कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्/प्रश्नः १३

← प्रश्नः १२ कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्
प्रश्नः १३
हिरण्यकेशिः/सत्याषाढः
प्रश्नः १४ →

अथ त्रयोदशप्रश्नप्रारम्भः ।

13.1
तत्र प्रथमः पटलः ।
शरदि वाजपेयेन यजेत ॥ १ ॥
ब्राह्मणो राजन्यो वा ॥२॥
तस्य षोडशिना कल्पो व्याख्यातः॥ ३ ॥
सप्तदशः सर्वो भवति ॥ ४ ॥
प्रजापतिमाप्नोति ॥ ५॥
सप्तदश दीक्षाः। तिस्र उपसदः । एकविंशतिं(शीं) प्रसुतः॥६॥
सप्तदशारत्निर्यूपो बैल्वश्चतुरश्रः खादिरः पालाशो वा गोधूमपिष्टचषालोऽपि वा तूपरः ।। ७ ॥
यत्प्रागुपसद्भ्यस्तस्मिन्कृते प्रतिप्रस्थाता सुरायाः कल्पेन परिस्रुतꣳ सुराꣳ संदधाति ॥ ८ ॥
रशनाकाले सप्तदशभिर्वासोभियूपं परिवेष्टयति ॥ ९ ॥
अग्नीषोमीयस्य पशपुरोडाशं निरुप्य देवसुवाꣳ हवीꣳष्यनुनिर्वपति -- अग्नये गृहपतय इति यथासमाम्नातम् । पशुपुरोडाशस्य देवसुवां च हविषाꣳ समानꣳ स्विष्टकृदिडम् ॥ १३.१.१० ॥
देव सवितः प्रसुव यज्ञं प्रसुव यज्ञपतिं भगायेति सवनादौ सवनादौ जुहोति ।। ११ ।
हिरण्यमालिन ऋत्विजः सुत्येऽहनि प्रचरन्ति ॥ १२ ॥
पात्रसꣳसादनकाले यथार्थं पात्राणि प्रयुनक्ति । ऐन्द्रस्यातिग्राह्यपात्रस्य स्थाने पञ्चैन्द्राण्यतिग्राह्यपात्राणि प्रयुनक्ति ॥१३ ।।
( तेषां पूर्वेण) तेषामैन्द्रेणातिग्राह्यपात्रेण कल्पो व्याख्यातः ॥ १४ ॥
षोडशिपात्रं प्रयुज्य सप्तदश प्राजापत्यानि सोमग्रहपात्राणि प्रयुनक्ति ॥ १५॥
तेषाꣳ षोडशिपात्रेण कल्पो व्याख्यातः । पश्चादक्षं प्रतिप्रस्थातोपयामानि सप्तदश सुराग्रहपात्राणि क्रतुकरणो यथाऽतिरात्रे सोमग्रहकाल उपयामगृहीतोऽसि नृषदं त्वेति पञ्चभिरैन्द्रस्यातिग्राह्यस्य स्थाने पञ्चैन्द्रानतिग्राह्यान्गृह्णीयात् ॥ १६ ॥
तेषामैन्द्रेणातिग्राह्येण कल्पो व्याख्यातः । षोडशिनं गृहीत्वा सप्तदश प्राजापत्यान्सोमग्रहान्गृह्णाति ॥१७॥
तेषाꣳ षोडशिना कल्पो व्याख्यातः । कुविदङ्गेति सर्वेषामेका पुरोरुगया विष्ठा जनयन्कर्वराणीति ।। (ख०१)॥ उपयामैः प्रतिप्रस्थाता सप्तदश सुराग्रहान् । विपरीते ग्रहण्यावेके समामनन्ति ॥ १८ ।।
व्यतिषङ्गं गृह्णीतः पूर्वोऽध्वर्युरपरः प्रतिप्रस्थाता। पुरोक्षꣳ सोमग्रहान्सादयति। पश्चादक्षꣳ सुराग्रहान् ॥ १९ ॥
पशुकाले त्रीन्क्रतुपशूनुपाकरोति । मारुतीं पृश्निं वशामुपाकरोति । सारस्वतीं च । मेषीमपन्नदतीम् । मेषमित्येकेषाम् । सारस्वतीं च मेषम् ॥१३.१.२०॥
सप्तदश प्राजापत्यान्पशूनुपाकरोति ॥ २१ ॥
श्यामास्तूपरा एकरूपा इव भवन्ति ।। २२ ॥
पर्यग्निकृतानाꣳ सारस्वत्यन्तान्पूर्वानालभन्ते । सारस्वतप्रभृतीनुत्तरान्धारयन्ति ॥ २३ ॥
सर्वेषां प्रतिपशु बर्हीꣳषि वपाश्रपण्यः कुम्भ्यो हृदयशूलाः प्लक्षशाखाश्च तन्त्रमग्नेर्हरणमध्रिगुरुत्तमप्रयाजस्तथा पूर्वः परिवप्योऽतन्त: संज्ञप्तहोमो रशनामुदसनमुत्तरः परिवप्यः । वपाश्रपणीनामनुप्रहरणमभिहोमो मार्जनं वरदानं च ॥ २४ ॥
दाक्षिणौ होमौ हुत्वा । इन्द्रस्य वज्रोऽसि वार्त्रघ्न इति रथमुपावहरति ।। २५॥
अप्स्वन्तरमृतमप्सु भेषजमित्यश्वानप्सु स्नापयन्ति ॥ २६ ॥
वायुर्वा त्वा मनुर्वा त्वेति प्रष्टिवाहिनꣳ रथं युनक्ति ॥ २७॥
अपांनपादाशुहेमन्नित्यश्वानाꣳ रराटानि प्रतिसंमार्ष्टि ॥ २८ ॥
तूष्णीमितरान्षोडश रथान्युनक्ति (ख० २) ॥ २९ ॥
दक्षिणाकाले सप्तदश रथान्ददाति ॥ १३.१.३०॥
सप्तदश निष्कान् सप्तदशाश्वान् सप्तदशः हस्तिनः सप्तदश गवाꣳ शतानि सप्तदश गोयुक्तानि सप्तदश यानानि सप्तदश शयनानि सप्तदश महानसानि सप्तदश वासाꣳसि सप्तदश दासान् सप्तदश दासीः सप्तदशाजाः सप्तदशावीर्वयसो वयसꣳ सप्तदशानि ददाति ॥ ३१॥
सप्तदशꣳ सप्तदशानि संपादयतीत्येकेषाम् ॥३२॥
अनुदिष्टासु दक्षिणासु यजुर्युक्तꣳ रथमध्वर्यवे ददाति । ३३ ॥
शेषः साधारणः ॥ ३४ ॥
अग्रेणाऽऽहवनीयं प्राञ्चो रथानवस्थापयन्ति ॥ ३५॥
यजुर्युक्तं दक्षिणार्ध्यमग्रेणाऽऽग्नीध्रꣳ राजपुत्रोऽवस्थाय सप्तदश प्रव्याधानिषूनस्यति प्राचीनमुदीचीनं वा ॥ ३६ ॥
यत्र जघन्यो निपतति तल्लक्षणं कुरुते ॥ ३७॥
यत्प्राङ्माहेन्द्रात्तस्मिन्कृते प्रतिप्रस्थाता नैवारꣳ सप्तदशशरावं चतुर्धा विभज्य बृहस्पतये निर्वपति पयसि श्रपयति ॥ ३८ ॥
सर्पिष्मन्तं चात्वालेऽवदधाति ॥ ३९॥
तꣳ राजपुत्रो गोपायति ॥ १३.१.४०॥
चात्वाले रथाक्षाकृति काष्ठं निखनति ॥ ४१॥
तस्मिन् रथचक्रमौदुम्बरं सप्तदशारं प्रतिमुञ्चति ॥ ४२॥
विष्णोः क्रमोऽसीति यजुर्युक्तꣳ रथं यजमानोऽभ्येति ॥ ४३ ॥
अङ्कौ न्यङ्काविति रथचक्रे अभिमृशति । पक्षसी वा ॥ ४४ ॥
देवस्याहꣳ सवितुः प्रसवे बृहस्पतिना वाजाजिता वाजं जेषमिति ॥(ख०३)।। ब्रह्मौदुम्बरꣳ रथचक्रमारोहति ।। ४५ ॥
देवस्याहꣳ सवितुः प्रसवे बृहस्पतिना वाजजिता वर्षिष्ठं नाकꣳ रुहेयमिति यजुर्यक्तꣳ रथं यजमानः ॥ ४६॥
इन्द्राय वाचं वदतेति दुन्दुभीन्निह्रादयन्ति ॥ ४७ ॥
वाजसृत इतरान् रथानारोहन्ति ॥४८॥
वाजिनो वाजजितो वाजꣳ सरिष्यत इति नैवारमश्वौ युग्याववघ्रापयान्त । सर्वान्वा ॥ ४९॥
प्रप्रोथेषु च लेपान्निमार्ष्टि विष्णोः क्रमोऽसीति यजुर्युक्तꣳ रथमध्वर्युरारुह्याश्वाजनीत्यश्वाजनिमादायार्वाऽसि सप्तिरसीत्यश्वान्समक्षिणोति ||१३.१.५० ।।
पश्चादितरे रथा अनभ्यासादयन्तोऽनुयान्ति ।। ५१ ॥
वाजिनो वाजं धावतेति तिसृभिराधावतोऽनुमन्त्रयते । चतसृभिरित्येकेषाम् ।। ५२ ।।
वाजिनाꣳ साम ब्रह्मौदुम्बरे रथचक्रे त्रिस्त्रिः परिवर्तमाने गायति ।। ५३॥
अग्निरेकाक्षरेण वाचमुदजयदित्युज्जितीर्यजमानं धावत्सु वाचयति ॥ ५४॥
लक्षणं प्राप्य प्रदक्षिणमावर्तन्ते ।। ५५ ॥
ते नो अर्वन्तो हवनश्रुतो हवमिति चतसृभिराधावतोऽनुमन्त्रयते ॥ ५६ ।।
तिसृभिरित्येकेषाम् ॥ ५७ ॥
आ मा वाजस्य प्रसवो जगम्यादिति प्रत्यासृतेषु जुहोति ॥ ५८॥
इयं वः सा सत्या संधाऽभूदिति दुन्दुभिविमोचनीयामेकामाहुतिं जुहोति ॥ ५९ ॥
सर्वान्वोपस्पृशति ।। १३.१.६० ॥
वाजिनो वाजजितो वाजꣳ ससृवाꣳस इति नैवारमश्वयुग्याववघ्रापयति । यथापुरस्तात्प्रप्रोथेषु च लेपान्निमार्ष्टि ।। ६१ ॥
कृष्णलं कृष्णलं वाजसृद्भ्यः प्रयच्छति ॥ ६२ ।।
तानि प्रत्यादाय ब्रह्मणे ददाति ॥ ६३॥
मधोष्ठालं च शतमानस्य कृतम् ॥ (ख० ४ ) ॥ ६४॥
इति सत्याषाढहिरण्यकेशिसूत्रे त्रयोदशप्रश्ने प्रथमः पटलः ।

13.2
अथ त्रयोदशप्रश्ने द्वितीयः पटलः ।
क्षत्त्रस्योल्बमसीति तार्प्यं यजमानः परिधत्ते । क्षत्त्रस्य योनिरसीति दर्भमयं पत्नी ॥१॥
जाय एहि सुवो रोहावेति पत्नीं यजमान आमन्त्रयते । रोहावहीति पत्नी प्रत्याह ॥ २
अहं नावुभयोः सुवो रोक्ष्यामीति यजमानस्त्वहं नावुभयोः सुवो रोहेति पत्नी ॥ ३ ॥
आयुर्यज्ञेन कल्पतामिति दशभिः कल्पैः सरजसि निःश्रेण्या यूपमारोहति । उभौ वा ॥ ४ ॥
सुवर्देवाꣳ अगन्मेत्यारुह्य जपति ॥ ५॥
वाजश्च प्रसवश्चेति द्वादशाऽऽहुतीर्जुहोति ॥ ६ ॥
त्रयोदशेत्येकेषाम् ॥ ७ ॥
पुरस्ताद्यूपारोहणादेके समामनन्ति ॥ ८॥
समहमायुषा सं मयाऽऽयुः समहं वर्चसा सं मया वर्चः समहं प्रजया सं मया प्रजा समहꣳ रायस्पोषेण सं मया रायस्पोष इति यूपमारुह्य ग्रहान्प्रत्यवेक्षते ॥ ९॥
तमाश्वत्थैरूषपुटैर्दीर्घवꣳशप्रबध्नै(द्धै)रास्यतो महर्त्विजः प्रतिदिशꣳ समर्पयन्ति । शीर्षत इत्येकेषाम् ॥ आसपुटैर्वैश्वमन्नाय त्वेति पुरस्तादध्वर्युः ॥ (ख० ५) ।
अन्नाद्याय त्वेति दक्षिणतो ब्रह्मा । वाजाय त्वेति पश्चाद्धोता। वाजजित्यायै त्वेत्युत्तरत उद्गाता ॥ १३.२.१० ॥
होता(हन्ता)रं वितत्य बाहू अभिपर्यावर्तते ॥ ११॥
इयं ते राण्मित्राय यन्त्रासि यमनो धर्ताऽसि धरुणः कृष्यै क्षेमाय रय्यै पोषायेति प्रत्यवरोहति ॥ १२ ॥
अग्रेण यूपं बस्ताजिनं प्राचीनग्रीवमुत्तरलोमाऽऽस्तृणाति ॥ १३ ॥
तेजोऽसीति तस्मिन्राजतꣳ रुक्मं निदधाति ।। १४ ॥
अमृतमसीति रुक्मे पादं प्रतिष्ठापयते ॥१५॥
पुष्टिरसि प्रजननमसीति बस्ताजिने ॥ १६ ॥
तस्मादासन्दीमारोहति ॥ १७ ॥
दिवं प्रोष्ठती (ष्ठिनी ) मारोहती ( ता ) मारुह्य प्रपश्वै ( श्यै ) कराण्मनुष्याणामेधीत्यारोहन्तमभिमन्त्रयते ॥ १८ ॥
माहेन्द्रप्रभृतीनि कर्माणि प्रतिपद्यते ॥ १९॥
तस्य स्तोत्रमुपाकृत्याभिषिञ्चति यथाऽग्निचित्यायाम् ॥ १३.२.२०॥
रजसि स्तुवते सप्तभिरन्नपूर्वाभिरन्नहोमं जुहोति ग्राम्यारण्यानाꣳ समवदाय ॥ २१ ॥
 (माध्यंदिनस्य सवनस्य ) मध्यम उक्थ्यपर्याये ब्रह्मसाम्न्युपाकृतेऽत्र सारस्वतप्रभृतीनुत्तरानालभन्ते ॥ २२ ॥
तेषामनभिघारिताभिर्वपाभिः प्रचरति ।। २३ ॥
सारस्वतस्य वपया प्रचर्य समवदाय प्राजापत्यानां वपाभिः प्रचरति ॥२४॥
नैवारेण प्रचरति हविराहुतिप्रभृतीडान्ता संतिष्ठते ॥ २५ ॥
महर्त्विजो हविरुच्छिष्टाशा भवन्ति ॥ २६ ॥
पशुकाले सारस्वत्यन्तानां सर्वेषां दैवतेन प्रचरति ॥ २७ ॥
षोडशिचमसानुन्नयन्नेकस्मै चमसगणाय राजानमतिरेचयति । तैः प्रचर्यातिरिक्त स्तोत्राय होतृचमसमुख्याꣳश्चमसानुन्नयति । स्तुतशस्त्रे भवतः । शस्त्रं प्रतिगीर्य प्राजापत्यानां मुख्य ग्रहमध्वर्युरादत्ते । ऋत्विज इतरान् ॥ २८॥
सुराग्रहाणां मुख्यं प्रतिप्रस्थाता वाजसृत इतरानादत्ते । चमसाꣳश्चमसाध्वर्यवः ॥(ख०६) २९॥
संपृचः स्थ सं मा भद्रेण पृङ्क्तेति प्राङध्वर्युः सोमग्रहैरुद्द्रवति । संपृचः स्थ सं मा भद्रेण पृङ्क्तामिति वा । विपृचः स्थ विपाप्मना पृङ्क्तेति प्रत्यङ्प्रतिप्रस्थाता सुराग्रहैः । विपृचः स्थ वि पाप्मना पृङ्क्तामिति वा ॥ १३.२.३० ॥
आहवनीयन्यन्ते सोमग्रहैरवतिष्ठन्ते । मार्जालीयन्यन्ते सुराग्रहैः प्रचरति । सोमग्रहैर्वषट्कारानुवषट्कारौ । सुराग्रहाननुप्रकम्पयन्ति । व्याख्यातः सोमस्य
भक्षः ॥ ३१॥
विराट्छन्दस इति भक्षमन्त्रꣳ संनमति ॥ ३२ ॥
दक्षिणस्यां वेदिश्रोण्यां वाजसृतो विमाथीकृत्य सुराग्रहान् भक्षयन्ति ॥ ३३ ॥
अनुयाजैः प्रचरति ते व्यूढासु स्रुक्षु सारस्वतप्रभृतीनामुत्तरेषां दैवतेन प्रचरति ॥ ३४ ॥
अपि वा यत्रैवेतरेषां पशूनां वपाभिः प्रचरेत् ॥ ३५ ॥
यत्रो हैव हविर्भिस्तद्धविर्भिर्मारुत्या अवदानीयानृत्विग्भ्य उपहरति ॥३६॥
अनवदानीयान्वाजसृद्भ्यस्तानि दक्षिणस्यां वेदिश्रोण्यां वाजसृतो विमाथीकृत्य भक्षयन्ति ॥ ३७ ॥
ककुदो राजपुत्रो ध्रुवगोपो नैवारगोपो वा प्राश्नाति । उभौ वा । सर्वं वा ककुदम् ॥ ३८ ॥
संतिष्ठते वाजपेयः ॥ ३९ ॥
वाजपेयेनेष्ट्वा सौत्रामण्या यजेत ॥ १३.२.४०॥
 न कंचन प्रत्युत्तिष्ठति ॥४१॥
श्वेतच्छत्री भवतीति विज्ञायते ॥ (ख०७) ॥ ४२ ॥
इति सत्याषाढहिरण्यकेशिसूत्रे त्रयोदशप्रश्ने द्वितीयः पटलः ।

13.3
अथ त्रयोदशप्रश्ने तृतीयः पटलः।
राजा राजसूयेन स्वर्गकामो यजेत ॥ १॥
तैष्याः पौर्णमास्याः पुरस्तात्पञ्चरात्रे मासि दीक्षेत ॥ २॥
यथाऽस्यां परस्मिन्संवत्सरे तैष्यां पौर्णमास्यामभिषेचनीयायोक्थ्याय दीक्षा प्रवत्स्यतीति ॥३॥
ज्योतिष्टोमेनाग्निष्टोमेन प्रथमं यजेत ॥ ४ ॥
पञ्चापवर्गो भवति ॥ ५ ॥
अꣳशुना ते अꣳशुरिति सोममभिमन्त्र्य तूष्णीं फलानि अभि त्यं देवमिति मीत्वा सोमम् । तूष्णीं फलानि । प्रजाभ्यस्त्वेत्यादि सोमं ते क्रीणानीति जपित्वा गवा ते तस्या आत्मा द्वाभ्यां राजसूयस्येति वचनात् । द्वाभ्यां शताभ्यां क्रयः । शतद्वयस्य सप्तसोमानां सप्तधा विभागः । एकैकस्याष्टाविंशतिः, एकैकस्य शतसहस्रं सर्वेषु राजसूयिकेषु सोमेषु समशः प्रतिविभज्यान्वहं ददाति ॥ ६ ॥
तथा दक्षिणा नयेत् ॥ ७॥
यथाऽस्याहानि स्वकालानि स्युः। शेषमनुदिशेत् ॥ ८॥
राजसूयेष्टिपशुबन्धानामन्वहं चोदनात् ॥९॥
तेषां दक्षिणापृथक्त्वेनेष्टिपृथक्त्वं प्रतीयात् ॥ १३.३.१० ॥
अन्यद्दिशामवेष्टेः पृथक्दाक्षिणानि तान्येकतन्त्राणि भवन्ति ॥ ११ ॥
श्वोभूत आनुमतप्रभृतिभिरन्वहं यजेत ॥ १२ ॥
अनुमत्यै पुरोडाशमष्टाकपालं निर्वपतीति यथासमाम्नातम् । पिꣳषन्नानुमतं पश्चादुत्तरतश्च व्यवशातयति ॥ १३ ॥
ये प्रत्यञ्चः शम्याया अवशीयन्ते तं नैर्ऋतमेककपालं कुर्यात् ॥ १४ ॥ उपधायाऽऽनुमतस्य कपालानि नैर्ऋतस्य कपालमुपदधाति ॥ १५ ॥ आसाद्या(द्याऽऽ)नुमनं नैर्ऋतेन प्रचरति ।।१६।। . .
वीहि स्वाहाऽऽहुतिं जुषाण इति स्रुवेण गार्हपत्ये जुहोति ॥१७॥
दक्षिणाग्नेरेकोल्मुकं धूपयति ॥ १८ ॥
पराचीनं दक्षिणापरमवान्तरदेशँ हृत्वा स्वकृत इरिणे प्रदरे वोपसमाधाय जुषाणा निर्ऋतिर्वेतु स्वाहेति ॥ (ख०८).॥ विस्रंसिकायाः काण्डाभ्याꣳ सर्वहुतं नैऋतं जुहोति ॥ १९ ॥
अङ्गुष्ठाभ्यामेष ते निर्ऋते भाग इति वा ॥१३.३.२०॥
वासोऽभिन्नान्तं दक्षिणा कृष्णं वासः कृष्णदशम् ॥ २१ ॥
अपः परिषिच्याप्रतीक्षमायन्ति ।। २२ ।।
स्वाहा नमो य इदं चकारेति पुनरेत्य गार्हपत्ये जुहोति ॥२३॥
अ(आ)नुमतेन प्रचरति य उदञ्चोऽवशीयन्ते तानुदक्परेत्य शुक्त्या वल्मीकवपामुद्धत्येदमहमयुष्याऽऽमुष्यायणस्य क्षेत्रियमवयज इति शुक्त्या वल्मीकवपायां जुहोति । तामपिदधातीदमहममुष्याऽऽमुष्यायणस्य क्षेत्रियमपिदध इति शुक्त्या वल्मीकवपया वा ॥ २४ ॥
आदित्यं चरुं निर्वपतीति तदुत्तरास्वासामुत्तमा ॥ २५॥
आग्रयणेष्टिस्तयेष्ट्वा श्वोभूते सरस्वत्यै चरुं निर्वपति । सरस्वते चरुं मिथुनौ गावौ दक्षिणा॥२६॥
श्वोभूते चातुर्मास्यान्यालभते । तैः संवत्सरं यजते ॥२७॥
न शुनासीरीयं प्रतिसमस्याति २८॥
श्वोभूत इन्द्रतुरीयप्रभृतिभिरन्वहं यजते ॥ २९॥
आग्नेयमष्टाकपालं निर्वपतीति यथासमाम्नातम् । चतुर्हविरिन्द्रतुरीयम् । तत्संग्रामे निर्वपेत् ॥१३.३.३०॥
एतस्या एव रात्रेर्निशायां पञ्चेध्मीयेन यजेत ॥ ३१ ॥
निशायामपामार्गहोमेन चरन्ति ॥ ३२ ॥
सायꣳहुतेऽग्निहोत्रेऽपां न्ययनादपामार्गानाहृत्य तान्सक्तून्कृत्वा दक्षिणाग्नेरेकोल्मुकं धूपयति ॥ ३३ ॥
पराचीनमुत्तरापरमवान्तरदेशꣳ हृत्वा स्वकृत इरिणे प्रदरे वोपसमाधाय ॥(ख०९)॥देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याꣳ रक्षसो वधं जुहोमि स्वाहेति पर्णमयेनार्कमयेण वा स्रुवेणापामार्गसक्तूञ्जुहोति । इन्द्रस्य त्वौजसे जुहोमि स्वाहेति वा । हतꣳ रक्ष इति स्रुवमनुप्रहृत्यावधिष्म रक्ष इति हुत्वोपतिष्ठते ॥ ३४ ॥
वरो दक्षिणा । यद्वस्ते तद्दक्षिणा ॥ ३५ ॥
एतेनैव यजेत यः पाप्मनो बिभीयात्पञ्चेध्मीयेन चरति । चतुर्धाऽऽहवनीयं प्रतिदिशं व्यूहति । मध्ये पञ्चमम् । पृथगिध्मानुपसमाधाय ये देवाः पुरःसद इति प्रदक्षिणमनुपरिक्रामन्प्रतिदिशं चतस्र आहुतीर्जुहोति । मध्ये पञ्चमीम् । समूढꣳ रक्ष इति मध्य इध्मानभिसमुह्याग्नये रक्षोघ्ने स्वाहेति पञ्चगृहीतेन पञ्चोत्तरा रथः पञ्चवाही दक्षिणा । प्रष्टिवाही वा ॥ ३६॥
तेनैव यजेत यो रक्षोभ्यो बिभीयात्पिशाचेभ्यो वा । तं च यत्कामयते तद्दद्यात् ॥ ३७ ॥
श्वोभूते देविकाहविर्भिर्यजेत ॥ ३८ ॥
धात्रे पुरोडाशं द्वादशकपालं निर्वपतीति यथासमाम्नातम् । मिथुनौ गावौ दक्षिणा वत्सतरी वा ॥ ३९ ॥
प्रवीता प्रवीयमाणेत्येकेषाम् ॥ १३.३.४० ॥
ताभिः प्रजाकामः पशुकामो वा यजेत ।। ४१ ।।
आमयाविनं याजयेद्वा धातारं मध्यतः कृत्वा प्रजाकामः पुत्रैर्धातारमुत्तमं कृत्वाऽऽमयावी पशुना यजते ॥ ४२ ॥
श्वोभूते त्रिषंयुक्तैरन्वहं यजते ॥ ४३ ॥
आग्नावैष्णवमेकादशकपालं निर्वपतीति यथासमाम्नातं प्रथमं त्रिषंयुक्तं तेन यज्ञकामो यजेत । अग्नीषोमीयमेकादशकपालं निर्वपतीति यथासमाम्नातं मध्यमं त्रिषंयुक्तं वीरजनꣳ समामनन्ति । सोमापौष्णं चरुं निर्वपतीति यथासमाम्नातमुत्तमं त्रिषंयुक्तं तेन पशुकामो यजेत । वैश्वानरं द्वादशकपालं निर्वपतीति तेन ग्रामकामो यजेत । वारुणं यवमयं चरुमिति सर्वतःप्रादेशमात्रो वारुणश्चरुर्भवति । योग्योऽश्वो व्युप्तवहो वा दक्षिणा । समानतन्त्रौ वैश्वानरवारुणावेके समामनन्ति। (ख०१०)॥४४॥
इति सत्याषाढहिरण्यकेशिसूत्रे त्रयोदशप्रश्ने तृतीयः पटलः ।।

13.4
अथ त्रयोदशप्रश्ने चतुर्थः पटलः ।
श्वोभूते त्रयोदश रत्निनाँ हवीꣳषि ॥१॥
यजमानस्याऽऽप्तानां गृहेष्वन्वहं निर्वपति ॥२॥
यस्य यस्य गृहे निर्वपति तस्य तस्य गृहादिष्टिपरिवेषणं दक्षिणा च ॥ ३ ॥
बार्हस्पत्यं चरुं निर्वपति ब्रह्मणो गृहे । शितिपृष्ठो दक्षिणेति यथासमाम्नातम् । पुरोहितस्यैकेषाम् ॥ ४॥
भगाय चरुं वा वातायै गृहे विचित्तगर्भा पष्ठौही दक्षिणा ॥५॥
नैर्ऋतं चरुमिति सर्वतोऽङ्गुष्ठमात्रो नैर्ऋतश्चरुर्भवति ॥६॥
अङ्गुष्ठपर्वमात्रो वा सर्वहुतं नैर्ऋतं जुहोति ॥ ७ ॥
तक्षरथकारावेकस्मिन्गृहे समवनीयाऽऽग्नेयमष्टाकपालं निर्वपति सर्वायसानि दक्षिणा गोविकर्त्रक्षावापावेकस्मिन्गृहे समवनीय वैष्णवं त्रिकपालमिति वत्सः श्वेतशबलो दक्षिणा । वैष्णवं त्रिकपालं त्रयोदशं तक्षरथकारयोर्गृहे । सर्वायसानि दक्षिणा । तक्ष्णो रथकारस्य वेत्येके ॥ ८ ॥
सेनान्यो गृहे समवनीयाऽऽग्नेयमष्टाकपालं निर्वपतीति हिरण्यं दक्षिणा ॥ ९ ॥
रौद्रं गावीधुकं चरुमक्षावापस्य गृहे शबल उद्वारो दक्षिणा । अर्वापाराव(सिर्वालावृ)तः केसरपाशा वा गोव्युच्छती(नी)रज्जुः ॥ १३.४.१० ॥
अध्वने स्वाहेति पालाकलस्य गृहे जुहोति ॥ ११ ॥
अनृतदूतं ब्रुवते । धनुर्वेत्रवीतं दक्षिणा ॥ १२ ॥
त्रयश्चर्ममया बाणवन्तो दक्षिणा ॥ १३ ॥
ऐन्द्रमुत्तमं यजमानस्य गृहे निर्वपति । अन्वहमेके ब्रुवते । इन्द्राय सुत्राम्णे पुरोडाशमेकादशकपालं (प्रति ) निर्वपति । इन्द्रायाꣳहोमुचे । यन्नो राजा वृत्रहा राजा भूत्वा वृत्रं वध्यादिति सूक्तवाकस्याऽऽशीःषु होताऽनुवर्तयति ॥ १४ ॥
स्वयमवपन्नाया अश्वत्थशाखायै मैत्रं पात्रं चतु:स्रक्ति करोति ॥ १५ ॥
श्वेतां श्वेतवत्सामाम्रस्य दृतौ दुहन्ति | तत्स्वयंमूर्तꣳ संयोगेन परिवहति ।। १६ ॥
तत्स्वयंमथितमातपे विषजन्ति ॥ १७ ॥
तत्स्वयं विलीनमाज्यं भवति ॥ १८ ॥
ऐन्द्रकर्मणि समाप्ते स्वयमवपन्नाया अश्वत्थशाखायाः स्वयंभन्नाया अश्वत्थशाखायाः स्थविष्ठमेकं मैत्रस्य चरोः पात्रं करोति । चतुःस्रक्ति चमसाकृति । आम्रस्त्ये ( स्य) दृतौ दुहन्ति गाम् । अमथितपूर्वे दृती, आने वा हतौ । श्वेतवत्सयुक्ता श्वेता गौः । तत्स्वयंमृत संयोगेन परिवहति प्रापयति । तत्स्वयंमथितमातपे विषन्ति । तत्वयं विलीनमाज्यं भवति । इति । तदिदमापस्तम्बेन स्पष्टीकृतम्-श्वेतां श्वेतवत्सां गामाम्रस्य दृतौ दुहन्ति तत्स्वयंमूर्त संयोगेन परिवहति तत्स्वयंमथितमातपे विषजन्ति । तैष्यां पौर्णमास्यामभिषेचनीयायोक्थ्याय दीक्षाः प्रवर्तयन्ति ॥ १९॥
मैत्राबार्हस्पत्यं दीक्षणीयं भवति ॥ १३.४.२० ॥
पात्रसꣳसादनकाले यथार्थं पात्राणि प्रयुनक्ति स्थालीं कपालानाꣳ स्थाने प्रयुनक्ति ।। (ख.११) ॥ २१॥
मैत्रं चरुं निर्वपणकाले बृहस्पतये निरुप्य मित्राय निर्वपतीति । यथा वा त्रिष्फलीकृतेषु विभागमन्त्रेण कर्णाꣳश्चाकर्णाꣳश्च । तण्डुलान्विविचन्ति । क्षोदिष्ठाꣳश्च स्थविष्ठाꣳश्चेत्येकेषाम् ॥ २२ ॥
ये कर्णाः स पयसि बार्हस्पत्यः । येऽकर्णाः स आज्ये मैत्रः स यदा शृतः स्यादथ तं मैत्रपात्रमुपरिष्टादवदधाति ॥ २३ ॥
तस्मिन्पवित्रेऽव धाय स्वयंविलीनमासिञ्चति ॥ २४ ॥
तस्मिन्पवित्रवत्याज्ये स्थवीयस्तण्डुलानावपति ॥ २५ ॥
तावुत्तराधरौ सह शृतौ करोति ॥ २६ ॥
धर्ममात्रꣳ श्रपणमर्धꣳ स्वयंदिनं बर्हिः स्वयंकृत इध्मो निम्नमध्यवस्यति । सा स्वयंकृता वेदिर्भवति । वेद्याः करोति । अर्धꣳ स्वयंकृतं भवति । अर्धं बर्हिषो दाति । अर्धं स्वयंदिनमुपसंनह्यति । अर्धमिध्मं करोति ॥ २७ ॥
अपि वा स्वयंकृता वेदिर्भवति । संलोभ्यं (प्यं) बर्हिः संचार्ये(य्ये)ध्मः ॥ २८॥
प्रचरणकाले बार्हस्पत्येन प्रचर्य मैत्रेण प्रचरति ॥ २९॥
इतरथा वा । शितिपृष्ठो बार्हस्पत्यस्य दक्षिणा। अश्वो मैत्रस्य । व्युप्तवहो वा ।
सा चैव श्वेता श्वेतवत्सा दक्षिणा ॥(ख०१२)॥ १३.४.३०॥
इति सत्याषाढहिरण्यकशिसूत्रे त्रयोदशप्रश्ने चतुर्थः पटलः ।

13.5
अथ त्रयोदशप्रश्ने पञ्चमः पटलः ।
तथा दीक्षाः प्रवर्धयन्ति(न्त्य) अभिषेचनीयस्य ।
यथा दशरात्रे शिष्टे संवत्सरस्य दशपेयो भविष्यति ॥१॥
सह सोमौ क्रीणाति । अभिषेचनीयाय दशपेयाय चार्धं राज्ञः पुरोहितस्य ब्रह्मणो वा दशपेयार्थं निदधाति ॥२॥
अग्नीषोमीयपशुपुरोडाशं निरुप्य देवसुवाँ हवीꣳष्यनुनिर्वपत्यग्नये गृहपतय इति यथासमाम्नातम् । पशुपुरोडाशस्य देवसुवां च हविषाꣳ समानꣳ
स्विष्टकृदिडम् ॥ ३॥
पुरस्तात्स्विष्टकृतः सविता त्वा प्रसवानाꣳ सुवतामिति यजमानस्य हस्तं वेदयत्येष वः कुरवो राजेति । यदि कौरव्यः । एष वः पञ्चाला राजेति यद्यु वै पाञ्चालः । एष वो भरता राजेति का कुरुपञ्चालानेष ते जनता राजेत्यन्यान्राज्ञः । सोमोऽस्माकं ब्राह्मणानाꣳ राजेत्युक्तः ॥ ४॥
प्रति त्यन्नाम राज्यमधायीति वारुणीभ्यां यजमानो मुखं विमृष्टे ॥ ५॥
विष्णोः क्रमोऽसीति त्रीन्विष्णुक्रमान्प्राचः क्रामति ॥६॥
यत्प्राङ्माहेन्द्रात्तस्मिन्कृते प्रतिप्रस्थाता
मारुतमेकविꣳशतिकपालं निर्वपति ॥७॥
गणैः कपालान्युपदधाति ॥ ८॥
आरण्ये[ना]नुवाक्येन गणेन मध्य उपधायाऽऽमिक्षायाः कल्पेन मैत्रावरुणीमामिक्षां करोति ॥ ९॥
अभिवासितैर्वायव्यैरपां ग्रहान्गृह्णाति ॥ १३.५.१० ॥
देवीरापो अपांनपद्राष्ट्रदास्थ राष्ट्रं दत्त स्वाहेति सारस्वतीष्वप्सु हुत्वैतेनैव गृह्णाति ॥ ११ ॥
अर्थेतः स्थेति वा। एवमितरासु येन येन जुहोति तेन तेन गृह्णाति ॥ १२ ॥
राष्ट्रदाः स्थ राष्ट्रं दत्त स्वाहेति होमार्थेऽनुषजति । राष्ट्रदाः स्थ राष्ट्रममुष्मै दत्तेति गृह्णाति।१३॥
पुरुषे पशौ वाऽभ्यवेतोऽपां पतिरसीति ।।(ख०)१३॥समुद्रियाः सैन्धवीर्वा प्रतीपमन्य ऊर्मिः पतति । अन्वीपमन्यो वृषाऽस्यूर्मीरिति यः प्रतीपं तं गृह्णाति । वृषसेनोऽसीति योऽन्वीपम् । प्रहावरीः स्थेति स्थावरीणाम् ।
याः स्थानं न प्रवहन्ति परिवाहिणी: स्थेति स्रवन्तीनाम् । या आप उच्छेरते परिणतिं ब्रुवते । व्रजक्षितः स्थेति कूप्यानाम् । मरुतामोजसः स्थेति ह्रादुनीनाम् । सूर्यवर्चसः स्थेत्यातपतिवर्ष्याणाम् । सूर्यत्वचसः स्थेति यासु रूपाणि परिदृश्यन्ते । मान्दाः स्थेति स्थावराणां या वा मन्दमिष स्यन्दन्ते । वाशाः स्थेति पृष्ठानाम् । शक्करी स्थेति गोरुल्ब्या(तुल्या)नाम् । विश्वभृतः स्थेति पयसः। जनभृतः स्थेति दध्नः। अग्नेस्तेजस्याः स्थेति घृतस्य । श्रविष्ठाः स्थानाधृष्टा इति वा। अपामोषधीनाꣳ रसः स्थेति मधुनः षोडश सप्तदश वा गृह्णाति ॥ १४ ॥
अपो देवीर्मधुमतीरगृह्णन्निति गृहीत्वाऽभिमन्त्रयते ॥ १५ ॥
देवीरापः सं मधुमतीर्मधुमतीभिः सृज्यध्वमिति वैतसे द्रोणे समवनयति ।। १६ । ।
अत्राभिमन्त्रणमेके समामनन्ति ॥ १७॥
अनाधृष्टाः सीदतेत्यन्तरा होतुर्धिष्णियं ब्राह्मणाच्छꣳसिनश्च सादयति ॥ १८॥ अपरेण होत्रीयमुपसादयतीत्येकेषाम् ॥ १९ ॥
अनिभृष्टमसीति शतातृण्णꣳ सौवर्णꣳ रुक्ममादाय शुक्रा वः शुक्रेणोत्पुनामीति तेन त्रिरुत्पुनाति ॥ १३.५.२० ॥
सधमादोद्युम्निनीरूर्ज एता इति चतुर्षु पात्रेषु व्यानयति ॥ (ख०१४ ) ॥ पालाश औदुम्बर आश्वत्थे नैयग्रोधेऽवशेषं द्रोणे करोति ॥ २१ ॥
तोक्मो( रौक्म औ )दुम्बरं दधि च यजमानं भोजयति ॥२२॥
एकशतेन दर्भपुञ्जीलैराङ्क्ते। शतेनेत्येकेषाम् । पञ्चाशता दक्षिणमक्ष्येकपञ्चाशतोत्तरमभ्यज्य क्षत्रस्योल्बमसीति तृपाणां वृक्षाणां वासो यजमानः परिधत्ते । क्षत्त्रस्य योनिरसीति पाण्डुरमुष्णीषम्। तृतीयꣳ श्वेतपाण्डुरमित्याचक्षते । अप उपस्पर्शयित्वाऽऽविन्नो अग्निरित्याविदो यजमानं वाचयन्बहिःसदसमभ्युदानयति ॥ २३ ॥
एष वः कुरवो राजेत्यावेदयति । मनसाऽनुप्रक्रामति । मनसोर्ध्वमनूज्जिहीते ॥ २४ ॥
अत्र मारुतमेकविꣳशतिकपालमेके समामनन्ति ॥ २५ ॥
सोमस्य त्विषिरसि तवेव मे त्विषिर्भूयादिति शार्दूलचर्म विवेष्टयति ॥ २६ ॥
अग्रे सदो दक्षिणे द्वारबाहौ तद्यजमान आरोहति । अवेष्टा दन्दशूका इति । आपः केशवापाय प्रयच्छति ॥ (ख० १५)॥ लोहायसं प्रयच्छतीत्येकेषाम् ।। २७ ॥
निरस्तं नमुचेः शिर इति सीसं क्लीबाय विध्यति चैनꣳ सीसं क्लीबेन विध्यतीत्येकेषाम् ॥ २८ ॥
प्रत्यस्तं नमुचेः शिर इति वाऽप उपस्पृश्य ॥ २९ ॥
अमृतमसीति रजतꣳ रुक्मं व्याघ्रचर्मण्युपोहति । अधस्तात्पादयोर्दिद्योन्मा पाहीति शतातृण्णꣳ सौवर्णꣳ रुक्मं यजमानस्य शिरसि निदधाति॥१३.५.३०॥
सोमो राजा वरुण इत्येताभ्यो देवताभ्यः प्रोच्याग्नये स्वाहेति षट्पूर्वाणि पार्थानि हुत्वा पृथिव्यै स्वाहेति षट्पूर्वा भूतानामवेष्टीर्जुहोति ॥ ३१॥
सोमस्य त्वा द्युम्नेनाभिषिञ्चामीत्यध्वर्युर्वाऽऽहुतिं जुहूꣳ (ह्वतꣳ) हूयमानेऽभिषिञ्चति ॥ ३२ ॥
पर्णमयेन पुरस्तादध्वर्युः । एवमितरे । औदुम्बरेण दक्षिणतो ब्रह्मा। राजन्यो वा । आश्वत्थेन पश्चाद्वैश्यः । नैयग्रोधेनोत्तरतो जन्यमित्रम् । स्यादुपरिष्टाद्देवनस्याऽऽसिञ्चति ।। ३३ ॥
क्षत्त्राणां क्षत्त्रपतिरसीत्यभिषिच्यमानमभिमन्त्रयते ॥ ३४ ॥
अति दिवस्पाहीति कृष्णविषाणया राजसूयिकाति वासाꣳसि विवृत्य समाववृत्रन्नधरागुदीचीरिति येऽभिषिच्यमानस्य लेपा व्यवस्रवन्ति । तान्पात्रैः समुन्मार्ष्टि ।। ३५ ।।
इन्द्राय स्वाहेति षडुत्तराणि पार्थानि हुत्वाऽद्भ्यः स्वाहेति षडुत्तरा भूतानामवेष्टीर्जुहोति ॥ ३६॥
रुद्र यत्ते क्रयी परं नामेति यो द्रोणे शेषस्तमुदङ्परेत्याऽऽग्नीध्रे जुहोति ॥ ( ख० १६ )॥ ३७।।
इति सत्याषाढहिरण्यकेशिसूत्रे त्रयोदशप्रश्ने पञ्चमः पटलः ॥

13.6
अथ त्रयोदशप्रश्ने षष्ठः पटलः ।।
इन्द्रस्य वज्रोऽसि वार्त्रघ्न इति रथमुपावहरति ॥ १ ॥
मित्रावरुणयोस्त्वा प्रशास्त्रोः प्रशिषा युनज्मीति प्रष्टिवाहिनꣳ रथं युनक्ति ॥ २ ॥
विष्णोः क्रमोऽसीति रथमातिष्ठति ॥ ३॥
मरुतां प्रसवे जेषमिति प्रयास्यति ॥ ४ ॥
प्र ससाहिष इति दाक्षिणतो ब्रह्मा त्रिष्टुभाऽन्वेति ॥ ५ ॥
प्रतिहितोऽन्वारभत इत्येकेषाम् ॥६॥
सधनू राजन्यः पुरस्तादुत्तरतो वाऽवस्थितो भवति ॥ ७ ॥
तं जिनात्याप्तं मनः समहमिन्द्रियेणेति ॥८॥
तस्मा एतानिषूनस्यति प्रति त्वाऽऽप्तं मनः समहमिन्द्रियेणेति प्रदक्षिणमावर्तते ॥ ९॥
ऐषु वज्रो वाजसातमस्तेन तौ पुत्रौ वाजसꣳसेदि(यातामि)ति धनुः पत्न्यै प्रयच्छति । धनुरार्त्नि प्रयच्छतीत्येकेषाम् । पत्नी धनुरार्ज्ञोऽ(र्त्नीअ)पनुदतीत्येकेषाम् । अश्वानुपस्पृशतीत्येकेषाम् ॥ १३.६.१० ॥
इयदस्यायुरस्यायुर्मे धेहीति राजतमणिं यजमानः प्रतिमुञ्चते ॥ ऊर्गसीत्यौदुम्बरम् । युङ्ङसीति सौवर्णम् ॥ ११ ॥
मध्ये सौवर्णमेके समामनन्ति ॥ १२ ॥
मित्रोऽसीति दक्षिणं बाहुमुपावहरते । वरुणोऽसीति सव्यम् । एतद्वा विपरीतम् ।। १३॥
समहं विश्वैर्देवैरिति वैश्वदेव्यामामिक्षायाꣳ हस्तावुपावहरते । अत्रैते हिरण्ये ददाति सौवर्णꣳ राजतं च मणिम् ॥ १४ ॥
नमो मात्रे पृथिव्या इत्यवरोहन्पृथिवीमवेक्षते ॥ (ख०१७) ।। पशूनां मन्युरसि तवेष मे मन्युर्भूयादिति वाराही उपानहावध्यवरोहति ॥१५॥
प्रति त्यन्नाम राज्यमधायीति वारुणीभ्यां मुखं विमृष्टे ॥ १६ ॥
अग्रेणाऽऽग्नीध्रं चतुरवस्ता(स्रा)वं खरं विमितं विमिन्वन्ति । दक्षिणत उपचारं क्षत्रस्य नाभिरसीति तस्मिन्खादिरीमासन्दीं प्रतिष्ठापयति । क्षत्त्रस्य योनिरसीति तस्यां कृत्त्यधीवासमास्तृणाति ॥ १७ ॥
अवनह्यति हनि विशि मा दृꣳहेत्यवनह्यति ॥ १८ ॥
 स्योनाऽसीत्यासीदति ॥ १९॥
स्योनामासीद सुषदामासीदेति सीदन्तमभिमन्त्रयते ॥ १३.६.२० ॥
मा त्वा हिꣳसीदित्यारोहति ॥ २१॥
मा त्वा हिꣳसीन्मा मा हिꣳसीदित्यारोहन्तमभिमन्त्रयते ॥ २२ ॥
निषसाद धृतव्रत इत्यासीनो जपति ॥ २३ ॥
अग्नये गृहपतये स्वाहेति स्रुवेण गार्हपत्ये रथविमोचनीयानि हुत्वा हꣳसः शुचिषदिति सह संग्रहीत्रा रथवाहने रथमादधाति ।।.२४ ॥
आहिते संग्रहीताऽवरोहति ऋत्विज़ोऽनश्व(रत्निनश्च) राजानं पर्युपविशन्ते समुपविष्टेषु ब्रह्मा३नित्यध्वर्युं यजमान आमन्त्रयते । त्वꣳ राजन्ब्रह्माऽसि सविताऽसि सत्यसव इति प्रत्याहैवँ होतारं ब्रह्माणमुद्गातारं वाऽऽमन्त्रयते । उत्तरेणोत्तरेण मन्त्रेण प्रत्याहुः ॥ २५ ॥
इन्द्रस्य वज्रोऽसि वार्त्रघ्न इति स्फ्यं ब्रह्माऽथ राज्ञे प्रयच्छति । अध्वर्युः प्रयच्छतीत्येकेषाम्॥२६॥
एष वज्रोऽसि वाजसातमः ॥ ( ख०१८ ) ॥ तेन मे रध्येति वा राजा पुरोहिताय। पुरोहितः प्रतिहिताय । प्रतिहितो रत्निभ्यस्तमवरपरꣳ संप्रयच्छन्ति । अन्ततोऽक्षावापाय प्रयच्छति ॥ २७ ॥
तेन स स्फ्येनाधिदेवनमुद्धत्य तिस्रः पञ्चाशतः पञ्च वा पञ्चाशतोऽक्षान्निवपति ॥ २८ ॥
उद्भिन्नꣳ राज्ञ इति ततश्चतुरोऽक्षान्निरूहꣳश्चतुःशतानपिसज्य पष्ठौहीं विदीव्यन्ति ॥ २९ ॥
ब्राह्मणो राजन्यो वैश्यः शूद्र इत्योदनमधिपर्णं विजित्य दिशोऽभ्ययꣳ राजाऽभूदिति पञ्चाक्षान्यजमानाय प्रयच्छति ॥ १३.६.३० ॥
तानपिसृज्य मङ्गल्यनाम्नो (म्न आ)ह्वयति सुश्लोकाँ ३ इति संग्रहीतारꣳ सुमङ्गलाँ३ इति भागदुगꣳ सत्यराजा३निति क्षत्तारम् । तानाहूय ब्रह्मणे क्षेत्रं ददाति ॥ ३१ ॥
यत्कामयते ब्रह्मा त उपद्रष्टारः ॥ ३२ ॥
यां कामयेत भार्यामस्यै प्रजा राष्ट्रꣳ स्यादिति तस्या औपासने प्रतिहितमन्वारम्भयित्वा प्रजापते न त्वदेतानीति ये पात्रेषु लेपास्तैर्नामव्यतिषञ्जनीयौ होमौ जुहोति ॥३३॥
असावामुष्यायणोऽमुष्या असौ पुत्र इति नामनी व्यतिषजति ॥ ३४ ॥
शौनःशेपमाख्यापयते । ऋचो गाथामिश्राः ॥(ख०१९) ॥ परःशताः परःसहस्रा वा ॥ ३५॥
-हिरण्यकशिपावासीनो होताऽनुशꣳसति ।। ३६ ॥
हिरण्यकूर्चयोस्तिष्ठन्नध्वर्युः प्रतिगृणाति । ओमित्यृचः प्रतिगरस्तथेति गाथायाः ॥ ३७॥
अपवृत्ते शौनःसे( शे )पे हिरण्यकशिपुं होत्रे ददाति । हिरण्यकूर्चावध्वर्यवे ॥ ३८ ॥
अत्र मारुतेनैकविꣳशतिकपालेन वैश्वदेव्याऽऽमिक्षया प्रचरेत् । एना व्याघ्रं परिषस्वजानाः सिꣳहꣳ हिन्वन्ति महते सौभगाय । समुद्रं न सुहुतं तस्थिवाꣳसं मर्मज्यन्ते द्वीपिनमप्स्वन्तरित्यवदास्यन्पुरोडाशमभिचरन्स्फ्येन समया विभिन्द्यात् स्फ्य आश्लिष्येद्यच्चावमार्जेत्तद्विष्णव उरुक्रमायावद्येत् ॥ ३९ ॥
अत्रैते हिरण्ये ददाति । सौवर्णं राजतं मणिं च। यदि पुरस्ताद्दत्ते भवतः ॥ १३.६.४० ॥
माहेन्द्रप्रभृतीनि कर्माणि प्रतिपद्यते ॥ ४१ ॥
अवभृथादुदेत्यापां नप्त्रे स्वाहेत्यप्सु जुहोति ॥ ४२ ॥
ऊर्जो नप्त्रे स्वाहेति शुष्के स्थाणौ दर्भस्तम्बे वा ॥ ४३ ॥
अग्नये गृहपतये स्वाहेति प्रत्येत्य गार्हपत्ये ॥ ४४ ॥
ऐन्द्रीꣳ सूतवशामनूबन्ध्यामालभते ॥४५॥
तस्या नैवारं पशुपुरोडाशं चतुष्पद्याः सूनाया निर्वपति ॥ ४६ ॥
शकटप्रत्याम्नायो भवति ॥४७॥
संतिष्ठतेऽभिषेचनीयः ॥ ४८ । ॥ (ख. २०)॥
इति सत्याषाढहिरण्यकेशिसूत्रे त्रयोदशप्रश्ने षष्ठः पटलः।।

13.7
अथ त्रयोदशप्रश्ने सप्तमः पटलः ।
श्वोभूते सप्तभिः सꣳसृपाꣳ हविर्भिरन्वहं यजते। आग्नेयमष्टाकपालं निर्वपतीति यथासमाम्नातम् । पूर्वं पूर्वं देवयजनमध्यवस्यति । यत्राऽऽहवनीयः पूर्वः स्यात्तत्रापरस्या गार्हपत्यः सप्तम्या इष्टेः प्राग्वꣳश आहवनीयो बहिर्गार्हपत्यः ॥ १॥
अथ तया यजते । तस्याꣳ सꣳस्थितायामपराह्णे दशपेयाय दीक्षते ॥ २ ॥
अप्सु दीक्षायाः स्थाने षट्पुण्डरीकां द्वादशपुण्डरीकां वा हिरण्यस्रजं यजमानः प्रतिमुञ्चते ॥ ३ ॥
तदहर्दीक्षितो राजानं क्रीणाति दशभिर्वत्सतरैः साण्डैः ॥ ४॥
न पणते न परिवहति ।। ५ ।।
क्रयमेवापरं करोति ॥ ६ ॥
पुरस्तादुपसदाꣳ सौम्यं चरुं निर्वपति । अन्तरा त्वाष्ट्रमुपरिष्टाद्वैष्णवम् ।। ७ ।।
तासामौपसदं बहिः( र्हिः ) परिधयश्चार्थꣳ साधयन्ति ॥ ८ ॥
सप्तदशो दशपेयोऽग्निष्टोमः । सारस्वतीर्वसतीवरीः ॥९॥
भार्गवो होता भवति । श्रायन्तीयं ब्रह्मसामं भवति । वारवन्तीयमग्निष्टोमसामम् ॥ १३.७.१० ॥
पात्रसꣳसादनकाले दश चमसानधिकान्प्रयुनक्ति ॥ ११ ॥
उन्नयनकाले दश चमसानधिकानुन्नयति १२॥
भक्षणकाले य आ दशमात्पुरुषादविच्छिन्नसोमपीथः स भक्षस्य कर्ता दशमात्पुरुषादन्वाख्याय शतं ब्राह्मणाः सोमपाः संप्रसर्पन्ति ॥ १३ ॥
दश दशैकैकं चमसं भक्षयन्ति ।। १४ ।
दक्षिणाकाले हिरण्यप्राकाशावध्वर्यवे ददातीति यथासमाम्नातम् । उक्षाणं ग्रावस्तुते वेहायमानामिवोऽन्नेत्रे बस्तꣳ सुब्रह्मण्याय ॥ (ख०२१) ॥१५॥
संतिष्ठते दशपेयः ॥ १६ ॥
तस्मिन्सꣳस्थिते दिशामवेष्ट्या यजते ॥ १७॥
आग्नेयमष्टाकपालं निर्वपतीति यथासमाम्नातꣳ हविषो हविष इष्ट्वा बार्हस्पत्यं प्रत्यभिघारयेत् ॥ १८ ॥
तयाऽन्नाद्यकामः स्वर्गकामो वा यजेत ॥ १९ ॥
ब्राह्मणो यजमानो मध्ये विधायाऽऽहुतिमाहुतिꣳ हुत्वाऽभिघारयेत । यदि राजन्य ऐन्द्रम् । यदि वैश्यो वैश्वदेवम् ॥ १३.७.२० ॥
श्वोभूते द्विपशुना पशुबन्धेन यजेत ॥ २१॥
आदित्यां मल्हां गर्भिणीमालभते । मारुतीं पृश्निं पष्ठौहीम् । अश्विभ्यामुपाꣳशु मारुत्या प्रचरति । आश्रुतप्रत्याश्रुते अप्युपाꣳशु भवतः । उच्चैरादित्यायाः ॥ २२॥
ततः श्वोभूते षड्भिः प्रयुजाꣳ हविर्भिर्यजते ॥ २३ ॥
आग्नेयमष्टाकपालं निर्वपतीति यथासमाम्नातम् ।
दक्षिणो रथवाहनवाहो दक्षिणा ॥ २४ ॥
श्वोभूते षड्भिरुत्तरैः सारस्वतं चरुं निर्वपतीति यथासमाम्नातम् ॥२६॥
तिसृधन्वꣳ शुष्कदृतिर्दण्डमुपानहौ च तद्दक्षिणाऽश्वो वा। शोणकर्ण इत्येकेषाम् ।तत्प्रतिराजभ्यः प्राहिणोति ॥ २५॥
अभ्यषिक्षि राजाऽभूवामित्यावेदयति ॥ २६ ॥
संवत्सरमग्निहोत्रं जुहोति ॥ २७ ॥
अनुसंतत्यै तत्र येऽग्निहोत्रेणाप्रतिषिद्धाः क्रतवस्तानाहरेत् ।।२८ ॥
संवत्सरे केशवपनीयेनातिरात्रेण यजेत ॥ २९ ॥
तत्र वपनप्रवादा मन्त्रास्तेषामादिप्रवादैरादितो वापयेतान्तप्रवादैरन्ततः । संतिष्ठते केशवपनीयः ॥ १३.७.३० ॥
तस्मिन्सꣳस्थिते व्युष्टिद्विरात्रेण यजेत ॥ ३१ ॥
तस्य ज्योतिष्टोमोऽग्निष्टोमः पूर्वमहर्भवति ॥ ३२ ॥
सर्वस्तामोऽतिरात्र उत्तरं गायत्रं पूर्वेऽहन्त्साम भवति । त्रैष्टुभमुत्तरम् । रथंतरं पूर्वेऽहन्साम भवति । बृहदुत्तरे वैखानसम् । पूर्वेऽहन्साम भवति । षोडश्युत्तरे हविष्मन्निधनं पूर्वमहर्भवति। हविष्कृन्निधनमुत्तरम् । अमावास्यायां पूर्वमहर्यजनीयमुत्तरम् । आपूर्यमाणपक्षस्य वा । ये पुण्ये अहनी स्याताम् ॥ ३३॥
क्षत्राणां धृतिरग्निष्टोमस्तेनान्ततो यजेत ॥ ३४ ॥
पञ्चापवर्गो भवति ॥ ३५॥
संतिष्ठते राजसूयः ॥ ३६ ॥
राजसूयेनेष्ट्वा सौत्रामण्या यजेत ॥ (ख०२३) ३७ ॥
इति सत्याषाढहिरण्यकेशिसूत्रे त्रयोदशप्रश्ने सप्तमः पटलः ।

13.8
अथ त्रयोदशप्रश्नेऽष्टमः पटलः ।
त्रिरात्रे पुरस्तात्सीसेन क्लीबाच्छष्पाणि क्रीत्वा क्षौमे वासस्युपनह्य निदधाति ॥१॥
सौत्रामण्यास्तन्त्रं प्रक्रमयति ॥ २॥
तत्र यावत्क्रियते तद्व्याख्यास्यामोऽग्नीनन्वाधाय वेदं कृत्वाऽग्नीन्परिस्तीर्य पाणी प्रक्षाल्योलपराजीꣳस्तीर्त्वा यथार्थं पात्राणि प्रयुनक्ति स्थालीं कपालानाꣳ स्थाने प्रयुनक्ति।।३॥
निर्वपणकालेऽश्विभ्याꣳ सरस्वत्या इन्द्राय सुत्राम्णे प्रभूतान्व्रीहीन्निर्वपति ॥ ४ ॥
चरुकल्पेन श्रपयित्वाऽग्रेण गार्हपत्यमवटं खात्वा सुरायाः कल्पेन परिस्रुतꣳ संदधाति ॥ ५ ॥
स्वाद्वीं त्वा स्वादुनेति शष्पैः सुराꣳ सꣳसृजति ॥६॥
सोमोऽस्यश्विभ्यां पच्यस्व सरस्वत्यै पच्यस्वेन्द्राय सुत्राम्णे पच्यस्वेति सꣳसृष्टामभिमन्त्रयते ॥ ७ ॥
तिस्रो रात्रीः सꣳहिता वसतिः ॥८॥
एकयूपं छिनत्ति ॥ ९ ॥
न वेदं करोति । पुरस्तात्कृते नार्थान्कुरुते ।। १३.८.१० ।।
सौमिक्यास्तृतीयमात्रीं वेदिं करोति ॥ ११ ॥
यस्मिन्कालेऽध्वर्युरुत्तरवेदिं करोति तस्मिन्काले प्रतिप्रस्थाता चात्वालात्पुरीषमाहृत्य दक्षिणेनोत्तरवेदिं चतुरश्रं खरं करोति ॥ १२ ॥
यस्मिन्कालेऽध्वर्युराहवनीयं प्रणयति तस्मिन्काले प्रतिप्रस्थाता दक्षिणाग्नेरङ्गारानाहृत्य खरे न्युप्योपसमादधाति ॥१३॥
न पाणी प्रक्षालयते॥१४॥
अश्विभ्याꣳ सरस्वत्या इन्द्राय सुत्राम्णे त्रीणि वैकङ्कतान्यूर्ध्वपात्राणि प्रयुनक्ति ॥ १५॥
सतꣳ शतातृण्णाꣳ स्थालीꣳ रुक्मं वालस्रावं च ॥१६॥
यत्प्राक्पशूपाकरणात्कृत्वोद्भिद्य सुराꣳ सते निषिच्य पुनातु ते परिस्रुतमिति वालमयेन पवित्रेण पुनाति ॥ १७ ॥
वायुः पूतः पवित्रेणेति सोमवामिनः । सोमातिपवितस्य वा । प्राङ्सोम इति सोमातिपवितस्य पूतां ब्राह्मणस्य मूर्धन्सादयित्वा ॥ (ख०२४)॥१८॥
पशूपाकरणप्रभृतीनि कर्माणि प्रतिपद्यते । आश्विनमजं धूम्रमुपाकरोति । सारस्वतं च मेषमैन्द्रमृषभं वृष्णिं बस्तं वा । बार्हस्पत्यं चतुर्थꣳ सोमवामिनः सोमातिपवितस्य वा ।। १९ ॥
हुतासु वपासु रुक्ममृषभꣳ सात्वरीं च वडवां दक्षिणां ददाति ॥ १३.८.२० ॥
तत्कृत्वा वायव्यैः सुराग्रहान्गृह्णात्युपयामगृहीतोऽस्यच्छिद्रां त्वाऽच्छिद्रेणाश्विभ्यां जुष्टं गृह्णामीत्याश्विनं ग्रहमध्वर्युर्गृह्णाति । उपयामगृहीतोऽस्यच्छिद्रां त्वाऽच्छिद्रेण सरस्वत्यै जुष्टं गृह्णामीति सारस्वतम् । प्रतिप्रस्थाता । उपयामगृहीतोऽस्यच्छिद्रां त्वाऽच्छिद्रेणेन्द्राय सुत्राम्णे जुष्टं गृह्णामीत्यैन्द्रं यजमानः ॥ २१ ॥
कुविदङ्गेति सर्वेषामेका पुरोरुक् ॥ २२ ॥
क्वलसक्तुभिराश्विनꣳ श्रीणाति । बदरसक्तुभिरित्येकेषाम् । सिꣳहलोमभिश्च कर्कन्धूसक्तुभिः सारस्वतꣳ शार्दूललोमभिश्च बदरसक्तुभिरैन्द्रं क्वकलसक्तुभिरित्येकेषाम् । वृकलोमभिश्च । अपि वा सिꣳहावध्वर्युर्मनसा ध्यायेत् । शार्दूलैः प्रतिप्रस्थाता । वृकैर्यजमानः ॥ २३ ॥
एष ते योनिरश्विभ्यां त्वा, एष ते योनिः सरस्वत्यै त्वा, एष ते योनिरिन्द्राय त्वा सुत्राम्ण इति यथारूपं ब्राह्मणस्य मूर्धन्सादययित्वा ॥ (ख०२५)॥ २४ ॥ पशुपुरोडाशप्रभृतीनि कर्माणि प्रतिपद्यते ॥ बार्हस्पत्यं पशुपुरोडाशं निरुप्यैन्द्रमेकादशकपालं निर्वपति । सावित्रं द्वादशकपालम् । वारुणं दशकपालम् ॥ २५ ॥
तानासाद्य यथागृहीतं ग्रहानाददतेऽश्विभ्याꣳ सरस्वत्या इन्द्राय सुत्राम्णे सोमानाꣳ सुराणामनुब्रूहि । अश्विभ्याꣳ सरस्वत्या इन्द्राय सुत्राम्णे सोमान्सुरान् प्रस्थितान्प्रेष्येति संप्रेष्यति ॥२६॥
वषट्कृते जुहोति ॥ २७॥
अनुवषट्कृते हुत्वा बार्हस्पत्यस्य पशुपुरोडाशेन प्रचरिते ब्राह्मणं परिक्रीणीते ग्रहोच्छेषणस्य पातारम् । यदत्र शिष्टꣳ रसिनः सुतस्य यदिन्द्रो अपिबच्छचीभिः । अहं तदस्य मनसा शिवेन सोमꣳ राजानमिह भक्षयामीति भक्षयति ॥ २८ ॥
नाना हि वां देवहितꣳ सदोमितं मा सꣳसृक्षाथां परमे व्योमन् । सुरा त्वमसि शुष्मिणी सोम एष मा मा हिꣳसीः स्वां योनिमाविशन्निति भक्षयन्तमभिमन्त्रयते ॥ २९॥
द्वे स्रुती अशृणवं पितृणामहं देवानामुत मर्त्यानाम् । ताभ्यामिदं विश्वं भुवनꣳ समेत्यन्तरा पूर्वमपरं च केतुमिति वा वल्मीकवपायामवनयेत् ॥ १३.८.३० ॥
स्वयं वा पिबेत् । सर्वहुतां वा जुहुयात् ॥ ३१ ॥
दक्षिणाग्नौ प्रबध्य शतातृण्णाꣳ स्थालीं वितत्य धारयन्ति । शतातृण्णेन सौवर्णेन रुक्मेणापिहिताम् ॥ ३२ ॥
पितरो मदन्ताꣳ सोमप्रतीका व्यशेम देवहितं यदायुः। इन्द्रपीतो विचक्षणो व्यशेम देवहितं यदायुः । यन्मे मनो यमं ( नः परागतं ) यद्वा मे अपरागतम् । राज्ञा सोमेन तद्वयमस्मासु धारयामसि व्यशेम देवहितं यदायुरिति तस्यामेव सुरावशेषमवनयेत् ॥ ३३ ॥
स्रवन्तीः पितृमतीभिर्याज्यानुवाक्याभिरुपतिष्ठते ॥ ३४॥
त्वꣳ सोम प्रचिकितो मनीषेति ॥ (ख० २६) ॥ तिसृभिः पुरस्तादध्वर्युरुत्तराभिस्तिसृभिर्दक्षिणतो ब्रह्मोत्तराभिस्तिसृभिः पश्चाद्धोतोत्तराभिस्तिसृभिरुत्तरत आग्नीध्रः कव्यवाहिनीभिस्तिसृभिः। अत्र शतातृण्णां स्थालीं निदधाति । ब्राह्मणो राजन्यो वैश्यो वा नाऽऽद्रियेत । दक्षिणमग्निं... प्रणयितुꣳ स्वयमेतꣳ सुरावशेषं व्रतयन्नासीत ॥ ३५ ॥
पशुभिः प्रचर्य पुरोडाशैः प्रचरति ॥ ३६॥
पशूनां पुरोडाशानां च समानꣳ स्विष्टकृदिडꣳ सꣳस्थाप्य ॥३७॥
शूलैर्मासरेण पात्रैश्चावभृथमवयन्ति॥३८॥
तस्य सौमिकेनावभृथेन कल्पो व्याख्यातः ॥ ३९ ॥
न साम गीयते ॥ १३.८.४० ॥
तूष्णीमेव परेत्य मासरमृजीषकल्पेन प्रतिपादयति ॥४१॥
यस्ते देव वरुण गायत्रच्छन्दाः पाशो ब्रह्मन्प्रतिष्ठितस्तं त एतेनावयजे तस्मै स्वाहेत्याश्विनपात्रं प्रविध्यति । यस्ते देव वरुण त्रिष्टुप्छन्दाः पाशः क्षत्त्रे प्रतितिष्ठितस्तं त एतेनावयजे तस्मै स्वाहेति सारस्वतस्य । यस्ते देव वरुण जगतीछन्दा: पाशो विशि प्रतिष्ठितस्तं त एतेनावयजे तस्मै स्वाहेत्यैन्द्रस्य । यस्ते देव वरुणानुष्टुप्छन्दाः पाशो दिक्षु प्रतिष्ठितस्तं त एतेनावयजे तस्मै स्वाहेति शतातृण्णाꣳ स्थालीम्। यस्ते देव वरुण पङ्क्तिच्छन्दाः पाशो वाचि प्रतिष्ठितस्तं त एतेनावयजै तस्मै स्वाहेति शूलान् ।। ४२ ॥
तूष्णीं प्रत्यायनं क्रियते ॥ ४३ ॥
सोमवामिनं याजयेत् । सोमातिपवितं याजयेत् । राजानमवरुद्धं ग्रामकामं प्रजाकामं पशुकामश्रिया प्रत्यभिरूढमभिचरन्वा यजेत । सर्वेष्वभिषेकेष्वाम्नाता । तया ब्राह्मणो राजन्यो वैश्यो वा भूतिकामो यजेत भूतिकामो यजेत ॥ (ख०२७)॥४४॥
इति सत्याषाढहिरण्यकेशिसूत्रे त्रयोदशप्रश्नेऽष्टमः पटलः ।
इति हिरण्यकेशिसूत्रे त्रयोदशः प्रश्नः॥१३॥

सत्याषाढविरचितं श्रौतसूत्रम्- [१३प्रश्ने

प्रयोगवैनन्त्यास्तु मालायाः सूत्रसंस्थितेः । न्यायसूत्रस्येह कृतो निर्णयः कौस्तुभो मणिः ॥ मध्यगो यज्ञवपुषस्तुष्येऽस्तु मयाऽर्पितः । गृह्णाति हि किमप्येष भक्तैर्ययत्ततः कृतम् । ... इति सत्याषाढहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयो गचन्द्रिकायां द्वादशननेऽष्टमः पटलः || इति द्वादशप्रश्नव्याख्या समाप्ता ।

13.1 अथ त्रयोदशप्रश्नप्रारम्भः ।

तत्र प्रथमः पटलः ।

विनेययुक्ताखिलसिद्धवर्यलसच्चिदानन्दसुखं मुनीन्द्रम् । नमामि सूत्रार्थविदे मुदाऽहं हिरण्यकेश्याख्यगुरु कृपाब्धिम् ।। . गुरुं गणपतिं नौमि जन्मज्ञानप्रटो तथा । सह गौर्या महेशानं नौमि विष्णुं च पद्मया ॥ एकादशद्वादशयोाख्यातश्चयनक्रतुः। ... वाजपेयराजसूयो वक्ष्येते तु त्रयोदशे ॥ एवं तावत्सर्वज्योतिष्टोमः (सं० श्री०१-१) इति सत्रकृन्यायसूत्रे प्रदर्शितः । सर्वकामोऽग्निष्टोमः । ( स० औ० ७-१) इत्यादिना सूत्रकारेणाग्निष्टोमशब्देन वक्ष्यमाणसवैकाहाहीनसत्रमूलप्रकृतिभूतासिटामसंस्थां व्याख्यायोक्थ्यः षोडश्यतिरात्रोडतोर्यामश्चाग्निष्टोमस्य गुणविकाराः ( स० औ० ७-१८ ) पञ्च संस्थाश्च व्याख्याताः । अथेदानी षोडशिगुणविकार भूतामवशिष्टामेकां वाजपेयसंस्थां व्याख्यातुं शिष्यावधानाय प्रतिज्ञानीते

शरदि वाजपेयेन यजेत ॥ १ ॥

वाजो देवानरूपः सोमः पेयो यस्मिन्याने स वाजपेय इत्येक निर्वचनम् । यस्मा. देतेन यज्ञेन देवा वाजं फलरूपमन्नमाप्तुमैच्छंस्तस्मादन्नरूपो वाजः पेयः प्राप्यो येन स वाजपेय इत्यपरं निर्वचनम् । वाजपेय इति कर्मनामधेयम् । न हि द्रव्ये गुणे वा प्रसिद्धिरस्य । स च शरदि भवति । शरदि वाजपेयेन यजेत, इति सूत्रान्तरेऽपि वचनात् । १ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । १२८ अत्र संभारानाह बौधायन:-' वाजपेयेन यक्ष्यमाणो भवति । स उपकल्पयते कृष्णाजिन५ सु( सौ )वर्णर( रा ) जतौ च रुक्मौ बस्ताजिनः शतमान५ हिरण्य५ सप्तदश सुवर्णानि कृष्णलानि हिरण्यपात्र मधोः पूर्णमौदुम्बरी ५ रथचक्र५ सप्तदशार ५ सप्तदशफलका च श्रिति यूपं च तूपरं चतुरनि सप्तदशारनि गोधूमकलापीमुष्णीष नेवार सप्तदशशराव५ सप्तदशोषपुटान्सप्तदश वायव्यानि सप्तदश पृथुबुनानुपयामान्सतं च वालं च सप्तदश निष्कान्सप्तदश वसनानि सप्तदश वासोभारान्सप्तदश स्थान्त्सप्तदश दुन्दुभीन्त्सप्तदश हस्तिनः सप्तदश दास्यः सप्तदशानासि युक्तानि सप्तदश गवार शतानि वयसो वयसो वा सप्तदश सहनं वा । तस्मिन् हि सर्वाणि वयाशस भवन्ति । चतुर्विशतिं पशूनेकपञ्चाशतमश्वान्रवादिरी वितृण्णी वधैर्ग्यताम् । ज्ञाता आग्निष्टोमिकाः संभाराः । स ग्रीष्मस्य जघन्य ह.सु पुरस्तादापाढ्यै पौर्णमास्यै दक्षिते ' ( बौ० श्री. ११-१) इति । वाजपेयौ द्विपकारी, आप्तवाजपेयः कुरुवाजपेयश्च । अस्मिन्कतो नाग्निचयनम् । चिन्वीत वाजपेयेऽग्निमिति बौधायनः । न चिन्वीतेति शालीकिः ( बी. द्वै. सू. २२-१२) इति प्रतिषेधवचनात् । केचिदनापीच्छन्तीति च्छन्दोगमताचयन कार्यमिति । ज्योतिष्टामसंस्थाभूतोऽपि वाजपेय इति वैखानसोक्तेः । आपस्तम्बेन तु कत्वन्तरत्वेन वाजपेय उक्तः । कत्वन्तरत्वं वाजपेयस्य द्विप्रकारत्वं च । तत्राऽऽप्तवाजपेयः प्रथम उच्यते ॥ १ ॥ ___ तत्र वाजपेयेऽधिकारविधिमुन्नयति -

ब्राह्मणो राजन्यो वा ॥२॥

यतो बृहस्पतिनाऽनुष्ठितः, यतो देवानां मध्ये बृहस्पति मणजात्यभिमानी । ब्राह्मणबृहस्पत्योर्बह्मसंबन्धादकरूप्यम् । ब्रह्मादीते वेद वा ब्राह्मणः इति व्युत्पत्तेः । इन्द्रेणाप्यनुष्ठितः । यतो देवानां मध्य इन्द्रः क्षत्रियजात्यभिमानी । इन्द्रराजन्ययोः क्षत्रसंबन्धादेकरुप्यम् । क्षत्रं नाम बलं तद्भावानुभयोः । अतो मनुप्येष्वपि ब्राह्मणराजन्ययोरेवाधिकारो नतु वैश्यस्य । अत एवाऽऽपस्तम्ब आह-शरदि वाजपेयेन यजेत । ब्राह्मणो राजन्यो वर्द्धिकामः' ( आप औ० १८-१) इति ॥ २ ॥

तस्य षोडशिना कल्पो व्याख्यातः॥ ३ ॥

तस्य वाजपेयस्य पोडशिवकल्पो विधिः । षोडशिनो विद्यमानत्वात् । प्रयोजन सोमविक्रयकाले-शुण्ठ्याऽधीलोधकर्णया सोमं क्रीणाति, इति । अथवा-सप्तदशदीक्षापक्षे शरदि दशम्यामुपक्रमः | त्रयोदशदीक्षापक्षे चतुर्दश्यामुपक्रमः । उभयोः पर्वणोः

१२. श्रुतिमिति पाठः। सत्यापादविरचितं श्रौतसूत्रम्- १३ प्रश्ने

सुल्या भवति । अथ प्रातराग्निहोत्र हुत्वाऽऽप्तेन वाजपेयेन यक्ष्य इत्युक्वा प्रजापतिमवाभवानीत्युक्त्वा फलनिर्देशः । ऋद्धयर्थमिति वा । नित्यो वा नित्यवदेके समामनन्ति, इति वचनात् । नित्ये च नित्यवत्फलानिर्देशः । अन्नार्थमिति वा । विद्युदसि सोमप्रवाकवरणादि षोडशिवत् । सोमक्रयणकाले शुण्ठ्या क्रयणम् । एषेति निर्देशः, तस्या आत्मा भूयो वाऽतः, इति सोमविक्रयिणोक्तेः । एकोनशतेन ते क्रीणानीति विशेषः । अस्मे ज्योतिरित्यादि ॥ ३॥

सप्तदशः सर्वो भवति ॥ ४ ॥

सर्वस्तोमानि सप्तदशस्तोमानि भवन्ति ॥ ४ ॥ ... 'अथवा फलसंयोगश्रुतेर्वा कल्प्यं फलमाह -

प्रजापतिमाप्नोति ॥ ५॥

प्रजापतिमानोतीति । प्रजापतिस्थानमाप्नोति । प्रजापतिर्वा भवति ॥ ५ ॥

सप्तदश दीक्षाः। तिस्र उपसदः । एकविंशतिं(शीं) प्रसुतः॥६॥

सोमो भवतीति प्रतिपद्यारम्भः । एकविंशतिरात्रं प्रत्यभिषुतः सोमो भवतीति त्रित्वविधानाचोपसदां नाग्निचित्येत्यर्थः । छन्दोगमतात्तस्मिन्पक्ष एकविंशीमित्यनुवादो ब्राह्मणपाठात् । तस्य त्रयोदश दीक्षास्तिर उपसदः सप्तदश्यां प्रसुतः । अपि वा सप्तदश दीक्षास्तिस्त्र उपसद एकविशत्या प्रसुतः । अपि वा तिस्त्र एव दीक्षास्तिस्त्र उपसदंर सप्तम्यां प्रसुतः (बौ० श्री० ११-१) इति बौधायनसूत्रम् । एकविंशी मिति वा कल्मान्तरम् । तथा चतुर्दश दीक्षाः षडुपसद एकविंशी प्रसुतो नाग्निचयनमेव ॥ ६ ॥

सप्तदशारत्निर्यूपो बैल्वश्चतुरश्रः खादिरः पालाशो वा गोधूमपिष्टचषालोऽपि वा तूपरः ॥ ७ ॥

लोऽपि चतुरश्नो नाष्टाश्रिः । प्रतिदिशं चतस्रोऽश्नयः । गोधूमं चषालमिति चोभयथा श्रुत्यपिपत्तर्विकल्पः । गोधूमपिष्टचषालं तु बहुप्राकृत लभ्यतेऽश्रियादिकम् । अथवाप्रवर्येण प्रचर्योपसदा चरन्तीत्यादि यूपकाले खादिरं यूपं करोति, बैल्वं वा सप्तदशा रनिर्भवति चतुरश्रिः, गोधूमपिष्टेन चपालः । नास्त्यतिरिक्त तूपर इति श्रुतेः । युपस्य स्वरवस्त्रयोविश्शतिः । एक एव यूपः । केचिऋतुपशूनामेकमेव स्वरं कुर्वन्ति । तदैकविशतिरेव । यहा प्रतिपशु तदा त्रयोविंशतिः ॥ ७ ॥

यत्प्रागुपसद्भ्यस्तस्मिन्कृते प्रतिप्रस्थाता सुरायाः कल्पेन परिस्रुतꣳ सुराꣳ संदधाति ॥ ८ ॥

१.ख. सोमक्रयकाले। १ पटलः ] महादेवशाखसंकलितमयोग चन्द्रिकाव्यार यासमेतम् । १२९

या ते अग्ने रुदिया तनूरिति मार्जनान्ते कृते प्रतिप्रस्थाता सुरां संदधाति, यज्ञार्थं सुरां कल्पयतीत्यर्थः । लौकिकी वा पयोग्रहा वा सौत्रामणीवत् । कली मद्यपाननिषेधात् । सौत्रामणीवदैष्टिकी वा सौमिकी वा । ऐष्टिकी सौत्रामण्यां प्रपश्चिता तद्वदिह सौमिकी कि क)यादिधर्मयुक्ता । ऐष्टिकी सोमे(सीसे)न क्लीवादि त्यादि तदानीमेव कृत्वा सुरेष्टयादिसंधानान्तम् । अत्र प्रजापतये त्वा जुष्टं निर्वपामीति सामादि सौत्रामणीवत् । लौकिकी वा । सौमिकीपक्षे क्रयादिधर्मा नार्थलुप्ता भवन्ति । सुराप्रकृतिवेप्या (तिवाद्ध शप्पा)दौ सोमग्रहकवाक्यत्वात्सोमबहाश्च सुराग्रहाश्चेति श्रुतेः । वेदिमानकाले द्विपदप्रक्रमेण वदिमानम् । सदो विमानकाल ऐन्द्रमसीति पञ्च च्छदीषि, विश्वननस्य च्छायेति पञ्च, इन्द्रस्य सदोऽसीति सप्त, वैष्णवं खनामीत्येकवदुपरवमन्त्राः । खनने को तेन(तरे) पांसुभिः प्रतिप्रस्थाता दक्षिणस्य हविर्धानस्याधस्तात्पश्चादक्ष सुराग्रहार्थं द्वितीयं चतुरश्रं खरं करोति । चात्वालादिष्णियानुपवपतीत्यादि ॥ ८ ॥

रशनाकाले सप्तदशभिर्वासोभियूपं परिवेष्टयति ॥ ९ ॥

अग्नीषोमीयस्य पशोः काल आगते, अणिमतः स्थविमतः प्रवीयेति कृत्वा सप्तदशवासोभियूपं परिवेष्टयति । प्रसारयतीत्यर्थः । अग्निष्ठस्य द्वाभ्यां रशनाभ्यां परिव्ययणमिति केचित् ॥ ९॥

अग्नीषोमीयस्य पशपुरोडाशं निरुप्य देवसुवाꣳ हवीꣳष्यनुनिर्वपति -- अग्नये गृहपतय इति यथासमाम्नातम् । पशुपुरोडाशस्य देवसुवां च हविषाꣳ समानꣳ स्विष्टकृदिडम् ॥ १३.१.१० ॥

एतत्तन्नं भवत्येव ॥ १० ॥ अथ कर्मादौ सावित्रहोममाह -

देव सवितः प्रसुव यज्ञं प्रसुव यज्ञपतिं भगायेति सवनादौ सवनादौ जुहोति ॥ ११ ।

वीप्सया सर्वकर्मादौ कर्तव्यत्वमभिधीयते । पां कर्मणामादौ सावित्रहोमः कर्तव्यस्तानि कर्माणि ब्राह्मणेन संगृहीतानि - सवने सवने जुहोति' (ते. बा० १-३-५) इति । तत्तत्कर्मादी बौधायनेनवोदाहृतम्-'दीक्षणीयां निर्वस्यन्सावित्रं जुहोति । दीक्षाहुती)प्यन्सावित्रं जुहोति । प्रायणीयां निर्वस्यन्सावित्रं जुहोति । (बौ० श्री० ११२) इति । स्वदाति नः स्वाहेत्यन्तः । सविता देवता ।। ११ ।।

हिरण्यमालिन ऋत्विजः सुत्येऽहनि प्रचरन्ति ॥ १२ ॥

महारा। वुद्ध्वाऽऽधन्य सदस्यवर्जत्विजो हिरण्यमालिनो भवन्ति । यजमानोऽपि १३० सत्यापाढविरचितं श्रौतसूत्रम्- [१३ प्रश्ने

हिरण्यमालीति केचित्। केचित्सदस्यस्य नेच्छन्ति। सदस्यो नित्यः। सदस्यः सप्तदशः पृथग्वृणीतेति च्छन्दोमवचनात्॥१२॥

पात्रसꣳसादनकाले यथार्थं पात्राणि प्रयुनक्ति । ऐन्द्रस्यातिग्राह्यपात्रस्य स्थाने पञ्चैन्द्राण्यतिग्राह्यपात्राणि प्रयुनक्ति ॥१३ ॥ ( तेषां पूर्वेण) तेषामैन्द्रेणातिग्राह्यपात्रेण कल्पो व्याख्यातः ॥ १४ ॥ षोडशिपात्रं प्रयुज्य सप्तदश प्राजापत्यानि सोमग्रहपात्राणि प्रयुनक्ति ॥ १५॥ तेषाꣳ षोडशिपात्रेण कल्पो व्याख्यातः । पश्चादक्षं प्रतिप्रस्थातोपयामानि सप्तदश सुराग्रहपात्राणि क्रतुकरणो यथाऽतिरात्रे सोमग्रहकाल उपयामगृहीतोऽसि नृषदं त्वेति पञ्चभिरैन्द्रस्यातिग्राह्यस्य स्थाने पञ्चैन्द्रानतिग्राह्यान्गृह्णीयात् ॥ १६ ॥ तेषामैन्द्रेणातिग्राह्येण कल्पो व्याख्यातः । षोडशिनं गृहीत्वा सप्तदश प्राजापत्यान्सोमग्रहान्गृह्णाति ॥१७॥ तेषाꣳ षोडशिना कल्पो व्याख्यातः । कुविदङ्गेति सर्वेषामेका पुरोरुगया विष्ठा जनयन्कर्वराणीति ॥ (ख०१)॥ उपयामैः प्रतिप्रस्थाता सप्तदश सुराग्रहान् । विपरीते ग्रहण्यावेके समामनन्ति ॥ १८ ॥ व्यतिषङ्गं गृह्णीतः पूर्वोऽध्वर्युरपरः प्रतिप्रस्थाता। पुरोक्षꣳ सोमग्रहान्सादयति। पश्चादक्षꣳ सुराग्रहान् ॥ १९ ॥

पात्र सादनकाले प्राप्ते, ऐन्द्रातिग्राह्यपात्रं पात्रप्रयोगात् । ऐन्द्र प्रयुता(ज्य) तस्योतरतः पञ्च पात्राणि प्रयुनक्ति । तेषां कल्पो व्याख्यातो वृक्षस्थानादिः सौर्यातिग्राह्यपात्रप्रयोगादिः । पोडशिपात्रं प्रयुज्य प्रजापतिदेवत्यानीति संकल्प्य, हो(सो)मग्रहार्थानि प्रयुनक्ति । तेषां मतकल्पे वृक्षनियमश्चतुरश्रता च । अपरास्मिन्खरे सुराग्रहार्थे प्रयुनक्ति सप्तदशोपयामान्यूर्ध्वपात्राकृतीनि शुल्वकोशाकृतीनि तेजन्तरकृतीनि वा प्रयुनक्ति । ग्रह गृह्णाति परिप्लवया प्रयोगादि ऐन्द्राप्तिग्राह्यतिग्रहणात्कृत्वा-उपयामादीनि गृह्णाम्यन्तराणि त्रीणि यऋषि ग्रहणार्थानि । ये ग्रहा अपार रसमुद्यसमिति द्वे उपरिष्टादुपयामया, उप

१क. तेषां मते ख. तेषामत्र । १ पटलः ] महादेवशास्त्रिसंकलितमयोगचन्द्रिकान्याख्यासमेतम् । १३१

यामगृहीतोऽसीत्येवमन्ते रवमपञ्चभिर्मन्त्रैः पञ्चालिग्राह्यान् गृह्णाति । एष ते योनिरिलाय वेति गृहीत्वोपसादयति । तेषां कल्पोग्रहावकाशादिौ)ऐन्द्रवत् । पोडशिनं गृह्णाति अया विष्ठा इति गृह्णामीत्यन्तया । (एवं) सप्तदशापिं गृह्णाति । एष ते योनिः प्रजापतये त्वेति सादयति । सोमनहा इति ते नाम तेषां कल्पे सानुमन्त्रणादि घोडशिवत् । कुवि . दङ्गेति गृह्णाति । अपरस्मिन्सुराग्रहार्थे खरे उपयामैः पूर्वच (श्च) तैः पात्रैः सुराग्रहान्गृह्णाति । कुविदङ्गेत्यनुपयामया । ओषधिधिकारक्षेऽपूर्वत्वे च । सोमविकारत्वे सोपयामया विपरीतेनाऽऽमनन्ति । कुविदङ्गेति सोमग्रहणात् । अया विष्ठा इति सुराग्रहाणामुपयामसादने सोमग्रहेष्वेव । नौपधिविकारत्वेऽपूर्वत्वे च सुराग्रहाणां सोमविकारत्वं तूपयामसादनं च तन्मन्त्रवद्भवति व्यतिषङ्गः । गृह्णात्यध्वर्युः सोमग्रहान्प्रतिप्रस्थाता सुराग्रहान् सप्तदशापि पूर्वोऽध्वर्युः पश्चात्प्रतिप्रस्थाता । एवं नियमः परोक्षं सोमग्रहा नित्यानुवादः । यथायतनं ब्राह्मणपठितत्वात् ।।१३।।१४॥१५॥१६॥१७॥१८॥१९॥

पशुकाले त्रीन्क्रतुपशूनुपाकरोति । मारुतीं पृश्निं वशामुपाकरोति । सारस्वतीं च । मेषीमपन्नदतीम् । मेषमित्येकेषाम् । सारस्वतीं च मेषम् ॥१३.१.२०॥

पशुकाले प्राप्ते त्रीन्क्रतुपशूनुपाकृत्य, आग्नेयमैन्द्राग्नमैन्द्रं वृष्णिमुपाकृत्य समुच्चयदर्शनान्नाऽऽनेयं पशुमिति सूत्रान्तरे | मारुती वशा वन्ध्या गौः । सरस्वतीदेवता च मेषी ' वाग्वै सरस्वती ' (ते. ब्रा० १-३-४ ) इति वाक्यशेषात् । अपन्नदतीमप. तितदन्ताम् । प्राग्वा मारुत्याः सारस्वती मेषी 'सारस्वत्याऽतिरात्रम् ' (तै० वा. १-३-४ ) इति । सारस्वतं चैकरूपं सरस्वान्देवता शाखान्तरे वाक्यशेषात् । तानेतान्पशुविधीन्बौधायन उदाहरति-आश्विनं गृहीत्वा षडूशना आदाय यूपमभ्येति स्वर्वन्तं यूपमुत्सृज्याथैनान्पशूनुपाकरोति-आग्नेयमैन्द्राग्नमैन्द्रं मारुती क्शामिति । आपस्तम्बस्त्वाग्नेयादीनां चोदकप्राप्तानामनुवादं मत्वा मेषीमारुत्योर्विधिमुदाहरति-'पशुकाले त्रीऋतुपर्नुपाकृत्य मारुती वशामुषाकरोति । सारस्वतीं च मेषीम्' ( आप. श्रौ० १८-२-१२ ) इति ॥ २० ॥

सप्तदश प्राजापत्यान्पशूनुपाकरोति ॥ २१ ॥

वाजपेये प्राजापत्याः पशवः सह क्रियन्ते तत्रोपाकरणनियोजनादयः संनिपातिनः प्रतिपश्वावर्तनीयास्तेषां चाऽऽवृत्तिन)कस्य पशोः कात्स्न्येन कृत्वाऽपरस्यापि तथैव क्रियत इत्येवम् । किं तर्हि सर्वेषां यतः कुतश्चित्पशोरारभ्य कृत्वा ततो नियोजनमिति वक्ष्यामः । तत्रोपाकरणं यतः कुतश्चित्पशोरारभ्य यत्र क्वचित्समाप्यते । नियोजनादी १३२ सत्याषाढविरचितं श्रौतसूत्रम् । १३ प्रोतु.

नु संदेहः किं तत्राप्यनियम उत येन क्रमेण पाकरणं प्रवृत्तं स एवोत्तरत्रापति नियामकाभावात्प्रथमवद्वितीयादावप्यनियमः । ... प्रवृत्त्या वा नियम्येत प्रत्यासत्तेरनुग्रहात् । ....... अन्यथा व्यवधानं स्यादनुज्ञाताधिकैरपि ॥ . . - एकैकस्य हि पशोः पदार्था मिथः प्रत्यासन्नाः कर्तव्याः । वैश्वदेवीं कृत्वा प्राजापत्यैश्वरन्तीति वचनावगतपश्चन्तरसाहित्यबलादन्यदीयः षोडाशभिः पदाथैऱ्यावधिर्मनुजानाति नाधिकैः । प्रवृत्त्या च क्रमनियमे तावद्भिरेव व्यवधानं भवत्यन्यथाऽधिकैरपि स्यात् । तस्मात् प्रवृत्त्या नियमः ।। वाजपेये प्राजापत्याः पशवः 'वैधवीं कृत्वा प्राजापत्यैश्चरन्ति' इत्यकस्मिन्काले विहिताः सह प्रयोक्तव्याः । तेषामारादुपकारकाणां तन्नं द्रव्यसंस्कारास्तूपाकर णनियो. जनादयः प्रनिपशु भेदेन कर्तव्याः । ते किमैकेकस्य काम न कृत्वा ततोऽपरस्य कर्तव्याः किंवोपाकरणं सर्वेषां कृत्वा ततो नियोजनमिति । एकैको हि पशुः स्वाङ्गान्यव्यपेतान्यपक्षते । चोद कोऽप्येवमेवातः काण्डानुम्मयो भवेत् ॥ प्रयोगवचनावगतसाहित्यवलेन होकैकस्य पशोधर्माः संश्लिष्टाः कर्तव्याः प्रकृती चौपाकरणादीनामानन्तर्य कृतमिहापि प्रतिकर्मावसायिमा चोदकेन प्रतिपशु प्राप्यते । अत एकस्योपाकरणादिकं सर्व गुणकाण्डं कृत्या ततोऽपरस्य कर्तव्यम् । वाचनिकं. तु साहित्यमारादुपकारकतन्त्रत्वादप्युपपन्नम् । उच्यते वचनेनैककालत्वं पशूनामिह चोदितम् । ... . न तत्प्रयोगवचनाचोदकाद्वाऽपि बाध्यते ॥ .. ____ काल्पनिक प्रयोगवचननिबन्धनं साहित्यं चोदकं चानुमानम् । प्रत्यक्षवचनेन तु वैश्वदेवीं कृत्वा प्राजापत्यैश्चरन्ति, इत्येककालप्रयोगः पशूनामवगम्यते । यस्मिन्नेव. क्षण एकम्योपाकरणं कर्तव्यमापतति तस्मिन्नेवापरस्योपाकरणं कर्तव्यं सदशक्यतया केवलं न क्रियते । द्वितीये तु क्षणे न कश्चिद्धेतुर्येन पश्चन्तरं नोपाक्रियेतातः प्रथम पदार्थ सर्वेषां कृत्वा ततो द्वितीयादिः कर्तव्यः । एवं दर्शपूर्णमासादिष्वनेकप्रधानसमयाचे पदार्थानुसमय एव न्यायो न तु काण्डानुसमय इति स्थितम् । यत्र तु प्रधानविरोधो भवति पदार्थानुसमये तत्र काण्डानुसमय एवेति । यथाऽश्वप्रतिग्रहेष्टौ शते सहस्र वा पुरोडाशेषु श्रप्यमाणेषु यदि सर्वेषामधिश्रपणं कृत्वाऽऽधस्योद्वासनं क्रियेत तंतः स दह्येत । तस्मात्तत्र प्रधानविरोधेन न पदार्थानुसमयः । (५-२-२१) ॥२१॥ १ पटलः ] महादेवशास्त्रिसंकलितपयोगचन्द्रिकाव्याख्यासमेतम् । १३३

तेषु पशुषु गुणद्वयं वाक्यभेदमङ्गीकृत्य विधत्ते-

श्यामास्तूपरा एकरूपा इव भवन्ति ॥ २२ ॥

पशूनामेकरूपत्वं नामकविधशङ्गपुच्छादिभिर्युक्तत्वम् । एवमिव हि प्रजापतिः समृद्धौ (ले० प्रा० १-३-४) इति शेषात् । प्रजापतिशब्देनात्रेश्वरस्य हिरण्यगर्भशरीराद्यभिव्यक्तेः प्रागवस्था विवक्ष्यते । सा चावस्था श्यामेव भवति । 'तम आसीत्त. मसा गूढम्' इति श्रुतेः । जगद्रूपस्य नानात्वस्यानुत्पत्तरेकरूपत्वम् । 'एकमेवाद्वितीयम्' इति श्रुतेः । पशूनां जगदीश्वरेण साम्ये सति समृद्धिर्भवति ॥ २२ ॥

पर्यग्निकृतानाꣳ सारस्वत्यन्तान्पूर्वानालभन्ते । सारस्वतप्रभृतीनुत्तरान्धारयन्ति ॥ २३ ॥ सर्वेषां प्रतिपशु बर्हीꣳषि वपाश्रपण्यः कुम्भ्यो हृदयशूलाः प्लक्षशाखाश्च तन्त्रमग्नेर्हरणमध्रिगुरुत्तमप्रयाजस्तथा पूर्वः परिवप्योऽतन्त: संज्ञप्तहोमो रशनामुदसनमुत्तरः परिवप्यः । वपाश्रपणीनामनुप्रहरणमभिहोमो मार्जनं वरदानं च ॥ २४ ॥

पर्यग्निकृतानामानेयमैन्द्राग्नमैन्द्रं मारुतसारस्वत्यन्ता-पशून्पूर्वानालभन्ते । त्रिवृता यूपरशन परिवीयेत्येवमादिपाठ्यमानहोमेषु कृतेषु प्रतिनिवृत्ते चाऽऽन्नीचे । सारस्वत्य. न्तानां ये बध्यमानमित्येवमादिसारस्वतादीनष्टादश धारयन्ति यूपदेशस्थान एव धारयन्ति । अधिंगु प्रतिपशोः, तरयेति लिङ्गात् । प्रतिपशुरिति सूत्रान्तरात् । ऋतुपश्वर्थ आरम्भः, अनैकादशिनप्रकृतत्वात् । __ अत्रेय पद्धतिः-अग्नीदग्नीन्विहर प्रतिप्रस्थाता पशुभिरेहि इति आश्विनग्रहं गृहीत्वा त्रिवृता यूपं परिवीय दिवः सूनवः स्थेति स्वरूणां सहाऽऽदाय तन्त्रेण गृहनं सर्वस्वरूणाम् । अन्तरिक्षस्य सानाववगृहामीत्यवगृहनम् । अथ स्नपन पशूनाम् । आग्नेय. मुपाकृत्य बर्हिषि प्रज्ञाते निदधाति । सैव प्लसशाखा सर्वत्र । अन्ये बहिषी । ऐन्द्राग्नम्, ऐन्द्राग्नपशुमुपाकृत्य, ऐन्द्रं वृष्णिमुपाकृत्य वशा वभ्या गौश्छागी वा मरुद्भ्यस्त्वा जुष्टमुपाकरोमीति गोप्रतिनिधित्वेन च्छागवन्ध्या तदभावे प्रसता उत्रा छागा मेषी इत्यन्योन्यस्य प्रतिनिधय इति बौधायनः । ( गोप्रतिनिधित्वेन च्छागवन्ध्या ) गोशब्दे. नोत्राशब्देन वा निगमाः । आश्वलायनसूत्राच । मेषी अपन्नदती, सरस्वत्यै त्वा जुष्टमुपाकरोमि ( मेष वा सरस्वत्यै त्वा जुष्टमुपाकरोमीति । ) प्राजापत्याः शृङ्गहीनाः श्यामवर्णास्तान् । प्रजापतये त्वा जुष्टमुपाकरोमि, इति क्रमेण सप्तदशानां प्रागेवोपाकर सत्यापादविरचितं श्रौतसूत्रम्- [१३ प्रश्नेण

मताप्लवपन्ने णात्पत्रे)षु आग्नेयैन्द्राग्न इत्यादि प्राजापत्यानां प्रथमो द्वितरितृतीय इत्यादि चिहानि कृत्वा पादवद्धयो(देषु . बद्ध्वो)पाकरणम् । एवं कुम्भीशूलवपानपणीनां चिह च । उपाकृत्य पञ्च जुहोति । प्रजानन्तः सुभगं याहिं पथिभिः, ओषधीषु प्रतितिष्ठ शरीरैः, येषामीशे, विष्का ---इमे यज्ञियं भागमेतु ये बध्यमानमनुबध्यमाना, य आरण्याः मुश्चमाना उपाकृताञ्छशमाना यदस्थाज्जीवन्देवानामपि यन्तु पाथः । अग्नेर्भनित्रमसीत्यभिहोमान्तम् । सावित्रेण रशनामादायेत्यादि अग्नये त्वा जुष्ट नियुनज्मि, इन्द्राग्निभ्यां त्वा, इन्द्राय त्या जुष्टं नियुनज्मीति त्रयाणामुत्तरतो नियोजनम् । दक्षिणत इतरेषाम् । मरन्यस्त्वा जुष्टं दियुनज्मि सरस्वत्यै त्वा ( सरस्वते त्या जुष्टं ) प्रजापतये त्वा जुष्टं नियुनज्मीति सप्तदशानां नियोजनं क्रमेण, सर्वत्र वर्षा मानुष,त् । (न) (धर्मानुष्ठानम् । ) अद्भयस्त्वोषधीभ्यः प्रोक्षाम्यग्नये त्वा जुष्टं प्रोक्षामीत्यादि । इन्द्राग्निम्यां त्वा, इन्द्राय त्वा मरुद्भन्यस्त्वा सरस्वत्यै त्वा (सरस्वते त्वा) प्रजापतये त्वा जुष्टं प्रोक्षामीति सदशानाम् । एवं क्रमेण पेरुरासि स्वात्तमिति च । एवं क्रमेण स्वात्तं चित्सदेव हव्यः स्वदितैनमिति वशामेष्योः । अयं वेद इत्यादिनुच्यमाघार्य प्रत्याक्रम्य सं ते प्राणः; संयजत्रे सं यज्ञपतिराशिषेति पदार्थचतुष्टयं क्रमेणकै. कस्य कृत्वा सर्वमुत्तरषां ध्रुवासमञ्जनादि, दश प्रयाजानिष्ट्वा प्रयाजशेषेण स्वरुं स्वधितिनाऽनक्ति । सर्वपशूनां क्रमेणाञ्जनम् । अग्नीषोमीयस्वरुणाऽऽग्नेयमनक्ति । स्वरुमुपगृह्य पुनः स्वधित्यञ्जनम् । ततः (पुनः) कंचित्स्वरुपादाय द्वितीयमनक्ति । पुनरुपगृह्य न स्वधिल्यञ्जनम् । अन्यमादाय तृतीयमनक्ति उपगृहनान्तम् । एवं सर्वाननक्ति । पर्यग्निकरण तन्त्रेण प्रत्यपिसृज्य, प्रजानन्त इति पूर्ववदूहः पशुपतेः पशवः । तेषां यान्वत्रिरे देवा५ स्वराडनुमन्यताम् । तन्त्रेण विमोकः, विमुच्यमाने ये बध्यमानाः, ऊहेन रेवतीर्यज्ञपतिमित्यादि तं दक्षिणेन प्रत्यञ्चमित्यन्तमकैकस्य कृत्वा क्रमेणेतरेषां ता(स्वाभ्यां वपाश्रपणीम्यामन्वारम्भः । आश्राव्य प्रत्याश्राविते, उपप्रेष्य होतरजैदग्निीरत्यध्रिगुः, उल्मुकाहरणं शामित्रार्थम्। ओवध्यगोहं खननानां कृ(प्र)तिपादावेवाऽऽवर्तते प्रमुञ्चमाना नयनभेदान्नानाप्राण इत्यूहेन । केचिदावृत्तिः सर्वेषां पशूनां दर्भास्तरणं क्रमेण, पृथिव्याः संपूच इति । आमायून्कृण्वन्तु संज्ञपयत इत्युक्त्वा पराङ्ङावर्ततेऽध्वर्युः स्वर्विदः स्थ स्वर्वित्त्वा स्वरिता लोकविदः स्थ लोकवित् गातुविद स्थ गातुवित् नाथविदः स्थ नाथवित् । न वा उ वेता नियध्वे न रिष्यथ देवाँ इदेति पशुभिः । तत्र वो देवः सविता दधातु आशानां वाऽशापालेभ्यः । विश्वा आशा नोहः । अध्वर्युः, नानाप्राणो यजमानस्य पशुभिः । अपि यन्तु पाथः । यासां मूध इत्यस्य नोहः । इन्द्रस्य भागः, यो नो द्वेप्य( ध्य) नु त रभध्वं, रवस्वेत्येकस्य रवेथामिति द्वयोः । यदस्य पारे वासिढ्वं न्यषदत वेपिदवं पलायित्वं समजावं निमेहध्वं शकृत्कुरुताभयं कुरुत सर्वाभ्यो मृडत नमो रुद्राय १ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । १३५

मीढुषे इति बहुषु । वासिषायां न्यषादाथां वेपिषायां पलायिषायां समज्ञासाथां निमेहथां शकृत्कुरुतमभयं कुरुतं सर्वाभ्यो मृडतामति द्वयोः । एकस्य यथाप्रकृति । बहुषु निषगणेषु क्रमेणोत्थापनम् यथाजाति उच्छ एतिष्ठा उन्मे प्रतिष्ठा उद्वशात्तिष्ठा यत्पशतो मायुनकृतो रोसि वा पद्भिरानते । अग्निर्मादिषु नोहः । निष्टप्त इति सर्ववपाश्रपणीनां ताप: प्लक्षशाखया सह, शमितार उपेतन पाशेभ्यः पशून्मुञ्चत । अदितिः पाश इति क्रमेण विमोकः । ग्रीवासु निहितेषु पाशेषु मुख्यैव शूलया तन्त्रेण व्युद्वास्य ततः प्रतिप्रस्थाता पत्नीमुदानयति नमस्त आताना अनर्वा प्रेहीत्यावृत्तिः । पत्नीबहुत्वे-अ.पो देवीः शुद्धायवः, इति कृत्वा वाक्त आप्यायतामिति कृत्वा शुद्धाश्चरित्रा इत्यन्तमेकस्य कृत्वा क्रमेणेतरेषाम् । शमोषधीभ्य इत्यन्ते पशौ तन्त्रेण निनयनम् । ओषधे त्रायस्वैन. मित्याद्युत्कृन्तामीत्यस्यैकस्य कृत्वा क्रमेणेतरेषाम् । ओषधे त्रायस्वैनं स्वधिते मैन हि सी! रि ]त्यन्तं स्त्रीपशौ ( शोः ) । उभयतो लोहितेनाङ्क्तेत्यन्तमेकैकस्य कृत्वा संज्ञप्ते पशौ रक्षसां भागः स्थ इति लोहितं न तन्त्रेण निरसनं, इपे त्वेत्यादि अच्छिन्न अग्नये त्वा जुष्टमुत्कृन्तामि इन्द्राग्निभ्यां त्वा इन्द्राय त्वा मरुद्भयस्त्वा सरस्वत्यै त्वा ( सरस्वते त्वा ) प्रजापतये त्वा जुष्टमुत्कृन्तामीति सर्वत्र वपोद्धरणं शमिता मुष्टिना पिधानं करोति क्रमेण । तन्त्रेण प्रत्युष्टं क्रमेण समन्वारम्भो यजमानस्य निर्दग्धमिति तन्त्रेण प्रतिप्रस्थात्रे प्रदानं च । वायो वीहि स्तोकानामित्यावृत्त्या तस्य दर्भाग्रस्य वपाया उपासनं लङ्गनम् । अधःप्रासनं यैव आत्मनः पशुषु प्रविष्टा देवान विष्ठा मुनयो वितस्थिरे । आत्मन्वान्त्सोम घृतवान्हि भूत्वा देवान्गच्छयत सुविद यजमानाय मामिति तन्त्रेणाभिधारणम् । दृह गा दृहत गोपतिं मा वो यज्ञपती रिषत् । केचिद्यस्त आत्मेत्यविकारेण, ( इति ) । दृह गा तन्त्रेणोद्वास्य, सुपिप्पला ओषधीः कृणुतेति तन्त्रेण प्लसशाखायां सादयति । प्रयुता द्वेषासीति पर्यायेण प्रकृतिवदासन्नाभिमर्शनम् । इमानीन्द्रियाण्यमृतानि वीर्याण् भिरिन्द्रियं पशवो चिकित्सन् । ताभित देवा अवतोपमा शृतानि मयि श्रयताम् , इति । केचित्- इदमिन्द्रियमिति नोह इति । धृतवति शब्द इत्यादि स्वाहा देवेभ्य इति हुत्वा जुह्वामुपस्तीर्येत्यादि प्रदानान्तं सर्वेषां पशूनां कुर्यात् क्रमेण । अग्नये छागस्य वपाया मेदसोऽनुब्रूहीत्येवं प्रेप्य जातवेदः । द्वितीयस्य, इन्द्रा. ग्निभ्यां छागम्य वपाया मेदस एवं प्रेष्य जातवेदः । तृतीयस्य, इन्द्राय वृष्णेर्वपाया मेदसो. एवं प्रेष्य जातवेदः । चतुर्थस्य मरुद्भयो वशाया वपाया मेदसो, एवं प्रेष्य जातवेदः । सरस्वत्यै मेप्याया वपाया मेदसो, एवं प्रेष्य जातवेदः । सरस्वत्यै मेषस्य वपाया मेदसः, एवं प्रेप्य जातवेदः । पञ्चमः । अथ षष्ठस्य हिरण्यशकलानि निधाय सर्वत्र प्रजापतय इत्युपाशूक्त्वा छागानां वपानां भेदसामनुब्रू३हीत्युच्चैः । एवं प्रेष्य जातवेदो वपाभिर्गच्छ देवानित्यूहः । केचिन्नोह इति वदन्ति । आख्यानुवादा. ११३६ सत्याषाढावरचितं श्रौतसूत्रम्- [१३ प्रश्ने

त्तन्त्रेण होमः । सर्वेषां सांनाय्यवदनुमन्त्रणम् । सरस्वत्या वाचमन्नाद्य पुषेय'मित्यनुमन्त्रणम् । देवेभ्यः स्वाहेति तन्त्रेण परिवप्यहोमः । क्रमण वपोद्धरणाभिघारण, स्वाहोर्ध्वनभसं मारुतामति तन्त्रेण वपाश्रपणीनां प्रहरणम् । सश्स्रावहोमस्तन्त्रेण (मजापतये स्वाहा) प्राजापत्यप्रचारस्य चोपांशचैरथापिता इति । अत्र नोह इति सूत्रकारवचनात् । समुत्क्रम्य वपामार्जनं कृत्वा प्रातःसवनाय प्रसर्पन्तीत्यन्तमित्यादि ततस्ताम्यामित्यूतुपाने प्रतीक्ष्य तेजसो मे ग्रहावकाशकाले ग्रहणमुपस्थानं वीर्याय में वर्षोंदा वर्चसे पवध्वमिति तन्त्रेण विष्णोर्मठ रमसीत्यादि निःसर्पणान्तं सौमिकम् । .. माध्यंदिनस्य कर्म-देव सवितः -स्वदाति नः स्वाहा । सविता देवता । कलशोद्वर्तनं होतृचमसेन वसतीवरीभ्य इत्यादि ग्राव्णामनुमोदनान्ते प्रतिप्रस्थाता सवनीयान्निवपेत् । उक्तन प्रतिप्रस्थाता पशुपुरोडाशैः सह सवनीयानां निर्वपति पुरोडाशा नित्याः, पुनर. नुक्रमात् तस्य कर्म । ___ सप्तसप्ततिः कपालानि द्वे भर्जनार्थे कपाले स्थाली शूर्पत्रयं (द्वंद्वशरावमपि) प्रयु. नक्ति । कृष्णानिनादानादि सर्वं पूर्ववत् । (महकत्रियुगलादि) अथ वा पत्र्यस्तिस्त्रः पात्राणि समृश्य वा न प्रस्थ(स्तर) मृत्तिकास्थौदक्षायवमित्यग्निहोत्रणी शरावं चेति युमपदादत्ते । वेषायव इति शूर्पत्रयं शूर्ये पवित्रे निधाय—अग्नये जुष्टं निर्वपामि । इन्द्राग्निभ्यां जुष्टं०. इन्द्राय जुष्टं मरुद्भयो जुष्टं सरस्वस्त्यै जुष्टमिति ब्रायः (सरस्वते वा) अन्गस्मिशूर्पे पवित्रे निधाय यवाः - इन्द्राय हरिवते जुष्टं० इन्द्राय पृषण्वते जुष्टं अथ वा पूर्वस्मिन्निरुप्तवाहिषु पवित्रे निधाय सरस्वत्यै भारत्यै जुष्टं पुनर्थवनिरुप्ते शूर्प पवित्रे निधाय इन्द्राय जुष्टं पुनहिषु निधाय सरस्वते जुष्टं , अन्यस्मिन्शूपें पवित्र निधाय बृहस्पतये जुष्टमिति नीवाराशरावेण निर्वपति । द्वादश मन्त्रेण, तूष्णीं पञ्च, अथान्वावापोऽष्टादश । इदं देवानामित्यादि नानाबीजवत् अग्ने हत्य५ रक्षस्वेन्द्राग्नी हत्य५ रक्षेथामिन्द्र हव्यः रक्षस्व मरुतो हव्या रक्षध्वं सरस्वति (त) हव्यः रक्षश्वेन्द्र हरिवन्हत्य रक्षपेन्द्र पृषण्वन् हव्यः रक्षस्व सरस्वति भारति • हव्यर रक्षस्वेन्द्र हव्यः रक्षस्व सरस्वन्हव्यः रक्षस्व बृहस्पते हव्य५ रक्षस्वेत्युपसा दनम् । एवं प्रोक्षणम् -अग्नये वो जुष्टं प्रोक्षामीन्द्राग्निभ्यां वो जुष्टं प्रोक्षामीन्द्राय वो । मरुद्भो वो सरस्वत्यै (ते) वो इन्द्राय हरिवते वो इन्द्राय पूषश्वते वा सरस्वत्यै भार'त्यै वो इन्दाय वो सरस्वते वो बृहस्पतये वो जुष्टं प्रोक्षामीति प्रोक्षणम् । शुन्धध्वमित्यादि, उलूखलप्रतिष्ठापने कृते ब्रीहीणां यथाभागं व्यावर्तध्वमिति विभागः । वर्षि. ठमेकमागं षड्विपर्याप्तं सप्तममेकमणिष्ठभागम् । एवं विमज्य, इदमग्नेरिन्द्राग्न्योरिन्द्रस्य मरुता सरस्वत्या (सरस्वत)इति वर्षिष्ठभाग, सरस्वत्या भारत्या इत्यपिछभाग अण्णी १ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकान्याख्यासमेतम् । १३७

यांस परिहाप्य भूयिष्ठोऽवहन्यते । हविरावपनादि तण्डुलप्रस्कन्दनान्तं कृत्वा यवानामपि प्रस्कन्दनान्तं कृत्वा हविरावपनादि तण्डुलप्रस्कन्दनान्तं कृत्वा नीवारानोप्य हविष्कृता वाग्विसर्गः । गुदं मा निन्लेषीनिष्ठं मा निलेषीरिति सर्वेषां पशूनां विशसनम् । अग्निं त्रयोविशतिधा कृत्वा सह शूलादिभिः सर्वकुम्भीनां निष्टपनं क्रमेणोपवेषादानादि भृगृणामित्यन्तमेकस्य कृत्वेतरेषाम् । पवित्राभ्यां धानादि हृदयभंपणान्तमेकस्य कृत्वा, इतरेषां क्रमेण । अवहननादिकर्म-नीबाराणां प्रस्कन्दनान्तं कृत्वा वीहियवनीवाराणां च क्रमेण च त्रिफलीकरणं सर्वान्पृथक्प्रक्षाल्य तन्त्रेण निनयनं ब्रीहितण्डुलानामधिवापः । अग्नये जुष्टमधिवपामीन्द्राग्निभ्यां जुष्टमधिवपामीन्द्राय जुष्टं ० मरुदयो जुष्टं० [सरस्वते जुष्टं०] सरस्वत्यै जुष्टं अधिवपामि धान्यमास । अथ यवतण्डुलानां प्रकृतिवद्विभागं कृत्वा इन्द्राय जुष्टमाधिवपामि (इति) अनि, कुरुतादित्यन्तं कृत्वा धृष्टयादानादि। आग्नेयमुपधायैन्द्राग्नमुपधायैन्द्रमुपधाय मारुतानुपधाय सरस्वता(ती)मुपधाय [ सरस्वन्तमुपधाय ] इति क्रमेण कपालान्युपधाय द्वे भर्जनार्थे कपाले उपधाय, ऐन्द्रमुपधाय, सरस्वन्तमु ० बार्हस्पत्यचरुस्थालीमुपदधाति । सर्वेषामेकादश कपालानि । आग्नेयविकाराणामुपधाने चतुर्थस्य द्विरावृत्तिः। अष्टमस्य त्रिरावृत्तिः । मदन्तीराधियतीत्यादि । अग्नये जुष्ट५ संवपामीन्द्राग्निभ्यां जुष्ट ५ संवपामीन्द्राय जुष्टं . मरुत्यो जुष्टं ० सरस्वत्यै जुष्टं० [ सरस्वते नुष्टं ० ] । अन्यस्यां पाव्यां पवित्रे निधायइन्द्राय जुष्ट५ संवपामीति यवपिष्ट५ संवपति । पिष्टान्युत्पूय तण्डुलानुत्पुनाति नौहींश्च । पिण्डं कृत्वा यथामागं व्यावर्तध्वमिति चतुष्कृत्वा(त्व आ)वर्तते । व्यावर्तेयामित्युत्तमौ । तयोरेव निर्देशः । इद सरस्वत्या [ इदं सरस्वत ] इति । आग्नेयादिसरस्वत्यन्तानधिश्रित्य भर्जनायें धाना आवपति धर्माः स्थ विश्वायुष इति । ततो नीहीनावपति अन्यस्मि कपाले लानार्थान् । अथैन्द्रमधिश्रित्य सारस्वतमधिश्रित्य यजुरुत्पते पयसि बार्हस्पत्ये नीवारतण्डुलानावपति धर्मोऽसीति । पृ(प्र)थनादिपुरोडाशानामन्तरितं सर्वेषाम् । "मायलेपं निनीय ( निनयनादि ) पशुपुरोडाशवत् । घृतागेहीति । उद्वासनकाले अग्नये जुष्टमभिधारयामि, इति । अथ त्रयाणां तृष्णी सरस्वत्यै जुष्ट, धानार्थीस्तूप्णी सरस्वत्यै भारत्यै नुष्टं, अथ तूष्णीमन्द्रं सरस्वते जुष्टं बृहस्पते जुष्टं सारस्वतान्तानुद्वास्य प्रकृति"वत्सवनीयानुद्वास्य सारस्वतनपारयोरुद्वासनं क्रमेण । अलंकरणं काले ग्रहणादि । दधि धर्मभक्षणान्तं कस्वा सपनीयानासादयति पशपुरोडाशांश्च सारस्वतनैवारयोर्नाऽऽसादनं तौ .मज्ञातौ विधाय यज्ञोऽसीत्याग्नेयसारस्वती लानीश्च । अयं यज्ञ इति। क्रमेण यो न: कनीयः, • अपतमिन्द्राग्नी भुवनान्नुदेताम् । पशुपुरोडाशौ । यो नः कनीयः, अपतमिन्द्रो भुवनान्नुदताम् । यो नः कनीयः, अपतं मरुतो भुवनान्नुदन्ताम् | यो नः कनीयः, अपतमिन्द्रो भुवनानुदताम् । यो नः कनीयः, आतमिन्द्रः पूषणवान् भुवनानुदताम् । यो नः कनीयः, अपतमिन्द्रो भुवना सत्यापादविरचितं श्रौतसूत्रम्-" .. १३.

प्रीनुदताम् । ममाग्ने पञ्चहोत्रा ( ता) । तरध्वर्युः प्रचरति । अग्नये पुरोडाशस्यानुन्नूहि, इति संप्रेषः । एवमिन्द्राग्निभ्यां पुरोडाशस्येत्येवं संप्रेषः । इन्द्राय पुरोडाशरयेत्येवं संप्रेषः । : मरुद्भयः पुरोडाशस्यानुव्हीति, पशुपुरोडाशानां सारस्वतनैवारवानाम् । माध्यंदिनस्य सवनस्येन्द्राय पुरोडाशानामनुब्रहीत्यादि। आग्न्ये(नेयेन्द्रारन्योः (नयो:) प्रकृतिवदनमन्त्रणम् । इन्द्रस्याहमन्नादः । मरुतामहमिन्द्रियाव्यन्नादः सरस्वत्या अहं वाचमन्नाथम् । सवनीयानां प्रकृतिवत् । समानं तु स्विष्टकृदिडम् । उन्नीयमानेभ्य इत्यादि ॥ ३-४.॥

दाक्षिणौ होमौ हुत्वा । इन्द्रस्य वज्रोऽसि वार्त्रघ्न इति रथमुपावहरति ॥ २५॥

दिवं गच्छ सुवः पतेति हिरण्योहणान्तम् । इन्द्रस्य वज्रोऽसीति रथवाहनादनसो स्थमुंपनयति । स्थवाहने काष्ठविशेषे स्थापिते गमनाय सज्जीकर्तुं तस्य रथस्य तस्मास्काष्ठादवरोहणं विधत्ते---इन्द्रस्य वज्रोऽसि वाघ्न इतिः रथमुपावहरति विजित्यै हते. बा० १-३-५) इति ॥ २५ ॥

अप्स्वन्तरमृतमप्सु भेषजमित्यश्वानप्सु स्नापयन्ति ॥ २६ ॥

अप्स्वन्तरित्यश्वाननुद्धृतास्वप्सु नापयन्ति । उपप्लवनं स्नानं प्रत्यश्वं मन्त्रावृत्तिः । वाजिन इति मन्त्रान्तः । अथाश्वापल्पूलयतीति बौधायनवैखानसांवाहतुः । पल्पलंयति जले प्लावयति शरीरं प्रक्षालयतीत्यर्थः । अप्सु मध्येऽपमृत्यूनिवारक रोगनिवारक च सारं वर्तते ॥ २६ ॥

वायुर्वा त्वा मनुर्वा त्वेति प्रष्टिवाहिनꣳ रथं युनक्ति ॥ २७॥

आदधरित्यन्तः । प्रष्टिवाहिन५ रथं युभक्ति । प्रत्यश्व मन्त्रावृत्तिः । प्राष्ट्रिवाही त्रिभिरश्वैर्युक्तः । त्रयोऽश्वा भवन्तीति लिङ्गात् ॥ २७ ॥

अपांनपादाशुहेमन्नित्यश्वानाꣳ रराटानि प्रतिसंमार्ष्टि ॥ २८ ॥

सेदित्यन्तः । अथास्य पृष्ठं मम॑ज्यत इति बौधायनोऽप्याह । मर्मुज्यते. पुनः पुनः संमार्टि । पृष्ठसंमार्जनेन शोधितत्वाद्यागयोग्यत्वम् । गतमन्यत् ॥ २४

तूष्णीमितरान्षोडश रथान्युनक्ति (ख० २) ॥ २९ ॥

तूष्णीमितरान्षोडश स्थान्वाजसृतः स्वं स्वं युनक्ति । केचिदध्वर्यव इति ॥ २९ ॥

दक्षिणाकाले सप्तदश रथान्ददाति ॥ १३.१.३०॥

दक्षिणाकाले प्राप्ते रूपेण वो रूपमित्यादिना । अभिगम्य रथादीनि चतुर्धा विभज्य तुथो व इति ददाति । स्थानेतानेव युक्तान् ददासिन दक्षिणाकाल इति दक्षिणाविभागः । गवां शतान्ता( नि ) दुन्दुभिशता(नि) वा ददाति ॥ ३० ॥

सप्तदश निष्कान् सप्तदशाश्वान् सप्तदशः हस्तिनः -13 १ पटलः ] : महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकान्याख्यासमेतम्। १३९

सप्तदश गवाꣳ शतानि सप्तदश गोयुक्तानि सप्तदश यानानि सप्तदश शयनानि सप्तदश महानसानि सप्तदश वासाꣳसि सप्तदश दासान् सप्तदश दासीः सप्तदशाजाः सप्तदशावीर्वयसो वयसꣳ सप्तदशानि ददाति ॥ ३१॥ सप्तदशꣳ सप्तदशानि संपादयतीत्येकेषाम् ॥३२॥ अनुदिष्टासु दक्षिणासु यजुर्युक्तꣳ रथमध्वर्यवे ददाति । ३३ ॥ शेषः साधारणः ॥ ३४ ॥

निष्कश्चतुःसौवर्णकः । दुन्दुभयो मुरवाः । अनुदिष्टावनानां निष्क्रयणकृते यजर्यतं रथमध्वर्यवे ददाति । प्रष्टिवाहिनमित्यर्थः। अध्वर्योः स्वीयभागो नियम्यते नाधिको भागः । भागादधिकं इति भाष्यकृत् । शेषः साधारणः । ऋत्विजां सर्वेषां शेषा दक्षिणा लम्यते । अध्वयोंर्यावान्भागः प्रदीयतेऽधिको न्यूनो वा प्रकृतिवाद्विभज्यते यावदध्वयंव इति समशो विभागः । सम एव विभाग इत्यर्थः । छन्दोगवचनात्ताः सममृत्विग्भ्यो विभनेदिति न प्रकृतिवद्विभागः। अपि वा समविभागपक्षे सप्तदशः सप्तदश एवोचितो भागो लभ्यते । तस्मात्सप्तदशो(सदस्यो) नित्यः । सोऽपि महर्विक् । पञ्च महत्विजों वृणीतेति भगवता भरद्वाजेनोक्तम् । रथप्रतिग्रमन्त्र आधान उक्तः । अश्वस्य च देवस्य त्वेति वरुणायाश्वमिति । देवस्य त्वेति देवि दक्षिणे उत्तानायाङ्गीरसायानः, इत्यनसः । देवस्य स्वा देवि दक्षिणे हिमवतो हस्तिनं तेनामृतत्वमिति हस्तिनः । अन्नं दत्त्वा प्रतिप्रहः । अग्नये हिरण्यमिति निष्कस्य । मनवे तल्पमिति दास्याः । प्रियवचनं कृत्वा प्रतिग्रहः । त्वष्ट्रऽजामित्यजायाः । पूष्णेऽविमित्यवेः । नास्त्वा कृतस्तपसस्स्वा तन्वत रूपयस्त्वा वैप(य)न् सोमाय वास इति वासस: गवां शतस्य रुद्राय गामिति प्रतिग्रहः। अनोयुक्तस्य यथाजाति । सप्तदश दुन्दुभीनामुत्तानस्त्वेति प्रतिग्रहः । . वाजपेये सप्तदश रथाः सप्तदश दास्यः' इति दक्षिणां विधाय श्रूयते । यजयुक्त रथमध्वर्यवे ददाति' इति । तत्र संशयः किं यजुर्युक्तो रथोऽध्वर्युभागं निवर्तयेनेति । तत्र ......... प्राकाशवद्यजुर्युक्तः स्यात्तद्भागस्य बाधकः। .. न त्वयं बाधकस्तस्य प्राप्तस्य नियमो ह्यसौ ॥ .. प्राकाशौ ह्यपूर्वावध्वनितिकरत्वेन विधीयमानौ युक्तं तत्र यत्तद्भागं प्राकृतं बाधत इति । इह तु सप्तदश रथा द्रव्यान्तराणि च वाजपेयस्य दक्षिणात्वेन विहितानि इति । तवं यजुर्युक्तस्यापि रथस्य प्राप्तमेव दानं स त्वध्वर्यवेऽन्यस्मै वा कस्मैचिद्दातव्यः सन्न सत्यापाढविरचितं श्रौतसूत्रम्- [१३ पन्ने

ध्वयौं नियम्यते । ततः नायमर्थः–यद्ध्वर्यवे ददाति तद्यनयुक्तं स्थमिति किं तर्हि यजुर्युक्तं यद्ददाति तदध्वर्यव इति । तस्य च द्रव्यान्तरसहितस्यैव दान प्राप्तमिति तादृशस्यैव नियमान्न देयान्तरनिवृत्तिः । अध्वर्युमागे तु यथाप्राप्ते यजुर्युक्तो नियम्यते ॥ ३१ ॥ ३२ ॥ १३ ॥ ३४ ॥

अग्रेणाऽऽहवनीयं प्राञ्चो रथानवस्थापयन्ति ॥ ३५॥

अग्रेणाऽऽहवनीयं तत्र देशे प्राश्चः प्राङ्मुखानवस्थापयेयू रथान् ॥ ३५ ॥

यजुर्युक्तं दक्षिणार्ध्यमग्रेणाऽऽग्नीध्रꣳ राजपुत्रोऽवस्थाय सप्तदश प्रव्याधानिषूनस्यति प्राचीनमुदीचीनं वा ॥ ३६ ॥ यत्र जघन्यो निपतति तल्लक्षणं कुरुते ॥ ३७॥

ययुक्तं रथम् । अग्रेणाऽऽग्नीध्र राजपुत्रोऽवस्थितो भवति । स इषु धनुषि संधायास्यति निपेक्षणं करोति । स इषुस्मिन्देशे निपतति तत्र गत्वा पुनरस्यति । एवं सप्तुदशकृत्वोऽभ्यस्येत् । यन्त्र जघन्यं निपतति तत्रौदुम्बरकाष्ठेन लक्षणं मिनोति ॥३६॥ ३७ ॥

यत्प्राङ्माहेन्द्रात्तस्मिन्कृते प्रतिप्रस्थाता नैवारꣳ सप्तदशशरावं चतुर्धा विभज्य बृहस्पतये निर्वपति पयसि श्रपयति ॥ ३८ ॥ सर्पिष्मन्तं चात्वालेऽवदधाति ॥ ३९॥

प्राङ्महेन्द्रप्रणात्पूर्व नाना(रा)शंसासादनान्तम् । तत्र विशेषः -अग्ने नयेति हुत्वा धनेषु व्यन्तरिक्ष, प्रजापते न त्व० वनेषु न्यन्तरिक्षं वरुणो देवता । शिष्टयोरुक्ते । एवं सादितेषु नाना(रा)शंसेषु नैवारे लौकिकं सर्पिरानीय चावाले स्थापयति । . वाजपेये श्रूयते-वार्हस्पत्यो नैवारः सप्तदशशरावः क्षीरे चरुर्भवति, इति । अस्ति सु प्रकृतौ चतुरो मुष्टीनिर्वपति, इति चतुःसंख्या मुष्टिद्रव्यं च । तदुभयमिह चोदकेन प्राप्तम् । न च चतुर्भिर्मुष्टिभिः सप्तदशशरावपरिमाणश्चरुः संपादयितुं शक्यते । अतोऽ. वश्यं बाधितव्ये सति किमुभयं बाधितव्यं शराबद्रव्येण मुष्टिद्रव्यं सप्तदशसंख्यया चु चतुःसंख्या किंवाऽन्यतरत् । तत्रापि किमनियमः । अथ वा मुष्टयनुग्रहः संख्यालोपो विपरीतं वेति । तत्राविशेषादुभयोर्वाधः । तत्रापि समानकार्यत्वाद्न्यं द्रव्येण संख्या संख्ययेत्येकः पक्षः । सप्तदशसंख्याशरावपरिमाणं च यागद्रव्याचं, चतुःसंख्या मुष्टिश्च निर्वापाङ्गमतो न तावत्साक्षादेकविषयत्वं येनोभयमुभयेन बाध्येत । चतुर्भिसृष्टिमिः सप्तदशशरावश्चरुन संपादयितुं शक्यत इत्यर्थाद्वाधः । तत्रैकवाधेनोपपत्तो नोभयबाधनं युक्तम् । तस्मादन्यतरवाधः । तत्राविशेषादनियम इति द्वितीयः । संख्याया दव्याङ्गत्वात् प्रधानस्य मुष्टिव्यस्यानुग्रहः, संख्यायास्तु बाध इति तृतीयः। न सल्लाया १ पटलः ] महादेवशास्त्रिसंकलितपयोगचन्द्रिकाव्याख्यासमेतम् । १४१

मुष्ट्यङ्गत्वं वाक्यलक्षणसमानाधिकरणद्रव्यसंवन्धवाधेन द्वितीया श्रुत्या निवापीङ्गत्वावगमादुभयोराप क्रियाङ्गत्वावगमात्तुल्यत्वम् । तत्र मुख्यत्वात् संख्यानुग्रहो जघन्यत्वाच मुष्टिलोप इति सिद्धान्तः ॥ ३८ ॥ ३९ ॥

तꣳ राजपुत्रो गोपायति ॥ १३.१.४०॥

राजपुत्रो रक्षति । ब्राह्मणो वा ॥ ४० ॥

चात्वाले रथाक्षाकृति काष्ठं निखनति ॥ ४१॥

औदुम्बरेण कृतं निखायेति देखानसः ॥ ११॥

तस्मिन् रथचक्रमौदुम्बरं सप्तदशारं प्रतिमुञ्चति ॥ ४२॥

तस्मिन्रथाक्षाकृतिकाष्ठ औदुम्बरं रथचक्र सप्तदशारं प्रतिमुञ्चति । उत्तरस्यां वेदि. श्रोण्यां सप्तदश दुन्दुभीन्प्रबध्नातीति वैखानसोक्तेः ॥ ४२ ॥

विष्णोः क्रमोऽसीति यजुर्युक्तꣳ रथं यजमानोऽभ्येति ॥ ४३ ॥

रथस्य समीपमभ्यागच्छीत यजुर्युक्तस्य । तदेतद्यनमानकर्म ॥ ४३ ॥

अङ्कौ न्यङ्काविति रथचक्रे अभिमृशति । पक्षसी वा ॥ ४४ ॥

अभितः स्पृशत्यध्वयुरित्येके । यजमान इत्यपरे । पारयन्त्वित्यन्तः ॥ १४ ॥

देवस्याहꣳ सवितुः प्रसवे बृहस्पतिना वाजाजिता वाजं जेषमिति ॥(ख०३)॥ ब्रह्मौदुम्बरꣳ रथचक्रमारोहति ॥ ४५ ॥

रथमातिष्ठतीति बौधायनः । आतिष्ठत्यारोहेदित्यर्थः ॥ ४५ ॥

देवस्याहꣳ सवितुः प्रसवे बृहस्पतिना वाजजिता वर्षिष्ठं नाकꣳ रुहेयमिति यजुर्यक्तꣳ रथं यजमानः ॥ ४६॥

आरोहतीत्यनुकर्षः ॥ ४६ ॥

इन्द्राय वाचं वदतेति दुन्दुभीन्निह्रादयन्ति ॥ ४७ ॥

दुन्दुभिमुख ताडयन्ति वाजस्तो नाध्वर्युः । एवमापस्तम्बेऽपि ।। ४७ ॥

वाजसृत इतरान् रथानारोहन्ति ॥४८॥

वाजस्त इतरे ( रान् ) रथानारोहन्ति तूणीम् ॥ ४८॥

वाजिनो वाजजितो वाजꣳ सरिष्यत इति नैवारमश्वौ युग्याववघ्रापयान्त । सर्वान्वा ॥ ४९॥

जिघ्रतेति मन्त्रान्तः । नैवारं च धु-वश्वावधापयन्ति । यजुर्युक्तस्यैव रथस्य धुर्यो । सकृन्मन्त्रः ॥ ४९ ॥

प्रप्रोथेषु च लेपान्निमार्ष्टि विष्णोः क्रमोऽसीति यजुर्युक्तꣳ रथमध्वर्युरारुह्याश्वाजनीत्यश्वाजनिमा १४३ - सत्यापाढविरचितं श्रौतसूत्रम्- [ १३ प्रश्ने

दायार्वाऽसि सप्तिरसीत्यश्वान्समक्षिणोति ||१३.१.५० ॥

प्रपोथेषु मुखदेशेषु लेपानवप्रापणे येऽवशिष्टास्तान्स्पृशन्ति । विष्णोः नमोऽसीति यजुर्युक्त रश्मध्वर्युरारोहति । ययुक्तं तूप्णीमधिरहोत्येके । अश्वाजनि वानंयेति अश्चात जानि कशामादायाध्वर्युः, अर्वाऽसि सप्तरसि वाज्यसीति । कशया तानश्वास्ताडयति ॥ ५० ॥

पश्चादितरे रथा अनभ्यासादयन्तोऽनुयान्ति ॥ ५१ ॥

इतरे राजवैश्यरथकाराश्च स्वं स्व तूप्णी ताडयन्ति । यजुर्युक्तस्य पृष्ठतो गच्छन्ति, इतरे रथाः । वेचित्तु-क्षत्रियाद्यभावे ब्राह्मणा एवं गृह्यन्ते ॥ ५१ ॥

वाजिनो वाजं धावतेति तिसृभिराधावतोऽनुमन्त्रयते । चतसृभिरित्येकेषाम् ॥ ५२ ॥

तिसृभिश्चतसृभिर्वभिर्धावतोऽश्वाननुमन्त्रयते यजमानः । अध्वर्युरित्येके ।। ५२ ।।

वाजिनाꣳ साम ब्रह्मौदुम्बरे रथचक्रे त्रिस्त्रिः परिवर्तमाने गायति ॥ ५३॥

आरूढे ब्रह्मणि वाजिनां साम गायत्यध्वर्युः संप्रेष्यति । तस्य गानार्थ (र्थमा ) वर्तयति आवर्तमाने चक्रे सामगानं वैकल्पिक देवस्याहमिति . यजुर्वा वदति जति । रहेयमित्यन्तः । सामगानशक्तस्य-आविर्मा इति गानमन्त्र इति । वाजिना५ साम गायते ( ते० प्रा० १-३-६) इति ब्राह्मणात् । वाजिनामन्नार्थिनां सबन्धि यत्साम तद्ब्रह्मा गायेत् । अन्नप्रदस्तु सामविशेषः शाखान्तरे द्रष्टव्यः । ब्रह्मण इदं गानमित्यापस्तम्बः स्पष्टयति-औदुम्बर ५ रथचक्र ब्रह्माऽऽरोहति तमाह वाजिनाए साम गायेति तस्य चक्रं त्रिः प्रदक्षिणमावर्तयति । ' तत्राऽऽवर्तमाने ब्रह्मा गायति ।। ( आप० श्री. १८-१-४ । ११) इति ॥ ५३॥

अग्निरेकाक्षरेण वाचमुदजयदित्युज्जितीर्यजमानं धावत्सु वाचयति ॥ ५४॥

अग्निरेकाक्षरेणेति धावत्स्वश्वेषु, उज्जितीरिति ध्यात्वा यजमानं वाचयत्यध्वर्यः । स्तोममुदजयदित्यन्तः । सप्तदशेति वैखानसः ॥ १४ ॥

लक्षणं प्राप्य प्रदक्षिणमावर्तन्ते ॥ ५५ ॥

औदुम्बरं काष्ठमाजि प्राप्य प्रदक्षिणमावर्तन्ते । य आणि धावन्ति । उदञ्च आव. सेन्ते (ते. ब्रा० १-३-६ ) इति हि ब्राह्मणम् ॥ ५५ ॥

ते नो अर्वन्तो हवनश्रुतो हवमिति चतसृभिराधावतोऽनुमन्त्रयते ॥ ५६ ॥

चतसृभिः प्रत्याधावतोऽश्वाननुमन्त्रयतेऽध्वर्युः । तदेवमध्यापकसंप्रदायमनुसृत्य .१ पटलः ] महादेवशास्त्रिसंकलितमयोगचन्द्रिकाव्याख्यासमेतम् । १४३

मन्त्रचतुष्टयं विभक्तम् । बौधायनाचार्यस्तु ते नो अर्वन्त इत्यादिवाजिनो हवेष्वित्यन्त एक एव मन्त्र इत्यभिप्रेत्य चतुर्थीमेष स्य वाजीत्यादिकामचं चतुष्टयेऽन्तर्भावयामास । आपस्तम्बस्त्वेवमाह -मितद्रव इति चतसृभिः प्रत्याधावतोऽनुमन्वयते इति ॥ १६॥

तिसृभिरित्येकेषाम् ॥ ५७ ॥

स्पष्टोऽर्थः ॥ ५७ ॥

आ मा वाजस्य प्रसवो जगम्यादिति प्रत्यासृतेषु जुहोति ॥ ५८॥

आमा वानस्येत्यूचा जुहोति दर्विहोमधर्मेण | द्यावापृथिवी देवता । प्रत्यामृतेषु प्रत्यागतेष्वश्वेषु ।। ५८ ॥

इयं वः सा सत्या संधाऽभूदिति दुन्दुभिविमोचनीयामेकामाहुतिं जुहोति ॥ ५९ ॥

इयं वः सा सत्येत्यनुवाकशेषेण दुन्दुभिविमोचनीयमिति ध्यात्वा जुहोति । इन्द्रो देवता ॥ ५९॥

सर्वान्वोपस्पृशति ॥ १३.१.६० ॥

सर्वान्वोपस्पृशति न होमः ॥ १० ॥

वाजिनो वाजजितो वाजꣳ ससृवाꣳस इति नैवारमश्वयुग्याववघ्रापयति । यथापुरस्तात्प्रप्रोथेषु च लेपान्निमार्ष्टि ॥ ६१ ॥

नैवारमश्वयुग्याववनापयति । मुखे लेपान्निमार्टि यथापुरस्तादित्यर्थः ॥ ११ ॥

कृष्णलं कृष्णलं वाजसृद्भ्यः प्रयच्छति ॥ ६२ ॥

कृष्णलं कृष्णलं वारसद्धयः प्रयच्छतीति वचनादेकस्य वाजस्त एक कृष्णलं प्रय. च्छति । एवं षोडशभ्यो दत्वा ।। ६२ ।।

तानि प्रत्यादाय ब्रह्मणे ददाति ॥ ६३ ॥

ताति पुनरादाय ब्रह्मणे दद्यात् ।। ६३ ।।

मधोष्ठालं च शतमानस्य कृतम् ॥ (ख० ४ ) ॥ ६४॥

इति सत्याषाढहिरण्यकेशिसूत्रे त्रयोदशप्रश्ने प्रथमः पटलः ।

रजमानो मधुना पूर्ण शतगुलाफलपरिमाणं सुवर्णकृतपात्रं ब्रह्मणे ददाति ॥ ६४ ॥ इति सत्यापाढहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयोगच. न्द्रिकायां त्रयोदशप्रश्ने प्रथमः पटलः ।। १॥ सत्यापाढविरचितं श्रौतसूत्रम्- [१३ प्रश्नै

13.2 अथ त्रयोदशप्रश्ने द्वितीयः पटलः ।।

क्षत्त्रस्योल्बमसीति तार्प्यं यजमानः परिधत्ते । क्षत्त्रस्य योनिरसीति दर्भमयं पत्नी ॥१॥

ताय॑ घृताक्तं वस्त्रम् । तदेतत्परिधानद्वयं विधत्ते-तार्य यजमानं परिधापयति । यज्ञो वै ताठम् | यज्ञेनैवैनर समर्धयति । दर्भमयं परिधापयति । पवित्रं वै दर्भाः । पुनात्येवैनम् । वाज वा एषोऽवरुरुत्सते । यो वाजपेयेन यजते । ओषधयः खलु वै वाजः । यदर्भमयं परिधापयति । वाजस्यावरुद्धयै (ते. ब्रा० १-३-७) इति । ताप्यस्य यज्ञसाधनत्वाद्यज्ञत्वम् । एनं पत्नीदेहम् । वाजपेययाजिनोऽन्नावरोधकामिन औषधिरूपदर्भमयेनान्नमवरुद्धं भवतीति तदर्थः ।। १ ॥

जाय एहि सुवो रोहावेति पत्नीं यजमान आमन्त्रयते । रोहावहीति पत्नी प्रत्याह ॥ २

मन्त्रेण यजमानः पत्नीमामन्त्रयते । रोहावहीति पत्नी प्रत्याह । एवं त्रिः ॥ २ ॥

अहं नावुभयोः सुवो रोक्ष्यामीति यजमानस्त्वहं नावुभयोः सुवो रोहेति पत्नी ॥ ३ ॥

यजमानोऽन्ततो वदति । एवं पत्नी ॥ ३ ॥

आयुर्यज्ञेन कल्पतामिति दशभिः कल्पैः सरजसि निःश्रेण्या यूपमारोहति । उभौ वा ॥ ४ ॥

आयुर्यज्ञेन कल्पतामिति दशभिः कल्पामिति ध्यात्वा सप्तदशफलकयुक्तया निःश्रेण्या यूपं यजमान आरोहति । एवं पत्नी । अध्वर्युरिति केचित् । तं दशभिः कल्पैरारोहत्यायुर्यज्ञेन कल्पतामिति वैखानसः । तं यूपम् । कल्पैः कल्पशब्दोपतैः ॥ ४ ॥

सुवर्देवाꣳ अगन्मेत्यारुह्य जपति ॥ ५॥

सुषर्देवा५ अगन्मेति यूपानं प्राप्य जपति यजमानः । अभूमेति मन्त्रान्तः ।। भाष्ये तु-बाहू उद्ाति सुवर्देवानिति । उगृहीताभ्यां बाहुभ्यां स्वर्गप्राप्तिममिन यता यजमानेनेदमुच्यत इति ॥ ५॥

वाजश्च प्रसवश्चेति द्वादशाऽऽहुतीर्जुहोति ॥ ६ ॥ त्रयोदशेत्येकेषाम् ॥ ७ ॥

घामश्च स्वाहा प्रसपश्च स्वाहा, इत्यादिभिादशभित्रयोदशभिर्वा वामप्रसवीयानि ध्यात्वा जुहोति । वानादयो देवताः । वामशब्दप्रसवशब्दो येषु कर्मसु मन्त्रात्वेन । -२ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाच्याख्यासमेतम् । १४५

श्रूयेते तानि कर्माणि वाजप्रसीयानि : विधत्ते-- द्वादश वाजप्रसीयानि जुहोति (ते. ब्रा० १-३-७) इत्यादि ॥ ६ ॥ ७ ॥

पुरस्ताद्यूपारोहणादेके समामनन्ति ॥ ८॥

एके शाखिनः परिपठन्ति यूपारोहणात्पुरस्ताद्वानप्रसर्वायं जुहुयादित्यर्थः ॥ ८ ॥

समहमायुषा सं मयाऽऽयुः समहं वर्चसा सं मया वर्चः समहं प्रजया सं मया प्रजा समहꣳ रायस्पोषेण सं मया रायस्पोष इति यूपमारुह्य ग्रहान्प्रत्यवेक्षते ॥ ९॥

पत्नीमिति भाष्यकृत् ॥ १॥ .

तमाश्वत्थैरूषपुटैर्दीर्घवꣳशप्रबध्नै(द्धै)रास्यतो महर्त्विजः प्रतिदिशꣳ समर्पयन्ति । शीर्षत इत्येकेषाम् ॥ आसपुटैर्वैश्वमन्नाय त्वेति पुरस्तादध्वर्युः ॥ (ख० ५) । अन्नाद्याय त्वेति दक्षिणतो ब्रह्मा । वाजाय त्वेति पश्चाद्धोता। वाजजित्यायै त्वेत्युत्तरत उद्गाता ॥ १३.२.१० ॥

अश्वत्थपत्रेषु कृष्णमृत्तिका ऊषान्वोभयान्या वंशाने पुटाकृतिं कृत्वा तमारूढयजमानो(न), नन्ति । अन्नाय स्वेत्यादिभिमन्वैः । वैखानसंसूत्रे तु । तमेवमासपुटैनन्ति--. अन्नाय त्वेति पुरस्ताद्ध्वर्युः । अन्नाधाय त्वेति दक्षिणतो ब्रह्मा । वाजाय त्वेति पश्चादोता । वाजनित्यायै त्वेत्युत्तरत उद्गाता, इति ।। ऊपखननपासव आसास्तानश्च. स्थपत्रैः पुटीकृत्य तैरामपुटेप॒पादवरोहन्तं यजमान हन्युः । अत एवाऽऽपस्तम्ब आह'तमाश्वत्थैरासपुटैरूषपुटैरुभयैर्वा पैश्याः प्रतिदिशमर्पयन्ति । महविजो वा दीर्घवंशेषु प्रबध्य ' ( आप० श्री० १८.-१-१८) इति । यथासूत्रं मुखतो घन्ति, मुखं प्रत्य- भिनन्तीत्यर्थः ॥ १० ॥

होता(हन्ता)रं वितत्य बाहू अभिपर्यावर्तते ॥ ११॥

हन्तारं इन्चारमभिपर्यावर्तते इत्यापस्तम्बः । यजमान इति शेषः ॥ ११ ॥

इयं ते राण्मित्राय यन्त्रासि यमनो धर्ताऽसि धरुणः कृष्यै क्षेमाय रय्यै पोषायेति प्रत्यवरोहति ॥ १२ ॥

पाने प्र(प्रात्प्रोत्यवरोहति यनमानः । पत्न्या अध्यारोहणावरोहणे तूष्णीम्॥१२॥

अग्रेण यूपं बस्ताजिनं प्राचीनग्रीवमुत्तरलोमाऽऽस्तृ १४६ सत्यापाविरचितं श्रौतसूत्रम्- १३ प्रश्ने

णाति ॥ १३ ॥ तेजोऽसीति तस्मिन्राजतꣳ रुक्मं निदधाति ॥ १४ ॥

अथाग्रेण यूपं बस्तानिनं प्राचीनग्रीवमुत्तरलोमाऽऽस्तीर्य तस्मिञ्च्छतमान हिरण्यं निदधात्यध्वर्युः ॥ १३ ॥ १४ ॥

अमृतमसीति रुक्मे पादं प्रतिष्ठापयते ॥१५॥

अमृतमसीति यजमानो हिरण्ये दक्षिणं पादमवद्धाति ॥ १५ ॥

पुष्टिरसि प्रजननमसीति बस्ताजिने ॥ १६ ॥

बस्ताजिने सव्यं पादं प्रतिष्ठापयते यजमानः ॥ १६ ॥

तस्मादासन्दीमारोहति ॥ १७ ॥

तस्माचर्मणो भूमिमुपस्पृशन्नासन्दीमौदुम्बरी च दक्षिणायता प्रागायतां वाऽऽरोहति ॥ १७॥

दिवं प्रोष्ठती (ष्ठिनी ) मारोहती ( ता ) मारुह्य प्रपश्वै ( श्यै ) कराण्मनुष्याणामेधीत्यारोहन्तमभिमन्त्रयते ॥ १८ ॥

दिवं प्रोष्ठिनीमारोहतामित्यारोहन्तं यजमानमभिमन्त्रयतेऽध्वर्युः ॥ १८ ॥

माहेन्द्रप्रभृतीनि कर्माणि प्रतिपद्यते ॥ १९॥

अस्मिन्काले माहेन्द्रग्रहं गृह्णाति । तत्तः स्तोत्रोपाकरणम् । असजि सार्ज ॥१९॥

तस्य स्तोत्रमुपाकृत्याभिषिञ्चति यथाऽग्निचित्यायाम् ॥ १३.२.२०॥

तस्य यजमानस्य ॥ २० ॥

रजसि स्तुवते सप्तभिरन्नपूर्वाभिरन्नहोमं जुहोति ग्राम्यारण्यानाꣳ समवदाय ॥ २१ ॥

सप्तभिः पूर्वैर्मन्नाम्या आरण्याचौषधीः संसृज्य समवदाय । वानस्येमम् । इति सप्तभिर्मन्त्रैः । सप्त पूर्वानन्नहोमा होति । अग्निर्देवता । वाजस्येममित्यादयः पूर्वमेबोक्ताः । हुत्वा हुत्वा पाच्या संपातमवनयतीत्यादि सूत्रान्तरे द्रष्टव्यम् । परंतु नास्त्यस्मत्सूत्रे संपातावशिष्टावनयनमस्मिन्याग : इति गम्यते, क्रमविपर्यासात् ॥ २१ ॥

(माध्यंदिनस्य सवनस्य ) मध्यम उक्थ्यपर्याये ब्रह्मसाम्न्युपाकृतेऽत्र सारस्वतप्रभृतीनुत्तरानाल

१.हिरण्य। २. पटलः) महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकान्याख्यासमैतम् । १४७

भन्ते ॥ २२ ॥ तेषामनभिघारिताभिर्वपाभिः प्रचरति ॥ २३ ॥ सारस्वतस्य वपया प्रचर्य समवदाय प्राजापत्यानां वपाभिः प्रचरति ॥२४॥ नैवारेण प्रचरति हविराहुतिप्रभृतीडान्ता संतिष्ठते ॥ २५ ॥ महर्त्विजो हविरुच्छिष्टाशा भवन्ति ॥ २६ ॥

स्तुतस्य स्तुतमसीत्यादि । अतिग्राह्यहोमकाल इन्द्रौनस्विन्निति षड्भिरभिमन्त्रण तन्त्रेण भेदेन वा ध्व ( ज्व) लति वा इत्येतं पक्षमाश्रित्य प्रयोगः । देव सवितरेतत्ते मध्यम उक्थ्यपर्याये ब्रह्मसाम्प्युपाकृते सारस्वतनैवारयोरासादनं प्रियेण० यज्ञोऽसीत्यादि, तयोः प्रचारः । जुह्वामुपस्तीर्येत्यादि सरस्वते पुरोडाशस्यानुव्हीत्यादि ( हीति) सरस्वते प्रेष्य सरस्वन्तं यजेति वा । सरस्वते-हमन्नादः । बृहस्पतेऽनुबू ३ हीति बृहस्पते ( तये ) प्रेष्य । बृहस्पति यजेति वा । बृहस्पतेरहमन्नादः । उभयोः स्विष्टकृतं विरुज्य प्राशिवमुभयोरिडामार्जनान्ता समाप्यते । महत्विजो हविरुच्छिष्टाशा भवेयुः । काले वेत्येवं पक्षमाश्रित्य प्रयोगः । देव सवितः अनुवसत्यादि सवनाहुस्यन्तं निःसर्पणान्तं च । इति माध्यंदिनं सवनम् ।। २२ ॥ २३ ॥ २४ ॥ २१ ॥ २६ ।।

पशुकाले सारस्वत्यन्तानां सर्वेषां दैवतेन प्रचरति ॥ २७ ॥

अथ तृतीयसवनस्य कर्म । देव सवितः स्वदाति नः स्वाहा । सविता देता । कलशोद्वर्तनम् । तत आदित्यग्रहग्रहणादि | आग्नयणं गृहीत्वोक्थ्यग्रहणम् । ततः षोडशी (शि ) ग्रहणम् । पुष्टयै म इत्येते स्तुत आर्भवे पयमाने, अग्निदग्नीन्विहर पशुषु संवदस्व, विष्णो त्वं न इत्युपस्थानान्ते प्रतिप्रस्थाता शत हवी (विः ) शमितरित्याधनहेन से ते मनसा० अग्नये त्वा जुष्टमभिधारयामि, अन्यत्पृषदाज्यमानयति । एवं क्रमेण सर्वेषामभिधारणम् । इन्द्राग्निभ्यां त्वा जुष्टं ० इन्द्राय त्वा जुष्टं० मरुन्यस्त्वा जुष्टं सरस्वत्यै त्वा जुष्टं ० ( सरस्वते त्वा जुष्टं० ) प्रजापतये त्वा जुष्टं एवं क्रमेण सप्तदशानां सर्वत्राभिघारयामीत्यभिधारणम् । यस्त आत्मेत्यध्वर्युः क्रमेण | स्वाहोष्मण इति मन्त्रेण दृश्हेत्युद्वासनं क्रमेण स्वेन स्वेन हृदयशूलेन सह पश्चहोत्रासादनं क्रमेण । वपावदासन्नामिमर्शनं क्रमेण सर्वेषाम् । चतसृषूपस्तुणीत इत्यादि । आग्नेयस्येन्द्रः प्राण इति कृत्वाऽऽश्रावयेत्यादि अर्धचे वसाहोमः । अन्यत्र शेषमानयति । ततो वषट्कृते होमः । ततो मनोता । ऐन्द्रामप्रचारः । अर्धचें वसाहोमः । शेषमन्यत्र । पुनर्मनोतादि । इन्द्राय वृप्णेहविषः । एवं प्रेष्य । अर्धर्चे वसाहोमः । शेषमन्यत्र । पुनर्मनोतादि । मरुग्यो गोर्हविषः । ऐन्द्रः प्राणः, देव १४८ . सत्यापाढविरचितं श्रौतसूत्रम्- [१३ प्रश्न

प्रायन्तम् । सरस्वत्यै मेष्या हविषः । एवं प्रेष्य, अर्धर्चे वसाहोमः । शेषमन्यन्न । पुनर्मनोतादि । सरस्वत्या ( तो ) मेषस्य हविषो वसाहोमः । शेषमन्यत्र निधाय मनोतादि । प्राजापत्यानां तन्त्रेण मनोता । जुहामुपस्तीर्य हिरण्यशकलं प्राजापत्यान्सर्वान्सहावदाय व्यङ्गानपि सर्वान् पूर्वव्यङ्गैः सहावढाय. समवत्तधान्यामिडावदानान्यपि पूरिडायदानैः सहावदाय प्राजापत्यमेदोभि सर्वैः प्रच्छायेडावदानं हिरण्य. शकलमुपरिष्टात्कृत्वा द्वयोरप्यभिधारणम् | वसाः सर्वाः एकस्मिन्पात्र आनीय तस्मा. द्गृह्यते (जाति) । तत ऐन्द्रः प्राणः । सर्वानवदामेऽपि-देवं शायतोऽवसे सखायोऽनु वो प्रजापतय इत्युपांशु । छागानां हविषोऽनुहि इत्युच्चैः । एवं प्रेष्य । अर्धचे वसाहोमः । उद्रेकान्सर्वान् पूर्वस्थापितान्समवनीय दिग्यागः । वषट्कृते तन्त्रेण - प्रक्षेपः । जुह्वा अधस्ताच्च ब्यादिति विधानम् । अवदानपर्याप्तं पूर्वमेव करोति । सर्वेषु वपावद: नुमन्त्रणम् । तन्त्रेषु मेदरूपाङ्गानि ( णि ) प्रावृणोति न मेदसा । न हिरण्यं क्षिपेतत्र न वाऽऽज्येनामिधारयेत् । ...... अर्धर्चे तु वसा हुत्वा दीर्घा च द्वि( दि गुपस्थितिम् | .. .. .. अकृत्ये( त्वै )व वसाशेष पात्रेऽन्यस्मिन्निषिश्चति ॥ प्रत्याक्रम्य नारिधादिवनस्पतियागः । उपर्यावनीये जुह्वामित्यादिस्विष्टकृत्याचारः । वैश्वानरे हविरिदं० इडोपाहानादि ॥ २७ ॥

षोडशिचमसानुन्नयन्नेकस्मै चमसगणाय राजानमतिरेचयति । तैः प्रचर्यातिरिक्त स्तोत्राय होतृचमसमुख्याꣳश्चमसानुन्नयति । स्तुतशस्त्रे भवतः । शस्त्रं प्रतिगीर्य प्राजापत्यानां मुख्य ग्रहमध्वर्युरादत्ते । ऋत्विज इतरान् ॥ २८॥

सवनीयपुरोडाशपचरणादि सौमिकं कर्म पोडशिचमसक्षालनान्तम् । अथ होतृचमसमुख्यान्दश चमसानुन्नयति उन्नता । ततः संप्रेषः । बृहतः स्तोत्रमुपाकरोतीत्यापस्तम्बः । अभिजिदसीति स्तोमभागः । प्रचरणकाले होतृचमसमध्वर्युरादत्ते । चमसांश्चमसाध्वर्यव ऋत्विज इतरान्सोमग्रहान् ॥ २८ ॥

सुराग्रहाणां मुख्यं प्रतिप्रस्थाता वाजसृत इतरानादत्ते । चमसाश्चमसाध्वर्यवः ॥(ख०६)..२९॥

सुराग्रहाणां मुख्यं प्रतिप्रस्थाताऽऽदत्ते । वाजसृत इतरान्सुराग्रहान्॥ २९॥

संपृचः स्थ सं मा भद्रेण पृङ्क्तेति प्राङध्वर्युः सोमग्रहैरुद्द्रवति । संपृचः स्थ सं मा भद्रेण २ पटलः] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । · १४९

पृङ्क्तामिति वा । विपृचः स्थ विपाप्मना पृङ्क्तेति प्रत्यङ्प्रतिप्रस्थाता सुराग्रहैः । विपृचः स्थ वि पाप्मना पृङ्क्तामिति वा ॥ १३.२.३० ॥ आहवनीयन्यन्ते सोमग्रहैरवतिष्ठन्ते । मार्जालीयन्यन्ते सुराग्रहैः प्रचरति । सोमग्रहैर्वषट्कारानुवषट्कारौ । सुराग्रहाननुप्रकम्पयन्ति । व्याख्यातः सोमस्य भक्षः ॥ ३१॥

संपृचः स्थेत्यध्वर्युः सोमग्रहः सह प्राङ्मुखो गच्छति । उत्तरवेदि प्राप्य दक्षिणाऽतिक्रम्योदङ्मुखस्तिष्ठति । ऋत्विजोऽपि सोमनहै: रूह तिष्ठन्ति । तथैव चमसाध्वर्यवः । असंभवे यथावकाशम् । विपृचः स्थेति प्रतिप्रस्थाता सुराग्रहैः सह प्रत्यङ्मुखों गच्छति अपरया द्वारा निष्क्रम्य सदः प्रविश्यापरया द्वारा सदसो निष्क्रम्य मार्जालीय गत्वां वैश्येन सहोदङ्मुखस्तिष्ठन् वषट्कृते सोमग्रहाणां सह चमसैः प्रक्षेपः । प्रजापतेऽधिपतिस्त्वं देवानामस्यधिपतिं मामायुष्मन्तं वर्चस्वन्तं मनुष्येषु कुरु स्वाहा, इति षोडशिमन्त्रेणं मुहृत्य॒त्विजोऽध्वर्युश्चमसाध्वर्यवश्च तूप्णीमनुवषट्कारे च होमः सर्वेषां च सुराग्रहान् वषट्कारानुवषट्कारयोरनुप्रकम्पयन्ति । सोमग्रहाणां चमसानां च प्रजापतिर्देवता । सुराग्रहाणां च तथैव । विभ्राडिति सौर्यप्राजापत्यानामपि मन्द्राऽमिभूतिरिति वा ॥ ३० ॥ ३१ ॥

विराट्छन्दस इति भक्षमन्त्रꣳ संनमति ॥ ३२ ॥

विराट्छन्दस इति चमसस्य ॥ ३२ ॥

दक्षिणस्यां वेदिश्रोण्यां वाजसृतो विमाथीकृत्य सुराग्रहान् भक्षयन्ति ॥ ३३ ॥

अत्राऽऽपस्तम्बसूत्रे विशेषः- मारुत्या आहवनीयानि सोमबहारश्चर्तिवस्य उपहरन्ति । अनवदानीयान् सुराग्रहाश्च वाजसद्धयः । तानि दक्षिणस्यां वेदिनोण्या विमाांकृत्य भक्षयन्ति ' (आप० श्री० १८-७-८ ) इति । दक्षिणस्यां वेदिश्रोण्यां विमाथीकृत्याऽऽच्छिद्याऽऽच्छिद्य भक्षणमिष्टिविकारा यदि सुरा इडोपाह्वानवदुपहूय भक्षणं भवति ॥ ३३ ॥

अनुयाजैः प्रचरति ते व्यूढासु स्रुक्षु सारस्वतप्रभृतीनामुत्तरेषां दैवतेन प्रचरति ॥ ३४ ॥ अपि वा यत्रैवेतरेषां पशूनां वपाभिः प्रचरेत् ॥ ३५ ॥ यत्रो हैव हविर्भिस्तद्धविर्भिर्मारुत्या अवदानीयानृत्विग्भ्य उपहरति ॥३६॥ अनवदानीयान्वाज १५. ... . सत्यापादविरचितं श्रौतसूत्रम्- १३प्रश्ने

सृद्भ्यस्तानि दक्षिणस्यां वेदिश्रोण्यां वाजसृतो विमाथीकृत्य भक्षयन्ति ॥ ३७ ॥

गतम् प्रजापतिश्च सन्नाइवरुणश्च (इति) सोम ग्रहणां भक्षणं, सुरा यदि सोमवि. कारा तदा तु मार्जालीये विहृते इध्माधानपरिस्तरणादि होमश्च । दक्षिणस्यां वेदिश्रोण्या ( अविभज्य वा) भक्षयेदिति खानसः । मारुतशेषभक्षणं सर्वेषां ॥ ३४ ॥ ३५ ॥

ककुदो राजपुत्रो ध्रुवगोपो नैवारगोपो वा प्राश्नाति । उभौ वा । सर्वं वा ककुदम् ॥ ३८ ॥

राजपुत्रेण ककुद्भक्षणं सर्वेषाम.चमनम् । ( यद्यपि यक्ष्यमाणविधिः पूर्वमेवोक्तः परंतु नास्ति क्रम इत्येके व्याचक्षते । ) अग्नीदीपयजानित्यादि । गुदकाण्डैः सर्वैः सह समुद्र गच्छत स्वाहा, सर्वत्र गच्छतेति । स्वरुहोमे सर्वान्सह द्यां वो धूमो गच्छत्वन्तरिक्षमार्चः पृथिवी भस्मना पृणध्व५ स्वाहा इति । सर्वजाघनीभ्यश्चतुरवदानम् । शूलोद्वासनकाले शुचः स्थ तं पाप्मानमभिशोचत । सुमित्रा न आप: । यूपोपस्थानकाले यूपवस्त्राण्यादायाध्यर्यवे प्रयच्छति । रशना अध्वर्थव इति च्छन्दोगवचनात् । अथाध्वर्युरुपद्रष्ट्रे तानि वस्त्राणि ददाति । गोच(गाव)तस्त्रः सोमप्रवाकायेति वचनात् । यस्य यस्य या हिरण्य, मालोपयुक्ता तां तां तस्मै तस्मै ददाति ॥ ३८ ॥

संतिष्ठते वाजपेयः ॥ ३९ ॥

ब्राह्मणतर्पणान्तं कृत्वा, अग्निं नराधुदवसानयिान्त, समाप्यते वाजपेयः । अथ कुरुवाजपेयस्य कर्म । पूर्वोक्तकाले कुरुवाजपेयेन यक्ष्य इति संकल्प्य । पूर्वो. तफलानि सर्वाणि । माध्यदिने सवने सर्वेषु नाराश सेषु दाक्षिणी होमौ हुत्वा हिरण्यमुद्द्बह्य रूपेण व इत्यादि हिरण्यं पूर्णपात्रमित्यादीनि दत्त्वा वयसो वयस इत्यादि दानं सप्तदश सप्तदश वयः सहस्रं चतुःशतं पञ्चचत्वारिंशद्ददाति । एकस्यैकाहायनप्रभृत्या पञ्चहायनेभ्यश्चमसाध्वर्युदानान्तं कृत्वा प्रसर्पकाणां च दत्त्वा, एतत्ते अग्न इति । अग्ने नय (इति) एवं वयसो वयस इत्यादिदान, दक्षिणाविभाग समश एव न यावद्ध्वर्यव इति । सदस्यो नित्य इति भाष्यकृत् । एवमशक्तस्य सप्तदशैव गा ददाति, इति च्छन्दोगवचनात् । सप्तदशैव विभागास्ताः सममृस्विग्भ्यो विभजेदिति च्छन्दोगवचनात् । ऋत्विङ्नमस्कारं कृत्वा विषाणप्रासनं यज्ञपतिरित्यादि माहेन्द्रग्रहणात्पूर्व सर्वं कृत्वा नैवारसर्विरानीय चात्वालेऽवदधाति । अथ शुक्रपात्रेण माहे द्रम् । असनि । अप्रस्तुते

- :- १ भक्षयेयुरिति । २ मालामति । ३ पटेलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमैतम् । १५१

क्षत्रस्योल्वमसि, इति पूर्ववत् । अत्र नाऽऽनिधावनं रथसंस्कारकत्वात् । रथादीनामभावा स्केचित् एकेन रथेनाऽऽनिधावनमिच्छन्ति कुरुवाजपेये । तदा (वैश्यरथकारयोः) राजन्य. 'वैश्ययोश्च नेष्टः । शिष्टं सर्वं पूर्ववदिति । संतिष्ठते कुरुवाजपेयः ॥ ३९॥

वाजपेयेनेष्ट्वा सौत्रामण्या यजेत ॥ १३.२.४०॥

तेनेष्ट्वा सौत्रामण्या यजेत । मैत्रावरुण्या चाऽऽमिक्षया वा ॥ १० ॥

न कंचन प्रत्युत्तिष्ठति ॥४१॥

साक्षाद्गुरुर(राव)प्यागते । यावज्जीवं न कंचन प्रत्यवरोहेत्, इत्यापस्तम्बः ॥ ४ ॥

श्वेतच्छत्री भवतीति विज्ञायते ॥ (ख०७) ॥ ४२ ॥

इति सत्याषाढहिरण्यकेशिसूत्रे त्रयोदशप्रश्ने द्वितीयः पटलः ।

अत्राऽऽपस्तवीयेऽप्यधिकमेकं सूत्रयामास-'वृहस्पतिसवेन वा प्रत्यवरोहणीयेन वा .यजेत । श्वेतच्छत्री ह भवतीति विज्ञायते' ( आप० श्री. १८-७-१८) प्रत्यवरो. हणं यदि करोति तदा (न) बृहस्पतिसवेन यजेत । यजमानो यावज्जीव श्वेतच्छनी । भवतीति च्छन्दोगवचनात् ॥ ४२ ॥ ....... : इति सत्यापाढहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां ..., .... प्रयोगचन्द्रिकायां त्रयोदशप्रश्ने द्वितीयः पटलः ॥ २ ॥

13.3 अथ त्रयोदशप्रश्ने तृतीयः पटलः।

ब्राहमणक्षत्रियोभयकर्तृकसंस्थारूपो वाजपेय उक्तः । अथैकतरकर्तृको विकृतिभूतो राजसूयो विधास्यते -

राजा राजसूयेन स्वर्गकामो यजेत ॥ १॥

तत्राकृतवानपेयस्य राजन्यस्यैव रानसूयेऽधिकारो न तु तेनेष्टवतः । राज्यफला- दपि साम्राज्यफलस्यातिशयितत्वेनोत्तमफलसाधनयागानन्तरमवरफलहेतुककतुकरणस्या...युक्तत्वात् । अत एव कात्यायनः राज्ञो राजसूयोऽनिष्टिनो वानपेयेन (का० श्री. १६ १-१२) इति । स चायं राजशब्दः क्षत्रियजातिनिमित्तः प्रदेशान्तरे दृश्यते । -: तस्य यत्कर्म स्मृतिविहितं तद्राज्यमित्युच्यते । किंच तत्तजनपदपुरपरिपालनादि । ननु राज्ययोगाद्राजशब्दप्रयोगः सार्वभौमः । तद्युक्ते ह्यात्रियेऽपि राजशब्द प्रयुअते. जना इति । राज्यं यः करोति स राजेति । एवं च कृत्वा राजसूय एवावेष्ट्यां दर्शनं भवति । यदि ब्राह्मणो यजेत बार्हस्पत्यं मध्ये निधायाऽऽहुतिमाहुति हुत्वाऽभिधारयेत् । १५२ . सत्यापाढविरचितं श्रौतसूत्रम्- १३ प्रश्ने. राजन्य ऐन्द्रम् । यदि वैश्यो वैश्वदेवमिति त्रयाणामपि वर्णानामधिकारं दर्शयति । ... तत्कथम् । यदि राज्यस्य कर्ता राजा तदैवमुपपद्यते । अत्रोच्यते--न राज्यकर्ता राजेति शक्यते वक्तुम् । न ह्या प्रत्ययलोपः प्रातिपदिकस्य प्रत्यापत्तिवों स्मर्यते । राजशब्दात्तु कर्माण ष्यप्रत्ययो विधीयते । तेन राज्ञः कर्म राज्यमिति शक्यते वक्तुं राज्यस्य कर्ता राजेति । यत्त्ववेष्टयां ब्राह्मणानां दर्शनमुक्तं तद्राजसूयाइहिरन्नाद्यकामस्यावेष्टिविहिता तद्विषयमिति । यत्त्वेकदेशे जातौ राजशब्दप्रयोगो योगात्सार्वभौम । इत्यत्र ब्रूमः । एकदेशेऽपि शब्दशक्तिमन्तरेण प्रयोगोऽनुपपन्न एव । सार्वभौमस्तु प्रयोगः स उपचारवृत्त्या राज्ञः कर्म कुर्वन् राजेव राजेत्युच्यत इति । तथा च समान. चोदनायां दृश्यते । तस्माद्राष्ट्यश्वमेधेन यनेत क्षत्रिययज्ञ उ (ह) वा एष यदश्वमेधः' इति । तथा-तस्माद्ब्राह्मणः क्षत्रियमधस्तादुपास्ते राजसूये यजमानं । सन्तमृस्विक्त्वेनेति क्षत्रियस्य राजसूर्य दर्शयति । राजस्येप्रकरणे ( जै० सु. ४-४-१) इष्टिपशसोमयागा अयागाश्च होमविदेबनादयः सर्वे फलाकाङ्क्षा अपि श्रुता न स्वाराज्येन फलेन संबध्यन्ते भावार्थाधिकरणन्यायेन (जै० सू०२-१-२ ) यजेरेव फलभावनाकरणत्वादयागानां तदङ्गत्वोपपत्तेः। राजसूयपदस्य यजिसामानाधिकरण्येन तन्मात्रनामत्वाच्च । न च राजा सोमः सूयतेऽभिषयतेऽस्मिन्निति व्युत्पत्त्या राजसूयशब्दस्य सोमयागमात्रवाचित्त्वात्तेषामेव फलसंब. न्धोऽस्स्विति वाच्यम् । राज्ञा क्षत्रियेण -सूयते निष्पाद्यत इति व्युत्पत्त्या सर्वेष्वप्युपपनत्वेन यजिसंकोचे प्रमाणाभावात् । अत एव राजा. क्षत्रियः सुनोति नाति यत्रेति व्युत्पत्याऽभिषेचनीयस्यैव तन्माहेन्द्रस्तोत्रकालाभिषेकवत्त्वसंबन्धेन राजसूयपदप्रसिद्धेस्तस्यैव फलसंबन्ध इत्यप्यपास्तम् । उक्तव्युत्पत्त्या सर्वपरत्वसंभवे यजिसंकोचे प्रमाणाभावात् । अतः सर्वे यागा एवं फलप्रयुक्ता इति विदेवनादीनां तद्विकृतावतिदेशः ॥ १॥

तैष्याः पौर्णमास्याः पुरस्तात्पञ्चरात्रे मासि दीक्षेत ॥ २॥

पौषपौर्णमास्या उपरिष्टापक्षे गते यद्यजनीय तत्र दीक्षा माघप्रतिपदीत्यर्थः । तथा घाऽऽह कात्यायनः- माघी( घ) पक्षयजनीये दीक्षा' (का० औ० १५-१-३) 'इति । सूत्रान्तरे तु वसन्तादौ फाल्गुन्यां पौर्णमास्यां प्रथमायां वा राना क्षत्रियोऽभि। षिक्तो वा इष्टप्रथमयज्ञ आमावास्येन इविषेष्ट्वा पत्नीभिः सह प्राणानायम्य संकल्प करोति, इति । अत्र संकल्पः-राजसूयेन यक्ष्ये शतसहस्रदक्षिणेन वा स्वर्ग लोकमवाप्नवानीति संकल्पः ॥ २ ॥

यथाऽस्यां परस्मिन्संवत्सरे तैष्यां पौर्णमास्या -ई. पटला ] महादेवशास्त्रसंकलितपयोगचन्द्रिकान्याख्यासमेतम् । १५३

मभिषेचनीयायोक्थ्याय दीक्षा प्रवत्स्यतीति ॥३॥

सच सोमयागो दीक्षासंबन्धात् ॥ ॥

ज्योतिष्टोमेनाग्निष्टोमेन प्रथमं यजेत ॥ ४ ॥

ततः प्रवित्रेण यक्ष्ये । विद्युदसि । ततः सोमप्रवाकवरणमधुपौं । सोमप्रवाकः-- बुकवर्मणो राजसूयो भविष्यति । तत्र भवताऽऽध्वर्यवं कर्तव्यम् । कञ्चिन्नाहीन इति पृष्टे नाहीनों राजसूय इति प्रतिवचनम् । ननु चाहर्गणत्वसामान्यादहीनत्वप्राप्त इदमुच्यते, तत्र द्राह्मायणेन त्रिरात्रप्रभृतिपश्चाहर्गणादन्यत्र राजसूयचातुर्मास्याभ्यामित्युक्तम् । तस्मान्नाहींनी राजसूय इति प्रतिवचनम् । होतृवरणकाले भार्गवो होता भवति । तं वृणीते। न काण्वकाश्यपादीन् । दशपेये भार्गवो होता भवति (तै० सं० १-८-२०) इति ( ब्राह्मणात् ) श्रुतेः । पवित्र ऋत्विजस्त एव कृत्स्नस्य राजसूयस्य । अथ वाकर्मणि कर्मणि पृथग्वरणम् । दशपेयेऽपि भार्गवमिति बौधायनवचनात् । दशपेय एंव भार्गवमिति गम्यते । देवयजनयाञ्चा(ना)पक्षे राजा देवयजनमित्यनेनैव विधिना, समा. रोपणकाले गार्हपत्यादीन्सर्वाननीन्स(दिसर्वाग्नीनां समारोपणं सभ्यावसथ्ययोश्च । तौ नियती। पतिर्वा एषेति श्रुतेः । संभारयषि हुत्वा सोममाह य परिवेषणं च । संतो न्यग्रोधस्तिभिनीराहत्य. परिवेषणम् . ! न्यग्रोधफलानि । सप्तहोतु (होम हुत्वा) स्वे दक्ष इत्युपस्थानम् । अथ दीक्षणीयाया अन्वाधानम्-अजस्रं त्वा० अन्नमावसीयं० नतकाले बायो चतपते ० अवहननकाले हविष्वदागहीत्याहानम् । पुरोहितप्रवरेण प्रवृ(वर)णम् । अववानकाले पूर्वप्रथमान्यवोद्गतश्रीत्वात् । एवं पत्नीसंयाजान्ते दक्षिणायष्टिः संतिष्ठते । आवेदनकालेऽदीक्षिष्टाय ब्राह्मणो राजेन्द्रश्चोलवर्मणः पुत्र इति । यवागूवतं, प्रायणाया सोमायणकाले दक्षिणे चर्मपक्षे, राजानं निवपति । तत्समीपे न्यग्रोधफलानि निदधाति । सोमाभिधायकमन्त्राणां फलेहेन प्रयोजनमिच्छन्ति मीमांसकाः । नैमित्तिकमतुल्यत्वादसमानविधानं स्यादिति न्यायेन । सूत्रकारस्य तु मन्त्राणां निवृत्तिः । तूष्णीकं समृन्मयं चेति वचनात् । . .. . - अत्र सौमक्रयणे विशेषः---अशुना ते अशुरिति सोममभिमन्व्य तुप्णी फलनि अभि त्यं देवमिति मीत्वा सोमम् । तूष्णीं फलानि । प्रजाभ्यस्त्वेत्यादि सोम ते क्रीणानीति नपित्वा गवा ते तस्या आत्मा द्वाभ्यां राजसूयस्येति वचनात् । द्वाभ्यां शताम्यां क्रयः । शतद्वयस्य सप्तसोमानां सप्तधा विभागः । एकैकस्याष्टाविंशतिः, एकैकस्य १५ सत्यापादविरचितं श्रौतसूत्रम् [१३ प्रभेद्वाविंशतिर्वा । तस्यान्त्यवृद्धिन्यायेनान्त्ये (न्ते) निवेशः । क्षत्राणां धृतौ, अन्यत्राष्टाविं. शत्या, एको(कया)गवा ते क्रीणानीत्युक्तम् । तस्याः पांसुग्रहणं, सा द्विरूपा द्विरूपया राजन्यस्येति वचनात् । अत्र. सप्तविशत्या गोमिस्ते क्रीणानीति अस्मे ज्योतिरित्यादि। - आतिथ्यया प्रचर्य यवाग्वा व्रतं प्रवयंसंभरणकाल इदमहमामुष्यायणं द्वितीयविभक्त्या बुक्कवर्माणं कर्णाटकविशां पhहामीति सिकताव्यूहनम् । महावीरप्रतिष्ठापनकाले धर्माऽसि सुधर्मा मेऽन्यस्मे क्षत्राणि धारयेत्याप्यायनं फलानामपि । उपसद्रतं स्तनकरूप एव । शेषमग्निष्टोमवत् ॥ महाराने बुद्धा-धुर्व प्रयुज्य षोडशिपात्रं प्रयुनक्ति, अत्यग्निष्टोमवत् । केचिन्नेमछन्ति । प्रकृतावाग्निष्टोमे षोडशीति द्रोणकलशद्वयं पूतद्वयमाधवनीयद्वयं च गावधर्मणोरभेद इत्येके । मावचर्मणोरभेद इति बढचवचनात् । वसतीवरीणामपां प्रपा(सा)एनकाले पूर्वया द्वारा गतश्रीत्वात् । अभिषवकाल · इन्द्राय वा वृषघ्न इति कृत्वा प्रत्यवरोह्य फलान्येव कुर्वन्ति । महाभिषवं कृत्वा संभृत्य चर्मग्रावाणावपोह्यापर धर्म प्राणः प्रोक्ष्याऽऽसाद्यापां क्षयान्तं कृत्वा काले वा सह कृत्वा फलान्यपरे न्युप्य प्रागपागित्यादि। नात्रावीवृध। आमास्कानिति द्रप्सश्वस्कन्देति भवतः । केचिनेच्छन्ति । एवमंभिषुत्य प्रपीड्य लौकिकेन दध्ना संसृज्यान्यस्मिन्नांधवनीयेऽवनयति । ध्रुवं गृहीत्या षोडशिग्रहणम् । ततो न्यग्रोधकलश प्रतिष्ठाप्य संमार्जन कृत्या तस्मिन् पवित्रं वितत्य फलरसात् किंचिदानयन्ति । एकधनाना यथार्थमिति । सोमस्य कृत्वा पश्चात् फलानां मैत्रावरुणचमसाद्यो उभयत्रः । ततः पवमानमहादिफलानामपि द्वौ समुद्रौ द्वे धसी भूताः स्थ. विष्णोरिन्द्रस्य विश्वेषां देवानामिति पृथमेव कृत्वा सोम त्वामिति निवृत्तिः । शताः स्थ • प्रमापतेरिन्द्रस्य विश्वेषां देवानां शृतस्त्वमिति भवति । यथा श्रीहिमन्त्रस्य यवप्रयोगे निवृत्तिस्तद्वदिति । चमसोनयनकाले. यजमानचमसमुन्नेता फलरसेनोन्नयति । द्रोणकलशादुपस्तीत्यादि चमसेषु हुयमानेषु मध्यंतःकारिणां चमसिमां त्रयाणां हुसेऽन्तःपरिध्यङ्गारं निर्वयं दर्भतरुणेन गृहीत्वाऽहं त्वदस्मिक र इति) तस्य चमसाध्वर्युरङ्गारे चमसं (सेन) जुहोति । अनुवषट्कृते नुहोति तूष्णीम् । मक्षणकाले भक्षेहीत्यवेक्ष्य नृपक्षसं त्वा. यदत्र शिष्टमिति अहं तदस्मि इसि भक्ष. 'यति यजमानः शं न एधीति । अपः ( इति ) बढचवमनात् । सर्वत्र यजमानचम. सेप्वेवं प्रयोगः ॥ ४ ॥

पञ्चापवर्गो भवति ॥ ५ ॥

अपवर्गः परिसमाप्तिः ॥ ६॥ १ पटलः ] महादेवशास्त्रिसंकलितमयोगचन्द्रिकान्याख्यासमेतम् । १५५

अꣳशुना ते अꣳशुरिति सोममभिमन्त्र्य तूष्णीं फलानि अभि त्यं देवमिति मीत्वा सोमम् । तूष्णीं फलानि । प्रजाभ्यस्त्वेत्यादि सोमं ते क्रीणानीति जपित्वा गवा ते तस्या आत्मा द्वाभ्यां राजसूयस्येति वचनात् । द्वाभ्यां शताभ्यां क्रयः । शतद्वयस्य सप्तसोमानां सप्तधा विभागः । एकैकस्याष्टाविंशतिः, एकैकस्य शतसहस्रं सर्वेषु राजसूयिकेषु सोमेषु समशः प्रतिविभज्यान्वहं ददाति ॥ ६ ॥ तथा दक्षिणा नयेत् ॥ ७॥ यथाऽस्याहानि स्वकालानि स्युः। शेषमनुदिशेत् ॥ ८॥

दक्षिणाकाले पञ्च सहस्राणि धेनवो ददाति पवित्र इति । शतसहस्रं लक्षं सर्वेषु राजसूयिकेषु सोमेषु पवित्रादिषु सप्तसोमयागेषु च । स्पष्टमन्यत् । दक्षिणानयनकाले यथा प्रधानोत्कर्षों मा भूत्तथा नयनम् । एतदुक्तं भवति-दश वा विंशतिं वा निनीय शिष्टा यत्र कुत्रचित् स्थिता ददाति । तृतीयसवन ऋजीपमभिषुत्य फलऋषिमभिषुण्वन्ति । विभज्याऽऽशिरावनयनं पूर्वया द्वारा प्रवेशनमाशिरस्याग्निष्टोमचमसैः प्रचर्य पोडशिहोमेमला। अवभये तूष्णीं फलकाजीषप्रोक्षणं तन्त्रेण प्रक्षेपः । केचिद्भेदेन बिन्दुस्पर्शनं फलस्य तूष्णीम् । अनूमन्ध्यायाः पशुपुरोडाशमष्टो देवसुवा हवाप्यनुनिर्वपति । खाजो राज्ञां भन्यस्य वेत्यन्यत्सर्वमग्निष्टोमवत् ॥ ६ ॥ ७ ॥ ८ ॥

राजसूयेष्टिपशुबन्धानामन्वहं चोदनात् ॥९॥

अनुमत्यादय इष्टय , पवित्रादयः सोमाः, मल्लादयश्व पशवः, एते भिन्नतन्त्रा भवन्ति । कुत एतत्-अन्वहं चोदत्तात् । अन्वहमेकैकम् ॥ ९ ॥

तेषां दक्षिणापृथक्त्वेनेष्टिपृथक्त्वं प्रतीयात् ॥ १३.३.१० ॥

तेषामिष्टिपशुसन्धाना दक्षिणापृथक्त्वेन चोदनादिष्टिपृथक्त्वं जानीयात् । अन्ये त्वेवं चांश्चदाभ्यग्रहणं तिस्रोऽभूबन्ध्यानधातवी चात्र भवन्ति ॥ १० ॥

अन्यद्दिशामवेष्टेः पृथक्दाक्षिणानि तान्येकतन्त्राणि भवन्ति ॥ ११ ॥

उदाहरणार्थमिदम् ॥११॥

श्वोभूत आनुमतप्रभृतिभिरन्वहं यजेत ॥ १२ ॥

पवित्रस्यका दीक्षा तिस्र उपसदः पञ्चम्या प्रसुतः श्वोभूते षष्ठीप्रभृत्य तुमतादिमिअष्टाभिरिष्टिभिर्यजेत ॥ १२ ॥

अनुमत्यै पुरोडाशमष्टाकपालं निर्वपतीति यथासमाम्नातम् । पिꣳषन्नानुमतं पश्चादुत्तरतश्च व्यवशातयति ॥ १३ ॥

आरम्भार्था नान्वारम्भणीया षष्ठयां प्रातरग्निहोत्र" हुत्या, इष्टया यक्ष्ये । अत एव यत्र रानसूयादाविष्टिपशुरूपाणि प्रधानान्येवान्यप्रधानसंयुतानि तत्र सत्यपि

१.क. 'वीया चा। १५६ : सत्यापादविरचितं श्रौतसूत्रम्-- ११:

तेषां प्राधान्ये तत्तदिष्टया यक्ष्ये, इत्यादिसंकल्पस्य तत्तदिष्टिमें जायताम् ' इत्याका. रकेच्छामन्तरेणापि राजसूयो मे जायताम्' इत्यांकारकराजसूयत्वप्रकारकेच्छाजन्यप्रवृत्त्याऽप्युत्पत्तिसंभवेन तत्तदिष्टित्वावच्छिन्नोद्देश्यताका वृत्तिविषयत्वाभावान्न ततः पूर्वं तावदारम्भणीया न वा ' राजसूयेन यक्ष्ये ' इति महासंकल्पापूर्वः तस्यापि राजसूयुत्वावच्छिन्नोवेश्यताकप्रवृत्तिविषयत्वेन तत्तदिष्टित्वावच्छिन्नोद्देश्यताकप्रवृत्तिविषयत्वा. भावात् । नहिं राजसूयत्वं दर्शपूर्णमासनिष्ठप्रकृतितानिरूपितविकृतितावच्छेदकं तस्य सोमयागेष्वपि सत्त्वेनातिप्रसक्तत्त्वात् । अत एव यत्र चातुर्मास्यांदावाप्रयणादौ वा नातिप्रसक्तं चातुर्मास्यत्वादि तत्र प्रतियागं भिन्नातिदेशकल्पने सत्यपि तस्योद्देश्यता बच्छेदकत्वे न काचित्क्षतिः । .... .. ... वस्तुतस्तु-प्रकृतावपि दर्शपूर्णमासत्वं नोद्देश्यतावच्छेदकमपि त्वाग्नेयत्वादिकमेव कालैक्यात्तु तन्त्रेण करणम् । 'दर्शपूर्णमासाभ्यां यक्ष्ये 'इत्यस्यापि च : आग्नेयादिभिः र्यक्ष्ये' इत्येवार्थः । ततश्च विकृतावपि चातुर्मास्यादौ तत्तथागत्वमेवोद्देश्यतावच्छेदकं कालैक्याच्च तन्त्रेण करणम् चातुर्मास्यैZध्येः' इत्यस्य चौतियागैर्यक्ष्ये ' इत्येवार्थ इति न कश्चिद्विरोधः । अतस्तत्र भवत्येव तदारम्भेऽन्वारम्भणीया। प्रकृते तु सत्यपि तत्तदिष्टित्वादेरुदेश्यतावच्छेदकत्वे तत्तत्सौमत्वादेरप्युद्देश्यतावच्छे दकत्वान्नान्वारम्भणीया । प्रकृती हि दर्शपूर्णमासावारप्स्यमानः, इत्यनेन दर्शपूर्णमासंयोर्विशेषणत्वनिर्देशादपूर्वसाधनत्वलक्षणावेलायां प्रकृतापूनिष्ठकार्यतानिरूपितकार ता. वच्छेदकावच्छिन्नत्वे सति निरुक्तकारणतानवच्छेदकानवच्छिन्नत्वमुद्देश्यताविशेषणं विवक्षणीयम् | अतश्च राजसूये तादृशोद्देश्यताभावान्नान्वारम्भीया.। अत एवं प्रकृती'अग्निहोत्रं दर्शपूर्णमासौ च मे जायताम्' इत्याकारकेच्छाअपि नौद्देश्यतापटिका । अन्यथाऽग्निहोत्रीयप्रथमप्रयोगीयाद्यपदार्थस्यापि तादृशोद्देश्यताकप्रवृत्तिविषयत्वात् नत्राप्यन्वा. रम्भणीयापत्तेः । अतस्ताद्दगिच्छोत्तरं । दर्शपूर्णमासी जायेताम् । इत्याकारिकेच्छा जायते. सैवोद्देश्यताघटिकेति ध्येयम् । ...... ... ... ........ विद्युत्वृष्टी कर्मणि कर्मण्यादावन्ते च भवतः । अन्वाधानादि अद्य यज्ञायः इमामूर्ज षष्ठी • ऐष्ट५ हविः पौर्णमासतन्त्रं, पात्रभयोगकालेऽष्टौ कपालानि वर्षिष्ठमेककपालं स्पंयश्च द्वंद्वमवशिष्टानि प्रकृतिवत् । अन्वाहार्यस्थालीव च । चतुर्दशीमिश्रितायाः पौर्णमास्या अभिमानिदेवताऽनुमतिः । अमावास्या सिनीवाली पौर्णमास्यनुमतिः ' इति श्रुतेः । कलाहीने साऽनुमतिः पूर्णे राकां निशाकरे' इत्यभिधानात् । सा चीनुमतिरत्र देवता पुरोंडाशों द्रव्यमित्येतदेकं कर्म । दक्षिणामिधानेनं वक्ष्यमाणेभ्यः कर्मभ्यो भिन्ना विकारावगमात् । निर्वपणकाले देवस्य त्वाय अनुमृत्यै जुष्टं निर्वपामीति निर्वपति । पटलः ] . महादेवशास्त्रिसंकलितमयोगचन्द्रिकाच्यालासमेतम् । ५.

अनुमते हव्या रक्षस्वेत्यधिवापनान्तं कृत्वा पिष्टानामनुमन्त्रण- शभ्यापश्चादुत्तरतम्य न्यवशातयति निपातयति तण्डुलान् ॥ १३ ॥

ये प्रत्यञ्चः शम्याया अवशीयन्ते तं नैर्ऋतमेककपालं कुर्यात् ॥ १४ ॥

अस्मिन्कर्मणि पुरोडाशार्थ तण्डुलेषु पिष्यमाणेषु पश्चिमायां दिशि हपदमभ्याधातुमधः स्थापितायाः शम्यायाः पश्चाये तण्डुलपिष्टलेशा अवशीयन्तेऽधः पतन्ति तल्लेशजातं द्रव्यं नितिदेवताकं, तदिदमपरं कर्म पृथग्दक्षिणाभिधानात् । आनुमतं पिष्ट्या *त पेषणं भवति ॥ १४ ॥

उपधायाऽऽनुमतस्य कपालानि नैर्ऋतस्य कपालमुपदधाति ॥ १५ ॥

अनुमतेरेष्टावुपधाय नैर्ऋतस्यैककपालं तूष्णीं वेत्येके । प्रथममन्त्रेणोपदधातीत्यपरे । अनुमत्यै संवापः, नैतं तूष्णीम् । अन्यस्यां .. पाच्या.. नैतस्य तूष्णीमुपचारः । पुरोडाशद्वयमुद्वास्योत्तिधा(तं धारयति ॥ १५ ॥

आसाद्या(द्याऽऽ)नुमनं नैर्ऋतेन प्रचरति ॥१६॥

प्रियेणेत्यासादनम( मा )नुमतस्य, यज्ञोऽसि. अयं यज्ञः ममाग्ने चतुर्होत्तर इत्यासन्नाभिमर्शनम् ॥ १५॥

वीहि स्वाहाऽऽहुतिं जुषाण इति स्रुवेण गार्हपत्ये जुहोति ॥१७॥

अध्वर्युयजमानयोरार्तिनिवारणाय जुहुयादित्यर्थः । गृहपतिर्देवता ॥ १७ ॥

दक्षिणाग्नेरेकोल्मुकं धूपयति ॥ १८ ॥

दाक्षिणाग्नेरुल्मकनयनं विधत्ते---- एकोल्मुकेन यन्ति । तद्धि नित्यै भागधेयम् । (तै० वा. १-६-१) इति । उन्मुकेन युक्ता इत्यध्याहारः । नितिरेकोल्मुकप्रियत्वमर्थवादान्तरगवं हिशब्देन सूच्यते ॥ १८ ॥

पराचीनं दक्षिणापरमवान्तरदेशँ हृत्वा स्वकृत इरिणे प्रदरे वोपसमाधाय जुषाणा निर्ऋतिर्वेतु स्वाहेति ॥ (ख०८).॥ विस्रंसिकायाः काण्डाभ्याꣳ सर्वहुतं नैऋतं जुहोति ॥ १९ ॥

दक्षिणपश्चिमयोरवान्तरदेशमङ्गुलिनिर्देशेन विधत्ते-इमा दिशं : नयन्ति । एषा के निर्ऋत्य दिक् । स्वायामेव दिशि निर्ऋतं निखदयते, (तै ब्रा० १-६-१) इति । इरिणमुषरक्षेत्रं, तच्च स्वकृतं स्वतः सिद्धं न तु यतः कुतश्चिदादायोपाः प्रक्षिप्ताः । प्रदरः वतः सिद्धं भूच्छिद्रम् । (तस्मिन्) तत्रोपसमाधाय नैर्ऋत५ सर्वहुतं जुहोति ॥. १९ ॥ १५४ . सत्यापाढविरचितं श्रौतसूत्रम्-- १६ प्र

अङ्गुष्ठाभ्यामेष ते निर्ऋते भाग इति वा ॥१३.३.२०॥

मुम्चेममहस इत्यन्तनाङ्गुष्ठाभ्यां वित्रंसिकाकाण्डाभ्यां वा प्रदेशिनीम्यामित्यर्थः । यद्वा-चोदकप्राप्तं जुह्वा होगमपवंदितुं विधत्ते--अङ्गुष्ठाभ्यां जुहोतीति ॥ २० ॥

वासोऽभिन्नान्तं दक्षिणा कृष्णं वासः कृष्णदशम् ॥ २१ ॥

कृष्णं वासः कृष्णदशमवयं ददाति । मुख्यब्राह्मणे विहितां दक्षिणां प्रशंसतिकृष्णं वासः कृष्णतूषं दाक्षिणा । एतद्वै निर्वात्यै रूपम् । रूपेणैव निति निरव. दयते (तै०वा. १-१-१) इति राक्षसजातेः पापरूपाया नितेदेहः कृष्णवर्णः ॥२१॥

अपः परिषिच्याप्रतीक्षमायन्ति ॥ २२ ॥

तृष्णी परिषेचनं कृत्वा होमदेशमनवेक्षमाणा आयन्ति । पृष्ठभागदर्शनरहितं प्रत्यागमनं विधत्ते-अप्रतीक्षमायन्ति । निर्गत्या अन्तर्हित्य (ते. बा. १-६-१)अदर्शना. येत्यर्थः ॥ १३ ॥

स्वाहा नमो य इदं चकारेति पुनरेत्य गार्हपत्ये जुहोति ॥२३॥

अथ हस्तपादाम्प्रक्षाल्यैतेनैव पथा यथेतमेत्य गार्हपत्ये त्रुवाहुति जुहोति स्वाहा नमो यदं चकारेति । न स्वाहाकारस्तं पू(स्तत्पू)होमीयमिति ॥ २३ ॥

अ(आ)नुमतेन प्रचरति य उदञ्चोऽवशीयन्ते तानुदक्परेत्य शुक्त्या वल्मीकवपामुद्धत्येदमहमयुष्याऽऽमुष्यायणस्य क्षेत्रियमवयज इति शुक्त्या वल्मीकवपायां जुहोति । तामपिदधातीदमहममुष्याऽऽमुष्यायणस्य क्षेत्रियमपिदध इति शुक्त्या वल्मीकवपया वा ॥ २४ ॥

अयं वेद इत्यादि अनुमत्या अनुबहीति अनुमति यज । अनुमत्याऽहमन्नादः धेनुदक्षिणा । चातुर्मास्यपर्जन्यवहो यज्ञ शं च म वर्जे ब्राह्मणभोजनान्तम् । शम्याया उत्तरतः पतिता ये तण्डुलास्तानादाय शुक्तिकायां च गृहीत्वोत्तरतो गत्वा वल्मीकवपायामेकशङ्गमुद्धत्य, अप उपस्पृश्य इदमममुष्याऽऽमुष्यायण इति राज्ञो नामग्रहणमामुष्यायणस्येति युवप्रत्ययान्तं पितुर्नाम च षष्ठयन्तमेवं गृह्णाति । एवमत्र प्रयोगः-इदमह५ राजेन्द्रवर्मणो राजेन्द्रचोळायनस्य हेतिमवयजे स्वाहा इति शुक्त्या जुहोति । वल्मीकवपायां शुक्तिकया मन्त्रेण पूर्ववन्नाम गृहीत्वा तस्यैव शुक्त्याऽपि दधाति । केचित्तुपेषणकाले पिष्टवोत्तरतः पतितांस्तांस्तण्डुलानादायोदक्परेत्येत्यादिशुक्योपधानान्तं कृत्वा कपालोपधानादिकं च कुर्वन्ति, इति ॥ २६ ॥ . पटलः ] महादेवशास्त्रिसंकलित योगचन्ट्रियाच्यारयासमेतम् । १५९ ..

आदित्यं चरुं निर्वपतीति तदुत्तरास्वासामुत्तमा ॥ २५॥

वो भूतेऽग्निहोत्र हुत्वा, इष्टया यक्ष्ये, इत्यादि । आदित्य चळं चातुर्मास्यादित्यवत् । श्वोभूते संकल्पादि आग्नावैष्णवमेकादशकपालं, वामनो वहीं दर्शिणा वहीं मारवाही बलीवर्दः । रुद्राय गामिति प्रतिग्रहः । श्वोभूतः संकल्पादि । अग्नीषोमीयमेकादशकपालं हिरण्यं दक्षिणा । अग्नये हिरण्यमिति प्रतिग्रहः । श्वोभूते पूर्ववत्संकल्पादि, ऐन्द्रमे. कादशकपालं ऋषभो वहीं दक्षिणा । ऋषभः सेचनसमर्थः साण्डः । समाप्यामीन्परित्यज्य तदानीमेव संकल्पादि, द्विहविष्कावन्वाधाय शाखाहरणं, इन्द्राय देवभाग, अमावास्यातन्त्रं वेदं कृत्वा वेदिकरणं यवाग्वा सार्यहोमः, निशायां दोहनं इन्द्राय हविरिन्द्रियं बहुदुग्धीन्द्राय देवेभ्यः, इन्द्राय दधि प्रामुदयादुपक्रमः | पात्रासादनकालेऽष्टी. कपालानि प्रकृतिवत्सर्वाणि पात्राणि प्रातदोहपात्राणि । अन्वाहायस्थालीवर्नम् । अग्नये अष्टं निर्वपामीत्यादि, न. प्रातदोहः । शेषं सर्व प्रकृतिवत् । ऋषभो.दक्षिणा वरुणप्रघासवदूहः ॥.२५ ॥

आग्रयणेष्टिस्तयेष्ट्वा श्वोभूते सरस्वत्यै चरुं निर्वपति । सरस्वते चरुं मिथुनौ गावौ दक्षिणा॥२६॥

श्रोभूते त्रिविष्क, पूर्ववत्संकल्पादि, पुराणानेव ब्रीहिश्यामाकान्द्यावापृथिविवर्जमाप्रयंणवसर्वम् । ऐन्हान द्वादशकपालं वैश्वदेवं च प्रथमों को दक्षिणा । सौम्य श्यामाकं चरुं वासो दक्षिणा । ऐन्द्राअवैश्वदेवसौम्यस्त्रिभिर्ह विभिर्युक्त आग्रयणरूप एक एव यागः । स्वोभूते सरस्वत्यै चरु सरस्वते चरुं मिथुनौ गावी दक्षिणा, इति । सरस्वतीसरस्वदेवताभ्यां "हविया युक्तो याग एकः । तदेवमादित्यादयः सष्ठ संपद्यते संपद्यन्ते ॥ २६ ॥

श्वोभूते चातुर्मास्यान्यालभते । तैः संवत्सरं यजते ॥२७॥ न शुनासीरीयं प्रतिसमस्याति २८॥

श्वोभूते चातुर्मास्यान्यालभते । चातुर्मास्यैर्यक्ष्य इति संकल्पादि । न पञ्चहोता नावारम्भणीया । वैश्वदेवेन यक्ष्य इत्यादि । एतेषां वैश्वदेवादीनां चातुर्मास्यानामानुमतायन: न्तरभावित्वं पाउमाप्तमापस्तम्बो विशदयति-एताभिरन्वहमिष्ट्वा चातुर्मास्यान्यारमते तैः संवत्सरं यनेत इति । तेषु चातुर्मास्येषु प्रथमपर्वणो वैश्वदेवस्य देशकालौ सूत्रकारेण व्याख्यातौ- प्राचीनप्रवणे वैश्वदेवेन यनते ' इति । ' फाल्गुन्या पौर्णमास्यां चैव्या वा वैश्वदेवेन यजते ' इति च । शेषं पूर्ववत् । न शुनासीरीयं प्रतिसमस्यति । यहादयो मासान्ता विकल्पा न भवन्ति । चतुर्षु चतुर्षु मासेष्वेव नियमः | आगामिन्या १६० । सल्यापाढ़ावरचितं श्रौतसूत्रम् - [१५ प्रश्ने-

फाल्गुन्यां पौर्णमास्यां शुनासीरीयेणेष्वा ततः पौर्णमासेनेष्ट्वा वपनं कृत्वा चातुर्मास्याङ्गब्रतानि समापयेत् ॥ २७ ॥.२८ ।

श्वोभूत इन्द्रतुरीयप्रभृतिभिरन्वहं यजते ॥ २९॥

तस्मिन्नेवाहनि श्वो वा पाक्षिकत्वं सूत्रान्तरमतात् । इन्द्रं एव तुरीयो यस्मिन्कर्मणि तत्कर्मेन्द्रतर्रायम् । अन्यदीयरूपापेक्षया तुरीयत्वमनुष्टाने तु पाठक्रमेण वरुण. -स्तुरीयः ॥ २९ ॥

अथेन्द्रतुरीयस्य हवींषि विधत्ते--

आग्नेयमष्टाकपालं निर्वपतीति यथासमाम्नातम् । चतुर्हविरिन्द्रतुरीयम् । तत्संग्रामे निर्वपेत् ॥१३.३.३०॥

- इन्दतुरीयस्य कर्म-ऐन्द्रतुरीयर हविः शाखाहरणम् । वत्सापाकरणं प्रकृतिवन्निगमा अमावास्यातन्त्रम् । तदानीमेव सायदोहः । तण्डुलरातञ्चनं विष्णो हत्यमिति च कृत्वा न वस्सापाकरणम् । पात्रप्रयोगे शूर्पत्रयं पात्रीत्रयं, शेष प्रकृतिवत् । शर्प पवित्रे निधाय, अग्नये. जुष्टं निर्वपामीति ब्रीहीन् । अन्यस्मिञ्श गावीधुकान् । रुद्राय जुष्टं • पुनरन्यस्मिशू यवान्वरुणाय जुष्टं ० एवमेवेष्टितन्त्रं ब्राह्मणभोजनान्तम्।। ३० ॥

एतस्या एव रात्रेर्निशायां पञ्चेध्मीयेन यजेत ॥ ३१ ॥

इन्द्रतुरीयकर्म यस्मिन्नहनि क्रियते तस्यां रात्रौ सायमग्निहोत्र५ हुत्वा पञ्चेमीयेन यक्ष्य इत्युक्त्वा ॥ ३१॥

निशायामपामार्गहोमेन चरन्ति ॥ ३२ ॥ सायꣳहुतेऽग्निहोत्रेऽपां न्ययनादपामार्गानाहृत्य तान्सक्तून्कृत्वा दक्षिणाग्नेरेकोल्मुकं धूपयति ॥ ३३ ॥पराचीनमुत्तरापरमवान्तरदेशꣳ हृत्वा स्वकृत इरिणे प्रदरे वोपसमाधाय ॥(ख०९)॥ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याꣳ रक्षसो वधं जुहोमि स्वाहेति पर्णमयेनार्कमयेण वा स्रुवेणापामार्गसक्तूञ्जुहोति । इन्द्रस्य त्वौजसे जुहोमि स्वाहेति वा । हतꣳ रक्ष इति स्रुवमनुप्रहृत्यावधिष्म रक्ष इति हुत्वोपतिष्ठते ॥ ३४ ॥ वरो दक्षिणा । यद्वस्ते तद्दक्षिणा ॥ ३५ ॥

न्युष्टायां पुराऽग्निहोत्रादपामार्गहोमेन -चरन्ति ( आप० श्री. १८-९-१५.) इत्यापस्तम्बः । न्युष्टायां संध्याकालेऽपा स्ययमादपां समीपादपामार्गमाहत्याध्वर्युरेव ३ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमैतम् । १६१

सक्तून्कृत्वा दक्षिणानेरेकोल्मुकं ज्वलन्तमग्निं धूपयति । उत्तरापरमवान्तरं मध्यदेशमा हृत्य स्वकृत इरिणे प्रदरे वा संस्थापयति । पालाशेन सुवेणापामार्गसक्तुभिर्जुहोतिदेवस्य त्वा० इन्द्रस्य त्वा० इति विकल्पो मन्त्रस्य होमे । हत५ रक्ष इति स्रवस्याग्नौ प्रक्षेपः । अवधिष्म रक्ष इत्युपस्थाय होमकाले यद्वस्त्रमाच्छादयति तस्य दानं वा । गौ वर इति सूत्रकारेणोदाहृतत्वाद्वरो गौः ॥ ३२ ॥ ३३ ॥ ३४ ॥ ३५ ॥

एतेनैव यजेत यः पाप्मनो बिभीयात्पञ्चेध्मीयेन चरति । चतुर्धाऽऽहवनीयं प्रतिदिशं व्यूहति । मध्ये पञ्चमम् । पृथगिध्मानुपसमाधाय ये देवाः पुरःसद इति प्रदक्षिणमनुपरिक्रामन्प्रतिदिशं चतस्र आहुतीर्जुहोति । मध्ये पञ्चमीम् । समूढꣳ रक्ष इति मध्य इध्मानभिसमुह्याग्नये रक्षोघ्ने स्वाहेति पञ्चगृहीतेन पञ्चोत्तरा रथः पञ्चवाही दक्षिणा । प्रष्टिवाही वा ॥ ३६॥

चतुरो भागानाहनीये ( यस्य ) कृत्वा प्रतिदिशमुद्धरेत् । मध्यमं पञ्चमम् । आहवनीयस्य धिष्णिय एव । पञ्च भागान्समिद्भिर्बलवतः कृत्वा जुह्वां पश्च गृहीतं गृहीत्वा ये देवाः पुरः सदोऽग्मिनेत्रा० इति प्राच्यादिषु यथालिङ्ग मध्यमेन पञ्चमेन | देवा देवता । सर्वानाह्वनीयभागान्समृढ रक्ष इति मध्य एकीकृत्य समिद्भिः प्रज्वाल्यापरं चतुगृहीतं गृहीत्वा-अग्नये रक्षाने स्वाहा । यमाय रक्षाने स्वाहा | सवित्रे रक्षाने स्वाहा । वरुणाय रक्षोध्ने स्वाहा । बृहस्पतये दुवस्वते रक्षोने स्वाहा । इति यथालिङ्गं त्यागः । त्रिपादाधारवदश्वत्रयेणोह्यमानः प्रष्टिवाही । प्रष्टिवाही रथो दक्षिणा (तै० सं० १-८-७ ) इति मन्त्रवर्णात् ।। ३६ ॥

तेनैव यजेत यो रक्षोभ्यो बिभीयात्पिशाचेभ्यो वा । तं च यत्कामयते तद्दद्यात् ॥ ३७ ॥

यो रक्षोभ्य इत्ययज्ञसंयुक्तः कल्पः । शेष स्पष्टम् ।। ३५ ॥

श्वोभूते देविकाहविर्भिर्यजेत ॥ ३८ ॥

प्रातरग्निहोत्र हुत्वा देषिकाहविभिर्यजेत ।। ३८ ॥

धात्रे पुरोडाशं द्वादशकपालं निर्वपतीति यथासमाम्नातम् । मिथुनौ गावौ दक्षिणा वत्सतरी वा ॥ ३९ ॥ १६२ सत्यापाढविरचितं श्रौतसूत्रम्- . । १३ प्रश्ने

देविकाहविर्मिर्यक्ष्य इत्यादि । देविकाहविषा५ हविरिदं० । केचिदिष्टया यक्ष्य इत्युक्त्वा, ऐष्ट५ हविः० धात्रे पुरोडाशं द्वादशकपालं निर्वपत्यनुमत्यै चरु५ राकायै चरुण सिनीवाल्यै चरुं कुदै चर्स मिथुनौ गावी दक्षिणा । ब्राह्मणभोजनान्तं समा. प्यते ॥ ३९ ॥

प्रवीता प्रवीयमाणेत्येकेषाम् ॥ १३.३.४० ॥

नवप्रसूता गर्भिणी वा गौः ॥ ४०॥

ताभिः प्रजाकामः पशुकामो वा यजेत ॥ ४१ ॥

ताभिदेविकाहविभिः ॥ ४१ ॥

आमयाविनं याजयेद्वा धातारं मध्यतः कृत्वा प्रजाकामः पुत्रैर्धातारमुत्तमं कृत्वाऽऽमयावी पशुना यजते ॥ ४२ ॥

समाप्ते धातृपशुः, पशुबन्धेन यक्ष्य इत्यादि । केचिन्नेच्छन्ति । षड्ढोत्रा, (उदवसानीय ) उदवसाय पश्चिष्टिः, धात्रे त्वा जुष्टमुपाकरोमीत्येव निगमः । उत्तराणि त्रीणि हवीं षि अग्निश्वानरवारुणी च, समाप्ते पशौ च तस्मिन्नहन्येव । स च विधिरने वक्ष्यति सूत्रकारः ॥ ४२ ॥

श्वोभूते त्रिषंयुक्तैरन्वहं यजते ॥ ४३ ॥

पशोरभारे देविकानन्तरे । अथवा पञ्चाप्यन्वहं पाक्षिकं सूत्रकारमतात् ॥ ४३॥

आग्नावैष्णवमेकादशकपालं निर्वपतीति यथासमाम्नातं प्रथमं त्रिषंयुक्तं तेन यज्ञकामो यजेत । अग्नीषोमीयमेकादशकपालं निर्वपतीति यथासमाम्नातं मध्यमं त्रिषंयुक्तं वीरजनꣳ समामनन्ति । सोमापौष्णं चरुं निर्वपतीति यथासमाम्नातमुत्तमं त्रिषंयुक्तं तेन पशुकामो यजेत । वैश्वानरं द्वादशकपालं निर्वपतीति तेन ग्रामकामो यजेत । वारुणं यवमयं चरुमिति सर्वतःप्रादेशमात्रो वारुणश्चरुर्भवति । योग्योऽश्वो व्युप्तवहो वा दक्षिणा । समानतन्त्रौ वैश्वानरवारुणावेके समामनन्ति। (ख०१०)॥४४॥

इति सत्याषाढहिरण्यकेशिसूत्रे त्रयोदशप्रश्ने तृतीयः पटलः ॥

तासामिष्टीनां कर्म-इष्टया यक्ष्य इत्यादि। पौर्णमासतन्त्रम् । अग्नाविष्णुभ्यां जुष्टं . इन्द्राविष्णुभ्यां जुष्टं - विष्णवे जुष्टं ० । वामन ऋषभो दक्षिणा । पूर्ववत्संकल्पादि । ऐट५ १ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । १६३

हविः । पौर्णमासतन्त्रम् । अग्नीषोमाभ्यां ० इन्द्रासोमाभ्यां • सोमाय जुष्टं० श्यामाकचरुर्बभुर्दक्षिणा । कपिला गौः । तदानीमेव पूर्ववत्संकरादि । सोमापूषभ्यां जुष्टं इन्द्रापूषभ्यां जुष्टं . पूणे जुष्टं ० उत्करे त्रिनिनीय यथाभागं व्यावर्तध्वं पूष्णे जुष्टमधिवपामि संवपामि चरुद्धय( त्रय )मधिश्रित्य पौण पिण्ड स्थाल्या क्षिपति । श्यामो गौर्दक्षिणा । तदानीमेव संकल्पादि, अग्निर्वैश्वानरेण रक्ष्ये, अग्नये वैश्वानराय जुष्टं • हिरण्यं दक्षिणा । तदानीमेव संकल्प्य वरुणेष्ट्या यक्ष्ये वरुणाय जुष्टं प्रादेशप्रमाणा स्थाली उर्वत्वे तिर्यक्त्वे च, अश्वो दक्षिणा, प्रतिग्रहमन्त्रे वरुणायाश्वमित्याम्नातत्वादश्वस्य वारुणत्वं वारुणो हि देवतयाऽश्वः समृद्ध्यै (ते. ब्रा० १-७-२) इत्यत्र द्रष्टव्यम् । ननु सर्वत्रैकफलसाधनानामनेकेषां कर्मणां फले साहित्यावगमेऽपि देशकालकर्तभेदे प्रयोगभेदादङ्गावृत्तिरित्युक्तम् । तदिह यत्र देशभेदो नाऽऽन्नातो दाक्षिणाभेदमानं श्रुतं यथा राजसूये---आग्नावैष्णवमेकादशकपालं निर्वपति वामनो दक्षिणा, सोमापौणं चरुं निर्वपति श्यामो दक्षिणा, इत्यादौ । तत्र किं दाक्षिणाभेदात्कर्तृभेदस्ततश्च प्रयोगभेदादावृत्तिः किंवा नेति चिन्तायाम् । सत्यपि दक्षिणाभेदे कर्तभेदे प्रमाणाभावः । न ह्यत्राधिष्ठानभेदस्तवापीष्टः, तदैक्यस्पोत्तराधिकरणे (जै० सू० ११-४-२) स्थापयिष्यमाणत्वात् । कर्तृभेदस्तु न दाक्षिणाभेदव्यापकः, प्रमाणाभावात् । दर्शपूर्णमासे चान्वाहार्यदाक्षिणावृत्तावपि कर्तृभेदाभावाच | दर्शपूर्णमासयोश्चत्वार ऋत्विज इत्यनेन पण्णां सहितानामेको व्यापकः कर्तृप्रयोगः समे दर्शपूर्णमासाभ्यां यजेत इत्यत्र दार्शिकप्रयोग इव विधीयते । अतश्च सत्यपि कालिकप्रयोगभेदे कर्तृप्रयोगस्यैकत्वात्कर्तृत्वैक्यावगमः । वस्तुतस्तु-नात्र दाक्षिणाभेदोऽपि द्वादशाहवदेकफलसाधनत्वेनैकप्रयोगत्वावगमे वामनश्यामयोर्मिलितयोरेव दक्षिणात्वात् । अत एव । अन्वहं द्वादशशतं ददाति' इत्यनेन प्रत्यहं विभज्य दानेऽपि न तत्र दक्षिणाभेद इत्युक्तम् ।। अतश्च तत्तत्प्रधानाङ्गत्वेन व्यवस्थितयोरपि वामनश्यामयोरेकप्रयोगत्वान्मिलितयोरेव दाक्षिणात्वम् । आवश्यकश्चायं न्यायो ब्राह्मणकर्तृकावोष्टप्रयोगे त्रीहिश्यामाकाग्रयणयोः समानतन्त्रत्वे चेति प्राप्ते दक्षिणायाः कर्तृसंस्कारकतया तद्वदेव प्रयोगांन्वयित्वाद्युक्तं तदाक्षेपकत्वम् । न ह्यन्यथा तत्तत्प्रधानानां व्यवस्थितदाक्षिणाम्नानं कथमपि संगच्छते । न चात्र द्वादशाहवम्मिलितयोक्षिणात्वं प्रत्येक दक्षिणापदश्रवणेन मेदावगतेः । द्वादशाहे तु प्रत्येकदाक्षणापदाश्रवणात् तदैक्यमिति विशेषः । न च दर्शे पूर्णमासे च दक्षिणाभेदसत्त्वेऽपि

१ कर्तस्वभेदस्तु । १६४ सत्यापादविरचितं श्रौतसूत्रम् - ... [१३

कर्तृत्वभेदाभावः। आवादिसमाख्यया तेषां तेषां कर्तृणां प्रतियागं भेदेनैव विहिततया 'दर्शपूर्णमासयोश्चत्वार ऋत्विज्ञः' इत्यस्य सोमे सप्तदशस्विनः' इत्येतद्विभ्यन्तरैकवाक्यतया तदर्थवादत्वेन कर्तृप्रयोगविधायकवाभावात् । अत एव दशैं पूर्णमासे च पृथ वरणानुष्ठानं याज्ञिकानाम् । . .. एवं च दक्षिणायाः कर्तृत्वभेदद्वारा प्रयोगभेदावश्यकत्वे राजसूयान्तर्गतावेष्ट्यादौप्रयोगभेदिकाया . अपि तस्या ..अन्नाद्यफलकब्राह्मणादिकर्तृकावेष्टयादिप्रयोगे दक्षिणापेक्षायां सति .संभवे तत्तत्प्रधानाङ्गत्वेनावगतायास्तस्या एवोपस्थितत्वा: दाग्नेयीन्यायेन ग्रहणं न त्वन्तःक्रतुप्रयोगे बाधिताया अन्वाहार्यदक्षिणाया इति वक्ष्यते अस्तु वा तत्रापि सा | सर्वथा दक्षिणाभेदे प्रयोगभेद इति सिद्धम् || इति सत्यापाठहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयोगचन्द्रिकायां. ..... त्रयोदशप्रश्ने तृतीयः पटलः ॥ ३ ॥

13.4 अथ त्रयोदशप्रश्ने चतुर्थः पटलः ।

अथ रनिना हवींप्यनुदिनं क्रमेण कर्तव्यान्युच्यन्ते । तत्र प्रयोदश हवींषि विधत्ते -

श्वोभूते त्रयोदश रत्निनाँ हवीꣳषि ॥१॥

रत्नान्येषां सन्तीति रनिनः । ब्राह्मणरानन्यवैश्यमंहिष्यादयो रनिनः । तदभिमानिदेवानां प्रियाण्येतानि हवींषि । अतस्तद्गृहेष्वेव गत्वा निर्वपेत् ।। १ ।।

यजमानस्याऽऽप्तानां गृहेष्वन्वहं निर्वपति ॥२॥

आघानां ब्रह्मादीनां गृहेष्वन्वहं पृथक्पृथनिर्वपेदित्यर्थः ॥ २ ॥

यस्य यस्य गृहे निर्वपति तस्य तस्य गृहादिष्टिपरिवेषणं दक्षिणा च ॥ ३ ॥

इष्टिपृथक्त्वादक्षिणाऽपि पृथक् ॥ ३ ॥

बार्हस्पत्यं चरुं निर्वपति ब्रह्मणो गृहे । शितिपृष्ठो दक्षिणेति यथासमाम्नातम् । पुरोहितस्यैकेषाम् ॥ ४॥

रनिनां हविर्भिक्ष्य इत्यादि, रनिनां हविषि वरणानन्तरं संकल्पः । अग्नीन्पृ. थक्पृथक्समारोप्य ब्रह्मणो महत्विजो गृहं मत्वा दार्शिकीं वेदिं कृत्वाऽग्निं मथित्वा ४ पटलः ] - महादेवशास्त्रिसंकलितमयोगचन्द्रिकान्याख्यासमेतम् । १६५

स्वस्वायतनेषु निधायोपावरोह्य(हणम्) । एतासामिष्टीनां यरिम-गृहे निर्वापस्तरमादाज्य पुरोडाशादिदक्षिणाब्राह्मणभोजनार्थानीति आहर्तव्यानि । पौर्णमासतन्नं बृहस्पतये जुष्टं चरुं निर्वपतीत्यादि । शितिपृष्ठः श्वेतपृष्ठः । एवं सर्वत्र यागो द्रष्टव्यः । श्वोभूतेऽग्निहोपर हुत्वा संकल्पादि पूर्ववत् । राजन्यस्य गृहं गत्वा-ऐन्द्रमेकादशकपालम् , ऋषभो दक्षिणा । श्वोभूते संकल्पादि । महिषी प्रथमोढा तस्या गृह आदित्यं नरं धेनुदक्षिणा ॥४॥

भगाय चरुं वा वातायै गृहे विचित्तगर्भा पष्ठौही दक्षिणा ॥५॥

श्वोभूते संकल्पः । ऊढवो ( दास ) प्रियतमा वावाता । भगाय चरुं० विचित्त गर्भा व्यक्तगर्भा पष्ठीही दक्षिणा भवतीत्यर्थः ॥ ५ ॥

नैर्ऋतं चरुमिति सर्वतोऽङ्गुष्ठमात्रो नैर्ऋतश्चरुर्भवति ॥६॥

श्वोभृते संकल्पादि । अपुत्रा राजपत्नी केवलं भोगार्था परिवृक्तिः । पुत्रादिभिः परित्यक्ता वेत्येके । तस्या गृहे कर्तव्यं नैर्ऋतं हविः । हरियो द्रव्यं विदधच्चोदकप्राप्तमवघात निषेधति–स कृष्णानामिति । नवनिर्भिन्नानां कृष्णनीहीणां तण्डुलै - रृतं चरुं निर्वपेत् । स च सर्वतोऽङ्गुष्टमात्रो नैर्ऋतश्चरुर्भवति नाधिक इत्यर्थः ॥ ६ ॥

अङ्गुष्ठपर्वमात्रो वा सर्वहुतं नैर्ऋतं जुहोति ॥ ७ ॥

पर्वसंधिः, न पुरोडाशधर्मः । जुहोतिचोदितत्वात्स्वाहाकार प्रदानत्वाचायं होमो दविहोमः । कात्यायनेन तु पक्षान्तरं सूत्रितम्-' दाहोम एष ते नित इति जुहोति । वषट्कृते वा' ( का० श्री० १५-३-१४।१५.) इति । कूटा भग्नशङ्गा गौर्दक्षिणा । अत्राप्याहाऽऽपस्तम्बः-नैर्ऋतः सर्वतोऽङ्गुष्ठपर्वमात्रश्चरुरित्येके ( आप० भौ० १८-१०-१६) इति ॥ ७ ॥

तक्षरथकारावेकस्मिन्गृहे समवनीयाऽऽग्नेयमष्टाकपालं निर्वपति सर्वायसानि दक्षिणा गोविकर्त्रक्षावापावेकस्मिन्गृहे समवनीय वैष्णवं त्रिकपालमिति वत्सः श्वेतशबलो दक्षिणा । वैष्णवं त्रिकपालं त्रयोदशं तक्षरथकारयोर्गृहे । सर्वायसानि दक्षिणा । तक्ष्णो रथकारस्य वेत्येके ॥ ८ ॥

श्वोभूते संकल्पादि वैष्णवेष्ट्या यक्ष्य इत्यादि । तक्षा वर्धको रथकारः करियां १तेना। सत्यापाढविरचितं श्रौतसूत्रम्- [१३ प्रश्ने

माहिप्याज्जातः । वर्षासु रथकारस्येत्युदाहृतम् । तयोः साधारणमेकस्य गृहं गत्वा: वैष्णवं त्रिकपालं ० सर्वायसानि सर्वलोहमयानि पानाणि दक्षिणा ददाति ॥ ८ ॥

सेनान्यो गृहे समवनीयाऽऽग्नेयमष्टाकपालं निर्वपतीति हिरण्यं दक्षिणा ॥ ९ ॥

श्वोभूते सेनान्यो गृहे गत्वाऽऽयमष्टाकपालं० हिरण्यं दक्षिणा श्वोभूते संकल्पादि सूतः सारथिः, ब्राह्मण्यां क्षत्रियाज्जात इति । तस्य गृहे वारुणं दशकपालं. महानिरष्टः पीडि. तवृषणो दक्षिणा । श्वोभते ग्रामण्यो गृहे ग्रामं नयतीति ग्रामणीः । वैश्यानां महत्तरस्तस्य गहे संकल्पादि। मारुतेष्टचा यक्ष्ये मारुत५ सप्तकपालं पृश्निः शुक्लः । अल्पतनुरित्यन्ये । श्वोभूते पूर्ववत्संकल्पादिः । क्षत्ता नाम यष्टिहस्तोऽन्तःपुराध्यक्षः सर्वेषां नियन्ता प्रतिहारापरपर्यायः । मन्त्री न्त्रि)दतो वा । क्षत्रियायां शूद्राज्जातः क्षत्ता, इत्यादि तस्य गृहे सावित्रं द्वादशकपालं.. संकीर्णवर्ण उपध्वस्तो दक्षिणा । श्वोभते संकल्पादि। संग्रहीता नाम रथयोजयिता । संग्रहीता धनसंग्रहकर्ता कोशाध्यक्षो वेति । तस्य गृह आश्विनेष्टया यक्ष्ये । आश्विनं द्विकपालं. सवात्यो समानमातरौ वत्सावेको दरावित्यर्थः । श्वोभुते संकल्पादि । पौष्ण्येष्ट्या यक्ष्ये । यो... राज्ञः प्राप्त षष्ठं भाग प्रजाभ्यो गृह्णाति स भागदुधः । तस्य गृहे पौष्णं चरुं० श्यामा गौर्दक्षिणा ॥ ९ ॥

रौद्रं गावीधुकं चरुमक्षावापस्य गृहे शबल उद्वारो दक्षिणा । अर्वापाराव(सिर्वालावृ)तः केसरपाशा वा गोव्युच्छती(नी)रज्जुः ॥ १३.४.१० ॥

श्वोभूते संकल्पादि । अक्षावापो द्यूतकारस्तस्य गृहे गावीधुकोऽरण्यगोधूमनिष्पन्नः । रौद्रं गावीधुकं चरुं० । शबलश्चित्रवर्णः । उद्धारो दीर्घषुच्छः । गोविकर्तस्य वार्तु) । केसरपाशामिधानी दक्षिणा। कृपणो वालाभिवीतः शबलो वा । त्रिवत्स इति विज्ञायते। असिर्वालावृतो वानी वालपतिग्रथिता गोव्युच्छनी(वरासी)दामतृषा शबलो वा वत्सतरः। अश्वः शोणकर्ण इत्येक इत्यापस्तम्बीये दक्षिणाविशेषा विहिताः । केचित्तु-अक्षावापो नामाक्षाणां क्षेप्ता, अक्षगोप्ता वा द्यूतकारः । गोव्युच्छनी रज्जुर्मगयासहायभूता । गोहिंसको व्याधः । तयोरुभयोर्गुहेभ्यो गवीधुका आ(ना)रण्यगोधूमान्संभृत्य ते रुद्रदेवत्यं चरं यजमानस्य गृहे निपेत् , इति ब्याचक्षते ॥ १० ॥ अथ दूतगृहे कर्तव्यमाज्यहोमरूपं रत्निहविविधत्ते --

अध्वने स्वाहेति पालाकलस्य गृहे जुहोति ॥ ११ ॥ अनृतदूतं ब्रुवते । धनुर्वेत्रवीतं दक्षिणा ॥ १२ ॥ ४ पंटलंः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । १६७

त्रयश्चर्ममया बाणवन्तो दक्षिणा ॥ १३ ॥

पालाग ( क ) लो नाम दूतः । तथैव कात्यायनः पालाग ( क ) लस्थाने दूतशब्द प्रयुक्तवान् । चक्षुर्गृहीतं जुषाणोऽध्वाऽऽज्यस्य वेविति दूतस्य ' ( का. श्री. १५--३-१३) इति । आपस्तम्बेन तु यूपविशेषपरत्वेन व्याख्यातः । अध्वने स्वाहा, इति पालाग ( क ) लस्य गृहे जुहोत्यनृतदूतं ब्रुवते (आप० श्री० १८-१०- २५) इति । पालाग ( क ) लमनतवादिन दूतमिति ब्रुवत आचार्या इत्यर्थः । वयश्चर्ममया इषुधयो वाणवन्तो धनुर्वा वेत्रवेष्टितमित्यापस्तम्बः ॥ ११ ॥ १२ ॥ १३ ॥

ऐन्द्रमुत्तमं यजमानस्य गृहे निर्वपति । अन्वहमेके ब्रुवते । इन्द्राय सुत्राम्णे पुरोडाशमेकादशकपालं (प्रति ) निर्वपति । इन्द्रायाꣳहोमुचे । यन्नो राजा वृत्रहा राजा भूत्वा वृत्रं वध्यादिति सूक्तवाकस्याऽऽशीःषु होताऽनुवर्तयति ॥ १४ ॥

होमे कृते समारोप्याग्नीस्वगृहं गत्वा-ऐन्द्रकर्म, मथित्वाऽऽयतने निधाय, इष्टया यक्ष्ये । अमावास्यातन्त्रम् । इन्द्राय सुत्राम्गे जुष्टं० इन्द्राया होमुचे जुष्टं । सूक्तवाके होताऽनुवर्तयत्ययं नो राजेति । इदं याजुषं होत्रम् । सूत्रान्तरे तु नारिष्ठान्हुत्वाऽयं नो राजेत्यध्वर्युर्नपतीति ऋषभो दक्षिणा । निष्कः कवचमित्येके ।। १४ ।

स्वयमवपन्नाया अश्वत्थशाखायै मैत्रं पात्रं चतु:स्रक्ति करोति ॥ १५ ॥ श्वेतां श्वेतवत्सामाम्रस्य दृतौ दुहन्ति । तत्स्वयंमूर्तꣳ संयोगेन परिवहति ॥ १६ ॥ तत्स्वयंमथितमातपे विषजन्ति ॥ १७ ॥ तत्स्वयं विलीनमाज्यं भवति ॥ १८ ॥

ऐन्द्रकर्मणि समाप्ते स्वयमय५न्नाया अश्वत्थशाखायाः स्वयंभन्नाया अश्वस्थ शाखायाः स्थविष्ठमेकं मैत्रस्य चरोः पात्रं करोति । चतुःस्रक्ति चमसाकृति । आम्रस्त्ये ( स्य) हती दुहन्ति गाम् । अमथितपूर्वे दृती, आने वा दृतौ । श्वेतवत्सयुक्ता श्वेता गौः । तत्स्वयंमृत संयोगेन परिवहति प्रापयति । तत्स्वयंमथितमातपे विषन्ति । तत्वयं विलीनमाज्यं भवति । इति । तदिदमापस्तम्बेन स्पष्टीकृतम्-श्वेतां श्वेतवत्सां गामाम्रस्य इतौ दुहन्ति तत्स्वयंमूर्ते संयोगेन परिवहति तत्स्वयंमथितमातपे विषजन्ति सत्यापाढविरचितं श्रौतसूत्रम्- [१३ प्रश्ने

तत्स्वयं विलीनमाज्यं भवति' ( आप० श्री० १८-११-६ ) इति । आनेण फलपुष्परसेन लेपितायां (ते) इतौ यत्पय आतञ्चनमन्तरेणैव मूर्त दधि भवति तच्च बदरादिफलसंयोगेन परिवहति तक्रवत्परितः क्षरति । तदिदं स्वयंमथितम् । नात्र मृद्भाण्डे पाकः कित्वाश्वत्थे पात्रे चतुःखक्तौ न तु वर्तुले । तच्च पात्रं यया कया च्छिन्नशाखया न कर्तव्यं किंतु वाय्वाभिघातेन स्वयमेव पतितया निष्पादनीयमिति । एवं कृत्वा वसदित्येके ॥ १५ ॥ १६ ॥ १७ ।। १८ ॥

तैष्यां पौर्णमास्यामभिषेचनीयायोक्थ्याय दीक्षाः प्रवर्तयन्ति ॥ १९॥

तदिदमापस्तम्बेन स्पष्टीकृतम्---श्वोभूतेऽभिषेचनीयस्योक्थ्यस्य दीक्षाः प्रक्रमयति, ( आप० श्री. १८-११-७) इति । श्वोभूतेऽग्निहोत्र हुत्वाऽभिषेचनीयेन यक्ष्य इत्युक्त्वा विद्युत् । केचिदिहापि वृतानामपि वरणमिच्छन्ति । तन्त्रपक्षे तु कर्मणि कर्माण पक्षेऽस्मिन्वरुणदेवतोपस्थानान्तं, न समारोपणम् , आज्यं पशव इत्यादि संभारयजूषि हुत्वा सोमपरिवेषणं फलानामपि पवित्रवत्फलचमसप्रयोगः । अभिषेचनीयदशपेययोः पर्याप्तमाहरति । न सप्तहोता । केचिदिच्छन्ति । दीक्षार्थत्वात् । स्वे दक्ष इत्युपस्थानम् ॥ १९ ॥

मैत्राबार्हस्पत्यं दीक्षणीयं भवति ॥ १३.४.२० ॥

"मैत्राबार्हस्पत्या दक्षिणीया सा पत्नीसयाजान्ता समाप्यते ॥ २० ॥

पात्रसꣳसादनकाले यथार्थं पात्राणि प्रयुनक्ति स्थालीं कपालानाꣳ स्थाने प्रयुनक्ति ॥ (ख.११) ॥ २१॥

अन्वाधानादि पौर्णमासतन्त्रं स्वयंदिनं वहिः । अस्यादिना न छिनत्ति । स्वयंच्छिन्ना. नाहरति । स्वयंकृतश्चेष्मश्च तथैव । तयोः सह संनहनादयः क्रियन्ते । शुल्बास्तरणादि बर्हिस्तथैवेध्मस्य पात्रसंसादनकाले बार्हस्पत्यचरुपात्रं मैत्रं दारुपात्रं स्फ्यश्च द्वंद्वं प्रकृति वदन्यानि ॥ २१ ॥

मैत्रं चरुं निर्वपणकाले बृहस्पतये निरुप्य मित्राय निर्वपतीति । यथा वा त्रिष्फलीकृतेषु विभागमन्त्रेण कर्णाꣳश्चाकर्णाꣳश्च । तण्डुलान्विविचन्ति । क्षोदिष्ठाꣳश्च स्थविष्ठाꣳश्चेत्येकेषाम् ॥ २२ ॥ ये कर्णाः स पयसि बार्हस्पत्यः । येऽकर्णाः स आज्ये ५ पटलः ] महादेवशास्त्रिसकालतप्रयोग चन्द्रिकाव्याख्यासमेतम् । १६९

मैत्रः स यदा शृतः स्यादथ तं मैत्रपात्रमुपरिष्टादवदधाति ॥ २३ ॥ तस्मिन्पवित्रेऽव धाय स्वयंविलीनमासिञ्चति ॥ २४ ॥ तस्मिन्पवित्रवत्याज्ये स्थवीयस्तण्डुलानावपति ॥ २५ ॥ तावुत्तराधरौ सह शृतौ करोति ॥ २६ ॥ धर्ममात्रꣳ श्रपणमर्धꣳ स्वयंदिनं बर्हिः स्वयंकृत इध्मो निम्नमध्यवस्यति । सा स्वयंकृता वेदिर्भवति । वेद्याः करोति । अर्धꣳ स्वयंकृतं भवति । अर्धं बर्हिषो दाति । अर्धं स्वयंदिनमुपसंनह्यति । अर्धमिध्मं करोति ॥ २७ ॥ अपि वा स्वयंकृता वेदिर्भवति । संलोभ्यं (प्यं) बर्हिः संचार्ये(य्ये)ध्मः ॥ २८॥ प्रचरणकाले बार्हस्पत्येन प्रचर्य मैत्रेण प्रचरति ॥ २९॥ इतरथा वा । शितिपृष्ठो बार्हस्पत्यस्य दक्षिणा। अश्वो मैत्रस्य । व्युप्तवहो वा । सा चैव श्वेता श्वेतवत्सा दक्षिणा ॥(ख०१२)॥ १३.४.३०॥

इति सत्याषाढहिरण्यकशिसूत्रे त्रयोदशप्रश्ने चतुर्थः पटलः ।

निर्वपणकाले बृहस्पतये जुष्टं मित्राय जुष्टं निष्फलीकृतास्तण्डुला यथाभाग ध्यावतेथामिति विभागः । विपिनक्ति काश्छिन्नानकर्णानच्छिन्नान्दोदिष्ठाक्षुद्रतरान्स्थविष्ठान्स्थूलतरान् । एवं विविध्य पृथक् पृथक् पात्रे निधाय धृष्टयादानादि, ध्रुवोऽसीति बार्हस्पत्यमुपधाय मैत्रमुपद्धाति । श्वेतायै श्वेतवत्साथै पय आनयति, उहेनोत्पूय धर्मोऽसीति बार्हस्पत्य चरुमधिश्रयति स्थाल्यां पयसि क्षिपतीत्यर्थः । ईपद्यदा श्रितस्तदा मन्त्रेण दारुपात्रेणापिदधाति । उहेन स्वयंविलीनमाज्यमुत्पूय मैत्रपात्रेऽवनयेदेकपाश्रेणोदकमप्यानीय तस्मिन्काले धर्मोऽसीतीतरानावपत्यकर्णास्तावुत्तराधरौ करोति बाई स्पत्यमधस्तान्मत्रपरिष्टाद्रज्जभिः संवेष्टय मृदा प्रलिप्योत्तराधरकरणमेवं सह शृती भवतः । अन्तरित० अविदहन्त० बार्हस्पत्यमासाद्य मैत्रमासादयति । अयं यज्ञो. ममाग्ने० पञ्चहोता. इत्याद्येवं प्रचरति । प्रधानयागः । दक्षिणाकाले श्वेतपृष्ठं गामश्वं वाऽ तदि स्थापयित्वा सहस्रधारावुत्सावीयमाणी ते दनः पृथिवीमन्तरिक्षं दिवं च तैः ; शितिपृष्ठगवान्वन्धतगौ(गवी वेतवत्सैरतितराणि मृत्युमिति । केचिद्विवचनेनोहमिच्छन्ति । सत्यापाढावरचितं श्रौतसूत्रम्- १३ प्रश्ने

अस्मिन्पक्षे च ब्रह्मा द्विवचनेन, इतरे बहुवचनोहः शितिपृष्ठगवाञ्चश्वेतगोश्वेतवत्सा इति । रुद्राय गां वरुणायाश्च० अन्यतरस्य च न बार्हस्पत्यस्य का विस्मरणे पृथगिज्यायां पुनः श्वेता धेनुः श्वेतवत्सा दीयते । पत्नीसंयाजान्ता धारयति धौवमाज्यमित्यादि, उत्तरेण बहिः प्राग्वंशमित्यादि सनीहारप्रस्थापनान्तमिति ॥ २२ ॥ २३ ॥ ॥ २४ ॥ २५ ॥ २६ ॥ २७ ॥ २८ ॥ २९ ॥ ३०॥ . इति सत्याषाढहिरण्यकशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयोगचन्द्रिकायां त्रयोदशप्रश्ने चतुर्थः पटलः ॥ ४ ॥

13.5 अथ त्रयोदशप्रश्ने पञ्चमः पटलः ।

अथ द्वितीयस्याभिषेचनीयाख्यस्य सोमयागस्य प्रयोगोऽभिधास्यते । तत्राभिषेचनीयस्य चोदकप्राप्तां दीक्षामाह -

तथा दीक्षाः प्रवर्धयन्ति(न्त्य) अभिषेचनीयस्य । यथा दशरात्रे शिष्टे संवत्सरस्य दशपेयो भविष्यति ॥१॥

तत्कालः कात्यायनसूत्रे दर्शितः फाल्गुनीपक्षे यजनीयेऽभिषेचनीयाय दीक्षते, ( का० श्री० १५-३-४९ ) इति । फाल्गुनी(न)पौर्णमासी(स्या) दुपरिष्वादमावास्यायामभिषेचनीयस्य दीक्षा । ततःप्रभृत्यागामिन्याः फाल्गुन्याः पौर्णमास्या उपरिष्टाद्वितीयायामभिषेचनीयस्य प्रायणीया यथा स्यादेवं दीक्षावृद्धिः । भाष्यकारस्तुतैष्यां पौर्णमास्यामभिषेचनीयस्य दीक्षाः संवत्सरमागामिमाघशुक्ले प्रायणीया स्यादेव दीक्षावृद्धिरिति व्याचष्टे । प्रथमरात्रिवर्जमन्यासु रात्रिषु अग्ने स्व५ सुजागृहीत्यादिदीक्षितधर्माः प्रवर्तन्ते । सर्वत्र यवा (ग)वतं पयसि वा अपयेत् ॥ १॥

सह सोमौ क्रीणाति । अभिषेचनीयाय दशपेयाय चार्धं राज्ञः पुरोहितस्य ब्रह्मणो वा दशपेयार्थं निदधाति ॥२॥

उक्तकाले प्रायणीयया प्रचर्याभिषेचनीयस्य दशपेयेन सह सोमक्रयः । पदपसिहणमुभयाथै, तत्संग्रहेषु निदधाति इहार्धाक्षाञ्जनम् । अर्धेन दशय उभयार्थ सोमफलमाहृत्यानहेन प्रयोग:- सोमं क्रीत्वा फलान्यपि तयैव सोम ते फ्रीणामि, गवा ते क्रीणामि, तस्या आत्मा० भूयो वा अदः ० पश्चाधिकन पञ्चशतगोभिस्ते क्रीणानीति अस्मे ज्योतिः, द्वे ऊर्णास्तुके एकाभिषेचनीयस्यैका दंशपेयस्यायेण प्राग्वंश स्थापयति । अच्छिद्रपत्रः प्रजा इत्युपावहृत्य विभज्याधै सोमस्य फलानो च बद्ध्वा पुरोहितस्य ५ पटलः) महादेवशास्त्रिसंकलितमयोगचन्द्रिकान्याख्यासमेतम् । १७१ .

मृहे दशपेयाथै निर्दधाति । म प्रवृञ्जनं, उक्थ्यत्वात् । पञ्चदश च्छदीपि । वपायागादि वसतीवरीग्रहणान्तं पूर्ववत्सर्वं कर्तव्यम् ॥ २ ॥ देवसुवा हवींषि विधित्सुस्तेषामग्नीषोमीयपशुपुरोडाशानन्तरमावित्वं वक्तुमाह---

अग्नीषोमीयपशुपुरोडाशं निरुप्य देवसुवाँ हवीꣳष्यनुनिर्वपत्यग्नये गृहपतय इति यथासमाम्नातम् । पशुपुरोडाशस्य देवसुवां च हविषाꣳ समानꣳ स्विष्टकृदिडम् ॥ ३॥

अग्नीषोमीयपशुपुरोडाशधागे तो(गान्त) निरुप्याष्टो देवसुवां हवींप्यनुनिर्वपति समान तु स्विष्टकृदिडम् । अचास उपवसथ इति वाजसनेयश्रुतेः । उपवसथः सुत्यादिवसात्पूर्वमहः । अग्नीषोमीयं पशुपुरोडाशं निरुप्य तदनु देवसुवां वींषि निर्वपेत् । सुवन्त्यनुजानन्तीति सुवो देवाश्च ते सुवश्चेति देवमुवस्तेषाम् ; देवस्वाम् । 'ओ: सुपि' (पासू-४-८२) इति रणादेशः । प्रसवितृत्वं चैपामाम्नायते-- 'देवसुवामतानि वीरवि भवन्ति । एतावन्तो वे देवाना५ सवाः । त एवास्मै सवान्प्रयच्छन्ति । नएन सुबन्ते (ले० प्रा० १-७-४) इति ॥ ३ ॥

पुरस्तात्स्विष्टकृतः सविता त्वा प्रसवानाꣳ सुवतामिति यजमानस्य हस्तं वेदयत्येष वः कुरवो राजेति । यदि कौरव्यः । एष वः पञ्चाला राजेति यद्यु वै पाञ्चालः । एष वो भरता राजेति का कुरुपञ्चालानेष ते जनता राजेत्यन्यान्राज्ञः । सोमोऽस्माकं ब्राह्मणानाꣳ राजेत्युक्तः ॥ ४॥

पशुपुरोडाशस्विष्टकृतः पुरस्तात्सविता त्वा प्रसवाना सुवतां महते जानराज्यायेति ब्रह्मा यजमानस्य इस्तं गृह्णाति । अध्व! रनिभ्यो जानपदेभ्यः प्रकाशयति एष वो भरता राजेत्यन्तेन तेम्यो जनपदेभ्यः, तेषां चेद्राजा राजसूययाजी, इति । एष वः । कुरवो राजेति यदि कौरव्यः, कुरुभ्यो जानपद्देभ्यस्तेषां चेदाजा । एष वः पश्चाला राजेति पाश्चालेभ्यो जानपदेभ्यः । एष वः कुरुपाञ्चाला राजेति कुरुपाञ्चालेभ्यः । उभयेषां चेद्राजा । शबरादन्यतरण कुरुवर्गतया (वर्गेण) पञ्चाला इति । उक्तेभ्योऽन्येषामेष वो भरता राजेत्यापस्तम्बः । सोमोऽस्माकं ब्राह्मणाना राजेति ब्रह्मा जपति ॥ ४ ॥

प्रति त्यन्नाम राज्यमधायीति वारुणीभ्यां यजमानो मुखं विमृष्टे ॥ ५॥ १७२ · सत्यापादविरचितं श्रौतसूत्रम्- .१३प्रश्ने -

आनडिति मन्त्रान्तः । मुखमार्जनं तु द्वाभ्यां विमृष्टे ( तै० ब्रा० १-७४)

विष्णोः क्रमोऽसीति त्रीन्विष्णुक्रमान्प्राचः क्रामति ॥६॥

वाजपेये रथसमीपगमने व्याख्यातम् ॥ ६॥

यत्प्राङ्माहेन्द्रात्तस्मिन्कृते प्रतिप्रस्थाता मारुतमेकविꣳशतिकपालं निर्वपति ॥७॥ गणैः कपालान्युपदधाति ॥ ८॥ आरण्ये[ना]नुवाक्येन गणेन मध्य उपधायाऽऽमिक्षायाः कल्पेन मैत्रावरुणीमामिक्षां करोति ॥ ९॥

" - पुरोडाशस्विष्टकदादि, यजमानस्य थे दधिधर्मस्य लोपः | महारा। बुद्ध्वा, इत्यादि । पात्रासादगकालेऽतिग्राह्याणामप्रयोगः । न षोडशीपात्रे, प्राङ्माहेन्द्रात्कृत्वा मारुतमेकविशतिकपालं निर्वपति । वैश्वदेवी चाऽऽमिक्षा । तस्याश्च कर्म- एकवि शतिः कपालानि स्फ्यश्च द्वंद्वं, इत्यादि । सननीयानामुत्कर्षपक्षे सवनीयानां (न) शाखा स्यात्, शाखा, इतरथा शाखाहरणादि · मरुभ्यो जुष्टंछ कपालोपधानकाले ईचा. न्याङ्वैतादृङ्च प्रतिङ्च मितासश्च समितासश्चः समरा इति - सप्तकपालानि ध्वनिश्च ध्वान्तश्च ध्वनयश्च ध्वनय सश्च निलिम्पश्च विलिम्पश्च विक्षिप इति सप्त। ध्रुवमसीत्यादि सप्त । एवमेकविंशतिमुपधाय वैश्वदेव्या दोहनम् । पुरोड़ाशमधिनित्य लौकिकदध्यानयनम् । अन्तरित सं ब्रह्मणा इत्यादि ॥ ७ ॥ ८ ॥९॥

अभिवासितैर्वायव्यैरपां ग्रहान्गृह्णाति ॥ १३.५.१० ॥ देवीरापो अपांनपद्राष्ट्रदास्थ राष्ट्रं दत्त स्वाहेति सारस्वतीष्वप्सु हुत्वैतेनैव गृह्णाति ॥ ११ ॥ अर्थेतः स्थेति वा। एवमितरासु येन येन जुहोति तेन तेन गृह्णाति ॥ १२ ॥राष्ट्रदाः स्थ राष्ट्रं दत्त स्वाहेति होमार्थेऽनुषजति । राष्ट्रदाः स्थ राष्ट्रममुष्मै दत्तेति गृह्णाति।१३॥ पुरुषे पशौ वाऽभ्यवेतोऽपां पतिरसीति ॥(ख०)१३॥समुद्रियाः सैन्धवीर्वा प्रतीपमन्य ऊर्मिः पतति । अन्वीपमन्यो वृषाऽस्यूर्मीरिति यः प्रतीपं तं गृह्णाति । वृषसेनोऽ ५ पटर] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाच्याख्यासमैतम् । १७

सीति योऽन्वीपम् । प्रहावरीः स्थेति स्थावरीणाम् । याः स्थानं न प्रवहन्ति परिवाहिणी: स्थेति स्रवन्तीनाम् । या आप उच्छेरते परिणतिं ब्रुवते । व्रजक्षितः स्थेति कूप्यानाम् । मरुतामोजसः स्थेति ह्रादुनीनाम् । सूर्यवर्चसः स्थेत्यातपतिवर्ष्याणाम् । सूर्यत्वचसः स्थेति यासु रूपाणि परिदृश्यन्ते । मान्दाः स्थेति स्थावराणां या वा मन्दमिष स्यन्दन्ते । वाशाः स्थेति पृष्ठानाम् । शक्करी स्थेति गोरुल्ब्या(तुल्या)नाम् । विश्वभृतः स्थेति पयसः। जनभृतः स्थेति दध्नः। अग्नेस्तेजस्याः स्थेति घृतस्य । श्रविष्ठाः स्थानाधृष्टा इति वा। अपामोषधीनाꣳ रसः स्थेति मधुनः षोडश सप्तदश वा गृह्णाति ॥ १४ ॥

अभिवासितैः सुगन्धितैर्वायव्यैर्वृक्षोद्भूतैर्ग्रहोर्ध्वमुखानि वायव्यानि तैरपां महान्गृह्णा. तीति वचनात् । अभिषेकार्थं वायव्यानि षोडश सप्तदश वा शाखान्तरगतेनैकेन मन्त्रेण सह षोडशसंख्यामपि षोडशभिर्गृह्णाति(तै ब्रा० १-७-५) इत्यादौ द्रष्टन्याः । अर्धेत इत्यादीनां शोडशमन्त्राणां होमशेषत्वं ग्रहणशेषत्वं च पूर्व विहितम् । अर्थतः स्थति जुहोति, वहन्तीनां गृह्णाति, (३० वा. १-७-५) इत्यभिधानात् । तत्रोभयत्रावस्थितां घोडशसंख्या समस्य प्रशंसति-घोडशभिर्जुहोति षोडशभिगृह्णाति '(तैना १-७-५) इत्यादिना । यद्वा-वायव्यानि सप्तदश वा करोति यज्ञियवृक्षवक्ष्यमाणस्तत्तद्देशादानीय गृह्णाति सरस्वतीजलं वहन्तीनां जलं समुद्रनलं यतः कुतश्चिन्नद्यां पुरुषः पशुर्वा तिष्ठति तत्र प्रतिस्रोतं य ऊर्मियुष्यति तस्या भूमेर्जलमानयति पृथक् पृथक् । कूपस्था अप आनयति प्रतिस्रोतसजलं च प्रयत्नेनाऽऽनयेत् । यत्र कुत्रचिद्गता आपस्तत्रैव स्यन्दन्ति ता आनयन्ति । महानदीनां समीरेद्य( पेय )त्र नदी महानद्यां पतति तस्या आनयति । आदित्ये दृश्यमाने यदा वर्षति तदा वर्षजलमानयति । अशोष्यजलमानयति । यत्र कुत्रचिद्रसमलमानयति । गोगोंदकं पयो दाध घृतं च मधु माक्षिकं च । . आग्रीधमण्डपसमीपे ग्रहग्रहणं क्रमेणोच्यते-अर्थेतः स्थापो देवीमधुमतीरित्यादि राष्ट्रदाः स्थ राष्ट्र दत्त स्वाहा, इति सारस्वतोदके । आज्यहोमस्याभिधारणरूपत्वात् । उक्तजले वायव्येनाऽऽज्येन जुहोति । तस्मिञ्जले वायव्येन गृह्णाति । अर्थेतः स्थापो १७ .. सत्यापाठविरचितं श्रौतसूत्रम्-.: [१२ प्रश्ने

देवी राष्ट्र दत्त राष्ट्रममुष्मैं वत्तेति राज्ञो नामग्नहणम् ' राजेन्द्रवर्मणो दत्तेति गृहत्विाऽ. न्यत्र निदधाति । एवमुत्तराणि । येन जुहोति तेन गृह्णाति ॥ १०.१४ ॥

अपो देवीर्मधुमतीरगृह्णन्निति गृहीत्वाऽभिमन्त्रयते ॥ १५ ॥

समुदगले वा पुनदो यथा शोणादिस्तदन्यतमजले, अपां. पतिरस्यपो देवी ० दत्त स्वाहा । प्रतिस्रोत ऊर्मियुद्धजले वृषाऽस्यूमिरपो देवी० । अनुस्रोत ऊर्मिनले वृषसेनोऽस्यपो देवी । कूपजले व्रजक्षितः स्थापो देवी० । प्रतीपजले, अन्यज्जले वा मरु. तामोजः स्थापो देवी । उत्स्यन्दितजले प्रभावतीः (री:) स्थापो. देवी० परिवाहि. नदीजले हिरण्याः स्थापो देवी । आतपति वर्षजले सूर्यवर्चसः स्थापो देवी० । प्रस्त्रवजले सूर्यत्वचसः स्थापो देवी । स्थावरजले मान्दाः स्थापो देवी । ग्रुष्टनले वस्याः (श्या: ) स्थापी देवी० । [अ]वस्याऽ( श्या )योदके का(वा)शाः स्थापो देवी । गोगर्भजले शक्करी: स्थापो देवी० । पयसि विश्वभूतः स्थापो देवी० । दधनि जनभूतः स्थापो देवी० । घृते अमेस्तेजस्याः स्थापो देवी । मधुनि अपामोषधीनां रसः स्थापो देवी ० । इति च गृहीत्वाऽभिमन्त्रयत इत्यर्थः ॥ १५ ॥

देवीरापः सं मधुमतीर्मधुमतीभिः सृज्यध्वमिति वैतसे द्रोणे समवनयति ॥ १६ ॥

तसे द्रोणे कलशाकृती देवीराप० वन्वना इत्यन्तेन ग्रहान्समवनयति । तथा चाक हाऽऽपस्तम्बः-देवीराप इति वैतसे सते ग्रहान्समवनीय, ( आप० श्री०१८-१३.२१.) इति । अप्सु जातो वृक्षविशेषो वेतसस्तेन निर्मित द्रोणकलशसदृशं पात्रं सुतं 'तस्मिन्सते वायव्यगेंहीतास्ता अपोऽवनयेदित्यर्थः ॥ १६ ॥

अत्राभिमन्त्रणमेके समामनन्ति ॥ १७॥

शाखान्तरोक्तो विकल्पः ॥ १७ ॥

अनाधृष्टाः सीदतेत्यन्तरा होतुर्धिष्णियं ब्राह्मणाच्छꣳसिनश्च सादयति ॥ १८॥ अपरेण होत्रीयमुपसादयतीत्येकेषाम् ॥ १९ ॥

दधतीरित्यन्तः । अन्तरा होतुधिष्णियं ब्राह्मणाच्छ ५सिनश्च सादयति ॥१८॥१९॥

अनिभृष्टमसीति शतातृण्णꣳ सौवर्णꣳ रुक्ममादाय शुक्रा वः शुक्रेणोत्पुनामीति तेन त्रिरुत्पुनाति ॥ १३.५.२० ॥

अनिभृष्टमासि० दात्रमसीत्यन्तेन शतमानं हिरण्यं सतेऽवधायेत्यापस्तम्बः । तेन शेतमानेन शुका व शुक्रेणोत्पुनामि० चितानाः, इत्यन्तेनोत्पुनाति सकृत् । त्रिरिति भाष्यकृत् । तदा शुक्रा वः शुक्रेणोत्पुनामि स्वाहा राजसूयाय चितानाः, चन्द्रा वश्च 3. पटलः ] . महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकान्याख्यासमेतम् । १७५

न्द्रेणोत्पुनामि राजसूयाय चितानाः, अमृता वो अमृतेन स्वाहा राजसूयाय चितानां इति त्रिमिमन्त्रैः ॥ २० ॥

सधमादोद्युम्निनीरूर्ज एता इति चतुर्षु पात्रेषु व्यानयति ॥ (ख०१४ ) ॥ पालाश औदुम्बर आश्वत्थे नैयग्रोधेऽवशेषं द्रोणे करोति ॥ २१ ॥

सधमादो० मातृतमास्वन्त इ(रि )त्यन्तः । पालाशादिषु पात्रेषु क्षिपति । प्रतिपात्रं मन्त्रावृत्तिन्यपृथक्त्वात् । अवशेष द्रोणे करोति ।। २१ ॥

तोक्मो( रौक्म औ )दुम्बरं दधि च यजमानं भोजयति ॥२२॥

स्पष्टोऽर्थः ॥ २२ ॥

एकशतेन दर्भपुञ्जीलैराङ्क्ते। शतेनेत्येकेषाम् । पञ्चाशता दक्षिणमक्ष्येकपञ्चाशतोत्तरमभ्यज्य क्षत्रस्योल्बमसीति तृपाणां वृक्षाणां वासो यजमानः परिधत्ते । क्षत्त्रस्य योनिरसीति पाण्डुरमुष्णीषम्। तृतीयꣳ श्वेतपाण्डुरमित्याचक्षते । अप उपस्पर्शयित्वाऽऽविन्नो अग्निरित्याविदो यजमानं वाचयन्बहिःसदसमभ्युदानयति ॥ २३ ॥

'दर्भञ्जीलैरभ्यज्य क्षत्रस्योल्बमसीति तार्थं क्षत्रस्य योनिरसीति पाण्डुवासंघ परिधत्ते । अश्वा त्रीणि वासांसि, द्वे परिधानार्थे पाण्डुरं तार्य चैकमुत्तरीय च । • अथवा शिरोष्णीषमेव कृत्वाऽर्थनमेकशतेन ( शतेन वा ) दर्भ जीलैः पश्यति । एक शतेनाऽऽङ्क्ते यजमानमेव । पञ्चाशता दक्षिणमाक्षि युगपदेकपश्चाशता सव्यम् , इत्यन्यथा क्रमः | आग्नीघ्रागार एतानि कर्माणि कुर्यात् । अध्वर्युरप उपस्शति आविद इत्येवं संज्ञानाविन्नो अभिरित्यादीन्वाचयन्यजमानमध्वर्युबहिरुदानयति ॥ २३ ॥

एष वः कुरवो राजेत्यावेदयति । मनसाऽनुप्रक्रामति । मनसोर्ध्वमनूज्जिहीते ॥ २४ ॥

राज्ञो नामग्रहणमसाविति । आविन्नोऽयं राजेन्द्रवर्मणः पुत्रो राजेन्द्रचोलायनोऽस्य विश्वस्मिन्राष्ट्र इत्यादि । अत्राप्यापस्तम्बे विशेष:-इन्द्रस्य वजोऽसीति धनुर्यजमानाय प्रयच्छति । शत्रुवाधनाः स्थति त्रीबाणावतः । पात मा प्रत्यश्चमिति प्रदीयमा. माननुमन्त्रयते । पात प्राञ्चं पात प्रत्यछ पातोदश्चमिति प्रयच्छन्नध्वर्युर्जपति । मित्रोऽ. सीति दक्षिणं बाहुं यजमान उद्यच्छते । वरुणोऽसीति सव्यम् । एतद्वा विपरीतम् । हिरण्यवर्णावित्युद्यतावनिमन्त्रयते । अर्थनं पञ्चभिर्दिशो व्यास्थापयति । समिधमाति ५७६ सत्यापाविरचितं श्रौतसूत्रम्- १३ प्रश्

नेछेति । मनसा चानुप्रक्रामति । ( आप० श्री० १४-१५-२) इति । अध्वर्युरनुकामति मनसा, न कर्मणेत्यर्थः ॥ २४ ॥

अत्र मारुतमेकविꣳशतिकपालमेके समामनन्ति ॥ २५ ॥

अत्र मारुतवैश्वदेव्योर्निर्वापायासन्नाभिमर्शनान्ते प्राङ्माहेन्द्रादपां ग्रहानित्यादि मनसाऽनुक्रामान्तं कृत्वा प्राङ्नाहेन्द्रादित्यस्मिन्नभिवास्यापा ग्रहानित्यादि मनसाऽनुकामान्तम् । आप्यलेपनिनयनाद्यासन्नाभिमर्शनान्तं, माध्यंदिनं चेत्यस्मिन्पक्षे सवनीयैः सहाभिवासनान्ते, अपां ग्रहानित्यादि मनसाऽनुक्रामान्तम् । ततः सौमिकं वैष्णव्योंपस्थानान्तं कृत्वा. सवनायप्रचरणादि माहेन्द्रात्प्राक् । तत आसन्दीप्रतिष्ठापनादि प्राक्पाहोमात्कृत्वा मारुतं पुरोडाशं तूष्णी स्थापयित्वा तं बर्हिषदं कृत्वना व्याघमिति मन्त्रेण स्फ्येन पुरोडाशं मिनत्ति । यत्स्फ्य आश्लिष्यति यच्च प्रतिशीर्यते तद्विष्णवे शिपिवि. टाय जुहोति, ( आप० श्री. १८-१५-४ ) इत्यापस्तम्बः । अमिचरत अ ( तोऽ) नभिचरतो न च्छेदनहोमौ ॥ २१ ।।

सोमस्य त्विषिरसि तवेव मे त्विषिर्भूयादिति शार्दूलचर्म विवेष्टयति ॥ २६ ॥

अग्रेण प्रशास्तुधिष्णिय खादिरीमौदुम्बरी वाऽऽसन्दी प्रतिष्ठाप्येत्यापस्तम्बः । प्रशास्वर्षिष्णियस्य पुरस्तादयेणोक्तलक्षणामासन्दी प्रतिष्ठाप्य सोमस्य विपिरसि० . भूयादिति शार्दलचर्माऽऽस्तूंणाति ॥ २६ ॥

अग्रे सदो दक्षिणे द्वारबाहौ तद्यजमान आरोहति । अवेष्टा दन्दशूका इति । आपः केशवापाय प्रयच्छति ॥ (ख० १५)॥ लोहायसं प्रयच्छतीत्येकेषाम् ॥ २७ ॥

अग्रेसदो दक्षिणे द्वारवाही तदासन्दीमारोहति यजमानः । स्पष्टमन्यम् ॥ २७ ॥

निरस्तं नमुचेः शिर इति सीसं क्लीबाय विध्यति चैनꣳ सीसं क्लीबेन विध्यतीत्येकेषाम् ॥ २८ ॥

नपुंसकाय प्रयच्छति सीस लोहमयम् ॥ २८ ॥

प्रत्यस्तं नमुचेः शिर इति वाऽप उपस्पृश्य ॥ २९ ॥

क्षेत्र स्पष्टमाहाऽऽपस्तम्बः ---तामारोहन्यजमानोऽपेष्टा दन्दशूका इति दक्षिणेन पदा । सीन पण्डकाय प्रत्यस्यति । निरस्तं नमुचे शिर इति सव्येन लोहितायसं केशवापाय तो बहिदि निरस्वतः । अप्रामुपस्पर्शनं तयोः ॥ २९ ॥ .. ५ पटेल ] महादेवशास्त्रिसंकलितपयोगचन्द्रिकाव्याख्यासमेतम् । १७७

अमृतमसीति रजतꣳ रुक्मं व्याघ्रचर्मण्युपोहति । अधस्तात्पादयोर्दिद्योन्मा पाहीति शतातृण्णꣳ सौवर्णꣳ रुक्मं यजमानस्य शिरसि निदधाति॥१३.५.३०॥

उपोहति न्याघ्रचर्मण्यावेष्टयति । तत (तोऽ)यस्तात्पादयोस्तदुपोहति शतगुञ्जापरिमित सौवणे रुक्मं शतच्छिद्र यजमानाय शिरसि निदधाति असर्जि स त्यादि ततो माहेन्द्र

सोमो राजा वरुण इत्येताभ्यो देवताभ्यः प्रोच्याग्नये स्वाहेति षट्पूर्वाणि पार्थानि हुत्वा पृथिव्यै स्वाहेति षट्पूर्वा भूतानामवेष्टीर्जुहोति ॥ ३१॥

प्रोच्याभिमन्च्य : लुतोऽप्रय स्वाहेति षट् पार्यानि जुहोति । बृहस्पतये स्वाहेत्यनतानि । पृथिव्य स्वाहेति. षट्भूतानामवेष्टीनक्षत्रेभ्यः स्वाहेत्यन्तैरूलबाई तिष्ठन्त आ(मा)सन्याम् । तदुक्तंमापस्तम्बेन-ऊर्ध्वबाहुं तिष्ठन्तं माहेन्द्रस्य स्तोत्रं प्रत्यभिषि. वति ( आप. श्री० १८-१५-१० ) इति ॥ ३१ ॥

सोमस्य त्वा द्युम्नेनाभिषिञ्चामीत्यध्वर्युर्वाऽऽहुतिं जुहूꣳ (ह्वतꣳ) हूयमानेऽभिषिञ्चति ॥ ३२ ॥ पर्णमयेन पुरस्तादध्वर्युः । एवमितरे । औदुम्बरेण दक्षिणतो ब्रह्मा। राजन्यो वा । आश्वत्थेन पश्चाद्वैश्यः । नैयग्रोधेनोत्तरतो जन्यमित्रम् । स्यादुपरिष्टाद्देवनस्याऽऽसिञ्चति ॥ ३३ ॥

सोमो राजा ० मरुतामोनसेत्यनेन पालाशेन पुरस्तात्पुरःस्थितोऽभिषिञ्चति । अनेन मन्त्रेणौदुम्बरेण दक्षिणतो ब्रह्मा । आश्वत्थेन पश्चाद्वैश्यः । तेन नैयग्रोधेन जन्य उत्तरतः । जन्यः मित्रं सर्वदा नपुंसकम् | सखेत्यर्थः ॥ ३२ ॥ ३३ ॥

क्षत्त्राणां क्षत्त्रपतिरसीत्यभिषिच्यमानमभिमन्त्रयते ॥ ३४ ॥

अध्वर्युरिति शेषः ॥ ३४ ॥

अति दिवस्पाहीति कृष्णविषाणया राजसूयिकाति वासाꣳसि विवृत्य समाववृत्रन्नधरागुदीचीरिति येऽभिषिच्यमानस्य लेपा व्यवस्रवन्ति । तान्पात्रैः समुन्मार्ष्टि ॥ ३५ ॥ १७८ सत्यापाढविरचितं श्रौतसूत्रम्-: . [१३.प्रभे

कृष्णविषाणया ताऱ्यांदिवासांसि विस्रंसयत्यध्वर्युः । तान्युत्करे त्यजति । अति दिवस्पाहीति । अस्मिन्काले शस्त्रप्रतिगरप्राप्तिर्यथा स्यात्तथा कार्या | अभिषिच्यमानस्याङ्गेषु य उदकलेपास्तान्पात्रैरुन्माष्टर्यध्वर्युः । यो योऽभिषिञ्चतीति भाष्यकृत् ॥ ३९ ॥

इन्द्राय स्वाहेति षडुत्तराणि पार्थानि हुत्वाऽद्भ्यः स्वाहेति षडुत्तरा भूतानामवेष्टीर्जुहोति ॥ ३६॥

प्रतिगरं पार्थान्यवेष्टीश्च जुहोति । इन्द्राय स्वाहेति षट्पार्थानि । अद्भयः स्वाहेति षड्भूतानामवेष्टीः । अथ प्रतिगरः-उक्थं वाचीत्यन्तम् ॥ ३९ ॥

रुद्र यत्ते क्रयी परं नामेति यो द्रोणे शेषस्तमुदङ्परेत्याऽऽग्नीध्रे जुहोति ॥ ( ख० १६ )॥ ३७॥

इति सत्याषाढहिरण्यकेशिसूत्रे त्रयोदशप्रश्ने पञ्चमः पटलः ॥

अत्र स्वाहाकारोऽध्याहृतः । यदग्नये स्विष्टकृतेऽवद्यति भागधेयेनैव तदुई समर्धेयतीति श्रुतत्वाद्बुद्रस्योच्छेषणभागत्वम् । तत्रैव कंचिद्विशेषं विधत्ते-उदपरेत्याऽऽनीधे जुहोति । एषा वै रुद्रस्य दिक् । स्वायामेव दिशि रुद्रं निरवदयते (ते. बा.१७-८ ) इति । अत्र वा परेकं जुहुयात् । यो भायों कामयेत राष्ट्रमस्मै प्रजा स्यादिति तस्या औपासने प्रतिहितमारम्भयित्वा ये पात्रेषु लेपा व्यवसृतास्तेभ्यो नामव्यतिषअनीयौ होमी जुहुयात् । प्रजापते न स्वदेतानीति । असावमुष्य पुत्रोऽमुण्या असौ पुत्र इति नामनी व्यतिषजति । नामानीत्येके ( आप० श्री० १८-१६-१९) इत्यापस्तम्बीये विशेषः ॥ ३७॥ इति सत्यापादहिरण्यकेशिसूत्रव्याख्याचा महादेवशास्त्रिसंकलितायां प्रयोगच न्द्रिकायां प्रयोदशप्रश्ने पञ्चमः पटलः।

13.6 अथ त्रयोदशप्रश्ने षष्ठः पटलः ॥

अथ रथेन विजयोऽभिधीयते--

इन्द्रस्य वज्रोऽसि वार्त्रघ्न इति रथमुपावहरति ॥ १ ॥

वाजपेये व्याख्यातम् ॥ १ ॥

मित्रावरुणयोस्त्वा प्रशास्त्रोः प्रशिषा युनज्मीति प्रष्टिवाहिनꣳ रथं युनक्ति ॥ २ ॥

१ यस्मिन् पा। जन पटक... महादेवशाखिसंकलितमयोगचन्द्रिकाच्याख्यासमेतम् । १७९

यज्ञस्य योगेनेत्यन्तः । स्थस्याश्वत्रयोपेतत्वं प्रष्टिवाहिनं युनक्ति । तादृशं रथं प्रकारान्तरेण प्रशंसति- त्रयोऽश्वा भवन्ति । रथश्चतुर्थः । द्वौ सव्येष्ठसारथी । षट्सपद्यन्ते । (ते. ब्रां०१-७-९) इति । सव्येष्टेत्पन्न दक्षिणस्थेत्यध्यःहार्यम् । ततः पार्श्वद्धयवर्तिनी द्वौ सारथी संपयेते ॥ २ ॥

विष्णोः क्रमोऽसीति रथमातिष्ठति ॥ ३॥

रथसकाशं गच्छति । यजमान आरोहति रथं सारथिश्च संग(प्र)हातीश्च(च) ॥ १॥

मरुतां प्रसवे जेषमिति प्रयास्यति ॥ ४ ॥

प्रयाति ॥ ४ ॥

प्र ससाहिष इति दाक्षिणतो ब्रह्मा त्रिष्टुभाऽन्वेति ॥ ५ ॥

दक्षिणतो ब्रह्मा गच्छति॥५॥

प्रतिहितोऽन्वारभत इत्येकेषाम् ॥६॥

अन्वारम्भः स्पर्शः । प्रतिहितो राजपुत्रो रथमन्वारभते ॥ ६ ॥

सधनू राजन्यः पुरस्तादुत्तरतो वाऽवस्थितो भवति ॥ ७ ॥ तं जिनात्याप्तं मनः समहमिन्द्रियेणेति ॥८॥

बाणहम्तो राजा पुरस्तादुतरतो वा इषुपातमात्रे तिष्ठसि । तं जिल्वोत्सृष्ट अष्टोs)सौ नितो भवति--आप्तं मनः समहामन्द्रियेणेति मन्त्रेण ॥ ७ ॥ ८॥

तस्मा एतानिषूनस्यति प्रति त्वाऽऽप्तं मनः समहमिन्द्रियेणेति प्रदक्षिणमावर्तते ॥ ९॥

य इघुमात्रे तिष्ठति तस्मै राजन्यायैतानिन्प्रक्षिपेत्-आप्तं मन इति । इषुप्रति (प्रतीषु) मन्त्रावृत्तिः । समह वायणेति प्रदक्षिणमावर्तते ॥ ९ ॥

ऐषु वज्रो वाजसातमस्तेन तौ पुत्रौ वाजसꣳसेदि(यातामि)ति धनुः पत्न्यै प्रयच्छति । धनुरार्त्नि प्रयच्छतीत्येकेषाम् । पत्नी धनुरार्ज्ञोऽ(र्त्नीअ)पनुदतीत्येकेषाम् । अश्वानुपस्पृशतीत्येकेषाम् ॥ १३.६.१० ॥

पत्न्यै प्रददाति । अन्ये पक्षाः शाखान्तरस्थाः ॥ १० ॥

इयदस्यायुरस्यायुर्मे धेहीति राजतमणिं यजमानः प्रतिमुञ्चते ॥ ऊर्गसीत्यौदुम्बरम् । युङ्ङसीति सौवर्णम् ॥ ११ ॥

अन्यप्रतिविमोकनिवृत्त्यर्थे यजमानग्रहणम् । रजतताम्रसौवर्णान्मणीन्प्रतिमुञ्चते । पृथकून्यपक्षे तु मन्त्रावृत्तिरिति भाष्यकृत् ।। ११ ॥ १६० . . सन्यापाढविरचितं श्रौतसूत्रम् च । १३ प्रो

मध्ये सौवर्णमेके समामनन्ति ॥ १२ ॥

स्पष्टोऽर्थः ॥ १२॥

मित्रोऽसीति दक्षिणं बाहुमुपावहरते । वरुणोऽसीति सव्यम् । एतद्वा विपरीतम् ॥ १३॥

मित्रोऽसि वरुणोऽसीति च दाक्षिणं सव्यं च वाहु मुपावहरते यजमानः ॥११॥

समहं विश्वैर्देवैरिति वैश्वदेव्यामामिक्षायाꣳ हस्तावुपावहरते । अत्रैते हिरण्ये ददाति सौवर्णꣳ राजतं च मणिम् ॥ १४ ॥

वैश्वदेव्यामामिक्षायां हस्तौ दक्षिणोत्तरावुपावहस्तेः मनमानः । १७ ॥

नमो मात्रे पृथिव्या इत्यवरोहन्पृथिवीमवेक्षते ॥ (ख०१७) ॥ पशूनां मन्युरसि तवेष मे मन्युर्भूयादिति वाराही उपानहावध्यवरोहति ॥१५॥

पृथिव्यवेक्षणमुत्तरकर्मार्थम् । वराहचर्ममय्याधुपानही प्रत्यवरोहति ॥ १५ ॥

प्रति त्यन्नाम राज्यमधायीति वारुणीभ्यां मुखं विमृष्टे ॥ १६ ॥

यजमानसंस्कारार्थम् ॥ १६ ।।

अग्रेणाऽऽग्नीध्रं चतुरवस्ता(स्रा)वं खरं विमितं विमिन्वन्ति । दक्षिणत उपचारं क्षत्रस्य नाभिरसीति तस्मिन्खादिरीमासन्दीं प्रतिष्ठापयति । क्षत्त्रस्य योनिरसीति तस्यां कृत्त्यधीवासमास्तृणाति ॥ १७ ॥

आग्नीधागारस्यः पुरस्ताच्चतुरवस्ता(स्ना)वं चतुष्टयनाडिक "चतुर्धारकमिति केचित् । अन्यस्मिन्स्थाने विमितं खरं विमिन्वन्ति हर्म्य स्थापयन्तीत्यर्थः । दक्षिणत उपचार संचार क्षत्रस्य नाभिरिति तस्मिन्यथोत्तलक्षणामासन्दी प्रतिष्ठाप्य क्षत्रस्य योनिरीति तस्यामासन्यां कृत्त्यधीवाचं चर्मपटश्चा(टं चाऽs)स्तृणाति प्रसारयतीत्यर्थः ॥१७॥

अवनह्यति हनि विशि मा दृꣳहेत्यवनह्यति ॥ १८ ॥

अवनह्यति बध्नाति आसन्दीपादेषु ॥ १४॥

स्योनाऽसीत्यासीदति ॥ १९॥

यजमानः ॥ १९ ॥

स्योनामासीद सुषदामासीदेति सीदन्तमभिमन्त्रयते ॥ १३.६.२० ॥

गतम् ॥२०॥ ई पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकान्यापासमेतम् । ।

मा त्वा हिꣳसीदित्यारोहति ॥ २१॥

उपविशति ॥ २१ ॥

मा त्वा हिꣳसीन्मा मा हिꣳसीदित्यारोहन्तमभिमन्त्रयते ॥ २२ ॥

गतम् ॥ २२ ॥

निषसाद धृतव्रत इत्यासीनो जपति ॥ २३ ॥

उपविष्टमभिमन्त्रयतेऽध्वर्युः ॥ १३ ॥

अग्नये गृहपतये स्वाहेति स्रुवेण गार्हपत्ये रथविमोचनीयानि हुत्वा हꣳसः शुचिषदिति सह संग्रहीत्रा रथवाहने रथमादधाति ॥२४ ॥

अग्नये. गृहपतये स्वाहेति चतुर्भिर्मरुतामोजसे स्वाहा, इत्यन्त स्थविमीयमीयं जुहोति । हसः शुचिपदिति मन्त्रेणाश्वस्य प्रग्नहं सम्यगृह्णातीति संग्रहीती सर चाहने प्रष्टियाहिनं रथं स्थापयति । एतदन्तं यजमान उद्यतबाहुंभवेदित्येके ॥ २५

आहिते संग्रहीताऽवरोहति ऋत्विज़ोऽनश्व(रत्निनश्च) राजानं पर्युपविशन्ते समुपविष्टेषु ब्रह्मा३नित्यध्वर्युं यजमान आमन्त्रयते । त्वꣳ राजन्ब्रह्माऽसि सविताऽसि सत्यसव इति प्रत्याहैवँ होतारं ब्रह्माणमुद्गातारं वाऽऽमन्त्रयते । उत्तरेणोत्तरेण मन्त्रेण प्रत्याहुः ॥ २५ ॥

राजानं प्रत्यू(परित ऋत्विजोऽध्ववादयो रत्निनश्च पूर्वोक्ता उपविशति । पुरस्ता, दध्वर्युः । दक्षिणातो ब्रह्मा । पश्चाद्धोता | उत्तरत उद्गातेति । सनिनामनियमः । उप. विष्टेषु सर्वेषु यजमानोऽध्वर्युब्रह्मानित्यामन्त्रयते । त्व५ राजन्ब्रह्माऽसि सविताऽसि सत्यसव इति प्रत्याह । एवं ब्रह्माणं प्रति ब्रह्मानित्याह त्व राजब्रह्माऽसीन्द्रोऽसि सत्यौजा इति प्रत्याह, एवं होतारं मित्रोऽसीति । उदातारं वरुणोऽसीति ॥ २५ ॥

इन्द्रस्य वज्रोऽसि वार्त्रघ्न इति स्फ्यं ब्रह्माऽथ राज्ञे प्रयच्छति । अध्वर्युः प्रयच्छतीत्येकेषाम्॥२६॥

ध्येत्यन्तः । ब्रह्मा प्राकृतं स्पयं राज्ञे प्रयच्छति ॥ २६ ॥

एष वज्रोऽसि वाजसातमः ॥ ( ख०१८ ) ॥ तेन मे रध्येति वा राजा पुरोहिताय। पुरोहितः प्रतिहिताय । प्रतिहितो रत्निभ्यस्तमवरपरꣳ संप्रयच्छन्ति । अन्ततोऽक्षावापाय प्रयच्छति ॥ २७ ॥ १४५ सत्यापादविरचितं श्रौतसूत्रम् (३३ प्रश्न

राजा पुरोहिताय पुरोहितः प्रतिहिताय प्रतिहितो रनिभ्यो रनिनामनियमोऽन्ततोऽ' क्षावापाय प्रयच्छति ॥ २७ ॥

तेन स स्फ्येनाधिदेवनमुद्धत्य तिस्रः पञ्चाशतः पञ्च वा पञ्चाशतोऽक्षान्निवपति ॥ २८ ॥ उद्भिन्नꣳ राज्ञ इति ततश्चतुरोऽक्षान्निरूहꣳश्चतुःशतानपिसज्य पष्ठौहीं विदीव्यन्ति ॥ २९ ॥ ब्राह्मणो राजन्यो वैश्यः शूद्र इत्योदनमधिपर्णं विजित्य दिशोऽभ्ययꣳ राजाऽभूदिति पञ्चाक्षान्यजमानाय प्रयच्छति ॥ १३.६.३० ॥


अक्षावापस्तेन स्क्येनाधिदेवनं द्यूतस्थान तस्मिन्मण्डप उद्धत्याक्षान्निवपेत् । अक्षा, सावर्णा अनियसपरिमाणाः परःशता भवन्ति । शताधिकास्तेषां चतुरो निष्कृपारिमाणा। आतुरधिकमाना अवरसंज्ञकाश्चतुरश्रास्त्रिकोणाकारा धनुरोकारा वृत्ताकारसः । ब्राह्मणा दयो द्यूतकर्मण्यभियुक्ताः पष्टीही मनापणत्वेन निधाय. मम कर्णयोः, मम विषाणस्य, मम खुरस्य, मम पुच्छस्य, इत्यहिंसन्तो मनसा कृत्वा विदीच्यन्ते (न्ति) विदेवनं कुर्व. न्तीत्यर्थः । ओदनमुब्रुवत. इति चाग्न्याधेयवत् । तया... विनितया पष्ठोहीमो(लौ दनं कुर्वन्तीत्यर्थः । एवं विदेवनप्रकारो ब्राह्मणांश्चतुरो वर्णानित्योदनमधिपणं विजित्य राजा पश्चाद्गृह्णाति । ब्राह्मणश्चतुरश्राद्ाति । राजन्यस्त्रिकोणात् । वैश्यो धनुराकारात् । शुदो वृत्ताकारात् । एवं गृहीत्वाऽनियतपरिमाणाक्षाणां कतिपयाक्षानादाय निवपति । चतुरचतुरो विमजेत् । यदाऽविभक्ते तदाऽपि चतु(त्या)रो भवति(न्ति)। दिशोऽभ्यय राजोऽभूदिति पश्चाक्षानराज्ञे प्रयच्छतीत्यर्थः ॥ २८ ॥ २९ ॥ ३० ॥

तानपिसृज्य मङ्गल्यनाम्नो (म्न आ)ह्वयति सुश्लोकाँ ३ इति संग्रहीतारꣳ सुमङ्गलाँ३ इति भागदुगꣳ सत्यराजा३निति क्षत्तारम् । तानाहूय ब्रह्मणे क्षेत्रं ददाति ॥ ३१ ॥ यत्कामयते ब्रह्मा त उपद्रष्टारः ॥ ३२ ॥

अथ मङ्गल्यनान्नो राजाऽऽह्वयति वक्ष्यमाणान्पुरुषान्सु-श्लोकाँ ३इत्यादिक्षत्तारमित्यतानाहूय चतुष्पाक्षेत्रं ब्रह्मणे ददाति । मङ्गल्यनामानो दीयमानस्य क्षेत्रोऽ(बस्यो)पद्रष्टारो भवन्ति चतुष्पाक्षेत्रं चत्वारः पादा अस्येति । अथवा चतुभिर्बलीवर्दैः सह क्षेत्रं ब्रह्मणे ददाति ॥ ३९ ॥ ३२ ॥

यां कामयेत भार्यामस्यै प्रजा राष्ट्रꣳ स्यादिति तस्या औपासने प्रतिहितमन्वारम्भयित्वा

१ चतुरतमानाः मानशब्दो गुञ्जादिषु व्यवहरियत इति गम्यते । ६.पटलः ] महादेवशास्त्रिसंकलितपयोगचन्द्रिकान्यास्यासमेतम् । १८३

प्रजापते न त्वदेतानीति ये पात्रेषु लेपास्तैर्नामव्यतिषञ्जनीयौ होमौ जुहोति ॥३३॥ असावामुष्यायणोऽमुष्या असौ पुत्र इति नामनी व्यतिषजति ॥ ३४ ॥

यस्याः पुत्रो राज्ञः(जा) स्यादिति कामयेत तस्या औपासने मिन्ने समुदिते वा तं प्रतिहितं तस्याः पुत्रमन्वारम्भयित्वा पालाशादिपात्रस्थलेपाञ्जह्वां गृहीत्वा-प्रजापते न त्वदेतानीत्यूच मुक्त्वा राजेन्द्रवर्मा राजेन्द्रवर्मणः पुत्रोऽदितिदाया राजेन्द्रचोळ(ल वर्मपुत्रः स्वाहा । एवं द्वितीयहोमः । अथ नामनी व्यतिषजति प्रजापते ० तन्नो अस्त्वित्यन्तमुक्त्वा राजेन्द्रवर्मा राजेन्द्रचोळवर्मणः पुत्रो वयश् स्याम पतयो रयीणा, स्वाहेति. प्रथमा । एवं द्वितीया तन्नो अस्त्वित्यन्तमुक्त्वाऽदितिदाया राजेन्द्रवर्मा पुत्रो बयः स्याम पतयो 'रयीणा स्वाहा, इति ।। ३३ ॥ ३४ ॥

शौनःशेपमाख्यापयते । ऋचो गाथामिश्राः ॥(ख०१९) ॥ परःशताः परःसहस्रा वा ॥ ३५॥

शनःशेपेन : दृष्ट शस्त्रं शौनःशेपं, तद्ध्वर्युहोतारं वाचयेत् । तेन र वरुणपांशादेवैनं मुञ्चति । (ते ब्रा०:१-७-१०) इति ब्राह्मणम् । तत्र ऋक्संख्यां विधत्ते.परःशतं भवति (ते. ब्रां० १-७-१०) इति । परःशतं . शतादधिकम् । ऋक्संख्या चाऽऽपस्तम्बेन · स्पष्टीकृता- शौनशेपमाख्यापयत ऋची गाथामिश्राः परःशताः परःहना वा ( आप० श्री. १८-१९-३०) इति. ॥ ३५ ॥

हिरण्यकशिपावासीनो होताऽनुशꣳसति ॥ ३६ ॥

स्पष्टोऽर्थः ॥ ३६ ॥

हिरण्यकूर्चयोस्तिष्ठन्नध्वर्युः प्रतिगृणाति । ओमित्यृचः प्रतिगरस्तथेति गाथायाः ॥ ३७॥

शौनाशेपाख्यानकाले वाग्यतो भवेद्यनमानः। ॐ इत्यूचः प्रतिग्ररस्तथेति गाथायाः। हिरण्यकशिपावासीनो · होतारं शंसति । हिरण्यकूर्चयोस्तिष्ठन्नध्वर्युः प्रतिगृ. जाति ॥ ३७॥

अपवृत्ते शौनःसे( शे )पे हिरण्यकशिपुं होत्रे ददाति । हिरण्यकूर्चावध्वर्यवे ॥ ३८ ॥

अपवृत्ते परिसमाप्ते शौनःशेपे शस्त्रस्य शस्त्रमिति ( शख्ने ) यजमानो हिरण्यक. शिपुं होने हिरण्यकूर्चम (चर्चाव ) ध्वर्यवेऽभिषेचनीयों च स्तमौ ददाति ॥ ३८ ॥

अत्र मारुतेनैकविꣳशतिकपालेन वैश्वदेव्याऽऽमिक्षया प्रचरेत् । एना व्याघ्रं परिषस्वजानाः सिꣳ the सत्यापाढावरचितं श्रौतसूत्रम्- १३ प्रो

हꣳ हिन्वन्ति महते सौभगाय । समुद्रं न सुहुतं तस्थिवाꣳसं मर्मज्यन्ते द्वीपिनमप्स्वन्तरित्यवदास्यन्पुरोडाशमभिचरन्स्फ्येन समया विभिन्द्यात् । स्फ्य आश्लिष्येद्यच्चावमार्जेत्तद्विष्णव उरुक्रमायावद्येत् ॥ ३९ ॥

हविधान प्रविश्य मारुतवैश्वदेवयोः प्रचारः। स्फ्येन पुरोडाशं भिन्द्यादित्यादि ॥३९॥

अत्रैते हिरण्ये ददाति । सौवर्णं राजतं मणिं च। यदि पुरस्ताद्दत्ते भवतः ॥ १३.६.४० ॥

"मेदने पुरोडाशे ( शस्य ) कृते नास्ति स्विष्टकृतं, समानं तु स्विष्टकदिकामार्ज। नान्तम् । हिरण्ये सौवर्ण राजतं मणिं च ब्रह्मणे ददाति । यदि पुरस्तानवद्यातदा ॥ १० ॥

माहेन्द्रप्रभृतीनि कर्माणि प्रतिपद्यते ॥ ४१ ॥

माहेन्द्रस्य प्रचरणादि कर्म नित्यम् । अतिग्राह्यहोमाः पूर्ववत् ॥ ४१ ।।

अवभृथादुदेत्यापां नप्त्रे स्वाहेत्यप्सु जुहोति ॥ ४२ ॥ कल्चमसप्रयोगो गुणफलाश्च प्रवर्तन्ते । समानमाऽवभृथात् । अवभृष्टिमनूयाजान्तां विधामानमुथादुदेल्यापां नप्त्रे स्वाहेति होमः । यत्ते प्राणेति पवित्रवत् ॥ ४२ ॥

ऊर्जो नप्त्रे स्वाहेति शुष्के स्थाणौ दर्भस्तम्बे वा ॥ ४३ ॥

जुहोतीस्यनुवर्तते । अवभृथदेशविहारयोरन्तराले होमे दर्भस्तम्बादिषु वा ॥ ४॥

अग्नये गृहपतये स्वाहेति प्रत्येत्य गार्हपत्ये ॥ ४४ ॥

विहारदेशं प्राप्यापोऽन्वचारिषमित्युपस्थायाग्नय इति गार्हपत्ये जुहोति । ४४ ॥

ऐन्द्रीꣳ सूतवशामनूबन्ध्यामालभते ॥४५॥ तस्या नैवारं पशुपुरोडाशं चतुष्पद्याः सूनाया निर्वपति ॥ ४६ ॥ शकटप्रत्याम्नायो भवति ॥४७॥ संतिष्ठतेऽभिषेचनीयः ॥ ४८ । ॥ (ख. २०)॥

इति सत्याषाढहिरण्यकेशिसूत्रे त्रयोदशप्रश्ने षष्ठः पटलः॥

उदवसानीयादि । इन्द्रदेवत्या सूतषशामनबन्ध्यामालभते । इन्द्राय गोर्वपाया। मेदस इत्यादि । तस्यां नीवारेभ्यः पशुपुरोडाशस्य निर्वापः (एवं पशुपुरोडाशं निरुष्य) ७ पटेलः) महादेवशास्त्रिसंकलितपयोगचन्द्रिकान्याख्यासमेतम् । १८५

पशुपुरोडाशं नैवारं चतुष्पद्याः मनाया निर्बपति । चतुष्पद्याः सूनाया यस्या मांसं छिद्यते विक्रयार्थम् । तस्यां नीवारेभ्यः पशुपुरोडाशस्य निर्वाप: । एवं पशुपुरोडाशं निरुप्याष्टौ देवसुवां हवींषि राज्ञो निवपनादि । शेषं पूर्ववत् । एवमभिपेचनीयः समाप्यते ।।४८ ॥ इति सत्वाषाढहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयोगचन्द्रिकायां त्रयोदशनने षष्ठः पटलः ।

13.7 अथ त्रयोदशप्रश्ने सप्तमः पटलः ।

अथ संसृपां हवींषि देशसंख्याकानि विधीयन्ते--

श्वोभूते सप्तभिः सꣳसृपाꣳ हविर्भिरन्वहं यजते। आग्नेयमष्टाकपालं निर्वपतीति यथासमाम्नातम् । पूर्वं पूर्वं देवयजनमध्यवस्यति । यत्राऽऽहवनीयः पूर्वः स्यात्तत्रापरस्या गार्हपत्यः सप्तम्या इष्टेः प्राग्वꣳश आहवनीयो बहिर्गार्हपत्यः ॥ १॥

सम्यक्सृप्यते प्राप्यते वीर्यमांभिरस यादिभिर्देवताभिरिति संसपो देवतास्तासां हवींध्यपि तन्नामकानि । तान्येतानि हवींषि प्रशंसति- वरुणरय सुषु वाणस्य दशधेन्द्रियं वीर्य परापतत् । तत्समृदिरनुसमसर्पत् । तत्ससृपा ससृत्वम् । अग्निना देवेन प्रथमेऽहन्ननु प्रायुक्त' (ते. ब्रा० १- (-१) इत्यादि । स वरुणः प्रथमेऽहनि देवेन द्योतनात्मकेनाग्निना - सहाष्टाकपालं प्रायुक्ताऽऽग्नेयमष्टाकपालं निरपदित्यर्थः । द्वितीयेऽहनि वायूपया . सरवत्या चरुं निरवपत् । तृतीये प्रसवकारणेन सवित्रा सह द्वादशकपालं निवपत् । चतुर्थे पशुभिरुपलक्षितेन पूणा सह चरुं निरपपत् । पञ्चमे ब्राह्मणाभिमानिना. बृहस्पतिना सह चरुं निरवपत् । षष्ठे द्योतनात्मकेनेन्द्रेण सहकादशकपालं निरवत् । सप्तमे स्वकीयदेवतारूपेणातीतकल्पगतवरुणेन सह दशकपालं निरवपत् । अष्टमे : राज्ञा यजमानेन सोमेन सह चरं निरवपत् । नवमे रूपवता स्वष्टा सहाष्टाकपालं निरवपत् । दशमे यज्ञरूपेण विष्णुना सह त्रिकपालं निरुप्य तदिन्द्रियमाशोत् । यदि यजमानस्यापि संसपो यागा भवेयुस्तदाऽसौ यजमान इन्द्रियसामर्थ्य प्राप्नोतीति ब्राह्मणार्थः । उत्पत्तिविधिभिर्विहितानां संसृपामनेनार्थवादेन भिन्नदिनानुष्ठानविधिरुन्नेयः । पञ्चामागामिनो दशपेयस्य देवयजनस्य पश्चात्संसूपां हविषा. मुत्तमायामिष्टेराहवनीयायतनं दशपेय । प्राग्वशे गार्हपत्यस्थाने यथा स्यादेवं पश्चाद्दा

१ सप्त वा। १८६ सत्याषाढविरचितं श्रौतसूत्रम् .. १३ प्रश्नै

शंपीर्णमासिकी वेदिर्भवेत् । अग्निहोत्रं हुत्वा संसृपां हविर्भिर्यक्ष्य इति संकल्प्य सर्वेषां संसृशं हविः ० इति सर्वेषामाग्नेयमष्टाकपालं हिरण्यं दक्षिणा | आग्नेयस्याऽऽहवनीयस्याऽऽयतन उत्तरस्य गार्हपत्यायतनम् । श्वोभते सारस्वतं चरं वत्सतरी दक्षिणा । श्वोभूते सावित्रं द्वादशकपालं. उपध्वस्तो दक्षिणा, पूर्ववद्विहारः । श्वोभूने पौष्णं चरं श्यामो दक्षिणा । श्वोभूने बाईस्पत्यं चरुं शितिपृष्ठो दक्षिणा । श्वोभूत ऐन्द्रमेकादशकपालमृषभो दक्षिणा । वारुणं दशकपालं महानिरष्टो दक्षिणा । सर्वेषां पूर्वस्याऽऽहवनीयमुत्तरस्य गार्हपत्यम् । तत्प्रकारश्चाऽऽपस्तम्बेन स्पष्टीकृतः-श्वोभूते परेण सौमिकदेवयजनं दशभिः सप्तभिर्वा सँसृपाँ हविभिनत आग्नेयमष्टाकपालमिति पूर्वं पूर्व देवयजनमध्यवस्यति । यत्र पूर्व आहवनीयस्तरोत्तरो गार्हपत्यः । उत्तमायाः प्राग्यश आह्वनीयो बहिर्गार्हपत्यः (आप० श्री. १८-१०-९) इति ॥ १ ॥ अथाष्टमनवमदशमानां हविषां स्वस्वदिनेषु कंचित्कालविशेषमाह

अथ तया यजते । तस्याꣳ सꣳस्थितायामपराह्णे दशपेयाय दीक्षते ॥ २ ॥ अप्सु दीक्षायाः स्थाने षट्पुण्डरीकां द्वादशपुण्डरीकां वा हिरण्यस्रजं यजमानः प्रतिमुञ्चते ॥ ३ ॥ तदहर्दीक्षितो राजानं क्रीणाति दशभिर्वत्सतरैः साण्डैः ॥ ४॥ न पणते न परिवहति ॥ ५ ॥ क्रयमेवापरं करोति ॥ ६ ॥ पुरस्तादुपसदाꣳ सौम्यं चरुं निर्वपति । अन्तरा त्वाष्ट्रमुपरिष्टाद्वैष्णवम् ॥ ७ ॥

अभिषेचनीयात्सोमयागावै दशपेयः सोमयागः कर्तव्यः । तस्य च संसृव्यागसंबन्धिनि सप्तमेऽहन्येका दीक्षा कर्तव्या । तत ऊर्व त्रिषु दिनेष्पसदः कर्तव्याः । तत्र प्रथमोपसदिन उपसद्यागात्पूर्व सौम्याख्येन संसपाऽष्टमहविषा प्रचरेत् । मध्यमोपसदिने पौर्वाह्निकापराह्निकोपसदोर्मध्ये त्वाष्ट्रेण नवमहविषा प्रचरेत् । तृतीयोपसदिने पौहिणिकापः राह्निकोपसदावनुष्ठायोपरिष्टाद्वैष्णवेन दशमविषा प्रचरेत् । दशपेयतन्त्रमध्ये त्रयाणां हविषामनुष्ठानमापस्तम्बेन स्पष्टीकृतम्--अपराहणे दशपेयस्य तन्त्रं प्रक्रमयतीत्युपक्रम्यैवं पठ्यते- एका दीक्षा । तिन उपसदः । पुरस्तादुपसदार सौम्यं वरं निर्वपति । अन्तरा त्वाष्ट्रमष्टाकपालमुपरिष्टाद्वैष्णवं त्रिकपालम् ( आप० श्री० १८-२०-१९) इति । ननु राजसूये संसृष्शब्दवाच्यान्याग्नेयाष्टाकपालादीनि दश हवींष्याम्नातानि तेष्वटमनवमदशमानि सौम्यत्वाष्ट्रवैष्णवानि । तद्विषयमिदं वाक्यमानायते--पुरस्तादुपसदार सौम्येन प्रचरति । अन्तरा स्वाष्ट्रे । उपरिष्टाद्वैप्णवेन ( तै० वा. १-८-१) इति। ७ पटल: 1 महादेवशास्त्रिसंकलितमयोगचन्द्रिकान्यास्यासमेतम्। १८७ ।

योऽयं राजसूये सोमयागस्तास्मिनुपरि( दि)ष्टानामुपसदामादिमध्यावसानेषु सौम्यादीनां प्रयाणाममुष्ठानमनेन वाक्येन चोद्यते । ततो वाक्यात्सौम्यादीन्युपसदामङ्गनीति प्राप्ते अमः-उपसदामिति षष्ठयाः कालवाचिना पुरस्तादिति शब्देनान्वयात्सौम्यादीनां काल. विशेषसंबन्धपरमिदं वाक्यं नत्वङ्गाङ्गिभाषपरम् । ततो न करायन सौम्यादिकं किस्वनुमत्यादिवरप्रधानम् ॥ अग्नेय पद्धतिः-वारुणेनेष्ट्वा तदहरेव द्वादश्यामपराहणे दशपेयेन यक्ष्य इत्यादि । प्रथमोपसदि तदहरेव वरणभेदपक्षे भार्गवं होतारमस्मिन् वृणीते, न सप्तहोता, न सोमपरिवेषणम् । दीक्षणीयां विधाय वपनं कृत्वाऽऽपो अस्मानिति स्नानादि, अपोऽभातीत्यन्ते तस्मिन्स्थाने द्वादशपुण्डरीकस्रनं प्रतिमुञ्चते । शरीरे द्वादशपद्ममालामाबध्नाति, न मन्त्रे. गैवेति लिङ्गात् । अथास्मै सौममहतमित्यादिसनीहारप्रस्थापनान्तान्गृहीतान्पांसूत्रेधा विभज्य तत्सा गृहेषु निदधाति । देव सूर्येत्यादि प्रजाभ्यस्त्वेत्यन्तं लुप्यते । पूर्वमेव क्रीत ( तानि ) पुरोहितग्रहाऽऽन( गृहग )तसोमफलान्याहृत्य क्षोमेण वाससोपसंगृह्ये. त्यादिविलंसनान्तं कृत्वा सोमविक्रायणे प्रदाय वत्सनरी पुनस्तूष्णीमेव ददाति । अस्मे ज्योति० स्वजा असीत्यादयोऽपोर्तुते, न स्वान भ्राजः । तूष्णीमुष्णीषदण्डयोः प्रदान मैत्रावरुणाय, मित्रो न एहीत्याद्यच्छिद्रपन्न इत्यन्तो लुप्यते । वनेषु व्यन्तरिक्षामित्युष्णीपबन्धनं कर्तव्यम् । हस्तेन राक्षे नयनमा प्राग्वशात् प्राग्वंशसमीपे यत्र कुत्रापि(बचित्) सोमफले( ल )के स्थापयित्वाऽऽतिथ्येन प्रचरति । आतिथ्याया हविष्कृदन्तं कृत्वा, उर्वन्तरिक्षमिति प्रबनति प्रतिप्रस्थाता पूर्व प्रतिपद्यत इत्याद्यातिथ्यया प्रचर्य मदन्तीभिर्निनान्ते सौम्यस्य कर्माऽऽस्तीर्णपक्ष उपसादनम् । उपसदां प्रस्तरवर्हिरेव परिधयश्च सोमाय : श्यामाकश्चरुः, बभ्रुदक्षिणा । पौर्वाहिकीभ्यां प्रवर्योपसद्भया प्रचर्य तदहरेवाऽऽपराह्नि'कीया प्रवर्योपसद्भयां प्रचर्य विरमति । त्रयोदश्यां श्वोभूते पौवाहिकीभ्यां प्रचर्य “सुब्रह्मण्यान्तेऽन्तरा त्वाष्ट्रमष्टाकपालं. शुण्ठो दक्षिणा । ततो यूपाहुत्यादि । ततः श्वोभूते चतुर्दश्यां पौर्वाहाणिकीभ्यां प्रचर्य तदानीमेवाऽऽपराणिकीभ्यां प्रचर्य वैष्णवं त्रिकपालं वामनो दक्षिणा, ब्राह्मणभोजनान्तेयमेवेष्टिराज्येडान्तेति भाप्यकृत् ॥ ७ ॥

तासामौपसदं बहिः( र्हिः ) परिधयश्चार्थꣳ साधयन्ति ॥ ८ ॥

तासामिष्टीनामौपसदं तन्त्र बहिः पृथक्तन्त्रत्वात्कृत्स्नोष्टिचोदनाच्च परिध्यादयोऽर्था: साधयन्ति संगृह्णन्तीत्यर्थः ॥ ८ ॥

सप्तदशो दशपेयोऽग्निष्टोमः । सारस्वतीर्वसतीवरीः ॥९॥

प्रवर्णोद्वासनादि । वसतीवरीग्रहणकाले यदा सरस्वतीनदीसमीपे देवयननं तदा तत्र वसतीवरीः । अन्यथा तज्जलमाहृत्य बहुयाजी कुम्भ्यस्त( म्भीस्थं ) कृत्वा गृह्णाति । . १८८ - सत्यापादविरचितं श्रौतसूत्रम्-: [१३ प्रश्ने

यद्वा-- प्रकृती वहन्तीनां गृह्णातीति प्रवाहमानगतानामपा वसतीवरीत्वादत्रापि तत्प्राप्तौ सरस्वतीगता एवाऽऽपो विधीयन्ते ॥ ९॥ . ..... चोदकप्प्राप्त होतसामान्यादिकं बाधितुं विशेषानाह-

भार्गवो होता भवति । श्रायन्तीयं ब्रह्मसामं भवति । वारवन्तीयमग्निष्टोमसामम् ॥ १३.७.१० ॥

प्रकृती यः कोऽपि होतेत्यत्रापि तत्प्राप्तौ. भृगुगोत्रोत्पन्न एवेति विशेष्यते । प्रकृती · ब्राह्मणाच्छसिन प्रत्याज्यस्तोत्रे गायत्रसाम्नो विहितत्त्वात्तदपवादाय श्रीयन्तीय सामात्र विधीयते । श्रायन्त इव सूर्यमित्यस्यामृच्युत्पन्नं सोम श्रायन्तीयम् । प्रकृती यज्ञायनीयस्याग्निष्टोमभामत्वात्तदपोद्य वारयन्तीयं साम विधीयते । अवे न त्वा वारवन्तमित्यस्यामृच्युत्पन्नं वारवन्तीयं साम ॥१०॥ .. . अथ पद्धतिः- महाराने श्वे त्यादिपरिप्लवासादनान्ते।

पात्रसꣳसादनकाले दश चमसानधिकान्प्रयुनक्ति ॥ ११ ॥

दश चमसानधिकान्प्रयुनक्ति ।। ११ ॥

उन्नयनकाले दश चमसानधिकानुन्नयति १२॥

एवं चमसोन्नयनकालेऽपि दश चमसानधिकानिति वचनाचमसाध्वर्यव( qणां )वृद्धिः ।

भक्षणकाले य आ दशमात्पुरुषादविच्छिन्नसोमपीथः स भक्षस्य कर्ता दशमात्पुरुषादन्वाख्याय शतं ब्राह्मणाः सोमपाः संप्रसर्पन्ति ॥ १३ ॥ दश दशैकैकं चमसं भक्षयन्ति ॥ १४ ।

शतं ब्राह्मणाः सोमयाजिनो वक्ष्यमाणगुणविशिष्टाः सदः प्रसर्पन्ति । एवं सदसो वृद्धिः । भक्षणकाले प्राकृतेषु चमसेषु, भक्षितेषु चापूर्वचमसान् । शतं ब्राह्मणा सोमयाजिन एकैकस्मिन्दश दश सोमयानिनः, आ दशमारपुरुषादविच्छिन्नसोमपीथान्दश पुरुषान्कथयेरन्नीदृग्भूतेति न प्रतिज्ञामात्रेण तेऽपि विद्यावन्तः प्राकृतपरिमाणाधिकाः स्थविष्ठांश्चमसानुन्नयन्ति ॥ १३ ॥ १४ ॥

दक्षिणाकाले हिरण्यप्राकाशावध्वर्यवे ददातीति यथासमाम्नातम् । उक्षाणं ग्रावस्तुते वेहायमानामिवोऽन्नेत्रे बस्तꣳ सुब्रह्मण्याय ॥ (ख०२१) ॥१५॥

प्राकाशौ सुवर्णदर्पणौ । हिरण्यस्रजमुद्गाने । रुक्मं वर्तुलं सुवर्णाभरणं होत्रे । अश्वं प्रस्तोतृप्रतिहर्तृभ्याम् । द्वादश पष्ठीहीब्रह्मणे । वशां वैत्रावरुणाय । ऋषभ ब्राह्मणाच्छसिने । वाससी नेष्टापोतृभ्याम् | स्थूरीयवाचितमच्छावाकाय । अनड्वाहमग्नीधे । एकगोयुक्तं रथं चमसाध्वर्यवे ददातीत्येके । अन्यत्स्पष्टम् ॥ १५ ॥ .. .७ पटलः ] महादेवशास्त्रिसंकलितमयोगचन्द्रिकान्याख्यासमेतम् । .१८९

ननु राजसूये श्रूयते प्राकाशावध्वर्यवे ददाति ( तै० सं० १-८-१८ ) इति । प्राकाशौ दीपस्तम्बावित्येके । दर्पणावित्यपरे। तौ किं प्राकृतस्य दक्षिणाद्रव्यस्य बाधकायुतायुभागस्यैव । तत्र प्राकाशौ ददातीति कर्मकारकवाचिद्वितीयाश्चतिकृतेन दानसबन्धेन प्राकाशावध्वर्यव. इति वाक्यकृते पुरुषसंवन्धेऽपोदिते सति देयद्रव्यप्रतीतर्देयान्तरस्य कृत्स्नस्य बाध इति पूर्वपक्षः । अध्वर्यवे ददातीति संप्रदानकारकवाचिचतुर्थाश्रुतिकृतस्य दानक्रियासंबन्धस्यापवदितुमशक्यत्वात्संप्रदानविशिष्टंदानक्रियासंबन्धेऽपि द्विती. याश्नुतेरविरोधादध्वर्युभागस्यैव बाध इति राद्धान्तः ॥ १५ ॥

संतिष्ठते दशपेयः ॥ १६ ॥

अग्निष्टोमचमसैः प्रचर्य पोडशिहोमः, न होम इति भाष्यकृत् । दशपेयोऽग्निष्टो महोम-. यागः । अवभृथादुदेत्यानूबन्ध्यायाः पशुपुरोडाशमष्टौ देवसुवामेतानि हवींप्यनुनिर्वपती. त्यादि । समाप्यते दशपेयः ॥ १६ ॥

तस्मिन्सꣳस्थिते दिशामवेष्ट्या यजते ॥ १७॥

तस्मिन्सस्थिते दशपेय उपोषणं कृत्वा पञ्चासीन्समारोप्य दिशामवेष्टयोदवस्यति, न पूर्णाहुतिः । नोदवसानीयधर्माः पश्चकपालादयः । इदमूनश्रेय इति कृत्वाऽग्नीन्मधिस्वोपावरोह्याऽऽयतने निदधाति ॥ १७ ॥

आग्नेयमष्टाकपालं निर्वपतीति यथासमाम्नातꣳ हविषो हविष इष्ट्वा बार्हस्पत्यं प्रत्यभिघारयेत् ॥ १८ ॥

विशामवेष्ट्या यक्ष्य इत्यादि । अद्य यज्ञाय दिशामावेष्ट ५ हविः० शाखाहरण. मित्यादि कुम्भीलेपनान्तम् । अग्नये जुष्टं ० इन्द्राय जुष्टं विश्वेभ्यो देवेभ्यो जुष्टं। .इत्यादि । प्रातदोहकर्म | मित्रावरुणाभ्यामिति निगमाः । घोऽसीति लौकिकदध्यानयनम् । आग्नेयादीनां चतुर्णी मध्य एकैकयागादूर्व पञ्चमहविषि अभिधारणम् । दक्षिणाकाले हिरण्यर्षभपष्ठीहीवशाशितिपृष्ठाः । ब्राह्मणतर्पणान्तेयमिष्टिः ॥ १८ ॥

तयाऽन्नाद्यकामः स्वर्गकामो वा यजेत ॥ १९ ॥

यजमानः ॥ १९ ॥

ब्राह्मणो यजमानो मध्ये विधायाऽऽहुतिमाहुतिꣳ हुत्वाऽभिघारयेत । यदि राजन्य ऐन्द्रम् । यदि वैश्यो वैश्वदेवम् ॥ १३.७.२० ॥

एतयैवेष्टया राजसूयादन]कामसंयोगे ब्राह्मणादयः कुर्वन्ति ॥ २०॥ १९० :... सत्यापाढविरचितं श्रौतसूत्रम्-... | १३ प्रश्नै

अथावेष्टीविधाय द्विपशयुक्त पशुवन्धकर्म विधत्ते -

श्वोभूते द्विपशुना पशुबन्धेन यजेत ॥ २१॥

यस्मिन्दिने दशपेयसमाप्तिस्तस्मिन्नहन्यपराह्ने बेत्यारस्तम्बः । श्वोभूत इति सूत्रकार वचनबलात् । पशुबन्धेन यक्ष्य इत्यादि ॥ २१ ॥

आदित्यां मल्हां गर्भिणीमालभते । मारुतीं पृश्निं पष्ठौहीम् । अश्विभ्यामुपाꣳशु मारुत्या प्रचरति । आश्रुतप्रत्याश्रुते अप्युपाꣳशु भवतः । उच्चैरादित्यायाः ॥ २२॥

अदितिर्देवता यस्याः सेत्यादित्या मल्हा मणिला गलस्तनयुक्तत्यर्थः । पृभिरल्पतनुः श्वेतवर्णा वा । अदिते मित्वेन राष्ट्रत्वं मरुतां च वैश्यत्वमसकृदुक्तं तदेतदाभप्रेत्य प्रशंसति-आदित्यां मल्हां गर्भिणीमालमते. | मारुती पृझिं पष्ठौहीम् । विशं चैवास्मै राष्ट्रं च समीची दधाति ( तैना० १-८-३) इति । पाठप्राप्त क्रम प्रशंसति आदित्यया पूर्वया प्रचरति । मारुत्योत्तराया (ते. बा.१-८-३) इति । आश्रवणस्य - चोदकप्राप्तमुच्चध्वनित्वमादित्ययागेऽनूद्यापवादतुं विधत्ते—उच्चैरादित्याया आश्रावयति । उपाशु मारुत्य (ते. ब्रा० १-८-३) इत्यादि । ..... अथ पद्धतिः-न षड्ढोता पन्विष्ट्यादि उपशयेन सह यूपत्रयच्छेदनमग्निष्ठादिस्वरुद्ध(त्र)यं वेदिकाले यूपैकादशिनीवत् । अग्रेणाऽऽहवनीयमेको दक्षिणासस्थान एकस्तस्माद्रथालमामेकं भवति । एकस्मिन्पक्षे द्वयपक्षे वा तस्मिंस्तयोर्वा भवति प्रयोगः । तदश'मम् । अप्रेणाऽऽहवनीयमेव भवत्येको यूपः । तस्माद्रथाक्षमात्रद्वयंस्योपरत्रयस्य(येन) तृतीयभागेन चतुर्मिः पश्चादित्याद्यगुल्यास्तृतीयभागातिरिक्तेन सप्तनवाधिकसप्तत्यङ्गुल्या संमितेन वेदिमानम् । केचियूपस्यांसयोः स्थितं स्याद्वैकस्य रथाक्षस्योपरद्वयस्य तृतीयभागेन । केचिदर्धागुख्यास्तृतीयभागातिरिक्तक(द्वि)चत्वारिंशदगुल्या समितेन वेदि. मानम् । दशपदोत्तरवेदिरिति केचित् । एकादशिनीप्रकृतित्वात् । चिच्छंन्यामात्रामिच्छन्ति । पात्रप्रयोगे षड्यूपरशना द्वे पशुरशने द्वे कुम्भ्यो द्वे शूले चतस्रो वपाश्रपणी(ण्यो) दर्भयुगलौ यूपकाल एकादशिनीवत् । यूपद्वयस्योच्छ्यणं रथाक्षमात्रो यूपान्तराल उपशयनिधानं चैकादशिनीवत् । द्वाभ्यां रशनाभ्यां परिव्ययणं पशुभ्यामेहीति केचित् । मल्हा मणिला मांसपिण्डद्वयं यस्या ग्रीवायाः सा. मल्हा । पृश्नि: पष्ठीही च गर्भिणी चोपद(श)य उपाकरोति । उपशय आखुनिर्देशः । पञ्चहोमे च द्विवचनेनोहः । निष्क्रीते इमे यज्ञियभागमिताम् । सुवर्ग यातम् । उपाकृते शशमाने | अपीताम् । सा ते द्विवचनेन । तेषां ये वबाते(बिरे) ते स्वराडमायुं कृण्वन्तु संज्ञपयत । स्वर्विदौ स्थः स्वरित ७ पैटलः ] महादेवशास्त्रिसंकलितपयोगचन्द्रिकाव्याख्यासमेतम् । १९१

मित्यादि । द्विवचनेनैव लोकविदो यो लोकमितं नाथविदो स्थो नाथमितं गातुविदौ स्थो गातुमित न वा उ वेतन्नियेथे न रिष्यथो देवा इदिष्व आशानां वा नानापाणः पशुभ्यामपीतं रविष्ठां वाशिषार्थी वेपिषायां पलायिषायां समक्षासायां निमेहथः शकृत्कुरुथः, अभयं कृतं सर्वाम्यो मृडतं यत्पशमायुमकृणुत प(पा)शाभ्यां पशून प्रमुञ्चत ओषधे त्रायस्वैनं द्विःस्वधितेः मैनमिति च । यो वामात्मानौ पशुषु प्रविष्टौ यो वितस्थाते, आत्मन्वन्तौ घृतवन्तौ गच्छत, विन्दतं, दृश्हतं, ओषधीः कृतम् । आदित्ये. भ्यश्छागस्य वपाया मेदसः प्रेप्येत्यादि उच्चैरादित्याय। मरुद्भयो गोर्वपाया मेदस इत्यादि उपांशुना : वपामार्जनान्ते वरदानमुक्तं गर्भिण्या पष्टौह्याश्च । पशुपुरोडाशादिवपावत्प्रचारोऽङ्गानां शेषमेकादशिनीवत् । समुद्रं गच्छ स्वाहेत्यादि यात्रा धूमो गच्छतु० पृणेथा स्वाहेत्यादि यूपोपस्थानादि ब्राह्मणभोजनान्तं सतिष्ठते द्विपशुयक्तं कर्म ।... ___ श्वोभते द्वितीयायां सद्यो वा सात्यदूतानां हविमिर्यक्ष्य इत्यादि । सात्यदूतानां हविः रिदमेषां मयि । अमावास्यास्तन्त्रम् । निर्वापणकालेऽश्चिम्यां पूष्णे जुष्टं द्वादशकपालं सरस्वते सत्यवाचे० चळं सवित्रे सत्यप्रसवाय द्वादशकपालम् । अश्विनौ पूषाहव्य५ रक्षध्वं(स्व) सरस्वन्सत्यवाक् । हन्य ५ रक्षध्वं सवितः सत्यप्रसव हत्यमित्यादि प्रधानयागान्तेऽश्विनोः पूष्णोरहमन्नादः प्रजनिषीय प्रजया च पशुभिरिति वा । उत्तरयोरत्नादः । दक्षिणाकाले तु तिसृभिरिषुभिर्युक्तं धनुस्तिसुधन्वं तत्प्रक्षेपाय निर्मिता शुष्कतिः । तदुभयमत्र देयम् । ब्राह्मणतर्पणान्तेयमिष्टिः ॥ १२ ॥ अथ प्रयुना हवींप्युच्यन्ते--

ततः श्वोभूते षड्भिः प्रयुजाꣳ हविर्भिर्यजते ॥ २३ ॥

सात्यदूतानां हविषि समाप्ते ततः परेयुः प्रयुजां हविभिर्यक्ष्य इत्यादि । प्रयुजां हविरिदम् ।

आग्नेयमष्टाकपालं निर्वपतीति यथासमाम्नातम् । दक्षिणो रथवाहनवाहो दक्षिणा ॥ २४ ॥

निर्वापणकालेऽग्नये जुष्टं ० सोमाय नुष्टं ० सवित्रे जुष्टं ० बृहस्पतये जुलत्वष्टे जुष्टं ० अग्नये वैश्वानराय जुष्टं इत्यादि प्रधानयागान्ते सोमवर्जमन्नादः । दक्षिणाकाले रथस्य वाहनं स्थवाहनमन्यच्छकटं यस्मिशकटे रथस्येषयोरग्रमवस्थाप्यते तस्य रथवाहनस्य शकटस्य वाहको दक्षिणो यो बलीवोऽसौ पूर्वषट्के दातव्य इति भाष्यकृत् । बाह्मणतर्पणान्तेयमिष्टिः सतिष्ठते ॥ २४ ॥ अथोत्तरषदकस्येष्टिमाह -

श्वोभूते षड्भिरुत्तरैः सारस्वतं चरुं निर्वपतीति यथासमाम्नातम् ॥२६॥ तिसृधन्वꣳ शुष्कदृतिर्दण्डमुपान १९२ 1. . सत्यापाढविरचितं श्रौतसूत्रम्- [१३ प्रश्ने

हौ च तद्दक्षिणाऽश्वो वा। शोणकर्ण इत्येकेषाम् । तत्प्रतिराजभ्यः प्राहिणोति ॥ २५॥ अभ्यषिक्षि राजाऽभूवामित्यावेदयति ॥ २६ ॥

श्वोभूते प्रातरग्निहोत्र हुत्वा प्रयुना हविमिर्यक्ष्य इत्यादि । षट्चरवः । सरस्वत्यै जुष्टं पूष्णे जुष्टं • मित्राय जुष्टं० वरुणाय जुष्टं क्षत्रपते जुष्टं • अदित्यै जुष्टं० इत्यादि पिण्डं कृत्वा घमोऽसीति स्थाल्यां क्षिपतीत्यादि । उत्तरो रथवाहनवाहो दक्षिणा, इत्यापस्तम्ब अत्र ब्राह्मणेऽपि-टूतान्प्रहिणोति । आविद एता भवन्ति । आविदमेवैनं मध्यन्ति । अतो दृतेभ्य एव न च्छिद्यते (ले० प्रा० १-८-३) इति विधिAष्टव्यः । प्रतिराजभ्यो दूान्प्रेषयति । एते दूता आविदो भवन्त्येतदीय शासनमा समन्ताद्वेदयन्ति ख्योपयंन्तीत्याविदः । तेन दूतप्रेषणेनैवं यजमानमाविदं गमयन्ति आ समन्ताद्विद्यते रूयाप्यत इत्यविकीर्तिस्तां प्रापयन्ति । किं चायं दृतेभ्यो न विच्छिद्यते सर्वतः प्रेषयितुं कदाचिद्भुता न लभ्यन्त इत्येवं विच्छेदो न भवति किंतु सर्वदा बहवो दूताः संनिहिता वर्तन्ते । दूतप्रेषण कार आपस्तम्बेन स्पष्टीकृतः-'तान्यभ्यवस्नाय प्रतिराजभ्यः प्रहिगोति । अभ्यषिक्षि- राजाऽभूषामित्यावेदयते' ( आप० श्री. १८-२२-४) इति । सानि तिसृधन्वादीनि दक्षिणाद्रव्याण्यभ्यवस्नायामित आक्रम्य स्नात्वा तानि प्रतिराजम्यो दर्शयितुं दुतहस्ते दत्त्वा प्रेषयति । स च दूतो राज्ञ एतद्वचनं तेषामग्रे कथयति अभि. षिक्तोऽस्मि युष्माकं सर्वेषां राजाऽभूवमिति ॥ २६ ॥

संवत्सरमग्निहोत्रं जुहोति ॥ २७ ॥ अनुसंतत्यै तत्र येऽग्निहोत्रेणाप्रतिषिद्धाः क्रतवस्तानाहरेत् ॥२८ ॥ संवत्सरे केशवपनीयेनातिरात्रेण यजेत ॥ २९ ॥ तत्र वपनप्रवादा मन्त्रास्तेषामादिप्रवादैरादितो वापयेतान्तप्रवादैरन्ततः । संतिष्ठते केशवपनीयः ॥ १३.७.३० ॥

केशवपनीयातिररात्रस्य वैशेषिका धर्मा उच्यन्ते । तत्र कात्यायन:-अभिषेचनीयाद्वा संवत्सरात्केशवपनीयोऽतिरात्रः सोमापवर्गः ( का० श्री १५-९-२६ ) इति । पशुबन्धद्वयानन्तरं केशवपनीयातिरात्रयागः कर्तव्यः । अभिषेचनीयसोमयागं कृत्वा संय. सरपर्यन्तं केशवपनाकरणलक्षणं व्रतमाचर्यम् । ततस्तद्रतविसर्जनार्थमेकः सोमयागः पौर्णमासी सुत्यः कार्यः स एव केशवपनायातिरात्र उच्यते । रात्रिमतीत्य वर्तत इत्यतिरात्रोऽसिरात्रसंस्थया कार्यः || .. पटेल: ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । १९३

ततः संवत्सरमग्निहोत्र हुन्या केशवपनीयेन (यक्ष्ये) यजेत । संवत्सरमग्निहोत्रदर्शपूर्ण मासपशुचातुर्मास्यान्यांषणात्ति प्रवर्तन्ते अन्यानि नित्यानि नैमित्तिकानि । न काम्यानि । श्वोभूते प्रथमायां वपनं कृत्वा केशवपनायेनातिरात्रेण यक्ष्य इत्यादि पवित्रवदेका दक्षिा तिस्त्र उपसदः पञ्चम्यां प्रसुत इति । तस्मिन्प्रयोगे दीक्षणीयां कृत्वा वपनकाले स्वधिते मैनमिति कृत्वा ये केशिन इत्याद्यापस्तम्बः । येनावपदित्यन्तैथाऽऽदिप्रवादश्चतसृभिर्वपनं देवश्चरित्यस्य स्थाने दन्तधावनादि । अतिरात्रसंस्थः केशवपनीयः । सप्तविंशत्या. गोभिस्ते क्रीणानीति विशेषः। षोडशिमान् | अष्टाविंशत्येति केचित् । सर्वमतिरान. वत् । पूर्ववत्फलचमसप्रयोगः । अनुबन्ध्यावपायां हुतायां मा ते केशानित्यादि यत्समीन्तमित्यन्तैरन्तप्रवादेपनं कृत्वा स्नात्वाऽयं प्रयोगः । सर्वमहीनद्वादशावत् ॥ २७ ॥ ॥ २८ ॥ २९ ॥ ३० ॥

तस्मिन्सꣳस्थिते व्युष्टिद्विरात्रेण यजेत ॥ ३१ ॥

तस्मिन्केशवपनीये समापिते न्युष्टिद्विरात्रेण यक्ष्य इत्यादि ॥ ३१ ॥

तस्य ज्योतिष्टोमोऽग्निष्टोमः पूर्वमहर्भवति ॥ ३२ ॥

तस्य न्युष्टिद्विरात्रस्य । सावित्रमग्निं चेप्य इत्यादि शर्कराणामुपकल्पनं सनीहारप्र. स्थापनान्तं कृत्वा समन्वारम्भहोमः- अपैतु मृत्युः इत्यादि । केचिदत्रोपदिशन्ति । द्वादशाहं दीभितो भवति । आगामिन्यां तृतीयायां प्रायणीच्या प्रचर्य सोमक्रयणकाले गवा ते क्रीणानि नस्या आत्मा भूयो वा० एकोनशतगोमिस्ते कीणानि । षट्पञ्चाशद्गोमिस्ते क्रीणानीति केचित् । ततः परेयुः पाहिणिकीभ्यां प्रचर्य सेनेन्द्रस्येत्यन्ते संभारयजुषीति व्याचष्टे । एवं सर्वोपस्थानान्ते यूपच्छेदनकालेऽग्निष्ठप्रथमांस्त्रयोदश यूपान्मन्णेत्यादि । वेदिकाल एकादशिनीवत् । दश रथाक्षामित्यादि । उपसदि पञ्चम्यां पौर्वाहणिकीभ्यां प्रचर्य वेदिकरणम् । विमिमीत्वेत्यभिमन्त्रणम् । चतु:शिखण्डेति । तत उत्तरवेदिदेशमध्ये ३.कुमित्यादि । दना मधुमिश्रेण शर्कराभिरिति बाह्या लेखाः संपूर'णार्थाः कृत्वाऽऽपराणिकीभ्यां प्रवर्योपसयां प्रचर्य, श्वोभूते पौर्वाङ्गिकीभ्यां प्रचर्य प्रनापतिस्त्वा सादयत्वित्यादि संचितोक्थ्यन्तं कृत्वाऽऽपराणिक्यों । द्वादशेऽहनि प्रवर्दीमुद्रास्याग्निप्रणयनं कृत्वाऽतिमुक्त्यन्ते काठकाहुतयः । असवे स्वाहेत्यन्ता एकविंशतिश्छदिःसदः संतृष्णे अधिषवणफलके । अग्नीषोमयिकालेऽग्रेवासनान्तम् ॥ ३२ ॥

सर्वस्तामोऽतिरात्र उत्तरं गायत्रं पूर्वेऽहन्त्साम भवति । त्रैष्टुभमुत्तरम् । रथंतरं पूर्वेऽहन्साम भवति । बृहदुत्तरे वैखानसम् । पूर्वेऽहन्साम सत्याषाढविरचितं श्रौतसूत्रम्- १३ प्रभे

भवति । षोडश्युत्तरे हविष्मन्निधनं पूर्वमहर्भवति। हविष्कृन्निधनमुत्तरम् । अमावास्यायां पूर्वमहर्यजनीयमुत्तरम् । आपूर्यमाणपक्षस्य वा । ये पुण्ये अहनी स्याताम् ॥ ३३॥

श्वीभूते ध्रुवाः प्रयुज्य पोडशिपात्रं न वा परिष्टवादि । पशुपात्राणां काले त्रिगुणा दश पञ्च द्विगुणा पञ्च कुम्भ्यः पश्च शूला वपाश्नपणीर्दर्भयुगलानि ऐन्दवायवग्रम् । पशुभिरेहि आश्विनं गृहीत्वा यूपचतुष्कं मिनोति । अञ्ज(अभ्यादा नाद्यांनष्ठाइक्षिणमित्यायुत्तरापवर्गः। तत उपशयनिधानं कापेय्यैकादशिनीवत् । आग्नेयमग्निष्ठादाक्षिणोत्तरयोरेन्द्रौ । उत्तरे सारस्वतः पशुः । दक्षिणे सावित्रः । तत उपशय आखुनिर्देशः । दक्षिणाकाले दशसहस्रं ददाति । अग्निष्टोमचमसैः प्रचर्य षोडशिहोम, अग्निष्टोमवंस्थायां यज्ञायज्ञीये स्तूयमान उत्तरस्मिनहनि वसतीवरीगुहाति । सूक्तवाक उच्यमाने श्वः सुत्यामिति प्रैष पत्नीसंथानान्ता सतिष्ठते । मैत्रावरुण्या शाखाच्छेदनादि कुम्भीलेपनान्तं दिवैव रात्री वसतीवरीः परिहत्य . दोहन, पशुशाखाहरणादि परिस्तरणान्तम् । महाराने बुद्ध्वेत्यादि, अतिरात्रसंस्थाः सपोडशिकाः । पशुपात्रप्रयोगे द्वादश . यूपरशनाः षट्पशुरशनाः षट्कुम्यः शूलाश्च वपाश्रपार्दर्भयुगलानि च शुक्रग्रहादि पशुभिरेहीत्यादि आश्विनौ गृहीत्वा षड्यूपान् मिनोति । अग्निष्ठाइक्षिणोत्तरयोदक्षिणत आरभ्य व्यत्यासेनोदगपवर्गाः पूर्वोपशयान्तं तन्त्रेण स्थापयति भेदेन वा । तत उपशयस्य च्छेदनम् । रशनाद्वयस्य परिव्ययणम् । मितानामुपशयस्य च। अस्मिन्नहनि । मितानामाद्ये वैश्वदेवानामुपाकरोति । द्वितीय उत्तरे सौम्य तृतीये दक्षिणे मारुतमुत्तरे चऽर्थे पोष्णं, पुनश्चोत्तरे पञ्चमे बार्हस्पत्यं, अथ दक्षिणे षष्ठे. वारुणं, तत आखुनिर्देशः । दक्षिणाकाले दशसहस्रं ददाति । काठकदक्षिणा (पृथक्) पूर्वेयुः प्रसर्पणान्तं तन्त्रेण तिरोहान्तम् । अग्नीदीपयजानित्यादि अनूबन्ध्यावपां हुत्वा • पानीवतं कर्म, पशुपुरोडाशादि देवमुवामेतानि हवींषि, इत्यादि उदवसानीयान्तम् । पौर्णमास्यां पूर्वमहारत्यादिविकल्पः । अमावास्यायां पूर्वमहरित्यस्य प्रयोग उक्तः । आपूर्यमाण इति विकल्पः प्रथमायां पूर्व द्वितीयायामुत्तरं दशम्येकादशी वा ॥ ३३ ॥

क्षत्राणां धृतिरग्निष्टोमस्तेनान्ततो यजेत ॥ ३४ ॥

यस्मिन्नहनि व्युष्टिद्विरात्रसमाप्तिस्तस्मिन्नहनि क्षत्राणां धृतेरारम्भः । द्वितीयायां वोक्तप्रयोगस्य आरम्भः । क्षत्राणां धृतिना यक्ष्य इत्यादि पवित्रवत् । एका दीला तिस्र उपसदः पञ्चम्यां प्रसुत इति । सोमक्रयणकाले गया ते कोणानीत्युक्त ८ पैटल:] महादेषशास्त्रिसंकलितपयोगचन्द्रिकाव्याख्यासमेतम् । १९५

एकत्रिशनोमिस्ते क्रीणानौति । अर्थवा-अष्टाविंशत्या गोभिः [ इति ] । दक्षिणा काले पञ्च सहस्राणि ददाति । अग्निष्टोमचमसैः प्रचर्य षोडशि ( प्रचारः ) अग्नीदोपयजानित्यादि राजसूये तिनोऽनूबन्ध्या विकल्पेनाऽऽम्नाताः ॥ ३४ ॥

पञ्चापवर्गो भवति ॥ ३५॥

अग्निष्टोमः पञ्चापवर्ग: फलप्राप्तिः, उदवसानीयान्तम् ॥ ३५ ॥

संतिष्ठते राजसूयः ॥ ३६ ॥

संतिष्ठते समाप्यते ।। ३६ ॥

राजसूयेनेष्ट्वा सौत्रामण्या यजेत ॥ (ख०२३) ३७ ॥

इति सत्याषाढहिरण्यकेशिसूत्रे त्रयोदशप्रश्ने सप्तमः पटलः ।

अनन्तरे पर्वणि सौत्रामणी मैत्रावरुणी चाऽऽमिक्षा ॥ ३७ ॥ इति सत्यापादहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयोग चन्द्रिकायां त्रयोदशप्रश्ने सप्तमः पटलः ।

13.8 अथ त्रयोदशप्रश्नेऽष्टमः पटलः ।

. आचार्येण राजसूयोऽनुविहित इदानीमवसरप्राप्त सौत्रामण्यनुविधास्यन्(नं) क्रियते -

त्रिरात्रे पुरस्तात्सीसेन क्लीबाच्छष्पाणि क्रीत्वा क्षौमे वासस्युपनह्य निदधाति ॥१॥

नवमीप्रभृति व्यहं त्रिरात्र इति । नवम्यां सौत्रामण्या यक्ष्य इत्युक्त्वा विद्युदसि, षड्ढोता पशुवत् सिद्धे( सीसे )न क्लीवाच्छष्पाणि कीणाति इति सिद्धम् । यद्वात्रिरात्रे पुरस्तात्सुरेष्टिः । लोहं सीसमित्युच्यते । क्लीबाच्छप्पाणि रोमाणि तरुणयवास्तोक्मानि ब्रीहय इति शम्यामात्रा भवन्ति व्रीहयः । ब्रीह्यश्च तरुणयवाश्च तोक्मानि शष्पाणि वोच्यन्ते इति । क्षोमे वाससि बद्ध्वा निदधाति स्थापयति । त्रिरात्रं यथा न शुष्काणि भवन्ति तथोपायः क्रियते ॥ १ ॥

सौत्रामण्यास्तन्त्रं प्रक्रमयति ॥ २॥

सौत्रामण्यास्तन्त्रमारभते । अङ्गसमुदायस्याऽऽख्यात(न)मिति तदारमेत कर्तुम् ।।२।।

तत्र यावत्क्रियते तद्व्याख्यास्यामोऽग्नीनन्वाधाय वेदं कृत्वाऽग्नीन्परिस्तीर्य पाणी प्रक्षाल्योलपराजीꣳस्तीर्त्वा यथार्थं पात्राणि प्रयुनक्ति

१ परिसमाप्यते। १९६ . सत्याषाढविरचितं श्रौतसूत्रम्-- .. १३प्रमे

स्थालीं कपालानाꣳ स्थाने प्रयुनक्ति॥३॥

न षड्ढोताऽग्निः परित्यज्यते । अस्मिन्ननिहोत्रहोमः । ततो द्वादश्यां प्रातरग्निहोत्रं हुत्वा सुरेष्टव्यर्थमग्निः प्रणीयते । न विद्युदसि । ततोऽन्वाधानम्-अग्नि गृहामि । चतुरहे यज्ञायुरनुसंचरानिति विशेषः । इमामूङ द्वादशी ये प्रविष्टा सौत्रामणीयर हविरिदमेषां मयि । केचिदेष्ट५ हविरिति । अन्वाहितजपें कृते बहिराहरणादि, नेध्मम् , अग्नचलंकरणान्ते परिस्तरणम् । ततः पाणिप्रक्षालनादि, यथार्थ पात्राणि प्रयुभक्ति स्वस्वस्थाली च शम्यादृषदुपलवर्नान्यपरतः, परतः नुवं वेदं पात्रीमाज्यस्थाली प्रणी. ताप्रणयनं मदन्त्यर्थमुपवेषं वेदानं मेक्षणं योक्त्रमिति ॥ ५॥

निर्वपणकालेऽश्विभ्याꣳ सरस्वत्या इन्द्राय सुत्राम्णे प्रभूतान्व्रीहीन्निर्वपति ॥ ४ ॥

निर्वापणकाले प्राप्तेऽश्विभ्यां सरस्वत्या इन्द्राय सुत्राणो जुष्टं निर्वपामीति निर्वापणादयस्तन्त्रेण संस्कार्या( राः । )अश्विनौ सरस्वतीन्द्र सुवामन्हव्य५ रक्षध्वमिति । निर्वापवत् प्रोक्षणं मोक्षामीति विशेषः ॥ ४ ॥

चरुकल्पेन श्रपयित्वाऽग्रेण गार्हपत्यमवटं खात्वा सुरायाः कल्पेन परिस्रुतꣳ संदधाति ॥ ५ ॥

उपवेषमादाय स्थाल्याः कपालधर्मः, तामधिश्श्रयणं ध्रुवोऽसीति न तु निर्दग्धं, तण्डु, लानुत्पय समापो आद्भिरिति प्रणीताभिः संयोति अद्भिः परीति मदन्तीमिः, धर्मोऽसीति सहाद्भिरधिश्रयणं, अन्तरितमविदहन्तः, नाऽऽप्यलेपनिनयनं न वेदिकरणं ब्राह्मणस्य मुर्धन्वरे वा सादयेत् स्फ्यं तिर्यञ्च स्तब्ध्वा सुवं च सुचश्च समृद्धि पत्नी सनह्याऽऽ. ज्येनोदेहीत्यादि, आो भुवनस्येति चरोरुद्वासनान्तम् । ततोऽग्रेण गाईपत्यमवटं खावा तस्मिन्नवटे स्थाप्यते स्थाल्यामेव सुरासंधानं तस्यामुदकं क्षिपति । अरुप हविर्महती स्थाली क्रियते ॥६॥

स्वाद्वीं त्वा स्वादुनेति शष्पैः सुराꣳ सꣳसृजति ॥६॥

अत्र व्रीहिंयवाद्यकुरं शष्पशब्दाभिधेयं बालतृणं चोपलक्ष्यते ॥६॥

सोमोऽस्यश्विभ्यां पच्यस्व सरस्वत्यै पच्यस्वेन्द्राय सुत्राम्णे पच्यस्वेति सꣳसृष्टामभिमन्त्रयते ॥ ७ ॥

यजमान इति शेषः ॥ ७ ॥

तिस्रो रात्रीः सꣳहिता वसतिः ॥८॥

१भाग्निं । ४ पटल:]. महादेवशास्त्रिसंकलितमयोगचन्द्रिकाच्याख्यासमेतम् । ११७

शष्पैः संसृष्टायास्त्रिषु दिनेषु तथैव निवासं विधत्ते-तिस्रः ससृष्टा वसति । तिस्रो हि रात्रीः क्रीतः सोमो वसति (तै, ब्रा० १-८-५) इति । क्रीतसोमस्य त्रिरात्र वासोऽन्यत्र प्रसिद्धः । तथा च भूयते-'त५ सोममाहियमाणं गन्धर्वो विश्वावसु: पर्यमुष्णास तिस्रो रात्रीः परिमुषितोऽवसत्तस्मात्तिस्रो रात्रीः क्रीतः सोमो वसति । (तै० सं०६-१-५) इति । तिस्त्रो रात्रीः संसृष्टा वसति । " :.. ___ अथ चतुर्दश्यामन्बाहितानामग्नीनां न त्यागस्तेष्वेवाग्निहोत्रादीनि । अथ 'पञ्चदश्यां यदि पौर्वाहिकं पर्व तदा दर्शः पूर्णमासो वा क्रियते ततत्रिपशुरारभ्यते । यदि स्वीत्तरभाविकं पर्व ततः समाप्य त्रिपशु पञ्चदश्यां दर्श पूर्णमासं वा । अथ सौनांमण्याः पयोग्रमाश्रित्य प्रयोगः । पञ्चदश्यामेव सौनामण्या यक्ष्य इत्युक्त्वा पट्टोप्ता, सतः पश्चिष्टिः शाखाहरणादिन्नतप्रवेशः ॥ ८ ॥

एकयूपं छिनत्ति ॥ ९ ॥

यूपाहुत्यादिपशुस्नपनान्तं प्रकृतिवत् । अयं तु विशेषः । ग्रहपात्रसादनकाले वत्साः पाकरणं प्रातदोहवत्, पशुशाखया सतं नार्या कुम्भीस्थाने प्रा देहिपात्राणि, कुम्भीमभिधानी निदाने दोहनपात्राणि सुराया उद्भेदनकाल एता आचरन्तीत्यादिसंक्षालननिनयनान्तं प्रातदोहवत् । पशुशाखाया उपवेषं च, अश्विभ्यां सरस्वत्या इन्द्राय सुत्राम्ण इति. निगमाः । ब्राह्मणमूर्धन्खरे वा सादयित्वा, इन्दमिन्द्रियमित्यादिदर्शवदासन्नाभिमशनं खराधस्तात् कृत्वा वालमध्येन पवित्रेण पावनं पुनातु ते परिखुतमित्या विकारेण यथायतनं सादायित्वा पश्वपाकरणादि मार्जनान्तं पूर्ववत् । ग्रहाणामथवा पाशुन कानि ध्रुवान्तान्याज्यानि गृहीत्वा कुविदङ्गेति च पूर्ववदैन्द्रमासादायत्वा प्रोक्षणीरमित मन्ब्येत्यादि वपामार्जनान्तं पूर्ववत् । ततः पुरोडाशं विर्वपतीत्यादि सर्व पूर्ववत् । *मास. राभावात्तस्य निवृत्तिः । तत्र-लोकाः पर्वण्येव पयोगहेऽप्यसुयमाद्यागूः खरे सादनात् 'प्राक्कुम्भीसतयोः कृते स्वपनयेद्वत्सान्पशोः शाखया ।। वीण्यूानि च दोहपात्राणि खरं मूर्धन्खरे वा सुरा निष्टतानि च दोहकर्म सदने सन्नाभिसृष्टिस्तथा ॥ खराधस्तान्वालेन पावनं तु पुनः खरे । इषे त्वेति वपाहोमो मार्ननादि च पूर्ववत् ॥

  • अङ्कुरितयवचूर्ण मासरम् । १९८ : सत्याषाहविरचितं श्रौतसूत्रम्- १३ प्रश्ने

अथ त्रिपशोः कर्म, न पश्विष्टिः परिगृहीतत्वात् । सुरादेवताया यत इन्द्रः स एव सुवामा वेति केचित् । पश्चिष्टयादि । इन्द्रः सुत्रामा, अन्येऽन्य इन्द्र इति । तस्मास्पश्चिष्टचादिसुरेप्टौ यदि नतोपायनं कृतमिह न पश्विष्टि कृत्वा, क्रियत आसन्नेषु हविषु वा प्रतोपायनं पश्चिष्टिः । शाखाहरणं लक्षशाखायां च यूपाहुत्यादिचपालकरगान्त स्वरवस्त्रयः न स्वरुभिः पशून्यर्धयेयमिति श्रुतेः। एको यूपः । नोपशयपात्नी. वतो ॥ ९ ॥

न वेदं करोति । पुरस्तात्कृते नार्थान्कुरुते ॥ १३.८.१० ॥

वेदं क्वस्वा वेदि करोति । न वेदं करोति वेदार्थान्पूर्व कृतेनैवोपदेशात्सर्वं तेनैव॥१०॥

सौमिक्यास्तृतीयमात्रीं वेदिं करोति ॥ ११ ॥

सौमिक्या वेदेस्तृतीये यजेत । प्रक्रमस्य त्रिकरण्या वा वेदिमानम् । चतुर्विंशत्यगुलसमितेन दण्डेन दशभिः पश्चाद्वादशभिः प्राची, अष्टाभिः पुरस्तात् , म दशपदोत्तरवेदिः शम्यामात्रेव पशुबन्धवदिति विधानात् एकादशिन्या प्रत्यक्षविहिता एवं प्रवर्तन्ते । तस्माच्छम्याप्रमाणोत्तरवेदिरिति भाष्यकृत् ॥ ११ ॥

यस्मिन्कालेऽध्वर्युरुत्तरवेदिं करोति तस्मिन्काले प्रतिप्रस्थाता चात्वालात्पुरीषमाहृत्य दक्षिणेनोत्तरवेदिं चतुरश्रं खरं करोति ॥ १२ ॥

यस्मिन्काल उत्तरवेदिं करोत्यध्वर्युम्तदा प्रतिप्रस्थाता. चात्वालात्पुरीषमान्य मृत्तिको दक्षिणोत्तरवेदि ( द्यां ) खरं पीठं करोति । उत्तरवेद्या क्रियमाणायामेव तूष्णी खरकरणमग्रेणान्वाहार्यपचनस्यारे वेद्यामेव सुराग्रहार्थं द्वितीयं खरं करोति । चात्वाले तस्मादात्य पुरीषमध्वर्युः, निःसारणान्तं पशुवत् ॥ १२ ॥

यस्मिन्कालेऽध्वर्युराहवनीयं प्रणयति तस्मिन्काले प्रतिप्रस्थाता दक्षिणाग्नेरङ्गारानाहृत्य खरे न्युप्योपसमादधाति ॥१३॥ न पाणी प्रक्षालयते॥१४॥

अग्निप्रणयनकाल उत्तरवेदिकं प्रणयत्यध्वर्युः । प्रतिप्रस्थाता दक्षिणाग्नेरग्निमाहृत्य दक्षिणेनोत्तरवेदिखरे न्युप्य तूष्णी यथा व्यवायो न भवति तथा पश्चादुपसमादधाति । अतिमुक्त्यन्तमौत्तरवेदिकस्य बर्हिराहरणादि परिस्तरणान्तं पाशुकं, पाणि क्षालनादि । पात्रासादनकाले प्राप्ते पाशुकेष्वेवं विकारः, द्वे यूपरशने तिस्रः पशुरशनाः कुम्भीत्रयं वपाश्रपणीत्रयं वृष्णीर्यदेन्द्रस्तदा कुम्भीशूलवपाश्रपणीनां तन्वं मेषवृष्ण्योः । एवं पाशुकानि प्रयुज्य ॥ १३ ॥ १४ ॥

१ एतत्सूत्रमिति। ८ पटलः ] महादेवशास्त्रिसंकलितश्योगचन्द्रिकान्याख्यासमेतम् । १९९

अश्विभ्याꣳ सरस्वत्या इन्द्राय सुत्राम्णे त्रीणि वैकङ्कतान्यूर्ध्वपात्राणि प्रयुनक्ति ॥ १५॥

अश्विभ्यार सरस्वत्या इन्द्राय मुत्राम्णे, त्रीण्यूलपात्राणि “सुराग्रहार्थे खरे प्रयुनक्ति ॥ १५ ॥

सतꣳ शतातृण्णाꣳ स्थालीꣳ रुक्मं वालस्रावं च ॥१६॥

सतं द्रोणकलशाकृतिं प्रयुनतीति विशेषः । परिमण्डलं शतच्छिन्द्रं मार्तिकं स्थालीविधानात् । प्रयुनक्ति वालवावं वालमय शुचिभिर्गोवालैः कृतं सुराक्षालनाथै प्रयुनक्ति । केचिद्दशापवित्रवद्वस्ने बद्धा श्येनपत्रं श्येनपुच्छं च कलबदरकर्कन्धुसक्तम्पाशुकानि समृ, ज्योर्ध्वपात्राणि जुहूवत्समाटिं पालाशत्वाच्च तस्य पात्रीधर्मास्तद्दारुमयम् । शतच्छिद्रा मार्तिकी स्थाली ॥ १६ ॥

यत्प्राक्पशूपाकरणात्कृत्वोद्भिद्य सुराꣳ सते निषिच्य पुनातु ते परिस्रुतमिति वालमयेन पवित्रेण पुनाति ॥ १७ ॥

प्राक्पशपाकरणात्कृत्वा तत्र विशेषः । देवस्य वां ददत इति रशनाद्वयस्याऽऽदानं परिवीरसीत्यविकारेण दिवः सूनुवः स्थ, अन्तरिक्षस्य त्वा स्थानाववगृहामि, एवमन्तं कृत्वोऽद्भिद्य सुरां ब्राह्मणस्य मूर्धनवरे वा सादयित्वा तूष्णीं प्रियेणेति । केचित् पुनातु ते पारिखतमिति वालमयेन पवित्रेण सुरां पावयन्ति खरस्याधस्तात् ॥ १७ ॥

वायुः पूतः पवित्रेणेति सोमवामिनः । सोमातिपवितस्य वा । प्राङ्सोम इति सोमातिपवितस्य पूतां ब्राह्मणस्य मूर्धन्सादयित्वा ॥ (ख०२४)॥१८॥

प्रत्यङ् सोम इति सोमवामिनः प्रत्यङ् सोमो अतिद्भुत इति पावितस्य पूतां यथा'यतनं सादयति । यत्र पूर्वमासादितं तत्रैवाऽऽसादयति ॥ १८ ॥

पशूपाकरणप्रभृतीनि कर्माणि प्रतिपद्यते । आश्विनमजं धूम्रमुपाकरोति । सारस्वतं च मेषमैन्द्रमृषभं वृष्णिं बस्तं वा । बार्हस्पत्यं चतुर्थꣳ सोमवामिनः सोमातिपवितस्य वा ॥ १९ ॥

एक्यूपे पशूनुपाकरोति । एकादशिनीवदित्यादि, इषे त्वेत्यादि, अश्विभ्यां त्वा

१ सोमातिपावितस्य २९० . सत्यापाढावरचितं श्रौतसूत्रम्-- : १३ प्रश्

नेजुष्टमुपाकरोमीति धूम्रवर्णमनं, इषे त्वेत्यादि, सरस्वत्यै त्वा जुष्टमिति मेष, सरस्वती देवता, वाग्वै सरस्वतीति वाक्यशेषात् । इन्द्राय जुष्टमित्यूषभं वृष्णि वाऽन्ये बहिण्यादाय बृहस्पतये त्वेति चतुर्थोऽजः, अतिपवितस्य सोमं पीत्वोदरास्रवणं यस्य सोमातिपवितः । अनित्यः, उपाकृत्य पञ्च जुहोति, उहेन सुवर्ग यात ओषधीषु प्रतितिष्ठते येषामशेि० निष्क्रीता इमे यन्तु ये वध्यमाना, न तु चतुर्थेनोहः प्रमुश्चमाना उपाकृतान्शु( अच्छ)शमाना • अग्नेर्जनित्रमसीत्यादि अभिहोमान्तं, देवस्य त्वा पशुरशनामादाय पशोदक्षिण इत्यादि, धर्षा मानुषानश्चिम्यां त्वा जुष्टं नियुनज्मि, दक्षिणतो नियोजनम् । .: ततः सारस्वतस्य धर्षा मानुषान् ० सरस्वत्यै त्वा जुष्टं नियुनज्मि ततः धर्षामानुषानिन्द्रायः त्वा जुष्टं नियुनज्मि, ततः अभ्यस्त्वौषधीभ्य इत्यादि अश्विभ्यां त्वा जुष्टं मोक्षामीत्यादि प्रोक्षति । अपां पेरुरसीत्यादि क्रमेण पायनं त्रयाणाम् । स्वात्तमित्यादि च क्रमेण वेदनिधानादि स्रुच्यमाघार्येत्यादि से ते प्राण इत्यादि सं यज्ञपतिरित्यन्तमेकस्य कृत्वेतरयोः क्रमेण, ध्रुवासमञ्जनादि सर्वाञ्जनं तन्त्रेण, सकृत्स्वधित्योरन्तर्धाय, स्वधितिनैकमङ्क्त्वा पशून्पुनः स्वधित्यञ्जनमन्येन शकलेन च द्वितीयस्याञ्जनं पुनः स्वपित्यानमन्येन स्वरुणा सहाञ्जनं, स्वरूणां चिह्नकरणं, पशूनां कुम्भ्यादीनां च पर्यमिकरणी तन्त्रेण, पशुपतेः पशवस्तेषां यान्वीत्ररे देवास्तानस्वराडनुमन्यता, विमोकस्तन्त्रण में बध्यमानान्मुख्यवपाश्रपण्या अन्मरम्भः । एवं त्रिर्यज्ञपतिमित्यादि तं दक्षिणनेत्यन्तमेकस्य कृत्वेतरयोः केचित्ततिपशावधिगोवध्यगो(?)हखननमुल्मुकाहरणं च नाऽSवर्तन्ते । प्रमञ्चमाना० नानाप्राणो० इति निनयन तन्त्रेण, तदा सर्व तन्त्रेण स्वस्वाभ्यामालभ्य वपाश्रपणीभ्यां मुख्यस्यान्वारम्भः । दर्भास्तरणादि क्रमेण, अमायुं कृण्वन्तः संज्ञपयतः स्वर्विदः स्थ ( इत्यादि लोकविद स्थ गातुविद स्थ नाथविद स्थ न वा उ ऐतन्नियसे( ध्वे ). आशानां वा आशा. नाना प्राणा: पशुभिर्यज्ञ० इत्यादिव वचनप्रयोगो न तन्त्रेण देव्याः शमितार:. उपेतन. पाशेभ्यः पशून्प्रमुच्चत इति पाशस्य विमोकः पृथक्पृथक्, मुख्यवपाश्रपण्या सकलानु. दस्य नमस्त आतानेत्यादि अपो देवीरित्यन्तं, वाक्त आप्यायतामित्यादि शुद्धाश्चरित्रा इत्यन्तमकस्य कृत्वा, इतरयोः । त्रायस्वैन, इति उत्कृन्तामीत्यन्तमकस्य कृत्वेतरयोः । अन्ये न्युदस्य लोहितान्ता रक्षसां भागः स्येति । अच्छिन्नो राय अश्विभ्यां त्वा जुष्टमुस्कृन्तामीति । सरस्वत्यै त्वा० इन्द्राय त्वा • तन्त्रेण प्रत्युष्टं सर्वा अन्वारभेत यजमानः। उल्मुकैकदेशमित्यादि निर्दवं तन्त्रेण वायो वीहि० भेदेन यस्त आत्मेति च । केचित् भी( दू)हेन ये व आत्मान इत्यादि, प्रविष्टा वितस्थिरे । आत्मन्वन्तः ० सुपिप्पला र पटलः । महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । २०१

ओषधीः कृत। इदमिन्द्रियमिति भेदेन उत्तमप्रयानादि । पूर्वं परिवप्य५ हुत्वा जुह्वामुपस्ता. येत्यादिक्रमेण । वपाप्रचार:-अश्विभ्यां छागस्य वपाया मेदसोऽनुबृहीत्यादि, एवं प्रेष्य जातवेदः । एवं सरस्वत्यै मेषस्य वपाया मेदस एवं प्रेष्य । इन्द्रायर्षभस्येवं प्रेष्य । सारस्वतस्य–सरस्वत्या अहं देवयज्यया वाचमन्नायं० इतरयोः सानाय्यवत् । उत्तरपरिवप्यहोमः । वपोद्धरणाभिघारणं भेदेन, स्वाहोनभसं मारुतं गच्छत । तन्त्रेणाभिहोमः ॥ १९ ॥

हुतासु वपासु रुक्ममृषभꣳ सात्वरीं च वडवां दक्षिणां ददाति ॥ १३.८.२० ॥

हुतासु वपासु निष्कमृषभं सात्वरीच वडवां ददातीत्यापस्तम्बः । दक्षिणाकाल ऋषभो बलीवः सात्वरी शीघगामिनी अश्वस्य योषिद्वडवा । तां चान्तवेद्यां स्थापयति ब्रह्मणो ब्रह्मगी स्थो ब्रह्मणे वो हुताद्य मा मा हिसिष्ट हुताद्य मह्यम् शिवा भवत (इति)अध्न पिन्वस्वेत्यविकारेण सहस्रधारा उत्सा अक्षीयमाणा ते दध्नुः पृथिवीमन्तरिक्षं दिवं च ते रुक्मर्षमसात्वविडवाद्रव्यरतितराणि मृत्यु ब्राह्मणा इमे वो निष्कर्षभसात्वरीवडवाः । केचिन्नपुसंकेनोहमिच्छन्ति । निष्कशब्दो नपुंसकामिति । अनुशासनिकाद्या विकल्पाः । अमये हिरण्यम् । रुद्राय गाम् । वरुणायाश्वमिति प्रतिग्रहः । चात्वाले मार्जनम् ॥२०॥

तत्कृत्वा वायव्यैः सुराग्रहान्गृह्णात्युपयामगृहीतोऽस्यच्छिद्रां त्वाऽच्छिद्रेणाश्विभ्यां जुष्टं गृह्णामीत्याश्विनं ग्रहमध्वर्युर्गृह्णाति । उपयामगृहीतोऽस्यच्छिद्रां त्वाऽच्छिद्रेण सरस्वत्यै जुष्टं गृह्णामीति सारस्वतम् । प्रतिप्रस्थाता । उपयामगृहीतोऽस्यच्छिद्रां त्वाऽच्छिद्रेणेन्द्राय सुत्राम्णे जुष्टं गृह्णामीत्यैन्द्रं यजमानः ॥ २१ ॥

तत्कृत्वेतिवचनात् प्रकृतियत् । ग्रहावकाशश्रुतंकारौ न भवतः । आश्विनमध्वर्यु: हाति । सारस्वतं प्रतिप्रस्थाताऽऽग्नीध्रो वा । ऐन्द्र ब्रह्मा यजमानो वा । ( आप और १९-२-९) इत्यापस्तम्बसूत्रे विशेषः ॥ २१ ॥

कुविदङ्गेति सर्वेषामेका पुरोरुक् ॥ २२ ॥

सर्वत्रानुवर्तते ॥ १२ ॥ • सत्यापाढविरचितं श्रौतसूत्रम्--. . १३ प्रभे

क्वलसक्तुभिराश्विनꣳ श्रीणाति । बदरसक्तुभिरित्येकेषाम् । सिꣳहलोमभिश्च कर्कन्धूसक्तुभिः सारस्वतꣳ शार्दूललोमभिश्च बदरसक्तुभिरैन्द्रं क्वकलसक्तुभिरित्येकेषाम् । वृकलोमभिश्च । अपि वा सिꣳहावध्वर्युर्मनसा ध्यायेत् । शार्दूलैः प्रतिप्रस्थाता । वृकैर्यजमानः ॥ २३ ॥

कलसक्तुभिः सिंहलोमभिश्चाऽऽश्विनं गृह्णाति । बदरसक्तुभिः शार्दूललोमभिश्च सारस्वतं श्रीणाति । कर्कन्धूसक्तुभिर्वकलोमभिश्चन्द्र श्रीणाति । एतेषां फलचूर्णैः श्रीणाति । सिंहः प्रसिद्धः । शार्दूल पिलो द्वीपी)। वृकः प्रसिद्धः । तेषां लोमाभावे सिंह मनसा ध्यायेत् ॥ २३ ॥

एष ते योनिरश्विभ्यां त्वा, एष ते योनिः सरस्वत्यै त्वा, एष ते योनिरिन्द्राय त्वा सुत्राम्ण इति यथारूपं ब्राह्मणस्य मूर्धन्सादययित्वा ॥ (ख०२५)॥ २४ ॥

गृहीतान्हस्तस्था(न् ग्रहा)नशे(श्ये)नपत्रेण सर्वतः परिमृज्य यथारूप सादयेत् ॥२४॥

पशुपुरोडाशप्रभृतीनि कर्माणि प्रतिपद्यते ॥ बार्हस्पत्यं पशुपुरोडाशं निरुप्यैन्द्रमेकादशकपालं निर्वपति । सावित्रं द्वादशकपालम् । वारुणं दशकपालम् ॥ २५ ॥

सतः पुरोडाशान्निपति । पार्हस्पत्यस्य नैमित्तिकस्य निरुप्येतरेषां निर्वापः। तस्यैकादश कपालानि द्वादश वा पुरोडाशाना त्रयनि शत्कपालानि स्फ्यश्च द्वंद्वमित्यादि सबै पशुपुरोडाशवत् । इन्द्राय जुष्टं निर्वपामि । सवित्रे जुष्टं० वरुणाय जुष्टं० इन्द्र हत्य रक्षस्व सवितहल्य५ रक्षस्व वरुण यः रक्षस्वेति । निर्वापवत्प्रोक्षणम् । हवि. कृता वाचं विसृज्य पशून्विशास्ति निष्टपनादि हृदयश्रपणान्तमेकस्य कृत्वाइनन्तर.. मिवरयोः । तत्र विशेषः-गुदं मा निर्लेषारित्यादि, अवह्ननादि निर्वापदाधिवपनमैन्द्रस्यैकादशोपद्धाति । सवितुर्दादश वरुणस्य दश कमालानि मदन्तीरधिश्रयति, इत्यायप्यलेपं निनीय घृतागेहीत्यादि ॥ २५ ॥

तानासाद्य यथागृहीतं ग्रहानाददतेऽश्विभ्याꣳ सरस्वत्या इन्द्राय सुत्राम्णे सोमानाꣳ सुराणामनु ४ पटलः । महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाध्याख्यासमेतम् । २०३

ब्रूहि । अश्विभ्याꣳ सरस्वत्या इन्द्राय सुत्राम्णे सोमान्सुरान् प्रस्थितान्प्रेष्येति संप्रेष्यति ॥२६॥ वषट्कृते जुहोति ॥ २७ ॥

ऐन्द्रं तृष्णीमभिधार्य सवित्रे जुष्टं ० अलंकृत्य सादनान्तमाग्नेयवत् । सावित्रवारुणयोरभिमर्शनम् । यो नः कनीय अपतमिन्द्रो भुवनान्नुदताम् , अथ ग्रहैः प्रचरन्ति जुहूविकारा अप्युपभूद्वजै ये गृह्णन्ति ग्रहांस्तं तं स स आदत्तेऽध्वर्युः । अश्विभ्यामित्यादि संप्रेषः ॥ २६ ॥ २७ ॥

अनुवषट्कृते हुत्वा बार्हस्पत्यस्य पशुपुरोडाशेन प्रचरिते ब्राह्मणं परिक्रीणीते ग्रहोच्छेषणस्य पातारम् । यदत्र शिष्टꣳ रसिनः सुतस्य यदिन्द्रो अपिबच्छचीभिः । अहं तदस्य मनसा शिवेन सोमꣳ राजानमिह भक्षयामीति भक्षयति ॥ २८ ॥

युव५ सुराममश्विनेति सर्वदेवत्ये याज्यानुवाक्ये भवतः । सोमस्याग्ने वोहीत्यनुय. जति ( आप० श्री० १९-२-१) इत्यापस्तम्बः । अनुवषट्कृते हुत्वा बार्हस्पत्यस्य पशुपुरोडाशेन प्रचारः । ततो हुतशेषं भक्षयति यजमानः ॥ २८ ॥

नाना हि वां देवहितꣳ सदोमितं मा सꣳसृक्षाथां परमे व्योमन् । सुरा त्वमसि शुष्मिणी सोम एष मा मा हिꣳसीः स्वां योनिमाविशन्निति भक्षयन्तमभिमन्त्रयते ॥ २९॥

यजमान इति शेषः ।। २९ ॥

द्वे स्रुती अशृणवं पितृणामहं देवानामुत मर्त्यानाम् । ताभ्यामिदं विश्वं भुवनꣳ समेत्यन्तरा पूर्वमपरं च केतुमिति वा वल्मीकवपायामवनयेत् ॥ १३.८.३० ॥ स्वयं वा पिबेत् । सर्वहुतां वा जुहुयात् ॥ ३१ ॥

वल्मीकंवपायां वाऽवनयेन्ग्रहशेषम् ॥ ३० ॥ ३१ ॥

दक्षिणाग्नौ प्रबध्य शतातृण्णाꣳ स्थालीं वितत्य धारयन्ति । शतातृण्णेन सौवर्णेन रुक्मेणापिहिताम् ॥ ३२ ॥ २१४ सत्यापाढविरचितं श्रौतसूत्रम्-... [१३ प्रश्ने

दक्षिणेऽग्नौ शतातण्णां स्थाली प्रबद्धां धारयन्ति । तस्या बिल उदीचीनदशं पवित्र वितत्य यन्मे मनः परागतमिति तरिमञ्छतमानं हिरण्यं निधाय, ( आप० श्री. १९-३-७) इत्यापस्तम्बः । दक्षिणानौ खरे वा तस्मिञ्छतच्छिद्रां स्थाली करिमश्चिद्ध्वा धारयति कश्चित्पुरी (रु) षः । तस्या विल उदीचीनदशं पवित्र वितत्य 'वालस्य यन्मे मनः परागतमिप्ति तस्मिन्वालमये शतमानं हिरण्यं बिले निधीयते ॥ ३२॥

पितरो मदन्ताꣳ सोमप्रतीका व्यशेम देवहितं यदायुः। इन्द्रपीतो विचक्षणो व्यशेम देवहितं यदायुः । यन्मे मनो यमं ( नः परागतं ) यद्वा मे अपरागतम् । राज्ञा सोमेन तद्वयमस्मासु धारयामसि व्यशेम देवहितं यदायुरिति तस्यामेव सुरावशेषमवनयेत् ॥ ३३ ॥

प्राचीनावीत्यध्वर्युः सुराशेषमवनयेत् ॥ ३३ ॥

स्रवन्तीः पितृमतीभिर्याज्यानुवाक्याभिरुपतिष्ठते ॥ ३४॥

नवन्ती स्थाली गौमीभिः पितृमतीभिरुपतिष्ठते ॥ ३४ ॥

त्वꣳ सोम प्रचिकितो मनीषेति ॥ (ख० २६) ॥ तिसृभिः पुरस्तादध्वर्युरुत्तराभिस्तिसृभिर्दक्षिणतो ब्रह्मोत्तराभिस्तिसृभिः पश्चाद्धोतोत्तराभिस्तिसृभिरुत्तरत आग्नीध्रः कव्यवाहिनीभिस्तिसृभिः। अत्र शतातृण्णां स्थालीं निदधाति । ब्राह्मणो राजन्यो वैश्यो वा नाऽऽद्रियेत । दक्षिणमग्निं... प्रणयितुꣳ स्वयमेतꣳ सुरावशेषं व्रतयन्नासीत ॥ ३५ ॥

त्व५ सोम प्रचिकितः त्वया हि नः त्व५ सोम पितृभिः, इत्यध्वर्युः पुरस्तात् प्रत्य. इमुख उपतिष्ठते स्त्रवन्तीं स्थालीम् । दक्षिणतो ब्रह्मोदङमुखो बर्हिषदः पितरः, आऽहं (अथा)पितॄन् • उपहूताः पितरः, इति तिभिहोता, अग्निष्वात्ताः पितरः ये अग्निप्वात्ता ये अनग्निण्वात्ता अभिवान्यायै दुग्धे जुषमाणा इति पश्चात्प्राङ्मुखः, यदन्ने कन्य वाहनः, स्वामग्न इंडितो जातवेदः मातली कन्यैरिति तिमभिर्दक्षिणेऽग्नौ शतातृण्णामध्वर्युः स्थापयति राजन्यवैश्ययोर्दक्षिणाग्नेरग्निप्रणयनादिशतातृण्णाप्रतिष्ठापनान्तं न भवति॥३५॥ ८ पटलः ] महादेवशास्त्रिसंकलितमयोगचन्द्रिकाव्याख्यासमेतम् । २०५

पशुभिः प्रचर्य पुरोडाशैः प्रचरति ॥ ३६॥

ततः प्रतिष्ठापने कृते मार्हस्पत्यस्य पशुपुरोडाशेन प्रचर्याध्वर्युः श्रु(7)त५ हविः शमितरित्यादि सं ते मनसा मनः, अश्विभ्यां त्वा जुष्टममिधारयामीति, एवमन्तमेकस्य कृत्वोत्तरयोरन्यत्पृषदाज्यमानीयान्यत्स्वाहोष्मण इति तन्त्रेण, क्रमेण पञ्चहोत्रोपसादयति क्रमेणाऽऽ. सनमभिमृश्य तच्चतसृषूपस्तृणीतेत्यादि उपभृति व्यावदानं हिरण्यमुपारष्टादमिश्चारणं च न भवति । इडायामप्यवत्ते यूप्णो(तूष्णीमु)पसिच्य नाभिंघारयति । यसाहोमहवणीं गृहीरवाऽनवदानीयः संमृश्य-अश्विभ्यां छागस्य हविषोऽनुहि एवं प्रेप्य, अर्धर्षे वसाहोम हुत्वोद्रेकमन्यस्मिन्नवनयति वषट्कृते होमः प्रत्याक्रम्य पूर्ववत्सर्वमुपस्तरणं न विडापा. प्रस्य, सरस्वत्यै मेषस्य हविषोऽनुहि। एवं प्रेष्य । वषट्कृते होमः। अर्धर्षे वसाहोमः । उद्रेकमन्यस्मिन्नवनयति । उत्तमस्य पशोरुपस्तरणादि ऐन्द्रः प्राण इत्यन्तं प्रकृतिवत् । इन्द्रायर्षभस्य हविषोऽनुहि एवं प्रेष्य, अर्धचें वसाहोमः । उद्रेकान्समवाय दिशः प्रदिश इत्यादिदिगुपस्थानान्तं वषट्कृते होमः । सानाय्यवदनुमन्त्रणमायन्तयोः । सर. स्वत्या अहमिति मध्यमस्यैवं कृत्वा पुरोडाशैः प्रचरति जुह्वामुपस्तीर्यत्यादि इन्द्रायानुमूहि इन्द्रं यज, इन्द्रस्याहमिन्द्रियाव्यन्नादः । सवित्रेऽनुहि सवितारं यज, सपितुरहमलादः । वरुणायानुभूहि वरुणं यन वरुणस्याहमन्नादः । अथ मारिष्ठान्हुस्या वनस्पतियागं कुर्यात् ॥ ३१ ॥

पशूनां पुरोडाशानां च समानꣳ स्विष्टकृदिडꣳ सꣳस्थाप्य ॥३७॥

पुरोडाशेभ्यः स्विष्टकृते समवद्यति पशुस्विष्टकृते समवद्यतीति वचनात् । पशुस्विष्टकृता सहावदायाभिधार्य हिरण्यशकलं पूर्वमेव कृतं स्विष्टकृद्यागं कृत्वा वैश्वानरे हविरिदं। ततः प्राशित्रं बार्हस्पत्यादारभ्य पुरोडाशेम्य इडा, पश्चिडया सहामिधारणं, यजमानभागवर्ज पुरोडाशानां मार्जनान्तम् । अथाग्नीदोपयमानित्यादिपाशक कर्म प्रतिपद्यते । समुद्रं गच्छत स्वाहेत्यादि स्वरुहोमः । जापनीभिश्च पत्नी: संयाजयन्ति । न पल्पाली निनयनं नात्र योक्त्रविमोकः । उपपोद्वासान्तं कर्म कुर्यात् ।। ३७ ॥

शूलैर्मासरेण पात्रैश्चावभृथमवयन्ति॥३८॥

शूलैहृदयशूलैः । मासरमृजीपकल्पेन प्रतिपादयति । बल्कसं भासरमित्याचक्षते ( आप० श्री० १९-४-८) इत्यापस्तम्बः । पात्रैर्ग्रहश्च चशब्देन शतातृण्णा स्थाल्यपि गृह्यते। वारुणमेककपालं निर्वपति । अवभृथस्य कर्म-परिस्तरणी परिभोजनी उलपराजी वेदश्च नास्ति । उपवेषं कृत्वा पुरोडाशसिद्धयर्थानामेव पात्राणां पुनः प्रयोगः । अग्निहोत्रहवणीवर्जमपरतः पुरोडाशसिद्धयर्थानि पात्राणि प्रयुज्य पवित्रकरणादि 4 . सत्यापादविरचितं श्रौतसूत्रम्- [१६ प्रश्नैवरुणाय जुष्टं निर्वपमित्यादि आप्यलेप निनीय प्रोक्षणीरासादयति आज्येनोदेहीति । पर्गहीतान्याज्यानि, अयं प्राणश्च । अवभृथवदारुणमलंकृत्योत्तरवेयंसे तूष्णीमासादयति २६.

तस्य सौमिकेनावभृथेन कल्पो व्याख्यातः ॥ ३९ ॥

संस्थावभृथस्य सौमिकेन समानः कल्पो व्याख्यातः । तथाचाऽऽयुर्दा इत्यवभृधमध्यनहुयात् । उरु हि राजा० ॥ ३९ ॥

न साम गीयते ॥ १३.८.४० ॥

वे सामगोयनं प्रस्तोतुरंभावात् ॥ १० ॥

तूष्णीमेव परेत्य मासरमृजीषकल्पेन प्रतिपादयति ॥४१॥

जातं ते राजनित्यायैवभृथवत् । विष्टकृदन्तेऽनूयाजान्ते वा कृते मातरमृजीषकरूपेन प्रतिपादयति । मासरस्य तूष्णीमेव प्रोक्षणम् | मासरेण खुचं पूरयित्वा मन्त्रेण निमज्जन, ताणी बिन्दुस्पर्शनम् ॥ ११ ॥

यस्ते देव वरुण गायत्रच्छन्दाः पाशो ब्रह्मन्प्रतिष्ठितस्तं त एतेनावयजे तस्मै स्वाहेत्याश्विनपात्रं प्रविध्यति । यस्ते देव वरुण त्रिष्टुप्छन्दाः पाशः क्षत्त्रे प्रतितिष्ठितस्तं त एतेनावयजे तस्मै स्वाहेति सारस्वतस्य । यस्ते देव वरुण जगतीछन्दा: पाशो विशि प्रतिष्ठितस्तं त एतेनावयजे तस्मै स्वाहेत्यैन्द्रस्य । यस्ते देव वरुणानुष्टुप्छन्दाः पाशो दिक्षु प्रतिष्ठितस्तं त एतेनावयजे तस्मै स्वाहेति शतातृण्णाꣳ स्थालीम्। यस्ते देव वरुण पङ्क्तिच्छन्दाः पाशो वाचि प्रतिष्ठितस्तं त एतेनावयजै तस्मै स्वाहेति शूलान् ॥ ४२ ॥

माचिनादिषात्राणां स्थाल्यादीनां च प्रक्षेपः । ततं इमं विष्यामीति पत्नी ग्रोक्नविमीकं करोति । अन्ये वाससी परिधार्य योकोण वाससी क्षिपति । देवीरापः । प्रगिस्य तभी सुमित्रा ने आप इति स्वातः पत्नी यजमानश्चान्योन्य पृष्ठे धावतः । नाझलिक्मिीकः । दक्षिाविमोकार्थत्वात् । नौन्नतृप्रेषणमुन्ने तुरभावान्नोनयनम् । अहंतवाससी परिधान यजमापल्यो । उद्यमित्यादित्यमुपतिष्ठते ॥ ४२ ॥.. . अ ८ पटलः] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । २०

तूष्णीं प्रत्यायनं क्रियते ॥ ४३ ॥

उदकान्तं प्रत्यायनं च समित्पाणयस्तूष्णीं गच्छन्ति । न तु महीयानिति, विहारदेशं गत्वा एघोऽस्यधिषीमहीत्यादि अपो अन्वचारिषमित्यन्तं सर्वे । ततो यजमानो विष्णुक्रमादिब्राह्मणभोजनान्तं निरूढपशुबन्धवत्समिदाधानान्तं कृत्वाऽऽयाडमिरित्युपस्थाय ब्रह्मा निष्कामति । ततो विष्णुक्रमादिरित्येके ॥ १३ ॥

सोमवामिनं याजयेत् । सोमातिपवितं याजयेत् । राजानमवरुद्धं ग्रामकामं प्रजाकामं पशुकामश्रिया प्रत्यभिरूढमभिचरन्वा यजेत । सर्वेष्वभिषेकेष्वाम्नाता । तया ब्राह्मणो राजन्यो वैश्यो वा भूतिकामो यजेत भूतिकामो यजेत ॥ (ख०२७)॥४४॥

इति सत्याषाढहिरण्यकेशिसूत्रे त्रयोदशप्रश्नेऽष्टमः पटलः ।

इति हिरण्यकेशिसूत्रे त्रयोदशः प्रश्नः॥१३॥

सोमातिपूतसोमवामिनोश्च सौत्रामणी भवति । शाखान्तरश्रवणात्सोमातिपूतः सोमवामी च ब्राह्मण एवं । न हि क्षत्रियवैश्ययोरेतविशेषणमिति । नमु च सौमका तयोरपि न्यग्रोधविधानम् । तेन तदतिपवने तद्वमने च किमिति न भवति । तदेयम्। यदि नाम कार्यापत्त्या धर्मप्राप्तिर्मवति । न घायं सोमधर्मः । किं तर्हि ततिपयने यागान्तरविधानमिति । अग्निचितस्तु वर्णत्रयस्यापि भवति । अग्निसंयोगविधानात् । आपस्तम्बोऽध्याह-तया सोमवामिनं सोमातिपवितं राजानमपरुध्यमानमपरुमाथि पिच्यमानमभिषिञ्चानं वा याजयेत् । अभिचर्यमाणो यजेत । अमिचरननायकामः प्रजाकामः पशुकामो वा । सर्वेष्वभिषेकेष्वास्नाता । तया ब्राह्मणों राजन्यो यो वा तेजस्कामो यजेत ' ( आप० श्री. १९-४-१४. ) इति । प्रयाणां वर्णाना भूविकामो यजेत । द्विरुक्तिः प्रश्नसमाप्त्यर्था ।। ४४ ॥ __इति सत्यापाढहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयमावलि कायां त्रयोदशप्रभेऽष्टमः पटलः ।

त्रयोदशप्रश्नः समाः॥ १३॥ . .