश्चिनोति तदा न दक्षिणा ददाति । यदाऽध्वयुश्चिनीति तदा यजमान एव बहुमूल्या गा अध्वर्यवे दधादित्यर्थः । न यजमानाय दक्षिणाभागमेव विशिष्टमध्वर्यवे ददाति न ब्रह्मण इति भाप्यकृत् । अधिकमध्वयोश्चिन्वत इति न्यायः । न ह्यङ्गनि-मित्तां प्रधानदक्षिणा (वि) कुर्यात् । बोधायनमतिश्च-आरण्यकानुवाकेनात्राध्वर्ययेऽसिदक्षिणा ददाति शतं सहस्रमन्विष्टकां वेति । शतं सहस्रं वा रौप्यकमुद्रा इत्यर्थः ।

यदस्यान्याश्चिनुयायत्तं दक्षिणाभिर्न राधयेदग्निमस्य वृञ्जीत ॥ ५॥

तं दक्षिणाभिस्तोषयेत्तेनाग्निमेव तोषयति ॥ ५ ॥

उपाकृते यज्ञायाज्ञि (ज्ञी)यस्य स्तोत्र एकया प्रस्तुत एकस्यां वा गीतायां समुद्रे ते हृदयमिति द्वाभ्यामग्निमभिमृशति ॥ ६॥

यज्ञायज्ञीयस्य स्तोत्रे वर्तमान एकया ऋचा प्रस्तावे कृते नमस्ते अस्तु मा मा हि सी:, नमस्पथ इत्येव मन्त्राभ्यां द्वाभ्यामभिमर्शनम् ॥ ६ ॥

हारियोजनेन चरित इमꣳ स्तनमूर्जस्वन्तं धयापामित्यग्निविमोचनीयामेकाहुतिं जुहोति । वि ते मुञ्चामीति वा ॥ ७ ॥

नन्वनौ श्रूयते–'अग्नि युनाभि शवसा घृतेनेति जुहोत्याग्निमेव तद्युनक्ति पश्चभियुनक्ति पातो यज्ञः' इत्याग्नियोगः। तथा-'इम स्तनमूर्जस्वन्तं धयापामित्याज्यस्य पूर्णा स्त्रचं जुहोतीत्येष वाऽग्नेविमोक.' इति । सोऽयमग्निविमोकः किं प्रधानमात्रापवर्गे स्यादत साङ्गप्रधानापवर्ग इति । यदि प्रधानमात्रार्थों योगस्तदपवर्गे विमोकः, साङ्गप्रधानार्थत्वे तु योगस्य सर्वान्ते विमोकः । तत्राग्नेः सर्वार्थत्वात्तत्संस्कारो योगः सर्वार्थः । तस्मात्सर्वापवर्गे विमोक इति पूर्वपक्षं कृत्वा पाडतो यज्ञः' इति वाक्यशेषेण यतार्थता योगस्य । अतः प्रधानापवर्गे विमोक इति भाष्यकारेण सिद्धान्तितम् । एवं च सौमिकमपि वरणं यदवृता वषटकुर्युभ्रातृव्यमेव यज्ञस्याऽऽशीर्गच्छेत्, इति यज्ञसंयोगादामिसंयोगतुल्यन्यायं केवलप्रधानार्थं भवति । तत्रावभृथे सामिकेन वरणेन प्रत्याम्नातं होतृवरणं प्राप्नोति । तत्र न

१५, द्वाभ्यामभिमर्शनं काल एव स्तीर्ण वेदे । इति पाठोऽधिकः । ७ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । ११५

होतारं वृणीत इति प्रतिषेधोऽवक्लप्तो भवति । इतरथा सौमिकस्य वरणस्य साङ्गप्रधानार्थस्वादवभथे पृथक्वरणप्राप्त्यभावाप्रतिषेधो न स्यादिति च लिङ्गमुक्तम् । तथा द्वादशाहे अहरहर्युनक्ति अहरहविमुञ्चति, इति प्रत्यहं योगविमोकदर्शनं द्वादशाहे । इतरथा साङ्गप्रधानार्थत्व आद्यन्तयोरेव योगविमोकदर्शनं स्यादिति । ननु-प्रधानार्थत्वेऽपि वरणस्यापूर्वत्वादवमृथस्य वैष्टिकवरणप्राप्तिः । तत्र कश्चिदाहअपूर्वताया एवायमर्थवादो होतृवरणाभावे लाघवं स्यादिति । स चापूर्वत्वपक्षे वरणप्राप्ती सत्यामवकरुप्य(ल्प)ते नान्यथेति । वयं तु ब्रूमः-- यद्यप्यपूर्वोऽवभृथस्तथाऽप्याज्यभा. गयोस्तत्र सद्भावाद्धोतुश्चाङ्गप्रधानार्थत्वात्तद्वरणमध्यङ्गप्रधानार्थम् । न हि दार्शिक वरणं केवलप्रधानार्थ यज्ञसंयोगाभावात् । अतोऽसत्यप्यतिदेशे होतृवरणस्याऽऽज्यमागार्थतयाऽस्त्येवावभृथे प्राप्तिरिति युक्तः प्रतिषेध इति । तदिदं भाष्यकारीयमधिकरणव्याख्यानमनुपपन्नमिति मत्वा वार्तिककारण विपर्ययेण पूर्वोत्तरपक्षी वर्णिती । वाक्यशेषा विभृथलिङ्गाच्च केवलप्रधानार्थो योग इति पूर्वः पक्षः । सिद्धान्तस्त्वग्नेः सर्वार्थत्वात्तद्योगोऽपि सर्वार्थः । न च वाक्यशेषवशाद्विशेषः । योगोत्पत्तिविधी वाक्यशेषाभावात्तत्र तावत्सर्वार्थत्वं गम्यते पञ्चसंख्यागुणविधी वाक्यशेषः श्रुतः । न चासाबुत्पत्तिवाक्या. वगतं सर्वार्थत्वमलं निवर्तयितुम् । किं च यज्ञशब्दो यागमानं ब्रवीतिन प्रधानयागमेव । अतो न तद्वशात्केवलप्रधानार्थत्वम् । अवभृथे च होतृवरणप्रतिषेधोऽङ्गप्रधानार्थत्वेऽपि सौमिकस्य वरणस्य घटत एव । सौमिकं हि वरणमानत्यर्थं प्राकृतं तु होतृवरणं प्रवृत्ते होतरि क्रियमाणमदृष्टार्थम् । अतस्तत्सर्वासु सौमेष्टिषु कार्यमिति द्वादशे वक्ष्यति । तस्माधुक्तः प्रतिषेधः । द्वादशाहे च प्रत्यहं योगविमोकदर्शनमस्मिन्नेव पक्षे घटते । विधानार्थ होतद्वचनं नानुवादमात्रम् | आनर्थक्यात् । तेन सर्वादौ सर्वान्ते च सकृदेव योगविमोकयोायतः प्राप्तोर्वचनेनाहरहयोगविमोको विधीयते । तस्मात्सवर्षो योगः सर्वापवर्गे च विमोकः ॥ ७ ॥

एकादश समिष्टयजूꣳषि जुहोति ॥८॥ नवाऽऽध्वरिकाणि हुत्वा-इष्टो अग्निराहुत: स्वाहाकृतः पिपर्तु नः। इष्टꣳ हविः स्वाहेदं नम इति दशमैकादशे जुहोति ॥ ९ ॥

एकादश समिष्टयषि जुहोतीति वचनादध्वरार्थानि नव हुत्वा धातारातिरिति । इष्टो यज्ञो भृगुभिराशीर्दा वसुभिः स्वाहा । तस्य त इष्टस्य वीतस्य द्रविणे ह भक्षीय स्वाहा । केचिदेकमन्त्रं कुर्वन्ति । तमेव द्विरावर्तन्ति दशमैकादश समिष्टयनुष इति वैखानसोक्तेः ॥ ८ ॥९॥ सत्यापादविरचितं श्रौतसूत्रम्-- . . [ १२

अनूबन्ध्यावपायाꣳ हुतायां यदाऽऽकूतात्समसुस्रोदित्येतेनानुवाकेन प्रतिमन्त्रमाकूतीर्जुहोति ॥ १२.७.१० ॥

अनुबन्ध्यावपायां हुतायां वपने कृते स्नाते च पात्नीवतः । तस्मिन्समाप्तेऽर्षित मोकः । (औदुम्बरी ५ सुचं घृतस्य पूरयित्वा-इम स्तनमूर्जस्वन्तं धयापामित्यनिर्विमोको हूयते । ) ततः पशुपुरोडाशाद्यनूबन्धमाशेषम् । यदि त्वामिक्षा, ता हुत्वा वपनं स्नानं पात्नीवतं च कृत्वा देविकाहविर्भिः ( प्रचरणादि ) प्रचारादिसक्तुहोमे. कृते धूमानुमन्त्रणे च । यदाकूतादिति दशाऽऽहुतीरध्वर्युर्जुहोति ॥ १०॥

आपं त्वाऽग्ने मनसेति प्रयास्यन्नाप्ती(प्ति)भिरग्निमुपतिष्ठते ॥ ११॥

यजमान इति बौधायनः । योऽयं मन्त्रः पठितस्तं • मन्त्रमुक्तप्रकारेण प्रयाण्काले ब्रूयात् । इत्याहैषा वा अनेराप्तिम्तयैवैनमाप्नोति । (५-५-७) इति । एषैव मन्नपाठानुष्ठितिरनेः प्रापिका । तस्मात्तयैवानि प्राप्नोतीत्यर्थः ॥ ११ ॥

येऽग्नयः पुरीष्या इति यत्र स्वीयमग्निं पश्यति तमुपतिष्ठते ॥ १२ ॥

केचित्तु-प्रत्यवरुह्य चित्यात्नर्मन इत्युपतिष्ठते चित्यम् । अयं नो नभसा पुर इत्युपस्थानादि यजमानस्य वृष्टिरसीत्यन्तम् । तत आत्मी(प्ति)भिरुपस्थानम् । येशयः पुरीप्या इति । आपं त्वाम्मे वशयति लिङ्गात् । 'अग्निचित्ये वशा नित्या' इति न्यायः । भाष्यकारस्तु विकल्प एवेत्यात्मी(प्ति)भिरुपस्थानम् । प्राजहित ५ समारोप्यैवमादिकर्म, इति वैखानसादयः ॥ १२ ॥

उप त्वाऽग्ने दिवे दिव इति तिसृभिरन्येषामग्नीन्दृष्टा(ष्ट्वा) ॥१३॥

अन्येषां यजमानानां चितिं दृष्ट्वोपतिष्ठते । प्रयास्यन्नेव यावन्नाध्यवस्यत्युदवसानीयार्थदेशं यजमानः । केचित्तु ---यावज्जीवमन्येषामग्निमु( नीन्दृष्ट्वो )पस्थानं कुर्वन्तीति

अग्निं चित्वा सौत्रामण्या यजेत । मैत्रावरुण्या चाऽऽमिक्षया ॥१४॥

उदवसानीयान्ते च कृतेऽग्निं चित्वाऽग्निगुणकेन ऋतुनेष्वाऽनन्तरं सौत्रामणी मैत्रावकुणी चाऽऽभिक्षा । विना पर्वणीति भाष्यकृत् । आगामिपर्वणीति न्यायः शक्यते कालं संपादयितुमिति ॥ १४ ॥

अग्निं चित्वा संवत्सरं न कंचन प्रत्यवरोहेन्न पक्षिणोऽश्नीयात् ॥ १५ ॥ यावज्जीवं वर्षति । ७ पटलः ] महादेवशास्त्रिसंकलितपयोगचन्द्रिकाच्याख्यासमेतम् । ११७

न धावेन्न रामामुपेयान्न द्वितीयं चित्वाऽन्यस्य स्त्रियमुपेयात् ॥ १६ ॥ न तृतीयं चित्वा कांचनोपेयाद्भार्यां वोपेयात् ॥ १७ ॥

संवत्सरं कंचिदपि न प्रत्यवरोहेत् । प्रत्युत्थानं न कुर्यात् गुरूणामपि । यदा त्वभिषेकः कृतस्तदा यावज्जीव संवत्सरमनभिषेकेऽपि । रेतःसिग्नतत्वात् । नहीमे कंचन प्रत्यवरोहतस्तदेनयोर्चतामिति । रामा यस्य शूद्रा क्रयेणाऽऽनीता सोऽपि यजमानस्तां संवत्सर नोपगच्छति । पक्षिमांसस्यापि संवत्सरमभक्षणम् । मस्तिष्क मस्तकमांसं तस्य च । अग्निचिद्वर्षति दैवे न धावेद्यावजीवम् । यदि तु कथंचिद्विस्मृती धावेद्यस्मात्स्थानाद्धावनं कृतं तदेव स्थानमावर्तेत । द्वितीयमग्निं चित्वाऽन्यस्य वर्णस्य स्त्रियं भार्यामविक्रमे(ये)णाऽऽहृतां नोपगच्छेत्संवत्सरं न यावज्जीवं रामातुल्यत्वात् । तृतीयमग्निं चित्या कांचिदपि समानवर्णामपि संवत्सरं नापगच्छत् । सर्ववर्णानां सवर्णा त्ववश्य भर्तव्या द्वयोर(व्याs)धिकारश्नुतेः । कामप्तस्तु प्रवृत्तानामसवर्णभार्या न साऽवयं भर्तच्या ॥ १५ ॥ १६ ॥ १७ ॥

अग्निं चित्वा य एतस्मिन्संवत्सरे न विरोचेत । स क्रतुमारभमाण एकचितीकमग्निं चिन्वीत ॥१८॥

अग्निं चित्वाऽग्निगुणकेन ऋहुनेष्ट्वा य एतस्मिन्संवत्सरे यस्मिंश्चितोऽनिस्तस्मिंश्चदस्यावृद्धिभवति हासो धनधान्यानामिति । केचित्तु-ऋद्धिमतामप्येतत्कर्मेत्याहुः । एतस्मिन्संवत्सरे यस्मिंश्चितोऽग्निः स ऋतुमाहरमाणोऽभीष्टमेकचितीकमेक.प्रस्तारं चिन्वी. ताग्निम् । पूर्वचितस्याग्नेः समानमिष्टकाभिः षष्ठी चितिरिति श्रुतेः ॥ १८ ॥

सलिलाय त्वा सर्णीकाय त्वेत्यष्टौ नानामन्त्राः ॥ १९ ॥ यथार्थं लोकंपृणाः । अथ पुरीषम् ॥१२.७.२०॥

सलिलाय त्वेत्यष्टौ नाना मन्त्रा उत्तरवेद्यामुपधाय पूर्व त्रिःपमाणायां कृतार्या पूर्वाग्मितुल्यायां वाऽवान्तरा मध्यमे प्रवर्योपसदां चितिः, प्रतिवद् व्याधारणान्तं कृत्वा प्रकृतिवद्विरमणम् । अग्नीषोमीयदिवसे पौर्वाहिकीभ्यां प्रचर्य चयनं, षष्ठी चितिरिति श्रुतेः । अवयवत्वादग्निधर्माणामप्रयोजनम् । अग्नेहोते धर्मा नैकदेशः शक्नोति प्रयोक्तुम् । एकचितीकं चि-वीतेति पुंलिङ्गनिर्देशात्तेन तुल्यः प्रस्तार एकः । अप्रतिष्ठायां तु निमित्तेऽग्निं चित्वा न प्रतितिष्ठति पश्च पूर्वाश्चितयो भवन्ति, अथ षष्ठी चिति चिनुत, इति तुल्यत्वादस्यामपि चितिधर्माः क्रियन्ते । न त्वग्निधर्माः कर्षणादयः । प्रचर्य पौर्वाह्निकीभ्यां प्रवग्र्योपसम्याम् । औपवसध्ये सुब्रह्मण्यान्ते, अग्रेण १ घ. न बलात्कारेणोपगच्छेत्सवत्सरं । ११८ सत्यापाढविरचितं श्रौतसूत्रम्- १२ प्रश्ने

प्राग्वंशमष्टौ नाना मन्त्रा लोकंपणाश्चैकस्य प्रस्तारस्य सादयतीत्यादि श्वेतमश्वं पुरस्ता. नयन्तीत्येवमन्तं कृत्वा श्वेतस्याऽऽलम्भः । तत वाङ्म आसन्नित्यारोहणं चितः । ततः सलिलाय स्वेत्यष्टौ नानामन्त्रा उपधाति । ततो लोकपृणाभिः [ प्रच्छादयति । ] सोऽयं प्रथमविकारो भवति भरद्वाजमताच्च । उत्तरवेद्यभिमर्शनमात्मन्यग्निग्रहणं स्वयंचित्याऽभिमर्शनं तत्त्वा यामीति [ परिचरणं ] चान्यगात्वान्निवतेते गायत्र्यभिमर्शनान्तं प्रथमचितिवत् । आपराहिकीम्यां प्रचर्याश्वपरिणयनम् । ततः प्रवोद्वासनादि ज्योतिष्टोमवत् । केचित्त्वाश नानामन्त्रा उपधाय लोकंपृणा उपधीयन्ते । ततः पुरीषम् , इति यावदुक्तं कुर्वन्ति तस्मिन्नेव तु क.ले ॥ १९ ॥ २० ॥

अग्निं चित्वा य एतस्मिन्संवत्सरे न प्रतिष्ठेत्स क्रतुमारभमाण एकचितीकमग्निं चिन्वीत संयच्च प्रचेताश्चेति पञ्च नानामन्त्राः । यथार्थं लोकंपृणाः । अथ पुरीषम् ॥ २१ ॥

एतस्मिन्नेव संवत्सरे स्थानाद्वा प्रच्यवते वृद्धिाऽस्य न भवति स.ऋतुमभीष्टमाहरमाणस्तेन यज्ञक्रतुना क्रियेत, इत्येकचितीकमेव पूर्वाग्निप्र तारतुल्यं चिन्वीत । पञ्च पूर्वाश्चितयो भवन्त्यथ षष्ठी चितिं चिनुत इति श्रुतेविप्रतिषेधात् । पूर्वचितिभिः समानसंख्यत्वान्न ह्यग्निष्पारष्टाच्चीयते षष्ठी चितिः । चयनविधिः सर्वं च । एतयोस्तु कामविपर्यासमेके प्रतिष्ठायां निमित्ते सलिलाय वेति । अथ यो न यानिति द्वितीयः संयच्च प्रचेताश्चेत्येवं विपरीतौ कामावेके शाखिनः परिपठन्ति ।। २१ ॥

पुनश्चितिं व्याख्यास्यामः । सा त्रिष्वर्थेषु श्रूयते श्र( तेऽस्र )वणार्थे वा समृद्ध्यर्थे वा संतानार्थे वा ॥२२॥ श्र( अस्र )वणार्थां व्याख्यास्यामः । यदीष्ट्या यदि पशुना यदि सोमेन यजेत ॥ २३ ॥ यत्रैवास्य पूर्वोऽग्निश्चितः स्यात्तदपरमन्ववसाय यजेत ॥ २४ ॥ अपिवा येनर्षय इत्यष्टौ नानामन्त्रा अष्टौ च लोकंपृणाः । अथ पुरीषम् ॥ २५ ॥

पुनश्चितिरिति श्रूयतेऽश्र(त्र)वणार्थे-यां वा एषोऽनिष्टक आहुति जुहोति स्रवति वै सा । पुनश्चितौ चीयमानायामग्निचितिवीर्यवत्यस्यामाहुतयो भवन्ति, इत्यश्र( स्त्र) वणार्थे । समृद्धयर्थेऽपि पुनश्चितयः-पुनश्चितिं चिनुत ऋद्धया, इत्यृद्धिकामस्य । ७ पंटलः ] महादेवशास्त्रिसंकलितमयोगचन्द्रिकाव्याख्यासमेतम् । ११९

संतानार्थे—आ तृतीयात्पुरुपादन्नमति, इति । संततिश्चाविच्छिन्ना । अन्नं चाऽऽतृतीयत्पुरुषाद् भवति । यः संतानार्थे पुनश्चितिं चिनुते ।। तत्रास्रवणार्थी चितिरुच्यते-यदीष्टया यदि सोमेन यजेत योऽस्य चितः पूर्वोऽग्निस्तमन्ववसाय तस्मिन्नाहवनीयः पूर्वचिते त्वग्नौ स्थाप्यते । दर्शपूर्णमासाद्या इष्टयस्तासामन्यन्वाधाने पूर्वचितस्याग्नेः समीपं गच्छति । पूर्वचितेऽनावावीय स्थाषयति । वेदिदेशे स्थापयित्वा गार्हपत्यदक्षिणानी । समाप्तायामिष्टौ प्रविशति । एवं नित्यकाम्यनैमित्तिकानां विधिः । पशोस्त्वग्नेस्तृतीयो भागः परस्य चारस्निस्थानीया चितिरेव चोत्तरवेदिस्थानीया । प्रणयनकाले तु व्याघारणप्रभृति संभारनिवषनान्तं क्रियते । यथाप्रकृत्युत्तरतो यूपस्यान्यो यूपः, समानमन्यत् । सोमेऽपि यथाऽऽसीदाग्निकी पूर्वा वेदिस्तथा लक्षणे चोत्तरवेदिस्थानीया साग्निचिज्ज्योतिष्टोमवदन्यत्सर्वं युपम( पाद्य )पूर्वम् । नित्यनैमित्तिककाम्येषु सोमेष्वेवं विधिः । एषोऽश्र( ख )वणार्थः । अपि वा नान्ववसाय पूर्वचितमझिं यागः । अग्निहोत्रमिष्टिं च गृह एव करोति । जातायामुत्तरवेद्या पशो सोमे च, पशौ शम्यामात्रायां दशपायां सोमे व्याघारणान्तायां कृतायामुत्तरवेदिपरिमाणा दग्धा इष्टका आनीय प्रणयनाद्यारोहणान्तं कृत्वा पूर्ववत्'येनर्षय ' इत्यष्टावुपधाय लोकंपृणाश्च चितिक्लप्त्याद्यश्वपारिणयनान्तं कृत्वा प्रथमा चितिस्तत्कृत्वाऽभिप्रणयनादि पारधयः संभाराश्योपर्यग्नो धार्यमाणे, ऊर्णावन्तमित्यभिज्ञाय पश्चात्सर्वं पशुबन्धवत् । सोमे तु मध्यमायामुपसदि प्रोक्षणान्तं कृत्वोत्तरवेदि प्रकृतिवद्विरम्य (हत्य )श्वोभूते पौर्वाहिकीभ्यां प्रचर्य व्यापारणमिष्टकाप्रणयनादि पूर्ववदारोहणान्तं कृत्वा चयनमुत्तरवेदिपारमाणाभिरिष्टकाभिः पूर्ववदश्वावभितस्तिष्ठेताम् । येनर्षय इत्यष्टौ नानामन्त्रा लोकं पृणेति लोकंपृणास्ततश्चितिक्लप्त्यादि गायत्र्याभिमर्शनान्तं कृत्वा प्रथमचितिवत् । तत आपराह्निक्यौ, अश्वपरिणयनं प्रवर्णोद्वासनादि ज्योतिष्टोमवत् । प्रणयने चोपर्यग्नौ धार्यमाण अवन्तमित्यभिज्ञाय परिधयः संभाराः, सर्वं ज्योतिष्टोमवत् । द्वितीयो विधिरना स्त्र )वणार्थायाः । अपि वोत्तरवेद्यामुपर्यनौ धार्यमाणे पशौं सोमे च प्रजापतिरत्वेत्युत्तरवैदिमभिमृशति । ततो व्याधारणप्रभृति संभारनिवपनान्तं कृत्वेत्येवमादि प्रक्षिपति । तृतीयो विधिः । चतुर्थ्य(थोऽपिवा तिस्रः स्वयमातृप्णास्तासामुपधानकरूप उत्तरवेद्यां कृतायां सोमे पशौ वा पूर्ववत्प्रणयनाद्यारोहणे कृते स्वयमातृण्णां प्रकृतिवत्सामान्तां कृत्वा पृष्टो दिवीति । पुरीषक्षेपः । स्वयमातृण्णायामेवं विहितायां तेनैव प्रकारेण सा द्वितीयसामान्ता द्वितीया । ततः पुरु(री)विधानेन तृतीया । तस्याः पुरीषं चितिवलप्त्यावश्वपरिणयनान्तं पुरीपवर्ज पञ्चमो विधिः । १२० सत्यापाढविरचितं श्रौतसूत्रम्- १२ प्रश्ने-

अपि वा तिनः स्वयमातृण्णास्तिस्त्रश्च विश्वज्योतिषस्तासामुपधानविधिः । पूर्ववत्सर्व कृत्वा स्वयमातृष्णायां सामान्तायां कृतायां पुरीषमथ विश्वज्योतिः प्रथमेन मन्त्रेण । अर्थ स्वयमातृण्णा द्वितीयाऽपि, सामान्तां स्वयमातृण्णां कृत्वा पुरीषम् । विश्वज्योतिर्द्वितीयेन मन्त्रेण तृतीयस्यां स्वयमातृण्णायामुपधीयमानायां विश्वज्योतिः प्रथमा तृतीयेन • मन्त्रेण | अथ स्वयमातृण्णा तृतीया सामान्ता । अथ पुरीषम् | तत.श्चतिक्लप्त्याद्यादि पुरीषवर्जमश्वपरिणयनान्तं कृत्वा प्रथमचितिवत् । एवं पशौ । सोमे तु विधिः पूर्वोक्तः । चयने खष्टी लोकंत्रणा उत्तरवेदिपरिमाणा उपधीयन्ते । प्रणयनादि पूर्ववत्कुर्यात् । ततः पुरीषं-पृष्टो दिवति । तत एकादश लोकंपृणा उत्तरवेदिपरिमाणाः पुरीषं च । ततो द्वादश लोकंपृणा उत्तरदिपरिमाणाः पुरीपं च । ततश्चितिक्लप्त्यादिचित्यन्तं पुरीषवर्जमश्वपरिणयनान्तं प्रथमचितिवत् । अन(ख)वणार्थायां सोमे क्रियमाणायां लोकंपृणाविधिमेवेच्छन्त्यन्ये । नान्यम् । इतरो विधिः पशाववेति । अनग्निचित्यात्पुनश्चितित्व'सामान्यात् । प्रथम(मा)विकारत्वात् । भाष्यकारस्तु य उक्तो विधिः सर्वत्र न प्रथम (मा)विकारस्वमिति षष्ठो विधिरश्न(ख) वणार्थांयाम् । समृद्ध्यर्थायां द्वितीयमग्निं चिन्वानो द्वितीयस्यां चितो षोडशेष्टका अवशिष्टा येनर्षय इत्यष्टौ नानामन्त्रा अष्टौ च लोकंपणा अथ पुरीषम् । ततश्चितिक्लृप्त्यादिचित्यन्तं पुरीषवर्ग द्वितीयचितिवत् ॥ २५ ॥ ..

श्वोभूतेऽष्टौ नानामन्त्रा एकादश लोकंपृणाः । अथ पुरीषम् । श्वोभूते एता नानामन्त्रा द्वादश च लोकंपृणाः । अथ पुरीषम् । अथ समृद्ध्यर्थां व्याख्यास्यामः । अग्निं चित्वा य एतस्मिन्संवत्सरे नर्ध्नोति । स क्रतुमारभमाणस्त्रिचितीकमग्निं चिन्वीत । सलिलाय त्वा सर्णीकाय त्वेत्यष्टौ नानामन्त्रा एकादश च लोकंपृणाः । अथ पुरीषम् । श्वोभूत एताश्च नानामन्त्रा द्वादश च लोकंपृणाः । अथ पुरीषम् । श्वोभूत एताश्च नानामन्त्रास्त्रयोदश च लोकंपृणाः । अथ पुरीषम् । संतानार्थायां तु तृतीयमग्निं चिन्वानस्तृतीयस्यां चितौ येनर्षय इत्यष्टौ च नानामन्त्रा अपरिमिताश्च लोकंपृणाः । अथ पुरीषम्॥(ख०१९)॥२६॥

इति सत्याषाढहिरण्यकेशिसूत्रे द्वादशप्रश्ने सप्तमः पटलः । ७. पटेल: ] महादेवशास्त्रसंकलितपयोगचन्द्रिकाव्याख्यासमेतम् । १२१

ततः श्वोभूत एकोनविंशतिरिष्टका अवशिष्टा येनर्षय इत्यष्टौं नानामन्त्रा एकादश लोकंपृणाः पुरीषान्तम् । ततश्चितिक्लप्त्यादिचित्यन्तं पुरीपवन तृतीयचितिवत् । ततः श्वोभूते च विंशतिरिष्टका अवशिष्टा येनर्षय इत्यष्टी नानामन्त्रा द्वादश च लोकंपृणाः पुरीषमुपधाय चितिक्लप्यादिचित्यन्तं चतुर्थीतुल्यः पुरीपवर्जमेष समृद्धयर्थायाः। संतानार्थायास्तु चितिरुच्यते । तृतीयमग्निं चिन्वानस्तृतीयस्यां चित्ती नानामन्त्रा उपधाय येनर्षय इत्यष्टावुपद्धाति । उत्तरवेद्यामग्नावेव नान्यत्रति उत्तरवेदिग्रहणं क्रियते पुनः पुनः । ततो यथार्थं लोकंपृणाः पुरीष, चित्यन्तं च पुरीष तृतीयचितिवदेषा संतानार्थायाः । __ अथो खल्वाहुनह्मवादिनी न चेतव्या पुनश्चितिः, इति सूत्रान्तरे च समृद्धयर्थायाः सांतानार्थायाश्च काम्यत्वादेवानित्यत्वं बोध्यम् । अन(स्त्र) गार्था तु नित्या प्राप्ता । सर्वा ह्याहुतीः सवीर्या इच्छन्ति तस्याः प्रतिषेधो विकल्पार्थः । तामपि चिनोति विकल्पेन । एष रुद्रः सर्वाग्निचित्यायाः । यथा व्याघ्रः सुप्तो बोध्यते तथेयं (थाऽयम) स्रवणार्थायां क्रियमाणायां बोध्यते । अतो न चेतन्या । अन्ये त्वाहुश्चेतव्येति । यथा ब्राह्मणः श्रेयान्धनं प्रयच्छन्तं बोधयति सुप्तमपि तथाऽत्रापि बुद्धस्येज्या क्रियते ।। (नन्वग्निचिह्नवानि वर्षति न धावत्' (जै० सू०५-३-१० ) इत्यादीनि चयनानन्तरमेव भवन्ति क्रत्वन्ते वेति संशये धात्वर्थश्चयनं भूतं निमित्तं तदनन्तरम् । व्रतान्यतः प्रवर्तेरन्नाऽऽहिताभिवतादिवत् ॥ नैवम् । भावनाया निमित्तत्वं धातुस्तदुपर्जनम् । तस्याश्च फलनिर्वृत्त्या निवृत्तिरूपलक्ष्यते ॥... न ह्यत्र चयनस्वरूपनिर्वृत्तिनिमित्तं तत्करणिका त्वाकर्मिका भावना भूता निमित्तं तस्याश्चान्युपकारो भान्यः । सोऽपि च ऋतुं साश्यतोऽर्धारणं तच्चाss कतुसमाप्ते. विततं न त प्रानिवृत्तं भवति तन्निवृत्त्या च विना न भावनानिवृत्तिः फलापवाण त्वाद्भावनानामाधानस्य त्वनिगतम दृष्टं भाव्यम् । तच्चानन्तरमेव निर्वृत्तमिति विशेषः ) . इति सत्यापाढहिरण्यकेशिसूत्रव्याख्य.यां महादेवशास्त्रिसंकलितायो प्रयोगचन्द्रिकायां । द्वादशप्रश्ने सप्तमः पटलः ॥

१ () धनुचिह्नान्तर्गतग्रन्थः ( १६--) सूत्रव्याख्यानान्ने योजनायः। [१२ प्रश्ने संत्याषाढावरचितं श्रौतसूत्रम्

12.8 अथ द्वादशप्रश्नेऽष्टमः पटलः ॥

अथ कानिचित्काम्यचयनानि दर्शयति -

काम्यानग्नीन्व्याख्यास्यामः । तेषामाकृतिविकारा ब्राह्मणव्याख्याताः ॥ १ ॥

तान्व्यक्तं वक्ष्याम इत्यर्थः ॥ १ ॥

अर्थसंयोगश्चानियमश्च तत्प्रयोगे छन्दश्चितं चिन्वीत पशुकाम इति । यानि प्रकृतौ छन्दाꣳसि तैरग्निं चिन्वीत । अष्टौ गायत्रीः। मूर्धन्वतीः पुरस्तादुपदधाति ॥ २॥

अग्निर्मर्धा दिवः कुकुदित्यनुवाकोक्ता नानाछन्दोयुक्ता मन्त्रारतैरेव चितो न तु यजुमिरिति च्छन्दश्चितस्तादृशमग्निं पशुकामश्चिनुयात् । अथ वा-छन्दश्चितमिति काम्या गुणविकारास्ते शुल्वेऽनुकान्ता हि प्रथम इत्युपदिशन्ति (सूत्रकाराः) । छन्दाश्चित्सदैछन्दोभिः सर्वाणि च्छन्दांसि यनुप्मतीनां स्थाने गायब्यादिमिः प्रकृती छन्दोभिश्चीयते यजुष्मत्यो न कियन्ते । एवं यजुष्मतीनां स्थानेऽन्यानि च्छन्दांसि भवन्ति ॥ २ ॥

श्येनचितं चिन्वीत सुवर्गकाम इति । वक्रपक्षो व्यस्तपुच्छः श्येनाकृतिर्भवति ॥३॥

स्वर्गकामार्थो यजमानः श्येनाकृति चिनोति । ' श्येनो वै वयसां पतिष्ठः श्येन एव भूत्वा सुवर्ग लोकं पतति' (ते. सं ५.-४-११) इति । वयसां मध्ये श्येनोऽ. तिशीघ्र पतितुं समर्थः । श्येन एव श्येनवच्छीघग्राम्येव ॥ ३ ॥

कङ्कचितं चिन्वीत यः कामयेत शीर्षण्वानमुष्मिँल्लोके स्यामिति । कङ्काकृतिर्निरायतग्रीवः शीर्षण्वान्भवति ॥ ४॥

कङ्क इव चीयत इति श्येनमेद एव । अयं पक्षी वर्षीयांसी पक्षो पुच्छाद्वको सन्न पुच्छ दीर्घ आत्मा मण्डलशिरश्च । शीर्षण्वानिति । प्रशस्तशिरस्कः । प्रभूतत्वेनोचिछूत शिरसः प्रशस्तत्वम् ॥ ४ ॥

अलजचितं चिन्वीत चतुःसीतं प्रतिष्ठाकाम इति चतस्रश्चतस्रः सीताः सꣳहिताः कृषति ॥ ५॥ ८ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचान्द्रकान्याख्यासमेतम् । १२३ ___ अलजो नाम भासाख्यः कङ्कसमानाकृतिः पक्षिविशेषः । स इव चीयत इति क्विप् । चतुःसीतमिति द्वादशत्वस्य प्रत्याम्नानाच्चतुष्टयम्, तिसृणां स्थान एकैका॥५॥

प्रउगचितं चिन्वीत भ्रातृव्यवानिति शकटाकृतिर्भवति ॥ ६॥

प्रगमनोमुखम् । यावानग्निः सारनिप्रदेशतो द्विस्नावती भूमि चतुरश्नां कृत्वा पूर्वस्याः करण्या अर्धाच्छोणी प्रत्यालिखेत् । लेखयोरन्तः प्रउगाकारो दृश्यते । तदिव चीयत इति ॥६॥

उभयतःप्रउगं चिन्वीत यः कामयेत प्रजातान्भ्रातृव्यान्नुदेयँ प्रतिजनिष्यमाणानित्युभयतः शकटाकृतिर्भवति । यथा विमुखे शकटे ॥ ७ ॥

प्रापश्चाच्च शकटमुखसदृशमुभयतः प्रउगम् । तेनोत्पन्नान्भ्रातृ गान्विनाशयति। उत्पस्यमानानामुत्पत्तिं प्रतिवध्नाति ॥ ७ ॥

रथचक्रचितं चिन्वीत भ्रातृव्यवानिति परिमण्डलो भवति ॥ ८॥

रथचक्रवर्तुलत्वेन चीयत इति रथचक्रचित् । यावानभिः सारनिप्रादेशस्तावती भूमि परिमण्डलां कृत्वेत्यापस्तम्बबोधायनौ ॥ ८ ॥

द्रोणचितं चिन्वीतान्नकाम इति द्वयानि तु खलु द्रोणानि चतुरश्राणि परिमण्डलानि च तत्र याथाकामी ॥ ९॥

द्रोणे हि धान्यं भरन्त्यतो धान्यस्थानसहितमन्नं प्राप्नोति ॥९॥

पश्चात्स्वरुर्भवत्यनुरूपत्वायेति ॥ १२.८.१० ॥

विज्ञायत इति शेषः ॥ १० ॥

समूह्यं चिन्वीत पशुकाम इति समूहन्निवेष्टका उपदधाति ॥ ११ ॥ दिक्षु चात्वालात्खात्वा तेभ्यः पुरीषमभ्यूहतीत्येकेषाम् ॥ १२ ॥

समूहमहतीति समूह्यः ॥ ११ ॥ १२ ॥

परिचाय्यं चिन्वीत ग्रामकाम इति मध्यमाꣳ स्वयमातृण्णां प्रदक्षिणमिष्टकागणैः परिचिनोति ॥१३ ॥

१५. चतुरश्रे। सत्यापाढविरचितं श्रौतसूत्रम्- [१२ प्रश्

सपरिचाय्योपचाय्यं चिन्वीत ग्रामकाम इति परिचाय्येनोक्तः ॥१४॥

मध्यमा स्वयमातण्णां प्रदक्षिणमिष्टकागणैः परिचिनोति स परिच.य्य इत्यापस्त म्बोक्तम् । परिचाय्यं चिन्वीत ग्रामत्कामो ग्राम्येव भवतीति श्रुतेः । उपचाय्यं ग्रामकामस्य मध्यमायां चिती मध्यमां स्वयमातून प्रदक्षिणमिष्टकागणैः परिचिनोति । नात्र दिश्याः क्रियन्ते ।। १३ । १४ ॥

श्मशानचितं चिन्वीत यः कामयेत पितृलोक ऋध्नुयामिति चतुरश्रः परिमण्डलो वा । यथा महापैतृकी वेदिरित्येकेषाम् । त्र्यश्रिरित्येकेषाम् ॥(ख०२०)।१५॥

श्मशानमिव चीयत इति श्मशानचित् श्मशानं शवदहनम् । यः कामयेत पितृलोके भूतिः स्यादिति । पितरो बर्हिषदादयस्तेषां स्थाने भूतिरस्य भवतीति । स तु मण्डलश्चतुरश्रो वा । व्याख्याता चातुर्मास्येषु महापैतृकी वेदिः । अन्यत्स्पष्टम् । तदेव काम्य. चयनानि समापिनानि । १५ ॥

तापश्चितं व्याख्यास्यामः ॥ १६ ॥

व्यक्तं वक्ष्याम इत्यर्थः ॥ १६ ॥

संवत्सरं दीक्षितो भवति ॥ १७॥

द्रोणचितस्तु भवतीति सर्वस्या अस्या भुमेदेशे तपश्चिन्वन्तीति तपश्चितः कक्षीवदादयस्तैईष्टस्तापश्चितः, तस्मिन्नग्नौ संवत्सरदीक्षा नियमेन भवतीति ॥ १७ ॥

संवत्सरे पर्यागते राजानं क्रीणाति ॥ १८॥

प्रायणीयप्रभृतिकर्म प्रतिपद्यत इत्यर्थः ॥ १८ ॥

पुरस्तादुपसदामाग्नेयमष्टाकपालं निर्वपेदैन्द्रमेकादशकपालं वैश्वदेवं द्वादशकपालं बार्हस्पत्यं चरुं वैष्णवं त्रिकपालं संवत्सरमुपसदोऽनुपसदमग्निं चिनोति ॥ १९ ॥

उपसदोऽपि न प्रवाः । यच्चतुर्विशतिकृत्वः प्रवर्य प्रवृणक्ति परत्वश्रुतेर्भरद्वाजमताच्च । भाष्यकारस्तु-प्रवग्र्योऽपि संवत्सरमेवेति पुरस्तादुपसदा मदन्तीभिर्जिने कृते पञ्चहविष्कमाग्नेय ऐन्द्रो वैश्वदेवो बार्हस्पत्यश्वरवैष्णवत्रिकपाळ इति । तस्यास्तदेव प्रस्तरपरिधिस्तीर्णपक्षे याः कृत इ(मि)तिवचनात् । अस्तीर्णपक्षेऽन्यच्चतुरश्चतुरो मासानेकैकेनोपसन्मन्त्रेण हूयते । उपसदमुपसदं कृत्वाऽग्निचयनं यथासंभवमिष्टकाः ॥ १९ ॥ ८ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । १२५ प्रवग्र्येण प्रचर्योपसदा चरन्तीत्येष विधिरुच्यते--

द्वौ द्वौ मासावेकैका चितिश्चतुर उत्तमा त्रीन्मासाꣳश्चतुस्तनानि व्रतानि भवन्ति । एवं त्रिस्तनानि द्विस्तनानि एकस्तनानि ॥ १२.८.२० ॥

द्वौ द्वौ मासावेकैका चितिरुपधीयते, यथासंभवन्तीष्का, चतुरस्तु मासानुत्तमा चितिः। पञ्चमी चतुस्तनेन त्रीन्मासानेवं त्रिस्तनादीनि॥२०॥

यदृषीणामाग्नेयं सूक्तं तेन संवत्सरं चिन्वीत ॥२१॥यानि दशतयीष्वाग्नेयानि सूक्तानि तेषामेकैकेन सूक्तेनैकैकामिष्टकामुपदधाति ॥ २२ ॥ सूक्तपरिमाणा नानामन्त्राः । यथार्थं लोकंपृणाः ॥२३॥

ऋषीणामाग्नेयेन संवत्सरमुपधानं कुर्वन्नास्ते श्रुतिरेवं निर्णयं करोति-यदृषीणामाणेयेषु । आग्नेयमग्निदेवत्यं, योषा याज्ञि(ज्ञ)सेनी चितिरिति चितित्वसामान्यात् । चितेश्चिते - नामन्त्राणां स्थाने पूर्वोत्तेन न्यायेन भवन्ति लोकपृणाश्च । लोकंपृणानां स्थाने यथार्थ मिति । अथ पुरीषमिति प्रकृतिक्रमेणैव पञ्चस्वपि चितिषु ॥ २१ ॥ २२ ॥ २३ ॥

आवृत्तासूपसत्सु तृतीये संवत्सरेऽभिजिता विश्वजिता वा यजेत । सहस्रदक्षिणाः सर्ववेदसं व्याख्यास्यामः । परिवासं परिवासम् ॥ ॥ (ख० २१) । २४ ॥

इति सत्याषाढहिरण्यकेशिसूत्रे द्वादशप्रश्नेऽष्टमः पटलः ॥

इति सत्याषाढहिरण्यकेशिसूत्रे द्वादशप्रश्नः ॥

तृतीये तु संवत्सरे जाते, अभिजिद्विश्वजिद्वा । पर्वाण (यनेत) श्रुत्यन्तरात्सर्ववेदसं विश्वजित्संयोगेनेति न्यायः । तत्र सर्ववेदसमुपरिष्टां नाभिजितिवत्संच्छ(दि) विप्रभृति च विश्वजिद्धर्माः । सर्ववेदसदक्षिणाऽस्येति च्छन्दोगब्राह्मणम् । अभिनिद्विश्वजितोः सर्ववेदसधर्मा इति भाष्यकृत् । अभ्यासः प्रश्नसमाप्त्यर्थः ॥ २४ ॥ संक्षिप्य नानाविधयाऽल्पशब्दगैः सूत्रैः समर्थैरतिगृहिताशयैः। । न्यायानने फांस्तु वितन्वता जडोऽप्यहं स्वसूत्रार्थविवेचकः कृतः । तस्मै नमोऽस्तु हिरण्यकेशिने दुर्ग्राह्यवेदाम्बुधिपारदृश्वने । स मे स्वसूत्रार्थगतिं कृपाम्बुधिर्दिशत्वजस्रं जडतां प्रणोदयन् । सत्याषाढविरचितं श्रौतसूत्रम्- [१३प्रश्ने

प्रयोगवैनन्त्यास्तु मालायाः सूत्रसंस्थितेः । न्यायसूत्रस्येह कृतो निर्णयः कौस्तुभो मणिः ॥ मध्यगो यज्ञवपुषस्तुष्येऽस्तु मयाऽर्पितः । गृह्णाति हि किमप्येष भक्तैर्ययत्ततः कृतम् । ... इति सत्याषाढहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयो गचन्द्रिकायां द्वादशननेऽष्टमः पटलः || इति द्वादशप्रश्नव्याख्या समाप्ता ।

13.1 अथ त्रयोदशप्रश्नप्रारम्भः ।

तत्र प्रथमः पटलः ।

विनेययुक्ताखिलसिद्धवर्यलसच्चिदानन्दसुखं मुनीन्द्रम् । नमामि सूत्रार्थविदे मुदाऽहं हिरण्यकेश्याख्यगुरु कृपाब्धिम् ।। . गुरुं गणपतिं नौमि जन्मज्ञानप्रटो तथा । सह गौर्या महेशानं नौमि विष्णुं च पद्मया ॥ एकादशद्वादशयोाख्यातश्चयनक्रतुः। ... वाजपेयराजसूयो वक्ष्येते तु त्रयोदशे ॥ एवं तावत्सर्वज्योतिष्टोमः (सं० श्री०१-१) इति सत्रकृन्यायसूत्रे प्रदर्शितः । सर्वकामोऽग्निष्टोमः । ( स० औ० ७-१) इत्यादिना सूत्रकारेणाग्निष्टोमशब्देन वक्ष्यमाणसवैकाहाहीनसत्रमूलप्रकृतिभूतासिटामसंस्थां व्याख्यायोक्थ्यः षोडश्यतिरात्रोडतोर्यामश्चाग्निष्टोमस्य गुणविकाराः ( स० औ० ७-१८ ) पञ्च संस्थाश्च व्याख्याताः । अथेदानी षोडशिगुणविकार भूतामवशिष्टामेकां वाजपेयसंस्थां व्याख्यातुं शिष्यावधानाय प्रतिज्ञानीते

शरदि वाजपेयेन यजेत ॥ १ ॥

वाजो देवानरूपः सोमः पेयो यस्मिन्याने स वाजपेय इत्येक निर्वचनम् । यस्मा. देतेन यज्ञेन देवा वाजं फलरूपमन्नमाप्तुमैच्छंस्तस्मादन्नरूपो वाजः पेयः प्राप्यो येन स वाजपेय इत्यपरं निर्वचनम् । वाजपेय इति कर्मनामधेयम् । न हि द्रव्ये गुणे वा प्रसिद्धिरस्य । स च शरदि भवति । शरदि वाजपेयेन यजेत, इति सूत्रान्तरेऽपि वचनात् ।