कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्/प्रश्नः १५

← प्रश्नः १४ कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्
प्रश्नः १५
हिरण्यकेशिः/सत्याषाढः
प्रश्नः १६ →

15.1
अथ पञ्चदशप्रश्नः ।
तत्र प्रथमः पटलः।
श्रुतिलक्षणं प्रायश्चित्तं विध्यपराधे विधीयते ॥ १॥
एकस्मिन्दोषे श्रूयमाणानि समभ्युच्चीयेरन्प्रायश्चित्तान्यर्थान्तरसंयोगात् ॥ २॥
जपो होमो इज्या च । ३ ॥
दोषनिर्घातार्थानि भवन्ति ॥ ४ ॥
अनन्तरं दोषात्कर्तव्याणि ॥ ५॥
निर्हृते पुनर्दोषे कृत्स्नं कर्म ॥ ६॥
तस्य नावचनात्पुनः प्रयोगः ॥७॥
तुभ्यं ता अङ्गिरस्तमेत्यन्वाहिताग्निः प्रयास्यञ्जुहुयात् ॥ ८॥
पृथगरणीष्वग्नीन्समारोह्य प्रयाति ॥ ९॥
यत्र वसेत्तदैतामिष्टिं सꣳस्थापयेत् ।। १५.१.१० ॥
यद्यन्वाहिताग्नेराहवनीयोऽनुगच्छेदन्वग्निरुषसामग्रमख्यदित्यन्यं प्रणीय यो अग्ंि् देववीतये हविष्याꣳ आ विवासति । तस्मै पावक मृडय स्वाहेति स्रुवाहुतिं जुहोति ॥ ११॥
यः कश्चनानुगच्छेदेतदेव प्रायश्चित्तम् ॥ १२ ॥
मथित्वा गार्हपत्यम् ॥ १३ ॥
प्रणयनवर्जमावर्तेत ॥ १४॥
या प्रकृतिर्दक्षिणाग्नेः ॥ १५॥
भूरित्युपतिष्ठेत ॥१६॥
मनसा व्रतोपायनीयं यजुर्जपेत् ।। १७ ॥
इदं त एकं पर उत एकं तृतीयेन ज्योतिषा संविशस्व। संवेशनस्तनु वै चारुरेधि प्रियं देवानां परमे जनित्र इत्यन्वाहिताग्नेरग्निमपक्षायन्तमा शम्यापरासात्संभरेत् १८॥
परस्तराꣳ शम्यापरासादपक्षायन्तमनुप्रयायान्ववसाय यजेत ॥ १९॥
अग्नये पथिकृते पुरोडाशमष्टाकपालं निर्वपेत् ॥ १५.१.२० ॥
पथोऽन्तिकाद्बर्हिराहरेत् ॥२१॥
अनड्वान्दक्षिणा ॥ २२ ॥
श्वोभूते गृहेषु प्रत्यवस्येत् ॥ २३॥
यस्य हविषे वत्साः अपाकृताः धयेयुर्वायव्यां यवागूं निर्वपेत् ॥ २४॥
. सा दोहस्थाने प्रतीयात् । अन्यतरस्मादपाकृता धयेयुः ॥ २५॥
यस्य सायं दुग्धꣳ हविरार्तिमार्च्छतीन्द्राय व्रीहीन्निरुप्योपवसेत् ॥ २७॥
यत्प्रातः स्यात्तच्छृतं कुर्यात् ॥ २८ ॥
अथोत्तर ऐन्द्रः पुरोडाशो भवति ॥ २९॥
प्रातर्दोहेनात्र समवदाय प्रचरति ॥ १५.१.३०॥
अथोत्तरस्मै हविषे वत्सानपाकृत्योपवसेत् ॥ ३१॥
एतदेव प्रातर्दोहस्याऽऽर्तिगतस्य प्रायश्चित्तम् ॥ ३२ ॥
सायंदोहेनात्र समवदाय प्रचरति ॥ ३३ ॥
अथोत्तरस्मै हविषे वत्सानपाकृत्योपवसेत् ॥ ३४॥
यस्य सायंप्रातर्दुग्धꣳ हविरार्तिमार्च्छत्यैन्द्रं पञ्चशरावमोदनं पचेत् ॥ ३५॥
अग्निं प्रथमं पुरोडाशेन यजेत ॥ ३६ ।।
उत्तरमिन्द्रं पञ्चशरावेण ॥ ३७॥
अथोत्तरस्मै हविषे वत्सानपाकृत्योपवसेत् ।। ३८ ॥
यस्य व्रत्येऽहन्पत्न्यनालम्भुका भवति तामपरुध्य यजेत ॥ ३९॥
उदकशुल्बꣳ स्तृणीयात् ॥ १५.१.४०॥
पुत्राय वेत्तवै रायस्पोषाय सुप्रजास्त्वाय सुवीर्यायेति । अर्ध एवैनामुपह्वयते सैव ततः प्रायश्चित्तिः। ।। ४१ ।।
यदि सांनाय्यमग्निहोत्रं वा विष्यन्देत । यदि वा कीटोऽवपद्येत । मध्यमेन पलाशपर्णेनान्तमेन वोदक्परेत्य प्राजापत्ययर्चा वल्मीकवपायां विष्य न्दमानमवमनीय भूरित्युपतिष्ठेत ।। ४२ ।।
मध्यमेनैव पलाशपर्णेन द्यावापृथिव्यमर्चाऽन्तःपरिधि कीटावपन्नमवनीय भूरित्युपतिष्ठेत ।। ४३ ।।
यदि सांनाय्यमन्यदागमयेत् ।। ४४ । ।
यद्यग्निहोत्रमन्यां दुग्ध्वा पुनर्जुहुयान्मित्रो जनान्कल्पयति प्रजानन्मित्रो दाधार पृथिवीमुत द्याम् । मित्रः कृष्टीरनिमिषाऽभिचष्टे सत्याय हव्यं घृतव- ज्जुहोतेत्यभिवृष्टमग्निहोत्रꣳ हुत्वाऽन्यां दुग्ध्वा पुनर्जुहुयात्।। ४५ ।।
तामिष्ट्वा त्रिरात्रे स्नातामुपहूयेत॥(ख०१)। अमूहमस्मि सा त्वं द्यौरहं पृथिवी त्वꣳ सामाहमृक् त्वं तावेहि संभवाव सह रेतो दधावहै पुꣳसे
यदि पूर्वस्यामाहुत्याꣳ हुतायामुत्तराहुतिः स्कन्देत् पूर्वां चोत्तरयाऽभिहुत्य (भिजुहुयात् ) यत्र वेत्थ वनस्पते देवानां गुह्या नामानि । तत्र हव्यानि गामयेति वानस्पत्ययर्चा समिधमाधाय तूष्णीमेव पुनर्जुहुयात् ॥ ४६॥
यदि पूर्वस्यामाहुत्याꣳ हुतायामाहवनीयोऽनुगच्छेदग्निर्दारौ दारावग्निरिति वदन्नन्तरे शकले हिरण्ये वा जुहुयात् ॥ ४७ ॥
यदि पुरा प्रयाजेभ्यो बहिष्परिध्याहवनीयात्प्राचीनमङ्गारो निवर्तेताध्वर्यवे च यजमानाय चाकꣳ स्यात् । यदि दक्षिणा ब्रह्मणे च यजमानाय चाकꣳ स्यात् । यदि प्रत्यग्घोत्रे च पत्नियै च यजमानाय चाकꣳ स्यात् । यद्युदङ्ग्नीधे च पशुभ्यश्च यजमानाय चाकꣳ स्यात् । मा तमो मा यज्ञरतमन्मा यजमानस्तन्नमस्ते अस्त्वायते नमो रुद्र पराय ते नमो यत्र निषीदस्यध्वर्युं मा मा हिꣳसीर्यजमानं मा हिꣳसीरिति तꣳ स्रुवस्य बुध्नेनाभिविदध्यात् ॥ यदि प्राचीनं निवर्तेतैवामितरासु दिक्षु ब्रह्माणं मा हिꣳसीर्यजमानं मा हिꣳ
सीरिति दक्षिणतो मन्त्रꣳ संनमति ॥ होतारं मा हिꣳसीः पत्नीं मा हिꣳसीर्यजमानं मा हिꣳसीरिति पश्चात् । आग्नीध्रं मा हिꣳसीर्यजमानस्य पशून्मा हिꣳसीर्यजमानं मा हिꣳसीरित्युत्तरतः ।। (ख०२) ॥४८॥
सहस्रशृङ्गो वृषभो जातवेदाः स्तोमपृष्ठो घृतवान्सुप्रतीकः। मा नो हासीन्मेत्थितो नेत्त्वा जहाम गोपोषं नो वीरपोषं च यच्छेत्येनमग्नौ प्रहरति ॥ ४९ ॥
प्रहृत्य वाऽभिजुहुयात् ॥ १५.१.५० ॥
यद्याहिताग्नेरनिर्मथ्यमानः कालसंनिकर्षेण न जायेत यत्रान्यं पश्येत्तत आहृत्य विहृत्य हुत्वाऽत्वरमाणः पुनर्मन्थेत् ॥ ५१॥
अन्यमविन्दन्नजाया दक्षिणे कर्णे जुहुयात् ॥ ५२॥
अजस्येत्येकेषाम् ॥ ५३॥
अजस्य तु ततो नाश्नीयात् ॥ ५४॥
अजामविन्दन्ब्राह्मणस्य दक्षिणे हस्ते जुहुयात् ॥ ५५॥
ब्राह्मणं तु वसत्यै नापरुन्ध्यात् ।।५६ ॥
ब्राह्मणं त्वविन्दन्दर्भस्तम्बे जुहुयात् ॥ ५७ ॥
दर्भाꣳस्तु नाध्यासीत ॥ ५८ ॥
दर्भान्नविन्दन्नप्सु जुहुयात् ॥ ५९॥
आपस्तु न परिचक्षीतेमा भोजनीया इमा अभोजनीया इति ॥ १५.१.६० ॥
अप्यभोजनीयस्यैतं संवत्सरं परिगृह्णीयादेवापः ॥ ६१ ॥
अद्भिस्तु पादौ न प्रक्षालयीत ॥ ६२ ॥
सांवत्सरिकाण्येतानि व्रतानि भवन्ति ॥ ६३ ॥
संवत्सरेऽग्नये व्रतपतये पुरोडाशमष्टाकपालं निर्वपेत् ॥ ६४ ॥
अग्नये क्षामवतेऽष्टाकपालम् । यद्याहिताग्नेरग्निर्गृहान्दहेत् ॥ ६५ ॥
अग्नये विविचयेऽष्टाकपालं यस्यान्यैरग्निभिरग्नयः सꣳसृज्येरन्मिथो वा ॥६६॥
अग्नये वीतयेऽष्टाकपालं यदि गार्हपत्यदक्षिणाग्नी सꣳसृज्येयाताम् ।। ६७ ॥
अग्नये विपृचयेऽष्टाकपालं यदि गार्हपत्याहवनीयौ। गार्हपत्यदक्षिणाग्नी इत्येकेषाम् ॥ ६८॥
अग्नये व्रतभृतेऽष्टाकपालं यद्यभ्यादाह्येन ॥ ६९ ॥
अग्नये शुचयेऽष्टाकपालं यदि शवाग्निना । अग्नये संकुसुकायाष्टाकपालं यदि सूतकाग्निना ॥ १५.१.७० ॥
संकुसुको विकुसुको विकिरो यश्च विष्किरः । माषाज्येन नलेध्मेन क्रव्यादँ शमयामसि । अस्मिन्वयं संकुसुकेऽग्नौ रिप्राणि सृज्महे । अभूम यज्ञियाः शुद्धाः प्र ण आयूꣳषि तारिषदिति याज्यानुवाक्ये ॥ ७१॥
अग्नयेऽप्सुमतेऽष्टाकपालं यदि वैद्युतेन ॥ ७२ ॥
सर्वे संनिपतेरनग्नये विविचये निरुप्याग्नये शुचये निर्वपति । व्रातभृतीं तृतीयामप्सुमतीं चतुर्थीं क्षामवतीमन्ततः परिक्रमयेत् ॥ (ख०३) ॥ ७३ ॥
व्रातभृतीं द्वितीयामेके समामनन्ति । व्रातपतीमुत्तमाम् ॥ ७४ ॥
गर्भꣳ स्रवन्तमगदमकरग्निरिन्द्रस्त्वष्टा बृहस्पतिः। पृथिव्यामवचुश्चोतैतन्नाभिप्राप्नोति निर्ऋतिं पराचैरित्यग्निहोत्रस्थालीꣳ स्रवन्तीमभिमन्त्रयेत ॥७५॥
यस्य हविर्निरुप्तं पुरस्ताच्चन्द्रमा अभ्युदेति त्रेधा तण्डुलान्विभजेद्ये मध्यमाः स्युस्तानग्नये दात्रे पुरोडाशमष्टाकपालं कुर्याद्ये स्थविष्ठास्तानिन्द्राय प्रदात्रे दधꣳश्चरुं येऽणिष्ठास्तान्विष्णवे शिपिविष्टाय शृते चरुमग्निरेवास्मै प्रजां प्रजनयतीति।।७६॥
अनिरुप्तेऽभ्युदिते ॥७७॥
व्यृद्धभाग्भ्यो निर्वपेत् ॥ ७८ ॥
तथैकदेशे निरुप्तेऽभ्युदिते व्यृद्धभाग्भ्यः शेषम् ॥ ७९ ॥
तामिष्टिꣳ सꣳस्थाप्य वत्सानपाकृत्य श्वः सांनाय्येन यजेत ॥ १५.१.८० ॥
अग्नये पथिकृते पुरोडाशमष्टाकपालं निर्वपेद्यो दर्शपूर्णमासयाजी सन्नमावास्यां वा पौर्णमासीं वाऽतिपादयदिति ॥ ८१॥
वि वा एतस्य यज्ञश्छिद्यते यस्य यज्ञे प्रततेऽन्तरेतामिष्टिं निर्वपन्ति । य एवासावाग्नेयोऽष्टाकपालोऽमावास्यायां पौर्णमास्यां तमेवाग्नये पथिकृते कुर्यात्तेनैव पन्थां पुनरेवैति न यज्ञं विच्छिनत्तीति विज्ञायते ॥ ८२ ॥
प्रवृत्तस्य कालातिनयेऽप्रवृत्तस्य वैश्वानर्यग्नये व्रतपतये पुरोडाशमष्टाकपालं निर्वपेत् ॥ ८३ ॥
य आहिताग्निः सन्नव्रत्यमिव चरेत् । य आहिताग्निः प्रवसेदित्येकेषाम् ॥८४ ॥
अग्नये व्रतभृतेऽष्टाकपालं य आहिताग्निरार्तिजमश्रु कुर्यात् । व्रातभृतीं प्रवास एके समामनन्ति । व्रातपतीमश्रुकर्मणि ॥ ८५ ॥
त्वमग्ने व्रतभृच्छुचिर्देवाꣳ आसादया इह । अग्ने हव्याय वोढवे ॥ व्रता नु बिभ्रद्व्रतपा अदाभ्यो यजा नो देवाꣳ अजरः सुवीरः । दधद्रत्नानि सुविदानो अग्ने गोपाय नो जीवसे जातवेद इति याज्यानुवाक्ये ॥ (ख०४)॥८६॥
इति सत्याषाढहिरण्यकशिसूत्रे पञ्चदशप्रश्ने प्रथमः पटलः ॥

15.2
अथ पञ्चदशप्रश्ने द्वितीयः पटलः ।
यस्माद्भीषा निषीदसि ततो नो अभयं कृधि । प्रजाभ्यः सर्वाभ्यो मृड नमो रुद्राय मीढुष इत्यभिमन्त्रयेत ॥१॥
यद्यग्निहोत्र्युपसृष्टोपसन्ना वा निषीदेदुदस्थाद्देव्यदितिर्विश्वरूप्यायुर्यज्ञपतावधात् । इन्द्राय कृण्वती भागं मित्राय वरुणाय चति तामुत्थाप्य दुग्ध्वा ब्राह्मणाय दद्यात् ।। २ ॥
यस्यान्नं नाद्यादपि वैनां दण्डेन विपिष्याविपिष्य वोत्थाप्याऽऽत्मन्कुर्वीत सूयवसाद्भगवती हि भूया अथो वयं भगवन्तः स्याम । अद्धि तृणमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्तीति दर्भस्तम्बमालु(लो)प्य ग्रासयेत् ॥ ३ ॥
यदि दुह्यमाना वाश्येत यदि वा लोहितं दुहीत व्युत्क्रामतेत्युक्त्वा दक्षिणाग्निं परिश्रित्य तस्मिन्नेतꣳ श्रपयित्वा तस्मिन्नेव जुहुयात् । तां ब्राह्मणाय दद्याद्यमनभ्यागमिष्यन्मन्येत ॥ ४॥
यदद्य दुग्धं पृथिवीमसक्त यदोषधीरप्यसरद्यदापः। पयो गृहेषु पयो अघ्नियासु पयो वत्सेषु पयो अस्तु तन्मयीत्येनदभिमन्त्र्य यदि दुह्यमानꣳ स्कन्देत्समुद्रं वः प्रहिणोमीत्येतयाऽद्भिरुपनिनीय तदेव यादृक्कीदृग्घुत्वाऽन्यां दुग्ध्वा पुनर्जुहुयात् ॥ ५ ॥
अपि वा तां चैव दुह्यादन्यां वा यदि भिन्द्यादन्याँ स्थालीं निर्णिज्याथान्यां दुह्यादुदकं त्वनुपरासिच्यम् ।। ६॥
यदि दुग्धꣳ स्कन्देद्यदि ह्रियमाणं यद्यधिश्रीयमाणं यद्यधिश्रितं यद्युद्वास्यमानं यद्युद्वासितमन्यामभिदुह्यात् ॥ ७ ॥
अथ यद्युन्नीतꣳ स्कन्देद्यदि द्विर्यदि त्रिर्न तदाद्रियेतेत्येकेषाम् । चतुर्थमुन्नीयमानꣳ स्कन्देत्स्थाल्याँ शेषमानीय ततश्चतुर्गृहीतं गृहीत्वा वारुणीमृचमनूच्य वारुण्यर्चा जुहुयात् ॥ (ख०५) ॥८॥
यद्युन्नीतꣳ स्कन्देत्पुनरभ्युन्नीय होतव्यमथाऽऽज्येन वारुणीमृचमनूच्य वारुण्यर्चा जुहुयात् ॥ ९॥
यद्युद्द्रुतस्य स्कन्देद्यत्ततो हुत्वा पुनरेयद्यज्ञं विच्छिन्द्याद्यत्र स्कन्देत्तं निषध पुनर्ग्रह्णीयात्तदेव यादृक्कीदृग्घुत्वाऽन्यां दुग्ध्वा पुनर्जुहुयात् ॥१५.२.१०॥
यदि प्राचीनꣳ ह्रियमाणꣳ स्कन्देत्प्रजापतेर्विश्वे भृति तन्वा( न्वां )हुतमसीत्यभिमन्त्र्याथाऽऽज्येन वारुणीमृचमनूच्य वारुण्यर्चा जुहुयात् ॥ ११ ॥
यदि पुरः पराहृतꣳ स्कन्देदनूद्धृत्य पुनरभ्युन्नीय होतव्यमथाऽऽज्येन वारुणीमृचमनूच्य वारुण्यर्चा जुहुयात् ॥ १२॥
यदि पुर उपसन्नमहुतꣳ स्कन्देत्तदेव यादृक्कीदृक्च हुत्वाऽन्यां दुग्ध्वा पुनर्जुहुयात् ॥ १३ ॥
अस्कान्द्यौः पृथिवीमस्कानृषभो युवा गाः । स्कन्नेमा विश्वा भुवना स्कन्नो यज्ञः प्रजनयतु । अस्कानजनि प्राजन्या स्कन्नाज्जायते वृषा । स्कन्नात्प्रजनिषीमहीत्यग्निहोत्रꣳ स्कन्नमभिमन्त्र्याद्भिरुपनिनयेत् ॥ १४ ॥
यदि सायꣳ स्कन्देदा होतोः प्रातर्नाश्नीयात् । यदि प्रातः स्कन्देदा होतोः सायं नाश्नीयात् ॥ १५॥
दिव्या वा एतमशनिरभ्यवैति यस्याग्निहोत्रꣳ शिरिशि(शरश)रा भवति । समोषामुमिति ब्रूयाद्यं द्विष्यात् ॥ १६ ॥
यस्याग्निहोत्रेऽधिश्रिते श्वाऽन्तरा धावेद्गार्हपत्याद्भस्माऽऽदायेदं विष्णुर्विचक्रम इति वैष्णव्यर्चाऽऽहवनीयाद्ध्वꣳसंयन्नुद्द्रवेदेतयैव भस्मना शुनः पदमुपवपति ॥ १७ ॥
यस्यानाहृतमग्निः सूर्योऽभिनिम्रोचेद्यत्र दीप्यमानं परापश्येत्तत आहृत्यैनं प्रविशानीति वैष आधीयते ॥ १८॥
इति दक्षिणाग्नेरनुगतस्याऽऽधानकल्पः ॥१९॥
यस्यानुद्धृतमग्निꣳ सूर्योऽभिनिम्रोचेत् ॥(ख०६)॥ अग्निहोत्रं पूर्वꣳ हरेयुः । अथाग्निमुद्धरेयुः । अपि वा दर्भेण हिरण्यं प्रबध्य पूर्वः प्रतिपद्येतान्वङ्ब्राह्मण आर्षेयो बहुविदग्निमुद्धरेत् । अन्वङ्ङग्निहोत्रेणानुद्रवेदग्निं प्रतिष्ठाप्याग्निहोत्रमुपसाद्याऽऽतमितोरप्राणन्नासित्वा वरं दत्त्वा हुत्वा भूर्भुवः सुवरित्युपतिष्ठेत वारुणं चरुं निवपेत् ॥ दोषावस्तर्नमः स्वाहेति जुहुयात् ॥ १५.२.२० ॥
यदि सायमग्निहोत्रस्यर्तुमति नयेत्प्रातर्वस्तर्नमः स्वाहेति जुहुयात् ॥ २१ ॥
यदि प्रातरग्निहोत्रस्यर्तुमति नयेत्कालसमाप(पाद)नीयमेताभ्यां मन्त्रा'भ्याꣳ हुत्वा नित्यमग्निहोत्रं जुहोति ॥ २२ ॥
सायमग्निहोत्रमुपसाद्य भूर्भुवः सुवरिति पुरस्ताद्धोतोर्वदति हुत्वा च प्रातरग्निहोत्रमुपसाद्याऽऽतमितोरप्राणन्नासित्वा वरं दत्त्वा हुत्वा भूर्भुवः
सुवरित्युपतिष्ठेतानुगमयत्याहवनीयमन्वग्निरुषसामग्रमख्यदित्यन्यं प्रणीयेहैव क्षेम्या एधि मा प्रहासीन्माऽमुमामुष्यायणमित्युपतिष्ठेत । मैत्रं चरुं निर्वपेत् ॥ २३ ॥
सौर्यमेककपालमेके समामनन्ति ॥ २४ ॥
तस्याꣳ सꣳस्थितायामनश्नन्तौ वाग्यतावेतदहर्जायापती अग्निमिन्धानावासाते ॥ २५ ॥
द्वयोः पयसा सायमग्निहोत्रं जुहुयात् । पूर्वमधिश्रित्योत्तरमानयेत् ॥ २६ ॥
यस्यानुद्धृतमग्निꣳ सूर्योऽभ्युदियाच्चतुर्ग्रहीतमाज्यं गृहीत्वा पूर्वः प्रतिपद्येतान्वङ्ब्राह्मण आर्षेयो बहुविदग्निमुद्धरेत् । अन्वङ्ङग्निहोत्रेणानुद्रवेदग्निं प्रतिष्ठाप्याग्निहोत्रमुपसाद्य ।। (ख०७) ॥पुरस्तात्प्रत्यङ्ङासीन उषाः केतुना जुषतां यज्ञं देवेभिरिन्वितं देवेभ्यो मधुमत्तमꣳ स्वाहेत्येतच्चतुर्ग्रहीतꣳ हुत्वा नित्यमग्निहोत्रं जुहुयात् ॥ २७ ॥
तस्य स एव होमकल्पः । सा प्रायश्चित्तिः। यत्प्रातर्ऋतावतीते ।। २८ ॥
एतावन्नाना । नात्रानुगमयत्याहवनीयम् ॥ २९ ॥
यस्याहुतमग्निहोत्रꣳ सूर्योऽभ्युदियादुन्नीयाऽऽतमितोरप्राणन्नासित्वा हुत्वा भूरित्युपतिष्ठेत । वरो दक्षिणा ॥ १५.२.३० ॥
यद्यन्ते स्यादुन्नीय प्राङुदाद्रवेत्स उपसाद्याऽऽतमितोरासीत यदा ताम्येदथ भूः स्वाहेति जुहुयात् ॥ ३१ ॥
यस्य होष्यामीति प्रवृत्ते हुतअग्निहोत्रꣳ सूर्योऽभ्युदियाद्धुत्वा तदथोत्साद्य पुनराधेय इत्येकेषाम् ।। ३२ ॥
यस्योभावनुगतौ सूर्योऽभ्युदियात् । अपिवाऽस्तमियात् । यदिवाऽरण्योः समारूढो नश्येत्पुनराधेयमेव । तत्र प्रायश्चित्तम् ॥ ३३ ॥
अग्नये तन्तुमतेऽष्टाकपालं निर्वपेद्यस्याग्निहोत्रं विच्छिद्येत द्व्यहे त्र्यहे वा ॥ ३४ ॥
स्वयं कृण्वानः सुगमप्रयावं तिग्मशृङ्गो वृषभः शोशुचानः । प्रत्नꣳ सधस्थमनुपश्यमान आतन्तुमग्निर्दिव्यं ततान ॥ त्वं नस्तन्तुरुत सेतुरग्ने त्वं पन्था भवसि देवयानः । त्वयाऽग्ने पृष्ठं वयमारुहेमाथा देवैः सधमादं मदेमेति याज्यानुवाक्ये ॥ ३५ ॥ (ख०८)॥
इति सत्याषाढहिरण्यकेशिसूत्रे पञ्चदशप्रश्ने द्वितीयः पटलः ।

15.3
अथ पञ्चदशप्रश्ने तृतीयः पटलः ।
यस्याऽऽहवनीयेऽनुद्वाते गार्हपत्य उद्वायेदाहवनीयमुद्वाप्य गार्हपत्यस्यावक्षाणानि संनिधायेतः प्रथमं जज्ञे अग्निरिति मन्थेदाहवनीयं प्रणीयाग्ने सम्राडिषे रथ्यै रमस्व सहसे द्युम्नायोर्जेऽपत्याय सम्राडसि स्वराडसि सुषदा सीद सारस्वतौत्वोत्सौ समिन्धातामित्युपसमिन्धेऽग्नये तपस्वते जनद्वते पावकवतेऽष्टाकपालं निर्वपेत् ॥१॥
आयाहि तपसा जनेष्वग्ने पावको अर्चिषा । उपेमां सुष्टुतिं मम ॥ आ नो याहि तपसा जनेष्वग्ने पावक दीद्यत् । हव्या देवेषु नो दधदिति याज्यानुवाक्ये ॥ २॥
एतदेवाऽऽहवनीयेऽनुगते प्रायश्चित्तम् । नात्र गार्हपत्यमनुगमयत्यग्नये ज्योतिष्मतेऽष्टाकपालं निर्वपति ॥३॥
न तपस्वते ॥ ४॥
यदि सायमहुतेऽग्निहोत्रे पूर्वोऽग्निरनुगच्छेदग्निहोत्रमधिश्रित्योन्नीयेत्येकेषाम् । अग्निना पूर्वेणोद्धृत्याग्निहोत्रेणानुद्र(नूद्द्र)वेद्यो ब्राह्मणो बहुवित्सोऽग्निमुद्धरेत् । यत्पुनराधानमादायी स्यात्तद्दद्यात् ।। ५॥
यदि प्रातरहुतेऽग्निहोत्रेऽपरोऽग्निरनुगच्छेदनुगमयित्वा पूर्वं मथित्वाऽपरमुद्धृत्य जुहुयात् ॥ ६॥
यदि त्वरेत पूर्वमग्निमन्ववसाय ततः प्राञ्चमुद्धृत्य जुहुयात् ॥ ७॥
जामि तु तद्योऽस्य पूर्वोऽग्निस्तमपरं करोति ।। अन्यत्रैवावसायाग्निं मथित्वोद्धृत्य जुहुयात् । श्वोऽग्नये तपस्वते जनद्वते पावकवतेऽष्टाकपालं निर्वपेत् ॥ (ख०९)॥८॥
यस्यापरोऽग्निरनुगच्छेदित्येकेषाम् ॥९॥
न कालमवधारयाति । ततोऽत्राग्निं मथित्वोद्धृत्याभिमन्त्रयत इतः प्रथमं जज्ञे अग्निरित्येतयाऽग्ने सम्राडिषे रय्यै रमस्व सरसे द्युम्नायोर्जेऽपत्याय सम्राडसि स्वराडसि सुषदा सीद सारस्वतौ त्वोत्सौ प्रावतामित्युपसमिन्धेऽग्नये ज्योतिष्मते पुरोडाशमष्टाकपालं निर्वपेद्वारुणं यवमयं चरुम् ॥ १५.३.१०॥
यस्य पूर्वोऽग्निरनुगच्छेदित्येकेषाम् । न कालमवधारयति । तेभ्य एवावक्षाणेभ्योऽधिमन्थितव्यः । अथ यदि न तादृशानीवावक्षाणानि स्युः । भस्मनाऽरणी सꣳस्पर्श्य मन्थितव्यः स्वादेवैनं योनेर्जनयति ॥ अग्नये तपस्वते जनद्वते पावकवतेऽष्टाकपालं निर्वपेत्॥ यस्याग्निरनुगच्छेदित्येकेषाम् । न कालमवधारयति। तेभ्य एवावक्षाणेभ्योऽधिमन्थितव्योऽथ यदि शल्केध्व् (द्ध)स्तृणेद्वो(द्धो)वा स्याद्भस्मनाऽरणी सꣳस्पर्श्य मन्थितव्यः स्वादेवैनं योनेर्जनयति। अग्नये तपस्वते जनद्वते पावकवतेऽष्टाकपालं निर्वपेत् ॥ ११॥
अनुगतेष्टेर्वा स्थान एता आहतीर्जुहोति ।। ॥ (ख०१०)॥ मित्राय स्वाहा वरुणाय स्वाहा सोमाय स्वाहा सूर्याय स्वाहाऽग्नये तपस्वते जनद्वते पावकवते स्वाहाऽग्नये शुचये स्वाहाऽग्नये ज्योतिष्मते स्वाहाsग्नये व्रतपतये स्वाहेति व्याहृतिभिर्विहृताभिः समस्ताभिश्च ।। १२ ॥
अथैकेषां विज्ञायते यदि प्रागग्निहोत्रकालादाहवनीयोऽनुगच्छेदन्यं प्रणयेत् ॥ १३ ॥
यदि होमकाले प्राण उदानमप्यगादिति गार्हपत्ये जुहुयात् ।। १४ ॥
यदि गार्हपत्य उदानः प्राणमप्यगादित्याहवनीये ॥ १५॥
यदि दक्षिणाग्निर्व्यान उदानमप्यगादिति गार्हपत्ये ॥ १६ ॥
यदि सर्वेऽनुगच्छेयुरग्निं मथित्वा यां दिशं वातो वायात्तां दिशमाहवनीयं प्रणीय वायवे स्वाहेति जुहुयात् ॥ १७ ॥
यदि निवातेऽनुगच्छेयुरग्निं मथित्वा विहारꣳ साधयित्वाऽपरेणाऽऽहवनीयमुपविश्य स्वयमग्निहोत्रं पिबेत् ( अग्निहोत्रप्रत्याम्नायो भवतीति विज्ञायते । )॥ १८ ॥
यद्यस्तमिते जुहुयात् । पुनरेवास्तमिते जुहुयात् ॥१९॥
यदि महारात्रे जुहुयात् । पुनरेवोषसि जुहुयात् ॥१५.३.२०॥
अग्नयेऽग्निवते पुरोडाशमष्टाकपालं निर्वपेद्यस्याग्नावग्निमभ्युद्धरेयुः ॥ २१॥
भवतं नः समनसावित्यभिमन्त्रयेत ॥ २२ ॥
अग्नये ज्योतिष्मते पुरोडाशमष्टाकपालं निर्वपेत् । यस्याग्निरुद्धृतोऽहुतेऽग्निहोत्र उद्वायेदपर आदीप्यानुद्धृत्य इत्याहुस्तत्तथा न कार्यं यद्भागधेयमभिपूर्व उद्ध्रियते किमपरोऽभ्युद्ध्रियेतेति तान्येवावक्षाणानि संनिधायेतः प्रथमं जज्ञे अग्निरिति मन्थेत् ॥ २३ ॥
त्रयस्त्रिꣳशतन्तवो ये वितत्निर इति जुहुयात् ॥ २४ ॥
यदि कृष्णशकुनिर्ध्वꣳसयन्नुपर्युपर्यग्निहोत्रमतीय( तिप )ते( त् ) । यस्याग्निहोत्रेऽधिश्रिते हविषि वा निरुप्ते पुरुषः श्वा रथोऽनो वाऽन्तराऽग्नी वीयात् ॥(ख०११)॥ गौर्वराह एडको वा । तत्रापोऽन्वतिषिच्य गामन्वत्याऽऽवर्तयेत्( वर्धतां भूतिर्दध्ना घृतेन मुञ्चतु यज्ञो यज्ञपतिमꣳहसः स्वाहेति ) ॥ २५ ॥
गार्हपत्याद्भस्माऽऽदायेदं विष्णुर्विचक्रम इति वैष्णव्यर्चाऽऽहवनीयाद्ध्वꣳसयन्नुद्द्रवेदेतयैव भस्मना पदमपि वपति । वर्त्म च लोपयेत्पदं च ॥ २६॥
यद्यनो रथो वाऽन्तराऽग्नी वीयादित्येकेषाम् । न कालमवधारयति । अनुगमयत्या हवनीयं यदग्ने पूर्वं प्रभृतं पदꣳ हि ते रश्मीनन्वाततान । तत्र रयिष्ठामनुसंभरैतꣳ सं नः सृज सुमत्या वाजवत्या । त्वमग्ने सप्रथा असि जुष्टो होता वरेण्यः । त्वया यज्ञं वितन्वत इत्यन्यं प्रणीयाग्नये पथिकृते पुरोडाशमष्टाकपालं निर्वपेत् । अथोऽन्तिकाद्बर्हिराहरेदनड्वान्दक्षिणा ॥ २७ ॥
एतामेव निर्वपेत् । स्तोत्रे मूढ एताꣳ शस्त्र एताम् ॥ २८ ॥
यस्य वाऽग्निभिरग्नीन्व्यवेयुर्यो वा व्यवेयात् ॥ २९ ॥
एतां जने प्रमीतस्य ॥ १५.३.३०॥
तस्याभिवान्यवत्सायैः पयसा जने प्रमीतस्याग्निहोत्रं जुहुयाद् यावदस्याग्निभिः शरीराणि सꣳस्पर्शयेयुः । य उदञ्चो दर्भास्तान्दक्षिणाग्रान्स्तृणाति । प्राचीनावीत्यग्निहोत्रं दोहयत्यधस्तात्समिधं धारयति ॥ ३१॥
उपरि हि देवेभ्यो धारयन्तीति विज्ञायते ॥ ३२ ॥
अपो मृन्मयान(न्य)भ्यवहरन्ति ॥ ३३ ॥
ददत्येवाऽऽयसानि ॥ ३४ ॥
ब्राह्मणाय यज्ञायुधानि दद्यात् ॥ ३५ ॥
अमैव पुत्रस्य दृषत् ॥ ३६॥
यद्यप्रमीतं प्रमीत इति शृणुयादग्नये सुरभिमते पुरोडाशमष्टाकपालं निर्वपेत् ॥ ३७ ॥
यदि पूर्वस्यामाहुत्याꣳ हुतायां यजमानो म्रियेत दक्षिण उत्तरामाहुतिं निनयेत् ॥ ३८ ॥
भस्मोत्करं वा गमयेत् ॥ (ख०१२) ॥ ३९॥
इति सत्याषाढहिरण्यकेशिसूत्रे पञ्चदशप्रश्ने तृतीयः पटलः ।

15.4
अथ पञ्चदशप्रश्ने चतुर्थः पटलः ।
यद्याज्यमनुत्पूतꣳ स्कन्देच्छिन्दद्देयं वरो देय इत्येकेषाम् । यद्युत्पूयमानं स्कन्देच्छिन्दत्प्राणि दद्यात् ॥ यद्युत्पूतं चित्रं देयम् ॥ १॥
यदस्य गृहे पुष्कलꣳ स्यात्तद्दद्यात् ॥ २ ॥
यदि स्रुग्गतं भूपतये स्वाहेति तत्प्राञ्चं प्रादेशं निदध्यात् । भुवनपतये स्वाहेति दक्षिणतः । भूतानां पतये स्वाहेति प्रत्यञ्चं भूताय स्वाहेत्युदञ्चम् । भूर्भुवः सुवरित्यूर्ध्वं सं त्वा सिञ्चामीति तत्सꣳसिञ्चत्यभिमन्त्रयते वा ॥ ३॥
यज्ञस्य त्वा प्रमयाऽभिमया प्रतिमयोन्मया परिगृह्णामीति परिगृह्णाति ॥ ४ ॥
देवाञ्जनमगन्यज्ञ इत्येकेषामनन्तरमाज्याद्वदति ॥ ५ ॥
भूपतये स्वाहा भुवनपतये स्वाहा भूतानां पतये स्वाहेति स्कन्नमनुमन्त्रयेतेति सर्वहविषामनवयवेन श्रूयते ॥६॥
यदि कपालं नश्येदाश्विनं द्विकपालं निर्वपेद्द्यावापृथिव्यमेककपालम् । भार्गवो होता भवति । एकहायनो दक्षिणा ॥७॥
यदि भिद्येत गायत्र्या त्वा शताक्षरया संदधामीति तत्संधायाभिन्नो घर्म इत्यभिमन्त्र्यापोऽभ्यावहृत्याथान्यत्कपालꣳ सꣳस्कृत्य तद्वा पिष्ट्वाऽन्यया मृदा करणीयया कृत्वा घर्मो देवाꣳ अप्येत्विति कपालेष्वपि सृजति ॥ यदि प्रागुपधानाद्भिद्येत ॥ ८ ॥
अथ यद्युपहितानामेतेनैव मन्त्रेणोपदध्यात् ।। ९॥
वैश्वानरं द्वादशकपालं निर्वपेद्यदि पत्नी संयाजयन्कपालमभि जुहुयात् ॥ १५.४.१० ॥
एतामेव निर्वपेत्पुत्रे जात एतामेव निर्वपेद्यो दर्शपूर्णमासयाजी सन्नमावास्यां वा
पौर्णमासीं वाऽतिपाद(त)येत् ॥ ११ ॥
एतामेव निर्वपेद्यदनिष्ट्वाऽऽग्रयणेन नवस्याश्नीयात् ॥ १२ ॥
आनीतो वा एष देवानां य आहिताग्निरदन्त्यस्य देवा अन्नम् । यदकृत्वाऽऽग्रयणं नवास्याश्नीयाद्देवेभ्यो(वानां) भागं प्रतिक्लृप्तमद्यादार्तिमार्छेत् ॥ १३ ॥
मारुतं त्रयोदशकपालं निर्वपेद्यस्य पुत्रौ यमौ जायेतां गावौ वा ॥ (ख० १३) ॥ १४ ॥
निर्वीर्यतां वै जातः पुरुष आशास्तेऽपशुतां गौः ॥ १५ ॥
गायत्री पुरोनुवाक्या भवति । त्रिष्टुग्याज्या ॥ १६ ॥
वैष्णवं त्रिकपालमेके समामनन्ति ॥ १७ ॥
आग्नावैष्णवमेकादशकपालं निर्वपेद्यस्या( द्य)न्यम(स्या)ग्निषु याजयेयुर्यो वा यजेत ॥ १८ ॥
रौद्रं वास्तुमयं चरुं निर्वपेद्यत्र पशुपतिः पशूञ्छमयेत ॥ १९ ।।
एतया निषादस्थपतिं याजयेत् ॥ १५.४.२० ॥
कृष्णाजिनं वा कूटं वाऽकर्णो वा गर्दभो दक्षिणा। हरिणो वा हरिणपृणाका वा श्यामाकपात्रो वा। द्वे वाक्याम्बू शूर्पे शय्यां वा । सा हि तस्येष्टिः ॥ २१ ॥
यो ब्रह्मचारी स्त्रियमुपेयात्स गर्दभं पशुमालभेत ॥ २२ ॥
भूमावेककपालं पशुपुरोडाशꣳ श्रपयति ॥ २३ ॥
अप्स्ववदानैश्चरेयुः ॥ २४ ॥
नैर्ऋतः प्राजापत्यो वा । रक्षोदेवत इत्येकेषाम् । यमदेवत इत्येकेषाम् ॥ २५ ॥
यस्य हविः क्षायति तं यज्ञं निर्ऋतिर्गृह्णाति यदा तद्धविः संतिष्ठेत । अथ तदेव हविः पुनर्निर्वपेत् ॥ २६॥
यज्ञो यज्ञस्य प्रायश्चित्तिर्यदुच्छिष्टꣳ स्यात् ॥ तेन सꣳस्थापयेत् । यं द्विष्यात्तस्मै तां दक्षिणां दद्यात् । तमेव निर्ऋत्या ग्राहयति ॥ २७ ॥
यथाकथा च क्षायेत्प्रायश्चित्तमेव स्यात् ॥ २८ ॥
यदि वाऽवदानेभ्यो न प्रभवेत् ॥ २९ ॥
यद्यप्रत्तदैवतꣳ हविर्व्यापद्येताथान्यत्तदैवतꣳ हविरभ्युदाहरेत् ॥ १५.४.३० ॥
तत्र स्रुगादानप्रभृतयो मन्त्रा आवर्तेरन् ॥ ३१ ॥
 (यावदन्ते वा व्यापद्येत ।। ३२ ॥
यदि तु प्रत्तदैवतमाज्येन शेषꣳ सꣳस्थापयेत् ॥ ३३ ॥
यस्य सर्वाणि हवीꣳषि ॥ (ख० १४)॥ नश्येयुर्वा दुष्येयुर्वाऽपहरेयुर्वाऽऽज्येन देवताः प्रतिसंख्याय यजेत ॥ ३४ ॥
अथान्यामिष्टिमनुल्बणां तन्वीत । यज्ञो हि यज्ञस्य प्रायश्चित्तिः ॥ ३५॥
अपो व्यापन्नꣳ हविरभ्यवहरतीति विज्ञायते ॥ ३६ ॥
यदार्याणामभोजनीयं स्यान्न तेन यजेत ॥३७॥
यद्धविर्दुःशृतं यमदेवत्यं तद्यममेव गच्छतीति सꣳस्थाप्य तदन्वाहार्यपचने चतुःशरावमोदनं पक्त्वा चतुरो ब्राह्मणान्भोजयेत् ॥ ३८ ॥
तेषां भार्गव एकः प्राशितॄणाꣳ स्यात्तेभ्यः समानो वरो देयः । सा प्रायश्चित्तिः ॥ ३९ ॥
योऽदक्षिणेन यज्ञेन यजेत । स यज्ञः प्रक्षामोऽनायु(रु)र्वरा प्रतिष्ठिता देया सा प्रायश्चित्तिः ॥ १५.४.४०॥
यद्यादिष्टां दक्षिणामन्तरियादुर्वरां दद्यात्सा प्रायश्चित्तिः ॥ ४१ ॥
यद्यभागां देवतामावाहयेदाज्येनैनां यथोढां यजेत । पुरस्ताद्वा स्विष्टकृतः ॥ ४२ ॥
यदि भागिनीं नाऽऽवाहयेद्यदोपस्मरेत्तदुपोत्थाय मनसाऽऽवाहयेद्यद्वो देवा अतिपाद(त)यानीत्याहुतिं जुहुयात् ॥४३॥
यस्य हव्यं निरुप्तꣳ स्कन्देदाज्यं वा गृहीतं चित्रं देयम् । वरो देय इत्येकेषाम् ॥४४॥
यस्यै देवतायै गृहीतमहुतꣳ स्कन्देद्यदस्य गृहे पुष्कलꣳ स्यात्तद्दद्यात् ॥ ४५ ॥
यद्याहुती विपरिहरेयुर्मनो ज्योतिर्जुषतामित्याहुतिं जुहुयात् ॥ (ख० १५)॥ ४६॥
यस्य देवते अवदाने वा याज्यानुवाक्ये वा विपरिहरेयुस्त्वं नो अग्ने स त्वं नो अग्न इत्येताभ्याꣳ संततिं जुहुयात् । सर्वत्रान्तरिते विपरीते च ॥ ४७॥
यदि बहिष्परिध्याहुतिः स्कन्देदाग्नीध्रं ब्रूयादेताꣳ संकृष्य जुहुधीति । ताꣳ सोऽञ्जलिना संकृष्य जुहुयान्मा यजमानो रिषन्मा पत्नी मा यज्ञो मा यज्ञपतिः स्वाहेति तस्मै पूर्णपात्रं दद्यात् ।। सा प्रायश्चित्तिः॥४८॥
यदि पुरोडाशं उद्वा पतेत्स वा विजेत तमन्तर्वेद्यासाद्य किमुत्पतसि किमुत्प्रोष्ठाः शान्तः शान्तेरिहाऽऽगहि । अघोरो यज्ञियो भूत्वा सीद सदनꣳ स्वं मा सीद सदनꣳ स्वं मा हिꣳसीर्देव प्रेषित आज्येन तेजसाऽऽज्यस्व मा नः किंचन रीरिषो योगक्षेमस्य शान्त्या अस्मिन्नासीद बर्हिषीति तमेतेन यजुषाऽभिमन्त्रयेदभिवाऽऽघारयेत् ॥४९॥
भूत्वा प्रभवति यजमानो यस्यैतां यज्ञे प्रायश्चित्तिं कुर्वन्ति ॥ (ख० १६) ॥ १५.४.५० ॥
इति सत्याषाढहिरण्यकशिसूत्रे पञ्चदशप्रश्ने चतुर्थः पटलः ।

15.5
अथ पञ्चदशप्रश्ने पञ्चमः पटलः ।
अग्निं नरो दीधितिभिररण्योर्हस्तच्युती जनयन्त प्रशस्तम् । दूरेदृशं गृहपतिमथर्युम् । अग्निनाऽग्निः समिध्यते सप्त ते अग्ने मनो ज्योतिर्जुषतां त्रयस्त्रिꣳशद्यन्मे मनसश्छिद्रं यद्वापो(चो)यच्च मे हृदः। अयं देवो बृहस्पतिः सं तत्सिञ्चतु राधसा ॥ विश्वकर्मा हविरिदं जुषाणः संतानैर्यज्ञꣳ समिमं तनोतु । या व्युष्टा उषसो याश्च याज्यास्ताः संदधामि हविषा घृतेन । अयाश्चाग्ने । त्वं नो अग्ने । सत्वं नो अग्ने । भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टु वाꣳसस्तनूभिर्व्यशेम देवहितं यदायुः । स्वस्ति न इन्रोत् वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु । पृषदश्वा मरुतः पृश्निमातरः शुभंयावानो विदथेषु जग्मयुः । अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसागमन्निह । शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् । पुत्रासो यत्र पितरो मदन्ति मा नो मध्या रीरिषताऽऽयुर्गन्तोः। प्रेद्धो अग्न इत्येषा । श्रुत्कर्णाय कवये मेध्याय वचोभिर्नाकमुपयामि शꣳसन् । यतो भयमभयं तत्कृधी नोऽग्ने देवानामव हेड युक्ष्व । अग्निं वो देवमग्निभिः सजोषा यवि(जि)ष्ठं दूतमध्वरे कृणुध्वम् । यो मर्ते(र्त्ये)षु निध्रुविर्ऋतावातपुर्मूर्धा घृतान्नः पावको घृतप्रतीको घृतयोनिरग्निर्घृतैः समिद्धो घृतम स्यान्नम् । घृतप्रुषस्त्वा सरितो वहन्ति घृतं पिबन्त्सुयजा यक्षि देवान् ॥ आयुर्दा अग्न इमो अग्ने सप्त ते अग्ने मनो ज्योतिर्जुषतां त्रयस्त्रिꣳशद्यन्मे मनसच्छिद्रं विश्वकर्मा युनज्मि त्वाऽग्निं युनज्मीन्धानास्त्वा ॥ (ख० १७ ) ॥ अग्निर्न ईडित ईडितव्यैर्देवैः पार्थिवैः पातु । वायुर्न ईडित ईडितव्यैर्देवैरान्तरिक्षैः पातु सूर्यो न ईडित ईडितव्यैर्देवैर्दिव्यैः पातु । विष्णुर्न ईडित ईडितव्यैर्देवैर्दिश्यैः पातु । अग्निर्यजुर्भिः पूषा स्वगाकारेण त इमं यज्ञमवन्तु ते मामवन्त्वनु व आरभेऽनु मा रभध्वꣳ स्वाहेत्येतैस्त्रिभिरनुवाकैरविज्ञातप्रायश्चित्ते सोमे त्रयस्त्रिꣳशतमाहुतीर्जुहोति ।। १ ॥
त्रयस्त्रिꣳशतं यज्ञतनूराग्नीध्रे ॥२॥
पृथिवि भूवरि सिनीवाल्युरन्ध्र आचित्ते मनस्ते भुवो विवस्त इति वसतीवरीषु सवनीयासु वा विषिक्तासु सप्ताऽऽहुतीर्जुहोति ॥ ३ ॥
सोमस्याऽऽज्यमसि हविषो हविर्ज्योतिषां ज्योतिर्विश्वेषां देवानां भागधेयी स्थेत्यभिमन्त्र्य सं वः सिञ्चन्तु मरुतः समिन्द्रः सं बृहस्पतिः । सं वोऽयमग्निः सिञ्चत्वायुषा • च बलेन च । सर्वमायर्दधातु मे ॥ मान्दा वाशाः। आपो भद्राः।.आदित्पश्यामि। आपो हि ष्ठा मयो भुवो यो वः शिवतमो रसस्तस्मा अरं गमाम व इत्येताभिः सप्तभिः सँसिञ्चेदभि वा मन्त्रयेत ॥ ४ ॥
यदि प्रातःसवने पुरा होमात्सोमोऽतिरिच्येत तं चमसेष्वभ्युन्नयेयुरुप जुहुयुर्वा ॥५॥
हुतेऽतिरिक्तस्याऽऽशयित्वा स्तुतशस्त्रवन्तं कुर्युः । सा प्रायश्चित्तिः ॥ ६ ॥
होतृचमसमुख्याꣳश्चमसानुन्नीय बृहतः स्तोत्रमुपाकरोति ॥ ७ ॥
गौर्धयति मरुतामिति धयद्वतीषु स्तुवीरन् ॥ ८ ॥
अस्ति सोमो अयꣳ सुत इति वैतास्वैन्द्रावैष्णवीभिहोंत्रे स्तुयुः ॥ ९ ॥
ऐन्द्रावैष्णवꣳ होताऽनुशꣳसति ॥ १५.५.१० ॥
एतदेव माध्यन्दिने सवनेऽतिरिक्ते प्रायश्चित्तम्॥११॥
बण्महाꣳ असि सूर्येति सौर्येषु बृहता गौरवीतेन वा स्तुवीरन् । एतदेव तृतीयसवनेऽतिरिक्ते प्रायश्चित्तम् । वैष्णवीषु शिपिविष्टवतीषु बृहता गौरवीतेन वा स्तुवीरन् ॥ १२ ॥
अग्निष्टोमे सोमोऽतिरिच्येतोक्थ्यं कुर्वीत ॥ १३ ॥
यद्युक्थ्ये षोडशिनं यदि षोडशिन्यतिरात्रं यद्यतिरात्रे । (द्विरात्रं यदि द्विरात्र एकस्तोत्रमेव )॥१४॥
 (तत्र ) वैष्णवीषु शिपिविष्टवतीषु बृहता गौरवीतेन वा स्तुवीरन् ॥ १५॥
यदि सोमौ सꣳसुतौ स्यातां प्रथमानि चत्वारि संभारयजूꣳषि हुत्वा महति रात्रियै प्रातरनुवाकमुपाकुर्यात् । तस्मिन्परिहित एहि यजमानेत्युक्तेऽन्वारब्धे यजमाने संवेशायोपवेशाय गायत्रिया अभिभूत्यै स्वाहेति पुरस्तात्प्रातःसवनस्य जुहुयात् ॥ १६॥
उत्तराणि चत्वारि संभारयजूꣳषि हुत्वा संवेशायोपवेशाय त्रिष्टुभोऽभिभूत्यै स्वाहेति पुरस्तान्माध्यंदिनस्य सवनस्य जुहुयात् । उत्तराणि चत्वारि संभारयजूꣳषि हुत्वा संवेशायोपवेशाय जगत्या अभिभूत्यै स्वाहेति पुरस्तात्तृतीयसवनस्य जुहुयात् । उत्तराणि चत्वारि संभारयजूꣳषि हुत्वा संवेशायोपवेशायानुष्टुभोऽभिभूत्यै स्वाहेति पुरस्तादनूवन्ध्याया वपाया जुहुयात् । उत्तराणि चत्वारि संभारयजूꣳषि हुत्वा संवेशायोपवेशाय पङ्क्त्या अभिभूत्यै स्वाहेति पुरस्तादुदवसानीयाया जुहुयात् । समिद्धेऽग्नौ हूयन्ते प्राणापानौ मृत्योर्मा पातं प्राणापानौ मा मा हासिष्टमिति द्वे आहुती ॥ १७॥
पुरस्तात्पाशुकात्स्विष्टकृतो जुहोत्येतिवतीः प्रतिपदो भवन्ति । प्रेतिवन्त्याज्यानि ॥ १८ ॥
मरुत्वतीः पूषण्वतीर्वा प्रतिपदो भवन्ति ॥१९॥
यद्यग्निष्टोमः सोमः परस्तात्स्यादुक्थ्यं कुर्वीत । यद्युक्थ्यः षोडशिनम् । यदि षोडश्यतिरात्रम् । यद्यतिरात्रोऽप्तोर्यामम । यद्यप्तोर्यामो द्विरात्रम । यदि द्विरात्रस्त्रिरात्रम् । यदि त्रिरात्र एकस्तोत्रमेव ॥ १५.५.२० ॥
अभिजित्कार्योऽभिजित्यै । विश्वजित्कार्यो विश्वस्य जित्यै । सर्वस्तोमः सर्वपृष्ठः सर्वस्याऽऽप्त्यै सर्वस्यावरुद्ध्यै । क्रोशानुक्रोशे कार्ये वसिष्ठस्य निहवे उभे बृहद्रथंतरे कार्ये । सजनीयꣳ शस्यं विहव्यꣳ शस्यमगस्त्यस्य कया शुभीयꣳ शस्यमिन्द्रस्य निष्केवल्यं तानि शꣳसेदभिवर्त ब्रह्मसाम कुर्यात् । अभिजितं विश्वजितं वा यज्ञक्रतुं कुर्यादिति संप्रेष्यति ॥ २१ ॥
पूर्ववत्सꣳस्थाप्यः । अभिषुत्यं वा दक्षिणाभिर्वा वर्षीयाꣳसं यज्ञक्रतुं कुर्युः ॥ २२ ॥
यावद्रथान्ह्य(ध्वम)न्तरा गिरिं भिद्वा (त्त्वा) नदी तावता सꣳसवः समानजनपदे सꣳसवो नानाजनपदे सꣳसवो नाविद्विषाणयोः सꣳसवो विद्यत इत्येकेषाम् ॥ (ख०१९) ॥ २३ ॥
यदि दीक्षितानामुप्रतापः स्यान्महानाग्नीध्रीयमुपसमाधाय ब्राह्मणं दक्षिणतो निषाद्यैकविꣳशतियवान्दर्भपुञ्जीलाꣳश्च पूर्णपात्रेऽवधाय ब्राह्मणाय प्रोच्यापः परिब्रूयात्-जीवा नाम स्थ ता इमममुं जीवयत जीविका नाम स्थ ता इमममुं जीवयत संजीवा नाम स्थ ता इमममुꣳ संजीवयतेति प्रतिब्रूयात् ॥ २४॥
या जाता ओषधय इत्योषधिसूक्तेनैताभिरद्भिरभिषिञ्चेत् ॥ २५ ॥
पाययत्येतासामपां प्राणापानौ त उपाꣳश्वन्तर्यामौ पातामसौ व्यानं व उपाꣳशु सवनः पातु वाचं म ऐन्द्रवायवः पातु दक्षक्रतू ते मैत्रावरुणः पातु चक्षुषी ते शुक्रामन्थिनौ पाताꣳ श्रोत्रं त आश्विनः पात्वात्मानं त आग्रयणः पात्वङ्गानि म उक्थ्यः पात्वायुष्टे ध्रुवः पातु वीर्यं तेऽतिग्राह्याः पान्त्वसावित्यभिमृशति ॥ २६ ॥
प्रतिजपति प्राणापानौ म उपाꣳश्वन्तर्यामौ पातां व्यानं मे उपाꣳशु सवनः पातु वाचं म ऐन्द्रवायवः पातु दक्षक्रतू मे मैत्रावरुणः पातु चक्षुषी मे शुक्रामन्थिनौ पाताꣳ श्रोत्रं म आश्विनः पात्वात्मानं म आग्रयणः पात्वङ्गानि म उक्थ्यः पातु वायुर्मे ध्रुवः पातु वीर्यं मेऽतिग्राह्याः पान्त्विति प्रतिजपिते पुष्टिपतौ पुष्टिं प्राणै प्राणमपानेऽपानं व्याने व्यानमुदान उदानꣳ समाने समानं वाचि वाचमस्मै पुनर्धेहीत्याहुतिं जुहोति ॥ २७ ॥
न पुनर्भेषजं करोति ।। २८ ॥
यदि म्रियेत प्रागवभृथादग्न्यवभृथं कुर्युः ॥ २९ ॥
अवभृथं वा गमयित्वोदाहृत्यावभृथादग्निभिरभिसमाहारं दहेयुः ।। १५.५.३० ।।
एतावदेकाहे ।। ३१ ॥
अहर्गणे त्वाहर दहेत्युक्त्वा दक्षिणाग्नेरङ्गारं निर्वर्त्य निर्मन्थ्येन वा दहेयुः ॥ ३२ ॥
दक्षिणस्यां वेदिश्रोण्यामस्थिकुम्भं निदधाति ॥ ३३ ॥
तिसृभिः सार्पराज्ञीभिरभिप्रतिहृताभिरुद्गातारः स्तुवीरन् ॥ ३४ ॥
इतर ऋत्विजो होतृप्रथमाः प्राचीनावीतिनो यामीरनुब्रुवन्तः सार्पराज्ञीनां कीर्तयन्तो दक्षिणान्केशपक्षानुद्ग्रथ्य सव्यान्प्रस्रस्य दक्षिणानूरूनाघ्नानाः सव्यानित्येकेषाम् ॥ ३५॥
त्रिः प्रसव्यं मार्जालीयमनुपरीयुः ॥ ३६॥
ऐन्द्रवायवाग्रा ग्रहा मैत्रावरुणाग्रा वा मार्जालीयन्यन्ते भक्षानुपनिनीयुः॥३७॥
अग्न आयूꣳषि पवस इति प्रतिपदं कुर्वीरन् ॥ ३८ ॥
एतावदनाथे नाथवतस्तु दग्ध्वाऽस्थीन्युपनह्य यस्तस्य स्वो नेदिष्ठी स्यात्तं तस्य स्थाने दीक्षयित्वा तेन सह यजेरन् ।। ३९ ॥
संवत्सरेऽस्थीनि याजयेयुः। अग्निष्टोमः सोमो रथंतरं गौरवीतं वा साम सप्तदशः स्तोत्रो व्याख्याते ग्रहाग्रे स्तोत्रेऽस्थिकुम्भमुपनिदधाति ॥१५.५.४० ॥
यामेन साम्ना स्तुवते । द्वादशशतं दक्षिणा ।। (ख०२०) ॥४१॥
इति सत्याषाढहिरण्यकेशिसूत्रे पञ्चदशप्रश्ने पञ्चमः पटलः॥

15.6
अथ पञ्चदशप्रश्ने षष्ठः पटलः ।
यदि सत्राय दीक्षेताथास्य साम्युत्थानं जायेत । सोममय(वि)भज्य विश्वजिताऽतिरात्रेण सर्वस्तोमेन सर्वपृष्ठेन सर्ववेदसदक्षिणेन यजेत ॥१॥
कृतान्तात्कर्माणि प्रतिपद्यते ॥ २ ।।
अवलिख्योखायास्तैरन्यां मृदꣳ सꣳस्कृत्य कुर्यात् ॥ ३॥
अवलिख्य पशुशिरसां तूष्णीकेष्वाश्लेषयेत् ॥ ४ ॥
प्रणीत आहवनीये तूष्णीमग्निꣳ हरति ॥ ५॥
संचितेऽग्नावुत्तिष्ठतो न साम्युत्थानेऽग्निचयनं विद्यते ॥ ६॥
प्राचीनमुदीचीनं वोदवसाय विहारꣳ साधयित्वा सर्वपृष्ट्या (ष्ठया) यजेत । सर्वक्रतुभ्य आगूर्याशक्यमाने यष्टुम् । त्रैधातवीयया सत्रे तु विश्वजितातिऽरात्रेण ॥ ७॥
यदि सुन्वतामाहवनीयोऽनुगच्छेदाग्नीध्रात्प्रणयेयुरेनं यद्याग्नीध्रो गार्हपत्याद्यदि गार्हपत्यो मन्थेयुरेनम् ॥ ८ ॥
यस्माद्दारोरुद्वायेत्तस्यारणी कुर्यात् ॥ ९॥
क्रमुको भवति ॥ १५.६.१० ॥
ब्रह्मण उद्गात्रे होत्रेऽध्वर्यवे च चतुरो वरान्दद्यात् ॥ ११ ॥
यद्यकीतꣳ सोममपहरेयुरन्यः क्रेयः ॥ १२ ॥
यदि क्रीतं यो नेदिष्ठी स्यात्तत आहृत्याभिषुणुयात् ॥ १३ ॥
सोमाहाराय सोमविक्रयिणे वा किंचिद्दद्यात् ।। १४ ।।
यदि तं न विन्देयुः पूतीकानभिषुणुयात् । यदि न पूतीकानथ फाल्गुनानि । यदि न फाल्गुनान्यथार्जुनान्यथाऽऽदारान् । यदि नाऽऽदारान्या एव काश्चाऽऽर्द्रा ओषधीराहृत्याभिषुणुयात् ।। (ख०२१) ।। १५ ।।
प्रतिधुक्प्रातःसवने पूतीकाꣳश्च । दधिं च माध्यंदिने सवने पूतीकाꣳश्च । शृतं च तृतीयसवने पूतीकाꣳश्च ।। १६ ।।
अपिवा प्रतिधुषा प्रातःसवने सर्वान्सोमाच्छ्रीणाति । शृतेन माध्यंदिने सवने दध्ना तृतीय सवने नीतमिश्रेण ।। १७ ।।
अग्निष्टोमः सोमः स्याद्रथंतरसामा ।। १८ ।।
एकां गां दक्षिणां दद्यात्तेभ्य एव॥१९॥
पुरा द्वादश्याः संवत्सरे वा । तस्मा एव क्रतवे पुनर्दीक्षेत । तत्र तद्दद्यात्पूर्वस्मिन्दास्यन्त्स्यात् त एवैनमृत्विजो याजयेयुः ॥ १५.६.२० ॥
अथ यदि सदोहविर्धानान्यभिदह्येरन्ग्रहानध्वर्युः स्पाशयेत् । स्तोत्राण्युद्गाता । शस्त्राणि होता।॥२१॥
अनभिदग्धे सोमे कृतान्तात्कर्मणि प्रतिपद्येरन् ॥ २२ ॥
क्रियेरन्नावृता वेत्याश्वलायनः । कृतान्तादिति यावत्कर्म कृतं ततः परं तन्त्रमित्यर्थः । प्राग्वंशादिमण्डपदाहे तु न देवयजनान्तरं गम्यते ॥ २२ ॥
दग्धे तत्प्रायश्चित्तं यदपहृते ॥ २३ ॥
पश्चात्र गा दक्षिणा ददाति । पञ्च वरानित्येकेषाम् ॥ २४ ॥
यदि ग्रावा दीर्येत द्युतानस्य मारुतस्य साम्ना स्तुवीरन् । ब्रह्मसाम्नेत्येकेषाम् ॥ २५ ॥
यदि प्रातःसवने कलशो दीर्येत वैष्णवीषु शिपिविष्टवतीषु स्तुवीरन् ॥ २६॥
यदि माध्यंदिने दीर्येत वषट्कारनिधनꣳ साम कुर्युः । यदि तृतीयसवन एतदेव ॥ २७॥
यदि कलशो दीर्येत वषट्कारनिधनं ब्रह्मसाम कुर्युरित्येकेषाम्। सर्वेषामनवयवेन श्रूयते॥(ख०२२)।। ॥ २८ ॥
असवे स्वाहा वसवे स्वाहा विभुवे स्वाहा विवस्वते स्वाहा गणश्रियै स्वाहा मलिम्लुचाय स्वाहा शूषाय स्वाहेति सप्ताऽऽहुतीर्हुत्वेन्द्रस्य ग्रहोऽस्य गृहीतो ग्राह्यो देवानां पूरसि तं त्वा प्रपद्ये सह ग्रहैः सह पशुभिः सहर्त्विग्भिः सह सौम्यैः सह सदस्यैः सह दाक्षिणेयैः सह दक्षिणाभिः सह यज्ञेन सह यज्ञपतिना प्रविशानि सह यन्मे अस्ति तेनेत्यभिमन्त्र्य ॥ २९ ॥
संवेशाय त्वोपवेशाय त्वेत्यनुसवनं दीर्णे जुहोति ॥ १५.६.३०॥
यदि सर्वैः पर्यायैरस्तुतमभिव्युच्छेत षड्भिर्होत्रे स्तुयुः। तिसृभिस्तिसृभिरितरेभ्यः ॥ ३१ ॥
यदि द्वाभ्यां पर्यायाभ्यामस्तुतमभिव्युच्छेद्धोत्रे मैत्रावरुणाय चान्यतरस्य स्तुयुः । ब्राह्मणाच्छꣳसिनेऽच्छावाकाय चान्यतरस्य ॥ ३२ ॥
यद्येकेन पञ्चदशभिर्होत्रे स्तुयुः । तिसृभिस्तिसृभिरितरेभ्यः ॥ ३३॥
अग्ने विवस्वदुषस इत्याश्विनस्य प्रतिपदं कुर्वीरन् ॥ ३४ ॥
यस्याऽऽश्विने शस्यमाने सूर्यो नोदियात्। सर्वा अपि दाशतय्यः शꣳसेत् । सौर्यं पशुं बहुरूपमपाकुर्यात् । यस्याऽऽश्विने शस्यमाने सूर्यो नाऽऽविर्भवतीति विज्ञायते ॥ ३५ ॥
यदि समन्वारब्धानाꣳ सर्पतामुद्गाताऽपच्छिद्येत । यज्ञेन यजमानो व्यृध्येतादक्षिणः स यज्ञक्रतुः सꣳस्थाप्योऽथान्य आहृत्यः ॥ ३६ ॥
तत्र तद्दद्याद्यत्पूर्वस्मिन्दास्यन्स्यात् ॥ ३७॥
त एवैनमृत्विजो याजयेयुः। अथ यदि प्रस्तोताऽपच्छिद्येत यज्ञस्य शिरोऽपच्छिद्येत ब्रह्मणे वरं दत्त्वा ।। ३८ ॥
स एव पुनर्वर्तव्यः ॥ ३९ ॥
अथ यदि प्रतिहर्ताऽपच्छिद्येत पशुभिर्यजमानो व्यृध्येत । पुनर्यज्ञे सर्ववेदसं दद्यात् ।। १५.६.४० ॥
युगपदपच्छिन्नयोरुद्गातुः प्रायश्चित्तां कुर्यात् । प्रतिहर्तुः सर्वप्रायश्चित्तं जुहुयात् ॥ ४१ ॥
पूर्वापरापच्छेदे यो जघन्यः सर्वप्रायश्चित्तं कुर्यात् ॥ ४२ ॥
यद्युद्गाता जघन्योऽपच्छिद्येत पुनर्यज्ञे सर्ववेदसं दद्यात् ॥ ४३ ॥
यद्यार्भवे पवमानेऽपच्छिद्येत सर्वप्रायश्चित्तं जुहुयात् ॥ (ख०२४) ॥ ४४ ॥
इति सत्याषाढहिरण्यकेशिसूत्रे पञ्चदशप्रश्ने षष्ठः पटलः ।

15.7
अथ पश्चदशप्रश्ने सप्तमः पटलः।।
यदि सोम उपदस्येत्सुवर्णꣳ हिरण्यं द्वैधं विभज्यार्धमृजीषेऽन्तर्धायापोऽवनयेदर्धमभ्युन्नीय ग्रहैः प्रचरेत् ॥ १ ॥
ब्रह्मण उद्गात्रे होत्रेऽध्वर्यवे च चतुरो वरान्दद्यात् ॥ २ ॥
यद्याग्रयणः स्कन्देदुप वा दस्येदितरग्रहेभ्यो निगृह्णीयात् । यदीतरे ग्रहाः स्कन्देयुरुप वा दस्येयुराग्रयणान्निगृह्णीयात् । अन्याञ्छुक्राद्ध्रुवाच्च ॥३॥
द्रोणकलशान्निगृह्णातीति सर्वग्रहाणाꣳ स्कन्नानामुपदस्तानां वेति विज्ञायते ॥४॥
यदि ध्रुवः स्कन्देदायुर्दा असि ध्रुव आयुर्मे देहीति वर्चोदा असि ध्रुव वर्चो मे देहीति तनूपा असि ध्रुव तन्वं मे पाहीत्यभिमन्त्र्य वरं ददाति॥५॥
यद्युपदस्येत्सुवर्णꣳ हिरण्यं त्रैधं विभज्य स्वाहा दिव आप्यायस्वेति प्रथममवधायाऽऽप्याययति॥६॥
स्वाहाऽन्तरिक्षादाप्यायस्वेति द्वितीयम् । स्वाहा पृथिव्या आप्यायस्वेति तृतीयम् ॥ ७ ॥
अध्वरो यज्ञोऽयमस्तु देवा ओषधीभ्यः पशुभ्यो नो धनाय विश्वस्मै भूतायाध्वरोऽसि स पिन्वस्व घृतवद्देव यज्ञस्य ध्रुवा द्यौर्ध्रुवा पृथिवी ध्रुवं विश्वमिदं जगत् । ध्रुवा ह पर्वता इमे ध्रुवो राजा विशामयम् ॥ इहैवैधि मा व्यथिष्टाः पर्वत इवाविचाचलिः । इन्द्र इवेह ध्रुवस्तिष्ठेह राष्ट्रमु धारय । अभितिष्ठ पृतन्यतोऽधरे सन्तु शत्रवः । इन्द्र इव वृत्रहा तिष्ठापः क्षेत्राणि संजयन् ॥ इन्द्र एनमदीधरद्ध्रुवं ध्रुवेण हविषा । तस्मै देवा अधिब्रुवन्नयं च ब्रह्मणस्पतिरिति चतसृभिरभिमन्त्र्य वरं ददाति ॥ (ख०२५) ॥ ८॥
यदि नाराशꣳसꣳ स्कन्देद्यमध्वर्युरुत्तरं ग्रहं गृह्णीयात् । तं वषट्कारानुवषट्कृते हुत्वाऽऽप्यायस्व मदिन्तमेति तस्मादेनमाप्याययति तेनैनं भक्षवन्तं करोति ॥ ९॥
देवाञ्जनमगन्यज्ञ इति प्रातःसवने सोम स्कन्नमभिमन्त्रयेत। गन्धर्वाञ्जनमगन्यज्ञ इति माध्यंदिने । पितृञ्जनमगन्यज्ञ इति तृतीयसवने । आप
ओषधीर्वनस्पतीञ्जनमगन्यज्ञ इति नक्तम् । द्यावापृथिवी जनमगन्यज्ञ इति । तिरोअह्नियान्सोमे सोममभिगृह्य निदधाति ॥१५.७.१०॥
पृषदाज्यꣳ स्कन्देद्यद्यथान्यद्दधि पृषदाज्यं गृहीत्वा द्रप्सश्चस्कन्द मनो ज्योतिर्जुषतामिति सꣳहिताभ्यामेकाहुतिं जुहोति ॥ ११ ॥
यद्यृतुग्रहैः प्रचरन्तौ मुह्येयातां विसृष्टधेनाः सरितो घृतश्चुतो वसन्तो ग्रीष्मो मधुमति वर्षाः शरद्धेमन्त उत नो मयोभुव उदप्रुषो नभसी संवसाथाम् । आ नः प्रजां जनयतु प्रजापतिर्धाता ददातु परिवत्सरो नः । संवत्सर ऋतुभिश्चाक्रपाणो मयि पुष्टिं पुष्टिपतिर्दधातु ॥ आ देवानां त्वमग्ने व्रतपा असि यद्वो वयं प्रमिनाम व्रतानि । मधुश्च माधवश्च वासन्तिकावृतू । इमं यज्ञमवन्तु ते मामवन्तु अनु व आरभेऽनु माऽऽरभध्वꣳ स्वाहेत्येतैः सह दशभिर्ऋग्यजुर्भिर्दशाऽऽहुतीर्जुहोति । प्रत्याहुति वरं ददाति ॥ (ख० २६) ॥ १२ ॥
यदि सोमः स्कन्देद्ब्रह्मन्सोमोऽस्कानिति ब्रह्मण आवेद्य यत्र स्कन्देत्तदपो निनीयाभूद्देवः सविता वन्द्योऽनु न इदानीमह्न उपवाच्यो नृभिः। वि यो रत्ना भजति मानवेभ्यः श्रेष्ठं नो अत्र द्रविणं यथा दधदित्यभिमन्त्र्य हिरण्यगर्भः समवर्तताग्र इति जुहुयात् ।। १३॥
यदि चमसमभक्षितꣳ स्तोत्रेणाभ्युपाकुर्यात् ॥ १४ ॥
इन्दुर्हिन्वानमवागदि(र्धगि)न्दोरुभयोः सोमाः साम[म]सृक्षत दिव्याश्च पार्थिवाश्च तस्य त इन्द्रपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामीत्यभिवृष्टस्य सोमस्य भक्षयति ॥ १५॥
यदि दीक्षतोऽवकिरेदप्स्वग्न इत्येषा । तपोष्वग्ने अन्तराꣳ अमित्राँस्तपाशꣳ समररुषः परस्य । तपा वसो चिकितानो अचितान्वि ते तिष्ठन्तावजरा अयासः ॥ यो नः सनुत्यो अभिदासदग्ने यो अन्तरो मित्रमहोऽवनुष्यात् । तमजरेभिर्वृषभिस्तप स्वैस्तपा तपस्व तपसा तपिष्ठ ॥ सं स्मा कृणोतु केतुमा नक्तं चिद्दूर आसते । पावको यद्वनस्पतीन्प्रास्मा मिनोत्यजरः। न हि ते अग्ने तनुवै क्रूरं चकारमर्त्यः । कपिर्बभस्ति तेजनं स्वं जरायुगौरिव । मेष इव यदुप च वि च शर्वरी यदप्सुरग्रोरुपरस्य खादति । शीर्ष्णा गिरो वक्षसा वक्षणां जयन्नꣳशून्बभस्ति हरितेभिरासभिरित्येतैः सह दशभिर्ऋग्यजुभिर्दशाऽऽहुतीर्जुहोति । प्रत्याहुति वरान्ददाति ॥ (ख०२७) ॥ १६ ॥
! यद्देवा देवहेडनमिति वा (दशाऽऽहुतीर्हुत्वा प्रवमानः सुवर्जन इत्येतेनानुवाकेनाभिषिञ्चेत् ) ॥ १७ ॥
यदि हुताहुतौ सोमौ सꣳसृजेयातामन्तःपरिध्याहवनीयादङ्गारं निर्वर्त्य यज्ञस्य हि स्थ ऋत्वियाविन्द्राग्नी चेतनस्य च हुताहुतस्य तृप्यतमहुतस्य हुतस्य च हुतस्य चाहुतस्य चाहुतस्य हुतस्य चेन्द्राग्नी अस्य सोमस्य वीतं पिबतं जुषेथाꣳ स्वाहेति हुताहुतौ सोमौ जुहुयात् ॥ १८ ॥
मा नोऽध्वरिषुः पितरो मोत वीरान्मा नः स बन्धुरुत वाऽन्यबन्धुः । मा नो दुश्चक्षा अघशꣳस ईशताहुतोऽयं यज्ञमप्येतु देवा इति हुताहुतौ सोमौ भक्षयति ॥ १९ ॥
मा यजमानं तमोऽविदन्मर्त्विजो मा इमाः प्रजाःI मा यः सोममिमं पिबात्सꣳ सृष्टमुभयं कृतमिति भक्षयन्तमभिमन्त्रयते ।। १५.७.२० ॥
सप्तर्त्विजः सप्त सदाꣳस्येषां दश क्षिपो अश्विना पञ्च वाजाः। प्राणो व्यानोऽपानो मन आकूतमग्निः स्वाहा कृतꣳ हविरदन्तु देवाः ॥ प्रजापते न त्वदेतानिति भक्षं व्यापन्नप्तूत्तरार्धपूर्वार्ध उपरवेऽवनयेत् ॥ २१ ॥
दक्षिणार्धपूर्वार्धे वा ॥ २२ ॥
स्कन्ना द्यौः स्कन्ना पृथिवी स्कन्नं विश्वमिदं जगत् । स्कन्नाऽदो विश्वा भूतानि प्रस्कन्नाज्जायताꣳ हविः ॥ इह गावः प्रजायध्वमिहाश्वा इह पूरुषाः॥ इहो सहस्रदक्षिणो रायस्पोषो निषीदतु ॥ अयं यज्ञो वर्धतां गोभिरश्वैरियं वेदिः स्वपत्या सुवीराः । इदं बर्हिरति बर्हीꣳष्यन्येमं यज्ञं विश्वे अवन्तु देवाः ।। पयस्वतीरोषधय इत्येताभिः पृषदाज्यꣳ स्कन्नमभिमन्त्र्यापोऽभ्यवहृत्य पात्रं निर्णिज्य पुनर्निष्टप्य निदधाति । तस्मिन् हिरण्यꣳ शतमानमवधायैकमिषे विष्णुस्त्वाऽन्वेत्विति वैष्णव्यर्चाऽथान्यद्दधि पृषदाज्यं गृहीत्वा द्रप्सश्चस्कन्देत्यभिमृश्याश्वेनावघ्राप्य सादयति ॥ २३ ॥
यदपामृक्षच्छकुनिर्मुखेन निर्ऋते तव । अग्निष्टत्सर्वꣳ शुन्धतु हव्यवाड्घृतसूदन इति शंकुन्यवमृष्टं तस्यैतदेव प्रायश्चित्तं निर्लिख्यतेऽत्र पात्रम् ॥ २४॥
यदवालिक्षच्छ्वपान्मुखेन निर्ऋते तव । अनिष्टत्सर्वं शुन्धतु हव्यवाड्घृतसूदन इति श्वापदावलीढमभिमन्त्रयते । तस्यैतदेव प्रायश्चित्तम् । (अभ्यवहरणादि पूर्ववत् । ) नात्र पात्रं प्रयुज्यते ॥ (ख० २८) ॥ २५ ॥
इति सत्याषाढहिरण्यकशिसूत्रे पञ्चदशप्रश्ने सप्तमः पटलः ॥

15.8
यदस्य पारे रजस इति जुहुयात् । यदि पशुरुपाकृतो वेपेत निषीदेद्वाश्येतोच्छ्रयेत्पलायेताकामसंज्ञपने च । यस्माद्भीषाऽवेपिष्ठास्ततो नो अभयं कृधि । प्रजाभ्यः सर्वाभ्यो मृड नमो रुद्राय मीढुष इति द्वितीयां वेपमाने ॥१॥
 यस्माद्भीषा न्यषद इति द्वितीयां निषण्णे ॥ २॥
उदुस्र तिष्ठ प्रतितिष्ठ मा रिषो मेमं यज्ञं यजमानं च रीरिषः । सुवर्गे लोके यजमानꣳ हि धेहि शं न एधि द्विपदे शं चतुष्पद इत्युस्रमुत्थापयेत्॥३॥
उच्छागेति च्छागम् | उन्मेषेति मेषम् । ऊर्ध्व ऊषुण ऊतय इति द्वितीयाम् । ऊर्ध्वो नः पाह्यꣳहसो निकेतुना विश्वꣳ समत्रिणं दह । कृधीत ऊर्ध्वां च रथाय जीवसे विदा देवेषु नो दुव इति तृतीयाम् ॥ ४॥
यस्माद्भीषाऽवाशिष्ठा इति द्वितीयां वाश्यमाने यस्माद्भीपा समुत्क्रꣳस्था इति द्वितीयामुच्छ्रयति ॥५॥
यस्माद्भीषाऽपलायिष्ठा इति द्वितीयां पलायितेऽनागच्छत्यन्यं तद्रूपं तद्वर्णं तद्वयसं तज्जातीयं तद्दैवतमुपाकृत्य तेन सꣳस्थापयेत् ॥ ६॥
तज्जातीयेऽविद्यमाने अजा अवयो गाव इत्यन्योन्यस्य प्रतिनिधयो भवन्ति ।। ७ ॥
तेष्वविद्यमानेष्वाज्येन शेषꣳ सꣳस्थापयेत् ॥८॥
यस्माद्भीषा समज्ञास्था इति द्वितीयामकामसंज्ञपने ॥९॥
य इदमकस्तस्मै स्वाहेति सर्वोत्तमां जुहोति ॥ १५.८.१० ॥
न वा उ वेतन्म्रियसे । आशानां त्वा विश्वा आशाः । आपो हि ष्ठा मयोभुव इति चतसृभिः पशुं व्यापन्नमभिमन्त्र्यापोऽभ्यवहृत्यान्यं तद्रूपं तद्वर्णं तद्वयसं तज्जातीयं तद्दैवतमुपाकृत्य तेन सꣳस्थापयेत् । तज्जातीयेऽविद्यमाने ॥(ख०२९)॥ पलायिते व्याख्यातम् ॥ ११ ॥
उखाꣳ स्रवन्तीमगदामकर्माग्निर्होता पृथिव्यन्तरिक्षं द्यौर्यदतश्च्युतदग्नावेव तन्न तत्प्राप्नोति निर्ऋतिं पराचैरिति पशूखाꣳ स्रवन्तीमभिमन्त्रयेत ॥१२॥
यावन्ति पशोरवदानानि न विन्देयुस्तावत्कृत्व आज्यस्यावद्येत ।। १३ ॥
ये पशुं विमथ्नीरन्यस्तान्कामयेताऽऽर्तिमार्छेयुरिति कुविदङ्गेति नमोवृक्तिवत्यर्चाग्नीध्रे जुहुयात् आहवनीये( शामित्रे वा ) निरूढपशुबन्धे ॥१४॥
यद्यष्टापदीत्यनुबुध्येरन्धाता रातिः सूर्यो देव इति द्वाभ्यां गार्हपत्ये जुहोति ॥ १५ ॥
यस्यास्ते हरितो गर्भ इत्यभिमन्त्र्याऽऽवर्तनवर्तयेति प्रदक्षिणं गर्भमावर्तयति ॥ १६ ॥
वि ते भिनद्मि तकरीमित्यन्तरा श्रोणी गर्भं निष्खिदति ॥ १७ ॥
बहिस्ते अस्तु बालित्याशयाद्गर्भं निरस्योरुद्रप्सो विश्वरूप इन्दुरिति रसाय पात्रमुपयच्छति । शूलेन पशुश्रपणे निहत्य गर्भꣳ श्रपयति ॥१८॥
पशुपुरोडाशं निरुप्य न( भ )क्ती द्यावापृथिवीयं गर्भपुरोडाशं निर्वपति ॥ १९ ॥
पशोरवदानान्यवदाय गर्भस्य पुरस्तान्नाभ्या अन्यदवद्येदुपरिष्टादन्यदवदाय दैवतेष्ववदधाति ॥ १५.८.२० ॥
रसं त्रैधं करोति । दैवतेषु सौविष्टकृतेष्वैडेषु च ॥ २१ ॥
एकपदी द्विपदीति वषट्कृते जुहोति ।। २२ ॥
वषट्कृते विष्णो प्रतत्ते अद्य शिपिविष्ट नामेत्यन्यतरया गर्भस्य दक्षिणपूर्वꣳसविंश जुहोति ॥ २३॥
दक्षिणाकालेऽष्टाप्रूड्ढिरण्यं दक्षिणा। तृतीयेऽन्तरकोश उष्णीषेणाऽऽविष्टितं भवति । तद्ददाति । विबलान्कोशान्करोति ॥२४॥
मरुतो यस्य हि क्षये यज्ञैर्वा यज्ञवाहस इत्यन्यतरया पशुश्रपणे गर्भं जुहोति ॥ २५ ॥
गर्भपुरोडाशं च न स्वाहाकरोति ॥ २६ ॥
अपि वा मही द्यौः पृथिवी च न इति पशुश्रपणस्य शीते भस्मनि गर्भमुपोहति ॥२७ ॥
गर्भपुरोडाशं ॥ २८ ॥
एतं युवानं परि वो ददामीति ॥ (ख०३०)। पञ्चभिरभिमन्त्र्य ॥ २९ ।।
यस्यानप्रवृत्तो(क्तो) यूपो विरोहेत्तस्मिꣳस्त्वाष्ट्रꣳ साण्डं लोमशं पिङ्गलं बहुरूपं ( सवनीयस्योपलम्भं) कुर्यात्त्रयस्त्रिꣳशत्तन्तवो ये वितत्निर इति जुहुयात् ॥ १५.८.३० ॥
यदि कृष्णशकुनिर्ध्वꣳसयन्नुपर्युपरिसदो हविर्धानान्यतिपतेद्भय उत्पन्ने शक्ये यष्टुꣳ सर्वेभ्यो हविर्भ्यः सोमेभ्यश्च द्रोणकलशे समवदाय ये देवा येषामिदं भागधेयं बभूव येषां प्रयाजा उतानूयाजाः । इन्द्रज्येष्ठेभ्यो वरुणराजभ्योऽग्निहोतृभ्यो देवेभ्यः स्वाहेत्याहुतिं जुहोति ॥३१॥
अभये पुनर्यजेत ॥ ३२ ॥
यद्यृक्तो यज्ञभ्रेष ऋच्छेद्भूरिति गार्हपत्ये जुहुयात् । यदि यजुष्टो भुव इति दक्षिणाग्नौ । यदि सामतः सुवरित्याहवनीये । यदि सर्वतः सर्वाभिरेकामाहवनीये ब्रह्मा वा जुहुयात् ।। ३३ ॥
मनसा वा ध्यायेत् ॥ ३४ ॥
औदुम्बरी नश्येद्भज्येत वाऽन्यां प्रच्छिद्योर्गस्यूर्जं मयि धेहि श्रियो तिष्ठ प्रतिष्ठिता दिवꣳ स्तब्धान्तरिक्षं च पृथिव्यां च दृढा भव धमित्री धरित्री जनित्रीत्युच्छ्रयति ॥ ३५॥
अध्वर्युर्यजमानो ब्रह्मा वोच्छ्रयति ॥ ३६॥
संमितां नित्येन यजुषाऽभिमन्त्रयते ॥ ३७॥
यदि हविर्धाने पद्येयातां दक्षिणामध्वर्युरुद्गृह्णीयात्प्रतिप्रस्थातोपस्तभ्नुयात् । उत्तरं प्रतिप्रस्थातोद्गृह्णीयादध्वर्युरुपस्तभ्नुयात् ॥ ३८॥
वैष्णव्योपस्तभ्नुतः । वैष्णव्योपमिनुते । आश्विन्या संमृशतः ॥ ३९ ॥
अग्ने वाजस्य गोमत इति तिसृभिरुष्णिग्भिरध्वर्युराग्नीध्रे जुहोति । ककुद्भिः प्रतिप्रस्थाता.।।(३१) भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः । भद्रा उत प्रशस्तयः । भद्रा उत प्रशस्तयो भद्रं मनः कृणुष्व वृत्रतूर्ये । येना समत्सु सासहः । येनासमत्सु सासहोऽवस्थिरा तनु हि भूरि शर्धताम् । वने मा ते अभिष्टिभिरित्येता
आम्नाता भवन्ति ॥ १५.८.४०॥
शिरो यज्ञस्य प्रतिधीयताममृतं देवतामयं वैष्णव्या क्रियताꣳ शिर आश्विन्या प्रतिधीयतामिति चतुर्गृहीतं पञ्चगृहीतं वा गृहीत्वा समानौ होमौ जुहुतः ॥ ४१॥
यद्याग्निक्युखाऽऽमा भिद्येत संकृष्य पुनः कुर्यात् ॥ ४२ ।।
यदि पक्वा भिद्येत तैरेव कपालैः सुपिष्टैरन्यां मृदꣳ सꣳसृज्य कुर्यात् ॥ ४३ ॥
यस्याग्निरुख्य उद्वायेदाहवनीयं प्रणीय स एव पुनः परीध्यः ॥ ४४ ॥
कृष्णं वासो देयम् । कृष्णा धेनुः कृष्णो वा गौः शतमानं च हिरण्यम् ॥ ४५ ॥
यत्पूर्वस्मिन्नहन्युत्तरस्मा अह्ने यज्ञायज्ञियं प्रति वसतीवरीर्गृह्णाति । तेनाहरभ्यासजति । तेन यज्ञꣳ संतनोति ॥ ४६॥
यत्पूर्वस्मिन्नहन्युत्तरस्मा अह्ने स्तोत्र्यमनुरूपं कृत्वा शꣳसति । तेनाहरभ्यासजति । तेन यज्ञꣳ संतनोति । यदतिप्रेष्यति तेनाहरभ्यासजति तेन यज्ञꣳ संतनोतीति ॥ ४७ ॥
एतेषामेकस्मिन्नक्रियमाणे नमो ब्रह्मणे नमो अस्त्वग्नये नमः पृथिव्यै नम ओषधीभ्यः । नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते करोमि स्वाहेत्येतत्प्रायश्चित्तं जुहुयादेतत्प्रायश्चित्तं जुहुयात् ॥ (ख०३२) ॥ ४८ ॥
इति सत्याषाढहिरण्यकेशिसूत्रे पञ्चदशप्रश्नेऽष्टमः पटलः ।
इति सत्याषाढहिरण्यकेशिसूत्रे पञ्चदशः प्रश्नः ॥

आनन्दाश्रमसंस्कृतग्रन्थावलिः ।

ग्रन्थाङ्क: ५३

सत्याषाढविरचितं श्रौतसूत्रम् ।

महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् ।

पञ्चदशषोडशप्रश्नात्मकः षष्ठो भागः ।

एतत्पुस्तकं वे० शा० सं० रा० शंकरशास्त्रीमारूलकर

इत्येतैः संशोधितम् ।

तच्च

ची. ए. इत्युपपदधारिभिः विनायक गणेश आपटे


इत्येतैः

पुण्याख्यपत्तने

आनन्दाश्रममुद्रणालये

आयसाक्षरैर्मुद्रयित्वा

प्रकाशितम् ।

शालिवाहनशकाब्दाः १८४९

ख्रिस्ताब्दाः १९२७

( अस्प सर्वेऽधिकारा राजशासनानुसारेण स्वायत्ती कृताः )। मुूल्यं सार्धो रूपकः (१=८) पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/५

ॐ तत्सद्ब्रह्मणे नमः । ..... सत्यापाढविरचितं श्रौतसूत्रम् ।

महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् ।।

अथ पञ्चदशप्रश्नः।

तत्र प्रथमः पटलः ।

विनययुक्ताखिलसिद्धवर्यलसच्चिदानन्दसुखं मुनीन्द्रम् । नमामि सूत्रार्थविदे मुदाऽहं हिरण्यकेश्याख्यगुरुं कृपाब्धिम् ॥ १ ॥ गुरुं गणपति नौमि, जन्मज्ञानप्रदी तथा । सह गौर्या सोमनाथं नौमि विष्णुं च पाया ॥ २ ॥ अश्वमेधं ब्रह्ममेधं सर्वमेध चतुर्दशे । प्रश्ने पञ्चदशे यज्ञप्रायश्चित्तमथोच्यते ॥ ३ ॥ उक्तानि द्वादशाहादाञ्चि नित्यानि कर्माणि यानीह हविर्यज्ञसोमयज्ञराजसूयाश्वमेधान्तान्व्याचरव्युराचार्याः । तेषामिदानी प्रायश्तिप्रवचनमारभ्यते

श्रुतिलक्षणं प्रायश्चित्तं विध्यपराधे विधीयते ॥ १॥

श्रुती लक्षणमात्रमेव प्रायश्चित्तं तस्योपदिश्यते । श्रुतिलक्षणप्रायश्चित्तमिति श्रूयते । श्रतिदः । यस्यैव विधित्वाद्येन लक्ष्यते ज्ञायते तल्लक्षणं श्रुती लक्षणं यस्य तदिदं श्रुतिलक्षणमिति । श्रुताविति सप्तमीनिर्देशः । श्रुती किंचिदुक्तं न कृत्स्नोक्तिरिति । इतरथा श्रुतिलक्षणमित्येव स्यात् । किंपुनस्तत् प्रायश्चित्तम् । प्रायो विनाशः । कथं प्राय उ(यो)पदि(वि)टो विनाशं कर्तुमात्मनः उपदि(वि) इति लोके दर्शनात् । चिती संज्ञान इत्यस्माद्धानोश्चित्तमनेकार्थत्वाद्धातोः संधानं चित्तमित्युच्यते प्रायश्चित्तं विनष्टस्य कर्मणः संधानं प्रायश्चित्तमित्युच्यते । चित्तिचित्तयोः सुडागमो लक्षणकृत इति प्राय

२६२ सत्यापादविरचितं श्रौतसूत्रम्- [१५ प्रश्ने

शब्दस्य विनाशपर्यायस्याकारान्तत्वाञ्चित्तिचित्तयोः सुडागमेन प्रायश्चित्तमिति रूपसिद्धिः । लक्षणाञ्च सुडागमो गणसूत्रवृत्तिकारेण प्रायस्य चित्तिचित्तयोः सुडस्कारो वेति पठितत्वात् । श्रुतौ लक्षणं प्रायश्चित्तस्योपदिष्टमिति पिण्डितार्थः । तत्र चोदयति सर्वकर्मसु श्रुतिलक्षणेषु प्रायश्चित्तम्, स्मृतिलक्षणमिति न वक्तव्यम् । तत्र परिहारः-अन्यानि कर्माणि श्रुतिलक्षणानि भवन्ति प्रायश्चित्तमेव श्रुतिलक्षणमित्येवमुच्यते । कस्तह्मर्थः । श्रुतौ लक्षणमात्रं प्रायश्चित्तस्योपदिश्यते । चिह्नमात्रं यथा. पुरोडाशः क्षायतीति । क्षायो दाहः । तल्लक्षणं प्रायश्चित्तस्य क्षायतीत्यत्र द्वयोर्बहूनां क्षाये प्रायश्चित्तम् । नैकस्यैव हविषः क्षाये । यद्यष्टो(टा)पदि(दी)त्यवबुध्येतेत्यत्र द्वादशपद्यां षोडशपद्यां वा प्रायश्चित्तसामान्यमात्रे नैमित्तिकं भवति । विध्यपराधे विधीयत इति कर्मविधिः । अपराधोऽन्यथा क्रिया, विधेरपराधो विध्यपराधः । तस्मिन्विध्यपराधेऽन्यथा भावे प्रायश्चित्तं विधीयते । यथायस्यानो वा रथो वाऽन्तराऽग्नी यातीत्यविधानेनान्तरागमनेन प्रायश्चित्तम् । यत्र तु विधिर्न तत्र प्रायश्चित्तं विहितत्वात् । यागार्थंगमने च न प्रायश्चित्तम् । अथवा श्नतिलक्षणं प्रायश्चित्तं विध्यपराधे विधीयत इत्येतदेके सूत्रम् । अर्थविशेषश्चान्य इति पूर्वसूत्रभेदमाश्रित्य पूर्वसूत्रेण श्रुतौ लक्षणमात्रमुक्तं न याक्दपेक्षितमुक्तम् । द्वितीयसूत्रेण विहितस्य पुरुषवृ(कृ)त्यापराधे प्रायश्चित्तं न विधानान्तरेण विहितस्यान्यथाभावे भवतीति । इदानीमेकसूत्रत्वमाश्रित्योच्यते । विधीयते ब्राह्मणेनेति कर्म विधिस्तस्यापरार्थेऽन्यथाक्रियायां श्रुतिलक्षणं विधीयते न स्मृतिलक्षणं विधानसा. सामर्थ्यात् । यत्र ह्यभयस्य प्रातः कर्ममध्येऽपि स्मृतित्वलक्षणं प्रमाणम् । आचमनवकर्माङ्गत्वेन वेदमूलस्मृतिदर्शनात्तत्रैवम् । ब्रह्मौदनार्थ औपासनं सर्वे निर्मन्थ्यं वेति त्रयः पक्षाः । औपासनैकदेशं वा स्थापनीयं सर्वमौपासनं वा स्थापनीयम् । अथवा तो विना निर्मन्थ्य वा स्थापनीयम् । तत्रानुगमने विषयमाह- औपासनैकदेशपक्षे पाकात्पूर्वमनुगतश्चेत् पुनरौपासनैकदेशमाहृत्याऽऽदधातीति । सर्वप्रायश्चित्तमनाम्नातत्वात । पाकादू. मनुगतश्चेत्पुनरेकदेशमाहृत्य पुनः पाकं कृत्वा न वरदानं न प्रायश्चित्तम् । सर्वमौपासनपक्षे. पाकात्पूर्वमनुगतश्चेदोपासनानुगमनप्रायश्चित्तं स्मृतिविहितम् । अयाश्चेति संधान कृत्वा सर्वमाहृत्य स्थापनीयम् । पाकादूर्ध्वमनुगतश्चेत्पूर्ववत्संधानविधिना संधाय स्थापनीयम् । निर्मन्थ्याग्निपक्षे पाकात्पूर्वमनुगतश्चेत् पुनर्निर्मन्थ्य स्थापनीयम् । पाकादूर्ध्वमनुगतश्चेत् पुनर्निर्मन्थ्यं स्थापयित्वा पाकः कर्तव्यः सर्वप्रायश्चित्तम् । द्वितीयाधानादिप्वीपासनैकदेशपक्षे तद्देशमाहृत्येत्यादिसर्वमौपासनपक्षे तन्तुमाते पथिकृतं च कृत्वा स्थापनीयम् । निर्मन्थ्यपक्षे लौकिकारणीद्वयमाहृत्य माथित्वा तमाहत्य स्थापनीयम् । यस्य तु सर्व आहितस्तस्य श्रोत्रियागारादाहृतमपि द्वितीयाधानादिषु स्थापनीयम् । बहुपत्नीकश्चेत् स्मार्तविधिनौपासनाग्निं संसृज्य तस्यैकदेशं सर्वं चा निधायाऽऽधानं कर्तव्यम् ।

१ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । २६३

सर्वाधानपक्षे स्मार्तकर्मणां लोप एव श्रौतेन चरितार्थत्वात् । अग्नीकरणादि केचिल्लौकिकानले कुर्वन्ति । दक्षिणाग्नौ पैतृकं कर्म क्रियत इति निर्देशात् , अग्नीकरणादि तत्रैव विध्यपराध इति वचनात्पुरुषापराधे तु श्रौतस्मार्तप्रायश्चित्तं भवति ॥ १ ॥ .. यथा पर्याहितानामेककार्याणां यूपादीनां विकल्पो द्रष्टव्यः । खदिरपलाशादीनामिहाप्येकनिमित्तानां विकल्पः स्यादत इदमुच्यते- .. .... ...:

एकस्मिन्दोषे श्रूयमाणानि समभ्युच्चीयेरन्प्रायश्चित्तान्यर्थान्तरसंयोगात् ॥ २॥

एकस्मिन्दोष एकस्मिन्निमित्ते यानि विधीयन्ते प्रायश्चित्तानि समुच्चीयन्ते । तानि यथा-अग्निहोत्रस्कन्दने-अस्कान्द्यौः पृथिवीमित्यभिमन्त्रणम् । उपसर्गे- उन्नं भय पृथिवीमिति । अनशनमाहूतः सायं नाश्नीयादिति समुच्चय एतेषां भवतीति । किं कारणम् । अर्थान्तरसंयोगात् । अर्यादन्यदर्थान्तरम् । अर्थान्तरस्य भावोऽर्थान्तरत्वम् । तस्मादान्तरयोगात् । अर्थान्तरप्रयोजनं प्रयोजनादन्यत्वादित्यर्थः । अन्यत् प्रयोजनमभिमन्त्रणेनान्यदुपसर्गेणान्यच्चानशनेनातः समुच्चय इति । यद्यपि दोषनिर्घातप्रयोजनमेकं तदाऽप्येकस्मिान्नमित्तेऽनेकप्रायश्चित्तोपदेशाद्विकल्पस्य चान्याय्यत्वाहोपनि_तार्थश्च | तेन चावान्तरप्रकारभेदेन साधनतया समुच्चयोपपत्तेः पाक्षिकत्वमन्याय्यमिति समुच्चयः । यथा लोके- अक्षामयेऽतिदोषोऽन्योऽञ्जनेन हन्यतेऽन्यो न वाऽन्येनान्यो निपातशयनेनेति रोगपरिहारप्रयोजनक्येऽपि अवान्तरका दो यथा तद्वदोषनिर्घातादर्थत्वेऽपि समुच्चयः । उपदेशो यथार्थवादो नार्थान्तरभावो न भवति एकार्यतैव तत्र विकल्पो भवति, न समुचय इति । साक्षाहीहियवादिवदेककार्यतया श्रवणाभावेऽपि अर्थवादादेव प्रयोजनदा यत् प्रागवगम्यते तत्रापि विकल्पो युक्तः । यथा पथिकृद्यागः स्वर्गफलपतिपत्त्यर्थो वैश्वानरोऽपि तथैव । ततस्तयोर्विकल्म इति समुच्चयो न न्यायः । अदृष्टदोषोभयोरुपदेशादुभाभ्यामेव हन्यत इति । अवान्तर कार्यभेदा इति प्रागेवोक्तम् । यस्तु शाखान्तरस्थो विधिरेकेषामित्युच्यते । तत्रापि विकल्प एवाधिकविधेरनित्यत्वादिति । एकशाखीयप्रयोगोपदेशे शाखान्तरीयांशोपसंहार एकेषामिति न वक्तव्यम् । ततो यत्रैकेषामिति निर्देशस्तु तत्र विधीयमानप्रयोगादधिकधर्मोपदेश इत्यवगमादनित्यत्वादतः समुच्चयत्वम् । दर्शपूर्णमासातिपत्तो पाथिकृती वैश्वानरी च विहिते तयोंः समुच्चयः यत्र सामान्यविशेषभावस्तत्र सामान्यस्य विशेषेण बाधः । यथा-आहवनीयानुगमने सामान्येन ज्योतिष्मतीष्टिविहिता । अन्वाधाने कृत आहवनीयानुगमन आहुत्यन्तरं विहितं तत्र वाधः । यथा देवाञ्जनमगन्यज्ञ इत्येकेषामिति तत्राप्यदृष्टकार्यत्वात्समुच्चयसंभवेऽपि विकल्प एवं मतान्तरत्वेनोपन्यासात् ॥ २ ॥

१६९ ... सत्यापाढविरचितं श्रौतसूत्रम्- | १५ प्रश्ने

-तत्र त्रिविधं प्रायश्चित्तमाह

जपो होमो इज्या च । ३ ॥

चेतिप्रकारवचनः । अन्यान्यप्यनुमन्त्रणोपस्थानोपसमिन्धनपुनराधानादीनि संगृह्णाति । तेषामपि प्रायश्चित्तत्त्वेन वक्ष्यमाणत्वात् । नितयोदाहरणं तु तेषां प्राधान्यख्यापनार्थ बाहुल्याभिप्रायं चेति द्रष्टव्यम् ॥ ३॥ सन्त्वेतानि प्रायश्चित्तानि समुच्चीयन्तां चार्थान्य(न्तर)त्वात् । कस्मै पुनरर्थाय तानि क्रियन्ते । अत आह

दोषनिर्घातार्थानि भवन्ति ॥ ४ ॥

कर्मणो वैगुण्यमित्युक्तम् । तन्निर्घातेन कर्मण उपकुर्वन्ति, कार्यशक्तिमविकलां कुर्वन्तीत्यर्थः । कथं पुनरेतेषां तादर्थ्यमिति चेत् , एतस्मिन्वैगुण्य एतत्कर्तन्यमित्युक्ते तत्समाधानस्यापेक्षितत्वाद्वैगुण्यपरिहारार्थमेव तदवसीयत इति भावः ॥ ४ ॥ .. अस्त्वेषां दोपनिर्घातः फलं कालोऽप्येषां व्याकरणीयः । किं कर्मकाल एव कर्त व्यानि, उतापवृत्ते कर्मणि आहोस्विदिष्टयादेः पर्वाद्यपेक्षत्वात्स स कालः प्रतीक्षणीय -इति । तत्राऽऽह

अनन्तरं दोषात्कर्तव्याणि ॥ ५॥

क्षतादिचिकित्सावदनन्तरं दोषादेतान्यनुष्ठितान्येव दोष निर्हण्युनर्नान्यथेति भावः । "एतेन प्रायश्चित्ताधानस्याप्यतुनक्षत्राद्यनपेक्षत्वं व्याख्यातम् ॥ ५ ॥

निर्हृते पुनर्दोषे कृत्स्नं कर्म ॥ ६॥

एवं प्रायाश्चित्तेन निहते दोषे ततः कर्मशेषः कार्य इत्यर्थः । यदप्यकृतमयथाकृतं वा सत्कृते प्रायश्चित्तेऽङ्गं प्रधानं वा तदपि यथा क्रियेतेत्युक्तं कृत्स्नमिति तत्राङ्गमपवृत्ते कर्मणि न क्रियते, प्रधानानुपकारात् । द्रव्यसंस्कारस्तु परतो द्रव्योपयोगान्न क्रियते तदर्थत्वात् । प्रधानमप्यपवृत्तकालं न क्रियतेऽकाले कृतस्याकृतत्वात् । गौणकाले तु क्रियत एव मुख्याभावे गौणस्यापि ग्राह्यत्वात् । तेनार्वाक्परपर्वणः । कियैव दर्शपूर्णमाप्तयोः । तच्च परस्ताद्दर्शयिष्यामः । केचित्तु व्याचक्षते निहते दोषे :पुनः कर्म कृत्स्नं भवति सकलं भवति फलदानसमर्थ भवतीति ॥ ६ ॥ ... ननु निर्ह तदोषमपि कर्म दोषागमविकलशक्तिकं सत्कथं कार्याय कल्पयिष्यते । - महि शल्यप्रवेधात्पादेन खञ्जः सन्नुत्खातशल्योऽपि पन्थानं प्रतिपद्यते । तेन प्रयुक्तस्य कर्मणोऽपार्थकत्वात्पुनः प्रयोगेण भवितव्यम् । अत आह

। पलः। महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । २६५

तस्य नावचनात्पुनः प्रयोगः ॥७॥

तस्य सक्लत्प्रयुक्तस्य कर्मणो नर्ते वचनात्पुनः प्रयोगो भवति । भवत्येव तु वचनायथा- अन्यां दुग्ध्वा पुन:तव्यम् । अथान्यामिष्टिमनुल्वणां तन्वीतेत्यादौ । को • अदृष्टार्थस्य कर्मणः कार्याकार्यते शक्यशक्ती वा जानीयात् । न खल्वन्धो रूपविशे पान्पश्यति । तस्माद्यस्य शास्त्रमेव पुनः प्रयोग शास्ति कामं तंत्र प्रयोक्ष्यते प्रत्येप्यते पवस्य पोरिय कार्या(य)शक्तिः । यत्र तु न शास्त्रमस्ति, कुतस्तत्र पुनः प्रयोगः । - प्रत्येष्यते तु तत्र प्रत्युत्तस्यैव कर्मणश्चिकित्सितपटलस्येव चक्षुषः कार्यशक्तिरित्यलं प्रसङ्गेन ॥ ७ ॥

तुभ्यं ता अङ्गिरस्तमेत्यन्वाहिताग्निः प्रयास्यञ्जुहुयात् ॥ ८॥

यद्यन्याहितानिर्देशविप्लवाद्यावश्यकनिमित्तक्शात्सगृहः प्रयास्यास्यात् तदा तुभ्य'मिस्यमयाऽऽहवनीये जुहुयात् । वास्तोष्पतीयप्रत्याम्नायः ॥ ८ ॥

पृथगरणीष्वग्नीन्समारोह्य प्रयाति ॥ ९॥

अणिवधनानाऽऽत्मनि समारोप्याः ॥ ९॥

यत्र वसेत्तदैतामिष्टिं सꣳस्थापयेत् ॥ १५.१.१० ॥

यत्र वत्स्यति तत्रायसितहोमान्तं कृत्वा कृतान्तात्मकम्येष्टि संस्थाप्या ॥ १०॥

यद्यन्वाहिताग्नेराहवनीयोऽनुगच्छेदन्वग्निरुषसामग्रमख्यदित्यन्यं प्रणीय यो अग्ंि् देववीतये हविष्याꣳ आ विवासति । तस्मै पावक मृडय स्वाहेति स्रुवाहुतिं जुहोति ॥ ११॥

पूर्ण सवं सर्वप्रायश्चित्त हुत्वा, इदं विष्णुर्विचक्रम इत्याहुति नहुयात् (आप. .. श्री० ९-१-११) इत्यापस्तम्बः । जुनिवृत्यर्थ स्रुवग्रहणम् । वैष्णवीं तु जुह्वा जुहुयाद्यधन्याश्ता भवति ॥११॥

यः कश्चनानुगच्छेदेतदेव प्रायश्चित्तम् ॥ १२ ॥

तं तमनुगत योनित उत्पाद्य भूरित्युपस्थानादि समानम् । हीमावपि तत्र तत्रैवेति भाष्यकृत् । आहवनीय एवेति देखानसः ॥ १२ ॥

मथित्वा गार्हपत्यम् ॥ १३ ॥

गार्हपत्यमनुमतं मन्यनेनोत्पाद्य यथोक्त मेव प्रायश्चित्तमावर्तयेत् । तथाऽऽहवनीय. स्थापि गार्हपत्यतामापनस्य मन्थनमेव न प्रणयनं यथोर्ध्वमौत्तरवेदिकप्रणयनात्पशु. सोमयोः ॥ १३ ॥

२६६ : .. सत्यापाढविरचितं श्रौतसूत्रम् [१५ प्रश्नै

प्रणयनवर्जमावर्तेत ॥ १४॥

यथा दक्षिणाग्न्यनुगतिप्रायश्चित्तं प्रकृत्याऽऽह भरद्वाजः- अन्वाहार्यपचने जुहुया द्वित्याश्मरथ्यः । आहवनीय इत्यालेखन इति । केचित्त्वाहवनीयानुगतावप्यजस्त्रविषये प्रणयनवर्जमालयन्ति तस्य गार्हपत्यानेनुमवेशान्मन्धनमेव सर्वत्रेति । तदयुक्तम् | - अविशेषात् । उद्धार्यस्यापि गार्हपत्यानुप्रवेशे - प्रमाणाम्भवस्य दर्शितत्वाच्च । अस्तु 1 :वा तनुप्रवेशस्तदा . मेज़स्रोऽप्यनुप्रविशन्न दण्डेन परामुद्यते : योनित्वादेरनुप्रवेश हेतोस्त अंत्यविशेषात् । वाच्यो वा विशेषः । तस्मात्प्रणायनविधिप्ववशिष्ट मेक-प्रणयनमजस्रोद्धार्ययोः ॥ १४ ॥

या प्रकृतिर्दक्षिणाग्नेः ॥ १५॥

तत आहरेदिति शेषः । प्रदर्शनार्थ चैतत्सम्यावसथ्ययोरपि यः कथनानुस.च्छेदिति सामान्योपक्रमात् । अन्यथा तस्या निर्थक्यप्रमाचः । तदभिप्रायमेव चानयोरननुक्रमणं घेदितव्यम् । अनित्यत्वाभिप्रायमित्यपरे । तदेतत्वाहितप्रायश्चित्तं स्वविषये सर्वमाग्निहोविकादिप्रायश्चित्तान्तरं बांधते, विशेष विषयत्वात् । यस्य चोभावनुगतावित्यनेन तु सर्वो विधिर्बाध्यते, विशिष्टतमविषयत्वात्तस्य ने सर्वेऽपि ह्यनुगतप्रायश्चि सविधयोऽवीहितानन्वाहितादिगोचरा एकैकानुगतावमिनिम्रोकाभ्युदयरहितोभयानुगतौ च सावकाशाः । तद्विशिष्योभयानुगती युक्तं तदेकविषयेणानेन बाध्यत इति ।। १५ ।।

भूरित्युपतिष्ठेत ॥१६॥

स्पष्टम् ।

मनसा व्रतोपायनीयं यजुर्जपेत् ॥ १७ ॥

यजमान इति शेषः । बोपायनीयमिति वचनाद्रतं चरिष्यामीति ( तै०. सं० ११५-१०) च मन्त्रलिङ्गात् ।। संततिर्वा एषा यज्ञस्य ' (तै ब्रा०३-७-२) इत्यादिना "विच्छिन्नत्रतसतानार्थत्वस्तवनाच्च ब्रतोपायनीयमिति स्वस्य यद्रतोपर्यनार्थ यजुस्तज्जपेदित्यर्थः ॥ १७ ॥

इदं त एकं पर उत एकं तृतीयेन ज्योतिषा संविशस्व। संवेशनस्तनु वै चारुरेधि प्रियं देवानां परमे जनित्र इत्यन्वाहिताग्नेरग्निमपक्षायन्तमा शम्यापरासात्संभरेत् १८॥

अन्याहिताधिकार शानिवृत्त्यर्थमाहिताग्निग्रहणम् । यविति दे शभ्यां परास्ता पतति ततोऽर्वान्यद्यग्निः कश्चिदपक्षायेत्, आयतमादपगच्छेत् । तदा तमेंपत्रि परीत्य संभरेत्पुनरायतने निक्षिपेत् । तदुक्तमापस्तम्बेन-शम्यापरासात्परि वाजपतिः कविर:

1 पटलः;] महादेवशास्त्रिसंकरित्तप्रयोगचन्द्रिकाश्यास्यासमेतम् । २६७:

निरिति त्रिः प्रदक्षिणं परिक्रम्य...तः संभरेदिदं त. इतिः। कृत्स्वान्वपक्षाण एव चाय विधिः । यथोक्तं बाहवच्याश्वलायनयो:- आहवनीयमवदीप्यमानमवोंक्शम्यापरासादिति । अग्न्येकदेशापगमे तु यदि 'पुरा प्रयाजेभ्यो बहिः परिध्यङ्गारः स्कन्देत् '. इत्यादिविध्यन्तरं द्रष्टव्यम् ॥ १८ ॥

परस्तराꣳ शम्यापरासादपक्षायन्तमनु प्रयायान्ववसाय यजेत ॥ १९॥

परःशब्दोऽत्यन्तसंनिकर्षे वर्तते । शम्यापरासात्परतरंमपगच्छेद्यत्र सोऽग्निस्तत्रेतरानपि प्रत्यक्षान्नीत्वा तदनुगुणान्विहृत्यं वदहस्तंत्र वसेत् ॥ १९ ॥

अग्नये पथिकृते पुरोडाशमष्टाकपालं निर्वपेत् ॥ १५.१.२० ॥

यत्र वसेत्तनेत्यर्थः ॥ २९,

पथोऽन्तिकाद्बर्हिराहरेत् ॥२१॥

पथः समीपे ये दर्भास्ततो बर्हिराहरेत् ॥ २१ ॥

अनड्वान्दक्षिणा ॥ २२ ॥

यदा त्वियमिष्टिस्तन्त्रमध्ये पतिता तस्यैव प्रसङ्गो वेदितच्यः ॥ २२ ॥

श्वोभूते गृहेषु प्रत्यवस्येत् ॥ २३॥

ततः श्वोभूते यतो देशात्पूर्व गतस्य प्रत्यवस्यति । सोमेषु ससानप्रत्यवसाने च न. भवतो यत्राहर्वृद्धिः स्यात् ॥ २३॥

यस्य हविषे वत्साः अपाकृताः धयेयुर्वायव्यां यवागूं निर्वपेत् ॥ २४॥

यदा सर्वगवीनां वत्साः सर्वमेव पयः पिबेयुर्न तु. हविगे। पर्यासमवशेषयेयुस्तदा यवाणू निपेत् । शिथिलतण्डुल्ला यवागूः ।। २.४ :

सा दोहस्थाने प्रतीयात् । अन्यतरस्मादपाकृता धयेयुः ॥ २५॥

यद्यपि सानाय्यस्थावायत्तस्तद्धर्मिका यवागूस्तथाऽप्योषधिगुणत्वान्निर्वापादयः श्रपणान्ता धर्माश्चरुवत्कार्यः । ये हविर्निष्पत्यों भवन्ति । सानाव्ये विहितास्त्वर्थलोपा निवृत्ता न शास्त्रात् । अंतोऽत्रार्थवत्त्वात् क्रियन्ते । उद्धासनादारभ्य सानाय्ययोर्यतरस्थानापन्ना ततरधर्मो भवति । पृथका दाना च नानादेवतात्वात् । “ यदा तूमयोरपि दोहयोः पयो धीत स्यात्तदा सहं प्रदान यवाग्वोरेकदेवतात्वात् । आह च भरद्वाजःसमानदेवतेषु समंवदाय प्रचरति हविर्गणेषु पशुगणेषु चेति ॥ २५ ॥

२६८ .. सत्यापादपिरचित श्रीतसूत्रम्- [१५ मझे

अथोत्तरस्मै हविषे वत्सानपाकृत्योपवसेत् । २६॥

संस्थाप्येष्टि 'तदहरेवोपवसथं कृत्वा पीतेन हविषा पुनर्यजेतेत्यर्थः । नाऽऽयस्याऽsवृत्तिः । नाशदोषाधभावतः- उत्तरस्मै हविषे वसानपावृत्य ' (ते. बा. ३-५ -२) इति लिङ्गाच्च । एवं दोहान्तरस्याप्यनष्टस्येति द्रष्टव्यम् ॥ २६ ॥

यस्य सायं दुग्धꣳ हविरार्तिमार्च्छतीन्द्राय व्रीहीन्निरुप्योपवसेत् ॥ २७॥

आतिनशिंदोषापहारादितः । इन्द्रग्रहणं महेन्द्रस्यापि प्रदर्शनार्थम् । प्रातदोहे. नास्य समवदाय प्रचरेत् , इत्यविशेषवचनादन्यथा महेन्द्रयानिनस्तत्रं याज्यानुवाक्या. दिविरोधात् । तथैन्द्रं वा माहेन्द्रं वा पुरोडाशं तस्य स्थान बहवृचाः । बाहिमहणाधवा निवर्तन्ते । यदा रात्रावार्तिस्तदा यावदर्थ पात्राणि प्रयुज्य निरुप्यं ब्रीहीनुपवसेत् । यदा तु श्वस्तदा त्वनन्तरमेव निरुप्य नोपवासः ॥ २७ ॥

यत्प्रातः स्यात्तच्छृतं कुर्यात् ॥ २८ ॥

यत्प्रातरदुष्टं स्यात्तच्छ्रुतमेव कुर्यात् न तु सानाय्यप्रतिनिधित्वेन पुरोडाशः प्रवृत्त इति सोऽपि [न] पुरोडाशः कार्य इति भावः ॥ २८ ॥

अथोत्तर ऐन्द्रः पुरोडाशो भवति ॥ २९॥

इतरो दोहः पुरोडाशः स्यात्तस्य स्थाने निरुतैहिभिः पुरोडाशः कार्य इत्यर्थः । संचैकादशकपालो द्वादशकपालो वा । ऐन्द्राग्नविकारत्वात् । तस्य च प्राशुशासनात्पुरोडाशधर्माः परतः सानाय्यधर्माश्च पूर्ववदेव बेदितव्याः ॥ २९ ॥

प्रातर्दोहेनात्र समवदाय प्रचरति ॥ १५.१.३०॥

समवदाय सहावदाय ॥ ३०॥

अथोत्तरस्मै हविषे वत्सानपाकृत्योपवसेत् ॥ ३१॥

एतदेव प्रातर्दोहस्याऽऽर्तिगतस्य प्रायश्चित्तम् ॥ ३२ ॥

उपवासस्तत्राान्निवर्तते ॥ ३१ ॥ ३२ ॥

सायंदोहेनात्र समवदाय प्रचरति ॥ ३३ ॥

अत्र ब्राह्मणे कल्पान्तरेषु चान्यतरदोहार्तावुभयाती च पुनरिज्योक्ता । सूत्रकारस्तु तामुभयातवेव वक्ष्यति तेनान्यतरातौं नेप्यते । आश्वलायनस्त्वत्रानुग्रहमाहयथा अन्यतरादोषे व्यासिच्य प्रचरेयुः पुरोडाशं वा तत्स्थाने " इति । बावृध्येऽपि सायं दोहार्तावानातोऽनुग्रहः-यथा प्रातर्दुग्धं द्वैधं कृत्वा तस्यान्यसरी भक्तिमातच्य तेनयजेत, इति ॥ ३३ ॥

१ पटलः ] महादेवशास्त्रि संकलितप्रयोगचन्द्रिकाव्यार थासमैतम् । २५.

अथोत्तरस्मै हविषे वत्सानपाकृत्योपवसेत् ॥ ३४॥

अथ यवागूनिर्वापादूर्ध्वमुत्तरस्मै हविषे परेछुरनुष्ठेयस्य सानाय्यस्य सिद्धये पुनरपि. वत्सानपाकुर्यात्पृथक् कुर्यात् । अन्यद्गतम् ॥ ३४ ॥

यस्य सायंप्रातर्दुग्धꣳ हविरार्तिमार्च्छत्यैन्द्रं पञ्चशरावमोदनं पचेत् ॥ ३५॥

उभयोः क्रमेणाऽऽतौं क्रमेण पुरोडाशी निरुप्य सहप्रचारः पूर्ववत् । यदा पुनरनिरुक्षेऽन्यतरायणं पुरोडाशेऽन्यस्याप्यातियुगपदातिर्वा तदाऽष्टाकपालपश्शरावौं निर्वपेत् । तदस्य परिमाणमित्यर्थे लुप्ततद्धितः पञ्चशरावशब्दः पञ्चशरावपरिमितं द्रव्यमभिधत्ते । तच्च शरावेण निर्वपति त्रिजुषा द्विस्तूष्णीं स द्वादशशरावं चकै निर्वपति.. द्वादशभिर्मन्त्रैस्तूष्णीमितराणीति लिङ्गात् । इन्द्रग्रहणमत्रापि प्रदर्शनार्थम् । ऐन्द्र का माहेन्द्रं वेति समानमिति बचश्रुतेः । सानाय्यप्रतिनिधित्वं च हविषोरत एव लिकासिद्धम् । ' पयो वा औषधयः । पयः पयः । पयसैवास्मै पयोऽवरुन्धे ! (ता . ३-७-१) इति लिङ्गाच्च । तेन सानाय्यधर्मकताऽपि तयोः पूर्ववदेव वेदितव्या । कात्यायनस्तु पञ्चशरावं प्रकृत्याऽऽह- प्रतिनिधिः प्रायश्चित्तं वा देवताश्रुतेः' इति । प्रायश्चित्तार्थत्वे परतोऽप्युद्वासनाग्नेयेन्द्राग्नधर्मता हविषोरिति विशेषः । यवाग्वादीनां तु प्रतिनिधित्वं प्रदर्शितमेव सूत्रे स्पष्टमिति सानाय्यधव यथोक्ताऽनुसंधेया ॥ ३५ ॥

अग्निं प्रथमं पुरोडाशेन यजेत ॥ ३६ ॥

देवतायास्तद्धितेनैव सिद्धरुत्तरविकल्पार्थोऽनुवादः ॥ ३६ ॥

उत्तरमिन्द्रं पञ्चशरावेण ॥ ३७॥

पञ्चशरावमेवैकमिन्द्राय निरुप्य तेनैव प्रथममग्निमिष्ट्वा तत इन्द्रं यजेत, न त्वष्टाक. पाले पुरोडाशं निर्वपेदित्यर्थः । ब्राह्मणे ह्येन्द्र पञ्चशरावमोदनं निर्वपेदाग्निं देवतानां प्रथमं यजेत इति यागविधिरेवाग्नेरष्टाकपालस्य कल्पक इति प्रथमः कल्पः । ऐन्द्रादेव पञ्चशरावादग्नेर्वाचनिको याग इति द्वितीय इति द्रष्टव्यम् । उभयत्र चाऽऽययोः सह प्रदानमिष्यते विभवात् ॥ ३७ ॥

अथोत्तरस्मै हविषे वत्सानपाकृत्योपवसेत् ॥ ३८ ॥

व्याख्यातः ॥ ३८ ॥

यस्य व्रत्येऽहन्पत्न्यनालम्भुका भवति तामपरुध्य यजेत ॥ ३९॥

व्रताहमहो व्रत्यमहस्तचौपवसथ्यम् । तत्रैव व्रतोपदेशात्तस्मिन्नहनि यदि पत्न्याविवशादनालम्भुका स्पर्शानीं स्यात्तदा तामपहाय यजेतेव, दर्शपूर्णमासाम्यामित्यर्थः । अथवा व्रतशब्दः कर्मवाची यथा शिक्षति व्रतेनेत्यादौ । तत्प्रतिनियतमहत्यमहः ।

२०५ : सत्यापादविरचितं श्रौतसूत्रम् - १५: प्रश्ने

सस्मिन्ननालम्भुकायामपि पत्न्या तया विना कुर्यादेव तंत्कर्मत्यर्थः । तद्यथा पर्वणो दर्शपूर्णमासी, अमावास्यायां पिण्डपितृयज्ञः सायंप्रातरग्निहोत्रमित्यादि । प्रत्येऽहनीति वचनाद्ययेन प्रतिनियतं तत्तत्रानालम्भुकायां क्रियते । एतदुक्तं भवति यस्मिन्काले यस्याः क्रियायां प्रत्यवायः प्रायश्चित्तं वा भ्रश्येच्च मुख्यः कालस्तत्रानालम्भुकायामपि क्रियते नेतरदिति । तेन काम्येष्टयः पशुसोमाश्च यस्मिन्पर्वण्यनालम्भुका न तरिमन् क्रियन्ते । क्रियन्त एव तस्मिन्यदा प्रक्रान्ता भवन्ति । प्रक्रान्तस्य कर्मणस्तत्कालं प्रतिनियमात् । एतेनापन्याधेयादेरपि प्रक्रान्तस्य तत्कालापवर्गों व्याख्यातः ।............. - सोमे. तुप्रक्रान्तेऽनालम्भुकायां नियमविशेषानाह कात्यायन:-' पत्न्युदक्या. दीक्षारूपाणि नि(वि.)धाय सिकतास्वासीतोपत्रवणात्तिष्ठेत्संधिवेलयोवेदिसमीपे सुत्यास. शिरानाले मोमूत्रमिश्रेणोदकेन स्नापयित्वा परिधानादि करोति संनिपातिकम् । प्रजा:: तायाश्च दशरात्रादूर्वं स्नानादि, न गर्भिणी दीक्षयदित्येके । अयज्ञिया गर्भा इति. श्रुतेः । नानूबन्ध्या प्रकरणादिति । . । प्रजातायां तु सत्यप्याशीचे यजमानस्याग्निहोत्रादावधिकार उक्तों धर्मशास्त्रकार बौधायनस्तावत् ' नाशुचिः काम्यं तप आतिष्ठेन्न यजेत न स्वाध्यायमधीयीतान्यत्राग्नि होत्रदर्शपूर्णमासेभ्यः' इति । मनुनाऽप्युक्तम्...न वर्धयवाहानि प्रत्यहेन्नाग्निष क्रियाः ।.. ... न च तत्कर्म कुर्वाणः सनाभ्योऽप्यशुचिर्भवेत् ॥ इति । याज्ञवल्क्योऽप्याह-वैतानोपासना: कार्याः क्रियाश्च श्रुतिचोदिताः । इति । तथा नित्यानि निवर्तन्ते. वैतानवर्जम् , इति गौतमः । जाबालिश्चाऽऽह- - जन्महान्योर्वितानस्य कर्मत्यागो न विद्यते । इति । .... एतेने जोतेष्टिरपि व्याख्याता । तत्र त्वाह भरद्वाजः-कथं जातेष्टिरित्यूर्क वास्था इत्याश्मरथ्यो जात एवविजः कुर्यादित्यालेखन इति । बौधायनश्चाऽऽह सक्षा स्माऽऽह.बौधायन उत्थितायां निर्दशायां निर्वपेदिति जातमेव विदित्वेति शालीकिः इति ॥ ३९॥

उदकशुल्बꣳ स्तृणीयात् ॥ १५.१.४०॥

योक्त्रं तु स्वकाले दक्षिणतः पाशमुदक्शुल्वं जघनेन वेदिमन्तर्वेदि वेत्यापस्तम्बः । पश्चाद्वैदेरन्तर्वेदि वा तूष्णी निदध्यात् ॥ ४० ॥

तामिष्ट्वा त्रिरात्रे स्नातामुपहूयेत ॥(ख०१)। अमूहमस्मि सा त्वं द्यौरहं पृथिवी त्वꣳ सामाहमृक् त्वं तावेहि संभवाव सह रेतो दधावहै पुꣳसे

- पटलः ] महादेवशाखिसंकलितपयोगचन्द्रिकान्याख्यासमैतम् ।

पुत्राय वेत्तवै रायस्पोषाय सुप्रजास्त्वाय सुवीर्यायेति । अर्ध एवैनामुपह्वयते सैव ततः प्रायश्चित्तिः। ॥ ४१ ॥

यदेयमतिगतत्रिरात्रा स्नाता स्यात्तैदनामृतुगमनार्थमुपह्वयेत तच्च कर्मण एव प्रायश्चित्ताथै, न तु पुरुषार्थम् । कस्मात् । अर्थो वा एतस्य यज्ञस्य मीथते । यस्य प्रत्येऽह:पिन्यतालम्भुका भवति, (ते. ब्रा० ३-७-१) इति प्रकृत्य तामिष्टोंग्रहवयेत । सैव ततः प्रायश्चित्तिः' (ते. ब्रा० ३-७-१) इति श्रुतेः ॥ ४१

यदि सांनाय्यमग्निहोत्रं वा विष्यन्देत । यदि वा कीटोऽवपद्येत । मध्यमेन पलाशपर्णेनान्तमेन वोदक्परेत्य प्राजापत्ययर्चा वल्मीकवपायां विष्य न्दमानमवमनीय भूरित्युपतिष्ठेत ॥ ४२ ॥ मध्यमेनैव पलाशपर्णेन द्यावापृथिव्यमर्चाऽन्तःपरिधि कीटावपन्नमवनीय भूरित्युपतिष्ठेत ॥ ४३ ॥

क्वथनवशादुद्वृत्तस्याधः पतनं विष्यन्दनम् । व्याख्याता वल्मीकवप्रा । तामुद्धृत्य 'विवृतबिलां कृत्वा तस्या बिलेऽवनीय पुनर्नुहुयादग्निहोत्रम् । अवनयनापेक्षया पुनःशब्द आ(ब्दमा )वर्तयेत् । दोहनेन विनाऽन्यदागमयेदुत्पादयेत् । कीटोऽध्यसेवी क्रिमिः । 'अन्तःपरिधीति देशोपलक्षणमाग्निहोत्रे ॥ ४२ ॥ ४३ ॥

यदि सांनाय्यमन्यदागमयेत् ॥ ४४ ॥

भी यदि दधनि पयसि वा कीटोऽवपद्येत तवान्यदागमयेत् । स्पष्टमन्यत् ।।

यद्यग्निहोत्रमन्यां दुग्ध्वा पुनर्जुहुयान्मित्रो जनान्कल्पयति प्रजानन्मित्रो दाधार पृथिवीमुत द्याम् । मित्रः कृष्टीरनिमिषाऽभिचष्टे सत्याय हव्यं घृतव- ज्जुहोतेत्यभिवृष्टमग्निहोत्रꣳ हुत्वाऽन्यां दुग्ध्वा पुनर्जुहुयात्॥ ४५ ॥

पुनरग्निहोत्रग्रहणात्सांनाय्ये नायं विधिः । यस्याग्निहोत्रमववर्षेदित्यापस्तम्बः । अबवर्षेदुपरि वर्षेत्पर्जन्यः । तत्कृत्वा तदववृष्टं मैत्र्या हुत्वेत्यर्थः ।.स जुहुयान्मित्रो जनान् ( तै० वा० ३-७-२) इति श्रुतेः । ततोऽन्यां दुग्ध्वा होमः । कचित्तु-मित्रो अनानिति पूर्वाहुतिमन्त्रेणाग्निहोत्रं हुत्वा पुन)ममिच्छन्ति । तदाऽप्यन्यां दुग:वा पुनर्जुहुयात् , इति वचनादोहहोमयोरावृत्तिः यत्तु पुरस्तादोहस्योपरिष्टोच्च हुत्वोपस्पर्शनस्य तन्त्र स्यात्तत्तन्त्रमेवः भवत्युभयोविभवात् ॥ ४५ ॥

७२ : .... सत्याषाढविरचितं श्रौतसूत्रम्- [१५ प्रश्ने

यदि पूर्वस्यामाहुत्याꣳ हुतायामुत्तराहुतिः स्कन्देत् पूर्वां चोत्तरयाऽभिहुत्य (भिजुहुयात् ) यत्र वेत्थ वनस्पते देवानां गुह्या नामानि । तत्र हव्यानि गामयेति वानस्पत्ययर्चा समिधमाधाय तूष्णीमेव पुनर्जुहुयात् ॥ ४६॥

अमिहोम उपरिहोमः । तत एव शिष्टादेवोत्तराहुतिस्तूष्णीमुभयत्र । ततो होमावृत्तिः पूर्ववत् । यदा पुनरुत्तराहुत्येकदेशः स्कन्नो न साहुतिस्तदा तन्नाऽऽदियेत । यथा च पक्ष्यति यदनाहुतिमात्रं विगुडेव सेति मात्रापचारे तच्छेषेण समाप्नुयादिति च । पूर्वाहुत्या सहोत्तराहुतिपतनेऽप्ययमेव विधिस्तस्यापि फलतः स्कन्नत्वात्तत्तुल्यन्यायत्वाच्च

यदि पूर्वस्यामाहुत्याꣳ हुतायामाहवनीयोऽनुगच्छेदग्निर्दारौ दारावग्निरिति वदन्नन्तरे शकले हिरण्ये वा जुहुयात् ॥ ४७ ॥

यस्माद्दारोरुद्वायेदन्ततः सोऽनन्तरः शकलः । तस्मिस्तत्स्थे हिरण्ये वा जुहुयात् । उत्तराहुतिमित्यर्थः । मन्त्रलिङ्गानुरोधात् । तथोत्तमे शकले हिरण्यं निधायेत्येव भरद्वानः । वदन्निति वचनान्मन्त्रमध्ये होमः स्वाहाकारस्त्वन्तत एव भवति । ततः शेषसमाधिः । तत्र प्रतितपनमुपसमिन्धनं चाऽऽहवनीयस्यासंभवान्निवर्तते । प्रतितपननिवृत्तेरेवोद्देशनमपि निवृत्तं भवति । परिसमूहनादेस्त्वनिवृत्तिः शकलहिरण्ययोरग्निप्रतिनिधित्वेन विधानात् । यस्याप्यजस्त्र आहवनीयस्तस्यापि प्रतिनिधावेवाग्निहोत्रसमाप्तिरविशेषात् । ततो मन्थनम् ॥ ४७ ॥

यदि पुरा प्रयाजेभ्यो बहिष्परिध्याहवनीयात्प्राचीनमङ्गारो निवर्तेताध्वर्यवे च यजमानाय चाकꣳ स्यात् । यदि दक्षिणा ब्रह्मणे च यजमानाय चाकꣳ स्यात् । यदि प्रत्यग्घोत्रे च पत्नियै च यजमानाय चाकꣳ स्यात् । यद्युदङ्ग्नीधे च पशुभ्यश्च यजमानाय चाकꣳ स्यात् । मा तमो मा यज्ञरतमन्मा यजमानस्तन्नमस्ते अस्त्वायते नमो रुद्र पराय ते नमो यत्र निषीदस्यध्वर्युं मा मा हिꣳसीर्यजमानं मा हिꣳसीरिति तꣳ स्रुवस्य बुध्नेनाभिविदध्यात् ॥ यदि प्राचीनं निवर्तेतैवामि

१ पटलः ], महादेवशाखिसंकलितप्रयोगचन्द्रिकान्याख्यासमेतम् । २७४

तरासु दिक्षु ब्रह्माणं मा हिꣳसीर्यजमानं मा हिꣳसीरिति दक्षिणतो मन्त्रꣳ संनमति ॥ होतारं मा हिꣳसीः पत्नीं मा हिꣳसीर्यजमानं मा हिꣳसीरिति पश्चात् । आग्नीध्रं मा हिꣳसीर्यजमानस्य पशून्मा हिꣳसीर्यजमानं मा हिꣳसीरित्युत्तरतः ॥ (ख०२) ॥४८॥

बहिष्परिधीति देशोपलक्षणम् । यदि पुरस्तादिति लिङ्गाहालणे परिध्यग्रहणाच्च । तेनान्वाधानप्रभृत्या प्रयाजारम्भादयं विधिः। अन्यत्र तु तूष्णीमङ्गारं प्रहृत्य सर्वप्रायश्चि. तमेव । बुधो मूलम् । अमिनिध्यात् , अभिपीडयेत् । मा तम इत्येतत्सर्वासु दिनु समुच्चीयते ॥ १८ ॥

सहस्रशृङ्गो वृषभो जातवेदाः स्तोमपृष्ठो घृतवान्सुप्रतीकः। मा नो हासीन्मेत्थितो नेत्त्वा जहाम गोपोषं नो वीरपोषं च यच्छेत्येनमग्नौ प्रहरति ॥ ४९ ॥

स्पष्टोऽर्थः ॥ ४२ ॥

प्रहृत्य वाऽभिजुहुयात् ॥ १५.१.५० ॥

तूष्णी प्रहृत्य मन्त्रेण वाऽभिमुहुयात् ॥ ५० ॥

यद्याहिताग्नेरनिर्मथ्यमानः कालसंनिकर्षेण न जायेत यत्रान्यं पश्येत्तत आहृत्य विहृत्य हुत्वाऽत्वरमाणः पुनर्मन्थेत् ॥ ५१॥

प्रवासादी समारूढोऽग्निरग्निहोत्रकालसंनिकर्षे यदि विहरणाय मध्यमानो न जायेत तदा लौकिकाग्निमाह्त्य गार्हपत्यायतने निधाय विहृत्य जुहुयात् । तथा च बौधायन:'अथारण्योः समारूढेषु मथित्वाऽग्नीन्विहृत्य जुहुयात् । अपि वा लौकिकमाहृत्य विहत्याग्नीनन्तराऽरणिं निधाय जुहुयात् ' इति । आश्वलायनेनापि -अग्निहोत्राय कालेऽभावजायमान इति वदता समारूदविषयत्वमेवास्य विधेः ख्यापितम् । न ह्यनुगतोऽग्निरग्निहोचाय मध्यते, अपितु सर्वकामार्थ समारूढस्तु कदाचिदग्निहोत्रायैव मथ्यते प्रवासादाविति युक्त तद्विषयत्वम् । तत्राजलाग्नेबहुषु समारूढेषु य एवाग्निर्मथ्यमानो न जायते स एवाऽऽहर्तव्यः । एवं विहरणकालप्रभृत्या होमकालादयमेव विधिः । अनुगतिविषये तु केवलगार्हपत्यानुगतावुभयानुगतौ च मध्यमानस्यानन्मनि यो विधिः स यस्य

२७४ ... सत्याषाढविरचितं श्रौतसूत्रम्- ... [१५ प्र.

वोभावनुगतावित्यत्रैवं दर्शितः । अन्यत्तु मतम् । ' मध्यमानम् ' इत्यविशेषवचनादनुगतिविषयेऽपि समानोऽयं विधिः । कालसंनिकर्ष इति च प्राधान्याद्धोमकालसंनिकों गृह्यते । तेनानुगतिविषयेऽपि होमकालातिपत्तौ यस्याऽऽहवनीय इत्यादिविधिना मध्य मानस्याजन्मनि भवत्येवायं विधिः । अनासत्तौ तु होमकालस्य यथाविहितप्रायम्बितान्येव भवन्तीति । आगामिकालविप्रकर्ष एवाल्वरमाणो मन्थेत् , अन्यथा पुनरनुकासः प्रसज्येत । न च तच्छक्तिविषये युक्तमिति भावः ॥ ५१॥

अन्यमविन्दन्नजाया दक्षिणे कर्णे जुहुयात् ॥ ५२॥

अजादयोऽग्नेः प्रतिनिधीयन्ते मुख्यत्वादिसामान्यात् । यथोक्तं ब्राह्मणे-तमग्निर्देवता अन्वसुज्यत गायत्री छन्दो रथन्तर साम ब्राह्मणो मनुष्याणामजः पशूनां तस्माते मुख्या मुखतो ह्यसृज्यन्त, इत्यादि । तस्मादविकारोऽग्निलिङ्गानां मन्त्राणाम् । तत्रौदरणश्रपणप्रतितपनाद्यन्यभावान्निवर्तते । तथा अपणोद्धरणाभावादेवामादीनां गार्हपत्ये स्थापनमपि निवृत्तम् ॥ १२ ॥

अजस्येत्येकेषाम् ॥ ५३॥

पराग्निहोमपक्षे तु होमार्थमवस्थापयन्ति ॥ ५३॥

अजस्य तु ततो नाश्नीयात् ॥ ५४॥

अनजातिसंबन्धि मांसं क्षीरादि वा किंचिन्नाभीयात् । “कर्णे चेन्मांसवर्जनम्' इत्याश्वलायनः ॥ ५४॥

अजामविन्दन्ब्राह्मणस्य दक्षिणे हस्ते जुहुयात् ॥ ५५॥

ब्राह्मणोऽप्यजया व्याख्यातः ॥ ५५ ॥

ब्राह्मणं तु वसत्यै नापरुन्ध्यात् ॥५६ ॥

असूर्योढार्थ वचनम् ॥ १६ ॥

ब्राह्मणं त्वविन्दन्दर्भस्तम्बे जुहुयात् ॥ ५७ ॥

मवत्यत्र ब्राह्मणम्-'अग्निवान्वै दर्भस्तम्बः ' (० ब्रा० ३-७-३) इति॥१७॥

दर्भाꣳस्तु नाध्यासीत ॥ ५८ ॥

अन्यत्र ब्रह्मयज्ञार्थत्वाद्वैधादासनादिति द्रष्टव्यमविरोधात् ॥ १८ ॥

दर्भान्नविन्दन्नप्सु जुहुयात् ॥ ५९॥

कार्यकारणयोरभेदादिति भावः । भवति चात्र श्रुतिः-अग्निं या गर्भ दधिरे (ते. #० ५-६-१) इत्यादि ॥ ५९॥

आपस्तु न परिचक्षीतेमा भोजनीया इमा अभोजनीया इति ॥ १५.१.६० ॥

--१. पटलः ], महादेवशास्त्रिसंकलितमयोगचन्द्रिकाव्याख्यासमेतम् । २७५

आपस्तु बीमन्सा अपि न वर्जयेदित्यर्थः ॥ ६ ॥

दातृदोषादपि न बीभत्सेवेत्याह-

अप्यभोजनीयस्यैतं संवत्सरं परिगृह्णीयादेवापः ॥ ६१ ॥

अभोजनीय अभोज्यान्नः।।

अद्भिस्तु पादौ न प्रक्षालयीत ॥ ६२ ॥

सुखार्थस्य प्रक्षालनस्य निषेधो न शौचार्थस्यापि, प्रयतस्यैव कर्माधिकारात् ॥१२॥

सांवत्सरिकाण्येतानि व्रतानि भवन्ति ॥ ६३ ॥

+ सांवत्सरिकाण्येतानि व्रतानि भवन्तीत्याश्मरथ्यः । यावज्जीवमित्यालेखनः' इति भरद्वाजः । सांवत्सरिकत्वविकल्पाभावः स्वमते । अप्यभोजनीयस्यैत संवत्सरमिति लिङ्गात्। श्रुतिम भवति-संवत्सर हि व्रतं नाती(त्ये)ति ॥ ६३ ॥ :

संवत्सरेऽग्नये व्रतपतये पुरोडाशमष्टाकपालं निर्वपेत् ॥ ६४ ॥

संवत्सरस्य परस्तादित्यापस्तम्बः । व्रातपत्येष्ट्या व्रतनिवृत्तिः ॥ १४ ॥

अग्नये क्षामवतेऽष्टाकपालम् । यद्याहिताग्नेरग्निर्गृहान्दहेत् ॥ ६५ ॥

षो पूर्वापरा अन्वञ्चः प्रमीयेरन्गृहदाहे वेत्यापस्तम्बः । पूर्वे चापरे च वृद्धवाला बंड्या यद्यन्वश्वः संतता म्रियेरन्दोरन्वा गृहास्तत्रेयमिष्टिनैमित्तिकी सिध्यति च तत्र कामो वाक्यशेषात् । यथा नैषां पुरायुषोऽपरः प्रमीयते नास्यापरं गृहान्दहति ' (ते. सं० २-२-३ ) इति च ॥ ६५ ॥

अग्नये विविचयेऽष्टाकपालं यस्यान्यैरग्निभिरग्नयः सꣳसृज्येरन्मिथो वा ॥६६॥

अन्यलौकिकैदिकैर्वा संसर्गे पञ्चानां परस्परं संसर्गे चेयमेवेष्टिरुत्सर्गेण भवति । अपबादे त्वन्याः । ताश्च समारोपणेन विविक्तेप्वग्निषु भवन्ति । समारोपणमन्त्र एव तु तं तम िहंसः क्षीरनीर इव विवेक्ष्यति । तथा संसर्ग प्रकृत्यारण्योरनीन्समारोप्येत्येव बोधायनः ॥ ६६ ॥

अग्नये वीतयेऽष्टाकपालं यदि गार्हपत्यदक्षिणाग्नी सꣳसृज्येयाताम् ॥ ६७ ॥

गार्हपत्यदक्षिणानी इति वचनात्तयोः पृथगेकदेशसंसर्गे न भवतीयमिष्टिः । एकमुत्तरत्रापि द्रष्टव्यम् ॥ ६॥

सत्याषाढविरचितं श्रौतसूत्रम्- [.१६-अ

अग्नये विपृचयेऽष्टाकपालं यदि गार्हपत्याहवनीयौ। गार्हपत्यदक्षिणाग्नी इत्येकेषाम् ॥ ६८॥

दक्षिणान्याहवनीयो वेत्यापस्तम्बः । पूर्ववदन्वयः ॥६८॥

अग्नये व्रतभृतेऽष्टाकपालं यद्यभ्यादाह्येन ॥ ६९ ॥

संसृज्येरनग्नयः, इत्यन्वयः । अभ्यादाह्यो गृहदाही ॥ १९॥

अग्नये शुचयेऽष्टाकपालं यदि शवाग्निना । अग्नये संकुसुकायाष्टाकपालं यदि सूतकाग्निना ॥ १५.१.७० ॥

संसृज्येरनग्नय इत्यन्वयः सर्वत्र । शवाग्निश्चिताग्निः । सूतकोग्निर्जातकर्मार्थः ॥७॥

संकुसुको विकुसुको विकिरो यश्च विष्किरः । माषाज्येन नलेध्मेन क्रव्यादँ शमयामसि । अस्मिन्वयं संकुसुकेऽग्नौ रिप्राणि सृज्महे । अभूम यज्ञियाः शुद्धाः प्र ण आयूꣳषि तारिषदिति याज्यानुवाक्ये ॥ ७१॥

इदं यानुषं हौत्रम् ॥ ७१ ॥

अग्नयेऽप्सुमतेऽष्टाकपालं यदि वैद्युतेन ॥ ७२ ॥

वैद्युतोऽशनिप्रभवः । संकुमकादन्यासामान्नाय एव याज्यानुवाक्याः ॥ ७२ ॥

सर्वे संनिपतेरनग्नये विविचये निरुप्याग्नये शुचये निर्वपति । व्रातभृतीं तृतीयामप्सुमतीं चतुर्थीं क्षामवतीमन्ततः परिक्रमयेत् ॥ (ख०३) ॥ ७३ ॥

यत्र तु गृहदाहादिनिमित्तसमुच्चयात्क्षामवत्यादयोऽप्सुमत्यन्ताः सर्वा इष्टयः संनिपतेयुस्तत्र निमित्तक्रमभेदे सत्यप्यनेनैव क्रमेणेष्टीनिपेत् । बातभृतीं चाधिका तृतीयाम् । तत्राप्सुमती चतुर्थी निरुप्य ततो विपृगादिभ्यः संकुसकान्तेभ्यः शुचिर्न निर्वपेत् । ततः क्षामवतीमाद्यां सतीमन्तं गमयेत् ॥ ७३ ॥

व्रातभृतीं द्वितीयामेके समामनन्ति । व्रातपतीमुत्तमाम् ॥ ७४ ॥

अथवा विविचये निरुप्य व्रतभृते निर्वपेत् । ततोऽनन्तरोक्तेनैव क्रमेण शुच्याक्भ्यिः क्षामवदन्तेभ्यः । ततोऽन्ते व्रातपतीमित्यर्थः । कतिपयनिमित्तसंनिपाते तु क्रमेणैवेष्टयो भवन्ति ॥ ७॥

गर्भꣳ स्रवन्तमगदमकरग्निरिन्द्रस्त्वष्टा बृहस्पतिः। पृथिव्यामवचुश्चोतैतन्नाभिप्राप्नोति निर्ऋतिं पराचैरित्यग्निहोत्रस्थालीꣳ स्रवन्तीमभिमन्त्रयेत ॥७५॥

.1 पटलः ] महादेवशास्त्रिसंकलितपयोगचन्द्रिकाव्याख्यासमेतम् । २७७

। सष्टम् ॥ ७९ ॥

यस्य हविर्निरुप्तं पुरस्ताच्चन्द्रमा अभ्युदेति त्रेधा तण्डुलान्विभजेद्ये मध्यमाः स्युस्तानग्नये दात्रे पुरोडाशमष्टाकपालं कुर्याद्ये स्थविष्ठास्तानिन्द्राय प्रदात्रे दधꣳश्चरुं येऽणिष्ठास्तान्विष्णवे शिपिविष्टाय शृते चरुमग्निरेवास्मै प्रजां प्रजनयतीति॥७६॥

यः पुरस्ताच्चन्द्रोदयवतीं तिथि चतुर्दशी तेन मिश्रा वा पञ्चदशी यजनीयमहर्बुद्ध्वा तदनुगुणं प्रवृत्तदर्शतन्त्रो हविर्निर्वापोत्तरकालं तत्त्व जानीयात्स निरुतस्य हविषस्तण्डुलान्थूलमध्यमाणुमेदेन त्रेधा विभज्य मध्यमानग्नये दाने पुरोडाशमष्टाकपालं कुर्यात् । 'अधिवपनादिष्वग्निं दातारमुपलक्षयोदित्यर्थः । स्थविष्ठानिन्द्राय प्रदाने सायदोहे चहें कुर्यात् । अणिष्ठान्विष्णवे शिपिविष्टाय प्रातर्दोहे । तत्र चरुधर्मा यवाग्वा व्याख्याताः । 'चरुसांनाय्ययोः श्रपणात्स्थानाच्च तयोरेव गुणविकारौ । पुरोडाशस्त्वाग्नेयविकार एव । पुनरिज्यायास्तु विकल्पः । तदुक्तम्- एकामेव यजेत द्वे एव यजेत ' इति । नायं विधिरसंनयतः, सांनाय्यसंयोगात् । आह चाऽऽश्वलायन:-सांनाय्ये पुरस्ताच्चन्द्रम'साऽम्युदित इति । भारद्वाजस्त्वाह- सोऽयं नासंनयतो विद्यत इत्येकम् । विद्यत इत्यपरम् इति। विद्यत इति पक्षेऽप्सु श्रपणम् | चोरेन्द्राग्नवच्च धर्माः ॥ ७६ ॥

अनिरुप्तेऽभ्युदिते ॥७७॥

प्राकृतीभ्यो निर्वपेदित्यनुषङ्गः । यदा . पुनराग्निर्वापादकालप्रवृत्तिर्जाता तदा संशयः, किं प्राकृत्या एव देवतायै निर्वतव्यमुत वैकृतीभ्य इति । तत्र प्राकृतीभ्य इत्यापस्तम्बो मन्यते । प्राकृतीभ्य इत्यविवक्षिता संख्या ।। ७७ ॥

व्यृद्धभाग्भ्यो निर्वपेत् ॥ ७८ ॥

‘वि वा एतं प्रजया पशुभिरर्धयति' इत्यर्थवादेन व्युद्धिहेतुत्वख्यापनादम्युदितं हवियूद्धमित्युच्यते । तद्भजन्ते या वैकृत्यो देवतास्ता व्यूद्धमानः । ताम्यो निर्वपेदित्यर्थः ॥ ७८ ॥

तथैकदेशे निरुप्तेऽभ्युदिते व्यृद्धभाग्भ्यः शेषम् ॥ ७९ ॥

विनिरुतमर्धनिरुप्तम् । तत्राभ्युदिते प्राकृत्या एव देवतायै शेषं निर्वपदिस्पर्थः ॥७९॥

तामिष्टिꣳ सꣳस्थाप्य वत्सानपाकृत्य श्वः सांनाय्येन यजेत ॥ १५.१.८० ॥

अथ निरुप्तानिरुप्तविशेषयोः शाखान्तरीया अपि कल्पा विकल्पार्थे प्रदर्श्यन्ते यस्यागृहीतं हविरभ्युदियाङ्गतचर्यां वा नोदाशसीत । स त्रेधा तण्डुलानिति. पूर्ववत् ।

२७४ ।सत्यापादविरचितं श्रौतसूत्रम्- [१५ प्रमे

अथोत्तरस्मै हविषे वत्सानपाकृत्योपवसेत् ' इति भरद्वाजादयः । अगृहीतमनिरुतम् । अनिरुतविषये पूर्ववर्दम्युदितेष्टिं कृत्वा पुनरिज्यां कुर्यात् । निरुत्तविषयेऽपि वक्ष्यमाणप्रतचर्याकल्पाशक्तावेव कुर्यादित्यर्थः । वतचर्या वा नोदाशंसीत । इतचर्या उपवसथा. भ्यासः । तां च मोदाशंसीत, न शक्ष्यामि कर्तुमित्युदीक्ष्य नाशंतीत नेच्छोदित्यर्थः । तथाच व्रताशक्तावेवेति कात्यायनः । पुनरिज्यानियममानमत्राधिकमिति वेदितव्यम् । ' अथ यस्य गृहीतं हविरभ्युदियात्सैव प्रायश्चित्तिः सा व्रतचर्या, इत्यापस्ताम्बः । निरुतविषये सेवामावास्यैव पुनरभ्यस्ता प्रायश्चित्तिः, सा वा व्रतचर्या प्रत्यमहरेव वाऽभ्यस्तमित्यर्थः । तदत्र निरुप्तविषयेऽनन्तरसूत्रोक्तेन कल्पेन सह त्रयोऽमी शाखान्तरकल्पा उक्ता भवन्ति, यथा प्रकृतिमेवाविकृतां कृत्वा तयैव पुनर्यजेत । अभ्युदितेष्टिं वा कृत्वा प्रकृल्या पुनर्यजेत । उपवसथमात्रं वा वर्धयित्वा पम्याद्यजेतेति । तदेतदुक्तं बौधायनीये स. ह स्माऽऽह बौधायनः सिद्धैरेवाऽऽमावास्यैहविभिरिट्वा पुनरुपोष्य श्वोभूते काल्यामनभ्युदितामन्यापन्नां यजेत । अत्र ह स्माऽऽह शालीकिः-Wषा ब्राह्मणजेष्टिस्तया व्यक्तयेष्ट्वा पुनरुपोप्य श्वोभूते काल्यामनभ्युदितामव्यापन्ना यजेतेत्यपि योपावसथ एवा. तिप्रवर्धत, इति । सा व्रतचर्येत्यत्र प्रयोगमाहाऽऽपस्तम्बः- वत्सान्मातृभिः स सज्य पुनरपाकृत्य पूर्वेयुर्दुग्धं दधि हविरातञ्चनार्थ निदध्यात् ' ( आप० श्री ०९-५-१४) इति । अग्न्यन्वाधानादि. सर्व कर्म यथानुष्ठितमेवावतिष्ठते । प्रातर्दोहार्थं त्वंपाकृतान्वत्सान्मातृभिः ससृज्य सायंदोहार्थं पुनरु( र ) पाकृत्य दध्युत्पादयेत् । यत्तुं प्रांगुत्पन्न दधि हविस्तदातश्चने निध्यात्प्रतिपादयेत् | यदि प्रातदोहोऽप्युत्पन्नः स च तस्मिन्नेव "दधन्यभिदोहत्वेन योज्यो न त्याज्यः । तत एव न्यायात् । यस्तु निरुप्त एवाऽऽनेयो "धार्यते, श्रपितश्चेत् त्याज्य एव, अशक्तपर्युषितत्वादिदोषप्रसङ्गात् । ततः श्वोभते कृतान्तात्प्रक्रम्य यजेत । यदा तु कृतायामिज्यायां चन्द्रज्ञानं तदा पुनरिज्यैव । अकाले कृत्तस्याकृतत्वात् ॥ ८०॥

अग्नये पथिकृते पुरोडाशमष्टाकपालं निर्वपेद्यो दर्शपूर्णमासयाजी सन्नमावास्यां वा पौर्णमासीं वाऽतिपादयदिति ॥ ८१॥

एतदुक्तं ब्राह्मणे कल्पान्तरेषु च तत्तथा कुर्यादित्यर्थः । इदं च तत्रोक्तम्-आरब्धदर्शपूर्णमासः संस्तयोरन्यतरं स्वकालादतिपाद्यादनडुद्दक्षिणां पाथिकृती निर्वपेदिति । तां च कृत्वा वैश्वानर्यपि कार्या, निमित्तैक्यात् । एकस्मिन्दोषे श्रूयमाणानीति वचनाच तेच कृत्वाऽतिपन्नेष्टिरपि कार्या कालातिपत्त्यर्थत्वात्तयोः । उक्तं च बौधाय. । नेन पापिकृतं निरुप्य वैश्वानरं द्वादशकपालं निर्वपदयातिपन्नां प्रतियजे.

२ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । २७६

दिति । कल्पान्तरमप्याह । तत्राऽऽह स्म ह शालीकिः-पाथिकृतं निरुप्य वैचानरं द्वादशकपालं समानतन्त्रमनुनिर्वपेनचातिपन्न प्रतियजेत, इति । तत्र च यावदुत्तरस्य कर्मणः कालस्तावदेवेष्टाऽतिपन्नेष्टिः । उत्तरेण त्ववरुद्धे काले प्रायश्चित्तमात्रं तदधिकाराय क्रियते नातिपन्नेष्टिः । अकाले कृतस्याकृतत्वात् । अयापद्यकृतप्रायश्चित्तस्यैव गौणमेनं कालमाहुः कल्पान्तरकाराः । भरद्वाजस्तावत्- आ दर्शात्पोपोमासस्य कालो नातीयादापौर्णमासाद्दर्शस्येति कालातिकमेऽप्यापदि यजेत, इति । निदानकारोऽप्याह-'सर्वत्राऽऽपूर्यमाणपक्षो दर्शस्य स्थानं कृष्णपक्षश्च पौर्णमासस्येति । तथा पौर्णमासेन हविषाऽपरपक्षममि यनेताऽऽमावास्येन पूर्वपक्षमिति च वचनान्तराणि कल्पान्तरत्वान्न लिख्यन्ते । समानमेतद्विबहूनामतिपत्तावपीति द्रष्टव्यम् । योऽयं पाथिकृतः पुरोडाशः सोऽतिपन्नेष्टया सह । तथा चाऽऽह भगवानापस्तम्बः'समानतन्त्रे वा मुख्यः कार्यः' (आप ० नौ०९-४-३)। तच्चातिपन्नेष्टेः सर्वथाऽतीतकालत्वे न संभवतीति गौणकाल एव व्यवतिष्ठते । न चास्मिन्कल्पे वैश्वानरी, शारजान्तरीयत्वात् पाथिकृतेन सहातिपन्नयागनिवृत्तेश्च । एवमुत्तरविकल्पयोर्द्रष्टव्यम् ॥ ८१॥ अथ प्रवृत्तस्यातिपत्तौ शाखान्तरीय विधिमाह--

वि वा एतस्य यज्ञश्छिद्यते यस्य यज्ञे प्रततेऽन्तरेतामिष्टिं निर्वपन्ति । य एवासावाग्नेयोऽष्टाकपालोऽमावास्यायां पौर्णमास्यां तमेवाग्नये पथिकृते कुर्यात्तेनैव पन्थां पुनरेवैति न यज्ञं विच्छिनत्तीति विज्ञायते ॥ ८२ ॥

यस्य प्रारब्वेष्टिमध्ये विहता स्यात्तस्य यदि मध्येयज्ञं पाथिकृती क्रियेत तदास यज्ञः पूर्वप्रततो विच्छिद्येत, न चान्ते कर्तव्यतेप्यताम्, नित्य दोषमतिपन्नायाः कर्तव्यत्वात् । अतो य एव तत्राच्युत आग्नेयः स एव पधिकृद्गुणक: कार्यः, तेनैव पुनर्यज्ञस्य विहतस्य पन्थानं प्रतिपद्यते, न च यज्ञो विच्छेदितो भवतीति । स चाय कल्पः प्रवृत्तस्यातिपत्तौ पूर्वाभ्यां विकल्पाभ्यां विकल्प्यते, शाखान्तरीयत्वात् । अप्रवृत्तस्य तु पूर्वावेव भवतः प्रवृत्तकविषयत्वादस्य ॥ २ ॥

प्रवृत्तस्य कालातिनयेऽप्रवृत्तस्य वैश्वानर्यग्नये व्रतपतये पुरोडाशमष्टाकपालं निर्वपेत् ॥ ८३ ॥

आचार्यस्तु पाथिकृतीमपि प्रवृत्तविषया वष्टि यथा एनां प्रकृत्याऽऽहेति प्रवृत्तस्य कालापनयेऽप्रवृत्तस्य वैश्वानरीयेति । नायमभिप्राय आपस्तम्बस्य । तस्य सामान्यतो वचनादन विशेषवचनाच ॥ ८३ ॥

२८. सत्यापादविरचितं श्रौतसूत्रम्- [१५ प्रश्ने

य आहिताग्निः सन्नव्रत्यमिव चरेत् । य आहिताग्निः प्रवसेदित्येकेषाम् ॥८४ ॥

व्रतभ्रेषोऽनत्यचरणम् । 'प्रत्येऽहनि मासं वाऽश्नाति स्त्रियं वोपैति' ( आप० श्री. ९.-१-४) इति वचनान्न पूर्वाभ्यां संवध्यते । तेन सार्वकालिकयोरेव व्रतभ्रेषप्रवासयोर्भवति व्रातपती । व्रत्येऽहनीति सूत्रान्तरवचनं काकाक्षिवदुभयत्र संबध्यत इत्यपरम् । बौधायनश्चाऽऽह- 'य आहिताग्निः सन्नवत्यमिव चरेदित्याधानप्रभृत्येवेदमुक्तं भवतीति । अन्वाहितेष्वेवोपसमाहितेषु चेति शालीकिः' इति ॥ ८४ ॥

अग्नये व्रतभृतेऽष्टाकपालं य आहिताग्निरार्तिजमश्रु कुर्यात् । व्रातभृतीं प्रवास एके समामनन्ति । व्रातपतीमश्रुकर्मणि ॥ ८५ ॥

आतिजग्रहणं हर्षजाश्रुव्यावृत्त्यर्थम् । केचिद्रतभृद इति दकारश्चान्दसः प्रामादिको वा । प्रत्येऽहनीत्यनुषङ्गः । तथा च बढचा:-'तदाहुर्य आहिताग्निरुपवसथेऽश्चु कुर्वीत' इति ॥ ८५ ॥

त्वमग्ने व्रतभृच्छुचिर्देवाꣳ आसादया इह । अग्ने हव्याय वोढवे ॥ व्रता नु बिभ्रद्व्रतपा अदाभ्यो यजा नो देवाꣳ अजरः सुवीरः । दधद्रत्नानि सुविदानो अग्ने गोपाय नो जीवसे जातवेद इति याज्यानुवाक्ये ॥ (ख०४)॥८६॥

इति सत्याषाढहिरण्यकशिसूत्रे पञ्चदशप्रश्ने प्रथमः पटलः ॥

इदं याजुषं होत्रम् ॥ ८६ ॥ इति सत्याषाढहिरण्यकशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायो प्रयोगचन्द्रिकायाँ पश्चदशप्रश्ने प्रथमः पटलः ॥

15.2 अथ पञ्चदशप्रश्ने द्वितीयः पटलः ।

यस्माद्भीषा निषीदसि ततो नो अभयं कृधि । प्रजाभ्यः सर्वाभ्यो मृड नमो रुद्राय मीढुष इत्यभिमन्त्रयेत ॥१॥

तामिति शेषः ॥ १॥

२ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । २८१

यद्यग्निहोत्र्युपसृष्टोपसन्ना वा निषीदेदुदस्थाद्देव्यदितिर्विश्वरूप्यायुर्यज्ञपतावधात् । इन्द्राय कृण्वती भागं मित्राय वरुणाय चति तामुत्थाप्य दुग्ध्वा ब्राह्मणाय दद्यात् ॥ २ ॥

अग्निहोत्रद्रव्यधुग्धेनुराग्निहोत्री । सा यदि प्रस्रवणार्थमुपसृष्टा संयोजितवमा वा निषीदेवत्थापयत्यध्वर्युः । तां दुग्ध्वा सह क्षीरेण तस्मै दद्याद्यजमानो यस्यान्नं न भुञ्जीत । अत्र शाखान्तरश्रुतिमुदाहरत्यापस्तम्बः- अवर्तिमेवास्मिन्पाप्मानं प्रतिमु - श्वतीति विज्ञायते ' (आप० श्री० ९-२-५) इति । तथा च कृते तस्मिन्नेवावर्तिलक्षणं पाप्मान प्रतिमुञ्चति आसनति । अवर्तिर्दारिद्यमशनाया वा ॥२॥

यस्यान्नं नाद्यादपि वैनां दण्डेन विपिष्याविपिष्य वोत्थाप्याऽऽत्मन्कुर्वीत सूयवसाद्भगवती हि भूया अथो वयं भगवन्तः स्याम । अद्धि तृणमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्तीति दर्भस्तम्बमालु(लो)प्य ग्रासयेत् ॥ ३ ॥

तामात्मनि कृतामेवं ग्रासयित्वा ततो होमाय दुह्यादिति भावः ॥ ३ ॥

यदि दुह्यमाना वाश्येत यदि वा लोहितं दुहीत व्युत्क्रामतेत्युक्त्वा दक्षिणाग्निं परिश्रित्य तस्मिन्नेतꣳ श्रपयित्वा तस्मिन्नेव जुहुयात् । तां ब्राह्मणाय दद्याद्यमनभ्यागमिष्यन्मन्येत ॥ ४॥

व्युत्क्रामतान्यत्र गच्छतेति यजमानादीनां प्रैषः । यमनभ्यागमिष्यन् य प्रति कस्मैचिदपि कार्याय न गमिष्यति तस्मै दद्यात् ॥ ४ ॥

यदद्य दुग्धं पृथिवीमसक्त यदोषधीरप्यसरद्यदापः। पयो गृहेषु पयो अघ्नियासु पयो वत्सेषु पयो अस्तु तन्मयीत्येनदभिमन्त्र्य यदि दुह्यमानꣳ स्कन्देत्समुद्रं वः प्रहिणोमीत्येतयाऽद्भिरुपनिनीय तदेव यादृक्कीदृग्घुत्वाऽन्यां दुग्ध्वा पुनर्जुहुयात् ॥ ५ ॥

सामान्यतोऽग्निहोत्रस्कन्दने-अस्कान्धौरित्यभिमन्त्रणम्, उन्ने भयेत्याद्भिः संसर्ग घ वक्ष्यति तस्यायं पुरस्तादपवादः ॥ ६ ॥

१ स.यो त्यमिहोत्रमभिमन्वयेत ।

१९४२ सत्यापाढचिरचितं श्रौतसूत्रम्- [१५ प्रो

अपि वा तां चैव दुह्यादन्यां वा यदि भिन्द्यादन्याँ स्थालीं निर्णिज्याथान्यां दुह्यादुदकं त्वनुपरासिच्यम् ॥ ६॥

स्थाली चेदेकदेशतो भिन्द्यात्तदा प्रक्षाल्य तो स्थाली तस्यामेवान्यां गां दुह्यात् । तामेव वा गां सा चेत्पुनः प्रपीना स्यात् । सर्वमेदे तु स्थाल्यन्तरमागमयेत् ॥ ६॥

यदि दुग्धꣳ स्कन्देद्यदि ह्रियमाणं यद्यधिश्रीयमाणं यद्यधिश्रितं यद्युद्वास्यमानं यद्युद्वासितमन्यामभिदुह्यात् ॥ ७ ॥

दुह्यमानस्कन्दने प्रायश्चित्तमुक्तं पूर्वसूत्रे । तथा दुग्धादीनामाप पुरस्ताद्वक्ष्यते । तत्रोभयेषामपि द्रव्यमनेन नियम्यते । अतो दुह्यमानस्य पुनर्ग्रहणम् । हियमाणं गार्हपत्येऽधिश्रयणार्थम् । तदेव यादृगित्यादि स्कन्नशिष्टमेव यावत्तावद्वाऽल्पं शिष्टमपि होतव्यमित्यर्थः । अथ यद्यल्पतरमवशिष्टमनाहुतिक्षम स्यात्तदा तस्योपर्यन्यो दोहयित्वा वर्षितेन होतव्यमित्यर्थः ॥ ७ ॥

अथ यद्युन्नीतꣳ स्कन्देद्यदि द्विर्यदि त्रिर्न तदाद्रियेतेत्येकेषाम् । चतुर्थमुन्नीयमानꣳ स्कन्देत्स्थाल्याँ शेषमानीय ततश्चतुर्गृहीतं गृहीत्वा वारुणीमृचमनूच्य वारुण्यर्चा जुहुयात् ॥ (ख०५) ॥८॥

यदि सद्विस्त्रिोन्नीतं , क्रमशो. युगपद्वा.. स्कन्देन्न तदाद्रियेत । शिष्टेनैव जुहुयात् । आद्रियेतैव तु स्कन्नप्रायश्चित्तम् । आहुतिमात्रस्कन्दने प्रायश्चित्तविधानात् । यदि पुनश्चतुर्थ स्कन्देत्तदा नुचि शिष्टं स्थाल्यामानीय पुनरुन्नयितव्यमभिदोह्यं वा सुचि । तत्र चतुरित्येतदनुवादत्वात्पञ्चमस्याप्युपलक्षणं पञ्चावत्तिनः । तेन चतुर्थमित्येतदपि चतुर्थप्रभृतीत्युक्तं भवति । तथाऽत्र प्राक्चतुर्थादनादरवचनात्पूर्वसूत्रेऽप्युन्नीयमानमुन्नीत वा स्कन्देदित्येतचतुर्थप्रभृत्येव स्कन्दनेऽवतिष्ठते । तस्य चानेन समुच्चयासंभवाद्विकल्पः । केचित्तु विनिवेशनं कुर्वन्ति । यत्र तु सकृद्विस्त्रिोन्नीतस्कन्दने सति चतुर्थप्रभृत्यप्युन्नीतं स्कन्दति तत्रायं विधिः । अन्यत्र पूर्व इति ॥ ८ ॥

यद्युन्नीतꣳ स्कन्देत्पुनरभ्युन्नीय होतव्यमथाऽऽज्येन वारुणीमृचमनूच्य वारुण्यर्चा जुहुयात् ॥ ९॥ यद्युद्द्रुतस्य स्कन्देद्यत्ततो हुत्वा पुनरेयद्यज्ञं विच्छिन्द्याद्यत्र स्कन्देत्तं निषध पुनर्ग्रह्णीयात्तदेव यादृक्कीदृग्घुत्वाऽन्यां दुग्ध्वा पुनर्जुहुयात् ॥१५.२.१०॥

१ पटलः ] महादेषशालिसकलितमयोगचन्द्रिकाच्याख्यासमेतम् । २८३

उदद्रुतस्येति आदिकर्मणि क्तः । उद्रुतमुत्थाय प्राल्नेतुं प्रक्रान्तमित्यर्थः । प्राङ्नयनप्रभृत्युत्तरत्रोपादानात् । उक्तं च ब्राह्मणे- बृहस्पतेरुन्नीत सवितुः प्रक्रान्तं धावापृथिव्यं हियमाणम् ' इति । तदुद्भुतं यत्र स्कन्देत्तन्निषद्य तत्राऽऽसित्वा स्कन्नस्योपरि स्थाली निघायं तस्याः पुन: खुचि गृहीत्वा तदेवाभिवर्धित होतव्यं न तु ततः पृथग्द्रन्यान्तरमुत्पादयितव्यमित्यर्थः । यथा चायमर्थस्तथा यद्यदुतस्य स्कन्देदित्यादिश्रुतिरेव विभावितव्या । व्याचष्टे च तो बौधायनो यथा-यदुद्रुतस्य स्कन्देत्तन्निषद्य पुनर्ग्रहीयादिति । यत्रैव स्कन्दति तत्रैव स्थाली निधायातिशिष्टमानीय पुनरभ्युन्नीय तदेव याहक्कीहक् च होतव्यमिति । पुन)मः प्रागेव व्याख्यातः । दस्मिन्कृते-अव ते हेड इत्यनुद्रुत्योदुत्तममिति वारुण्यर्चाऽऽज्याहुतिं जुहुयात् ॥ ९ ॥१०॥

यदि प्राचीनꣳ ह्रियमाणꣳ स्कन्देत्प्रजापतेर्विश्वे भृति तन्वा( न्वां )हुतमसीत्यभिमन्त्र्याथाऽऽज्येन वारुणीमृचमनूच्य वारुण्यर्चा जुहुयात् ॥ ११ ॥

अत्र तु ह्रियमाणमिति विशेषणाद्यावन्नियच्छत्युद्गृह्णाति वा तदाऽपूर्व एव विधिभवति । प्राचीनं प्राक्प्रवृत्तम् । यावत्पुरतः पराहृतं स्यादित्यर्थः । तत्र प्रजापतोरत्यमिमन्त्रणमन्त्रोऽस्का नित्यस्यापवादः । उपसर्गस्तु यथोक्त एव भवति । तत एतदेव स्कनशिष्टमग्निहोत्रद्रव्यं स्यान्न त्वन्यां दुग्ध्वा पुनोतव्यमित्यापस्तम्बीये त्वश्मिर ध्यमतम् । पुनः सिद्धान्तमतात्तु पुनर्होमोऽपि कार्यः । तत्राशेषस्कन्दने स्याल्या! पुनर न्नयनम् । स्थाल्या अप्यभाव आज्यं च प्रतिनिधिमाहाऽऽश्वलायनः प्रजापतेर्विश्वभृति तन्वं हुतमसीति तत्र स्कन्नाभिमर्शनम् । शेषेण जुहुयात् । पुनरुन्नीयाशेषे । आज्यमशेष ' इति ॥ ११ ॥

यदि पुरः पराहृतꣳ स्कन्देदनूद्धृत्य पुनरभ्युन्नीय होतव्यमथाऽऽज्येन वारुणीमृचमनूच्य वारुण्यर्चा जुहुयात् ॥ १२॥

पुरः पराहृतं पुरस्तादुपसादनशेष प्रति नीतमित्यर्थः । तत्रोपसन्नस्य पुरस्तादुपसादनादुपसाद्यमानेऽप्ययमेव विधिः । अनुदाहृत्य चमनु स्थालीमानीय ' चतुरभ्युनीय होतव्यमन्यया वाऽभिदोह्यमित्यापस्तम्बः ॥ १२ ॥

यदि पुर उपसन्नमहुतꣳ स्कन्देत्तदेव यादृक्कीदृक्च हुत्वाऽन्यां दुग्ध्वा पुनर्जुहुयात् ॥ १३ ॥

दर्भेषूपसादनप्रभृत्या पूर्वाहुतेरय विधिः । यदि पूर्वस्यामाहुत्यामिति पुरस्ता. दुपादानात्ततोऽर्वागवध्यन्तरानुपादानाच्च । तथा च ब्राह्मणम्-ऐन्द्राग्नमुपसन्नम् ।

२८४ सत्याषाढविरचितं श्रौतसूत्रम्- [१५ प्रश्न

अमेः पूर्वाहुतिः' इति । उपसन्नमहुतमुपसादनप्रभृति यावन्न हुतं तावदित्यर्थः ॥१३॥ ___नन्वेवं पूर्ववदनुक्तसिद्धे परावधावहुतमिति कस्मादुक्तम् । को दोषः । पूर्व हि कथंचिद्गम्यमानत्वात्परावधिोपात्तः । इदानीमापस्तम्बसूत्रे सोऽपि पठित इति तथैव दार्शितः । तेनाचोद्यमेतत् । पुनर्होमादि समानमुद्भुतस्कन्दनेन । एवमग्निहोत्रस्कन्दने द्रन्योत्पत्तिरुक्ता । इदानीं प्रायश्चित्तमाह

अस्कान्द्यौः पृथिवीमस्कानृषभो युवा गाः । स्कन्नेमा विश्वा भुवना स्कन्नो यज्ञः प्रजनयतु । अस्कानजनि प्राजन्या स्कन्नाज्जायते वृषा । स्कन्नात्प्रजनिषीमहीत्यग्निहोत्रꣳ स्कन्नमभिमन्त्र्याद्भिरुपनिनयेत् ॥ १४ ॥

उपनिनयेत् संसृजेत् ॥ १४ ॥

यदि सायꣳ स्कन्देदा होतोः प्रातर्नाश्नीयात् । यदि प्रातः स्कन्देदा होतोः सायं नाश्नीयात् ॥ १५॥

सायस्कन्दने प्रातरा होतोः, आप्रातमि नाश्नीयात् । एवमा सार्थहोतो; प्रातः । सर्वाग्निहोत्रद्रव्याणामयमेव विधिः स्कन्दने । द्रव्योत्पत्तौ त्वभिदोहनादिस्थाने तज्जातीयस्य द्रव्यस्य पुनराहरणमिति विशेषः ॥ १५ ॥

दिव्या वा एतमशनिरभ्यवैति यस्याग्निहोत्रꣳ शिरिशि(शरश)रा भवति । समोषामुमिति ब्रूयाद्यं द्विष्यात् ॥ १६ ॥

शिशिशिरेति शब्दानुकारः । यस्याग्निहोत्रं शिरिशिरायते तस्यायमशनिपातो दुर्निमित्तमिति यावत् । तत्र यजमानद्वेष्यस्य नाम गृहीत्वाऽध्वर्युर्च्यात्-तत्र समोष देवदत्तमिति । ओषतिर्दाहकर्मा । तस्य संपूर्वस्य रूपं समोषेति ॥ १६ ॥

यस्याग्निहोत्रेऽधिश्रिते श्वाऽन्तरा धावेद्गार्हपत्याद्भस्माऽऽदायेदं विष्णुर्विचक्रम इति वैष्णव्यर्चाऽऽहवनीयाद्ध्वꣳसंयन्नुद्द्रवेदेतयैव भस्मना शुनः पदमुपवपति ॥ १७ ॥

ध्वंसयन्नितस्ततो भस्म विकिरन्गत्वा शुनः पदानि भम्मनाऽभिपूरयेत् । अधिश्रयणप्रभृति ओद्वासनादिदं प्रायश्चित्तम् । आप्रदानमित्यपरे । अन्यदा(था) सर्वप्रायश्चित्तमेव ॥ १७ ॥

२ पटलः] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमैतम् । २८५

यस्यानाहृतमग्निः सूर्योऽभिनिम्रोचेद्यत्र दीप्यमानं परापश्येत्तत आहृत्यैनं प्रविशानीति वैष आधीयते ॥ १८॥

अहरहरेनमाहरेयुरिति दक्षिणाग्नावुक्तम् । तत्र यद्यनाहृतेऽसौ सूर्योऽस्तमियात्तदा पुष्टगृहादियोनिविशेषमनवेक्ष्य यत्र दृष्टोऽग्निस्तत आहृत्येतं प्रविशानीत्येष विधीयते । वाकारः प्रसिद्धौ । अथवा एतं प्रविशानीति वा तूष्णीं वा विधीयत इत्यर्थः । अमिनिनोचेदिति वचनादम्युदये तूप्णीमाधेयः ॥ १८ ॥

इति दक्षिणाग्नेरनुगतस्याऽऽधानकल्पः ॥१९॥

सर्वत्रानुगतस्यापि दक्षिणाग्नेर्यथायोन्युत्पाद्या(दनम )यमेवाऽऽधानप्रकार इत्यर्थः । दक्षिणाग्नेरिति वचनात् । सम्यावसथ्ययोस्तृप्णीमेवाऽऽधानम् । प्रायश्चित्तं तु सर्वेषु सर्वप्रायश्चित्तमेव, विशेषस्यानुफ्तत्वात् ॥ १९ ॥

यस्यानुद्धृतमग्निꣳ सूर्योऽभिनिम्रोचेत् ॥(ख०६)॥ अग्निहोत्रं पूर्वꣳ हरेयुः । अथाग्निमुद्धरेयुः । अपि वा दर्भेण हिरण्यं प्रबध्य पूर्वः प्रतिपद्येतान्वङ्ब्राह्मण आर्षेयो बहुविदग्निमुद्धरेत् । अन्वङ्ङग्निहोत्रेणानुद्रवेदग्निं प्रतिष्ठाप्याग्निहोत्रमुपसाद्याऽऽतमितोरप्राणन्नासित्वा वरं दत्त्वा हुत्वा भूर्भुवः सुवरित्युपतिष्ठेत वारुणं चरुं निवपेत् ॥ दोषावस्तर्नमः स्वाहेति जुहुयात् ॥ १५.२.२० ॥

अधिवृक्षसूर्ये प्रणयनस्योक्तत्वात् । तदतिक्रमे प्रायश्चित्तमिदम् । अत उद्धरणश देन प्रणयनं लक्ष्यते । यथा यस्याग्नावग्निमुद्धरेयुरित्यादौ । तथा यस्याऽऽहवनीयमप्रणीतमभ्यस्तमियादित्याश्वलायनः । तेनोद्धतेऽप्यप्रणीते भवत्येव प्रायश्चित्तम् । वेदार्थविदाय इति व्याख्यातं ब्रह्मौदने । तत्रैव बहुविषयं वेदनं यस्य स बहुवित् । अथवा ब्राह्मण आर्षेय उद्धरेदिति ब्राह्मणस्य व्याख्या बहुविदिति । तत्र च वेदनबहुत्वस्यापोक्षतत्वात् । यस्य यस्य यतो यतो वेदनप्रकर्षस्तस्य तस्य परिग्रहे गुणातिशय इति द्रष्टव्यम् । तत्रेमाहरणादारभ्य प्रागुव्वणादाहवनीयकर्मवर्जमध्वर्युणा कृते यजमानस्य परिकर्मी कश्चिद्दर्भण बद्धं हिरण्यं पुरस्ताद्धरेत् । तमन्वङ् अनुगतो बहुविदग्निमुद्धरेदविधिवत्प्रणयेत् । तमन्वङग्निहोत्रेणाध्वर्युरनुद्भवेत् । ततः परिकर्मिणा स्थापिते हिरण्ये बहुविदग्निं प्रतिष्ठाप्य मुञ्चति । ततोऽग्निहोत्रमुपसादयत्यध्वर्युः । नित्यमिति सूत्रान्तरे

४६ । सत्यापाढविरचितं श्रौतसूत्रम्--.[१५ प्रभ

नित्याग्निहोत्रमेवेदं न तु वैकृतं सत्पुनहोंमापेक्षमित्यर्थः । नित्यः पयसो नियत इत्यन्ये । तत आहवनीयस्येधमाधानादिप्रतिपद्याः पूर्वाहुतेः कृत्वा ततो यात्तास्य( म्य )ति तावदनुच्छ्रसन्नासीत । उच्छृस्य हुत्वाऽग्निहोत्रं वृष्टिरसीत्यपामुपस्पर्शनान्ते कृते भूर्भुवः मुवरित्याहवनीयमुपस्थाय तदानीमेव वारणं चकै निर्वपेत् ।। श्वोभत- इति भरद्वानः । दोषावस्तनमः स्वाहेति जुहुयात् । एतदेव नित्यमग्निहोत्रमित्याश्मरथ्यः । अथाऽऽलेखन: कालसमापादनीयमेवानेन मन्त्रेण होमं हुत्वा निल्यमनिहोत्रं जुहुयादिति पूर्ववत् ॥ २०॥

यदि सायमग्निहोत्रस्यर्तुमति नयेत्प्रातर्वस्तर्नमः स्वाहेति जुहुयात् ॥ २१ ॥ यदि प्रातरग्निहोत्रस्यर्तुमति नयेत्कालसमाप(पाद)नीयमेताभ्यां मन्त्रा'भ्याꣳ हुत्वा नित्यमग्निहोत्रं जुहोति ॥ २२ ॥

अग्निहोत्रे संध्यादयः सायंप्रात)मकाला उक्ताः । तेषां - - सर्वेषामतिपत्तौ प्रायश्चित्तमुपदिश्यते । तथा प्रदोषान्तो होमकालः, संगवान्तः प्रातस्तमतिनीयेत्याश्वलायनः । तत्र त्वापंदि काला उक्ताः सूत्रकृता- 'यन्मध्यदिने जुहोति ' इत्यादिना । तथो. पग्रन्थकारेणाप्युक्तम्-'सर्वमहः प्रातराहुतेः स्थानं सर्वा रात्रिः 'सायमाहुतेः' इति । भरद्वाजोऽप्याह-सायं होमं चोपोदयं जुहुयात् । प्रातहोंमें चोपास्तमयम् । कालेन कालमनतिक्रम्य न स्कन्दने न व्यथन्ते, इति विज्ञायते' इति । तस्मादनापद्येतत्प्रायश्चित्तम् । आपदि तु होम एव क्रियेत । यावदुत्तरस्य कालः प्राप्पयति । प्राप्ते तूत्तरस्मिन्न पूर्वः क्रियेत, भ्रष्टकालत्वात् । प्रायश्चित्तं तु तत्र परस्तादर्शयिप्यते । कालः समापद्यते येन स कालसमापादनीयः । तं हुत्वेष्माहरणादि । स एवाग्निहोत्रार्थ कौश्चि. दिष्टस्तन्निरासार्थमुक्तं नित्यमग्निहोत्रमिति ॥ २१ ॥ २२ ॥

सायमग्निहोत्रमुपसाद्य भूर्भुवः सुवरिति पुरस्ताद्धोतोर्वदति हुत्वा च प्रातरग्निहोत्रमुपसाद्याऽऽतमितोरप्राणन्नासित्वा वरं दत्त्वा हुत्वा भूर्भुवः सुवरित्युपतिष्ठेतानुगमयत्याहवनीयमन्वग्निरुषसामग्रमख्यदित्यन्यं प्रणीयेहैव क्षेम्या एधि मा प्रहासीन्माऽमुमामुष्यायणमित्युपतिष्ठेत । मैत्रं चरुं निर्वपेत् ॥ २३ ॥

व्याख्यातः पूर्वेण । अमुमामुष्यायणमिति यजमानस्य नामगोत्रयोनिर्देशः । यथा देवदत्त भार्गवमिति ॥ २३ ॥ . . .

पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाच्याख्यासमेतम् । २७

सौर्यमेककपालमेके समामनन्ति ॥ २४ ॥

सौर्यस्याऽऽप्रयणोक्ता एककपालधर्माः कार्याः । स चाऽऽग्नेयविकारः ॥ २४ ॥

तस्याꣳ सꣳस्थितायामनश्नन्तौ वाग्यतावेतदहर्जायापती अग्निमिन्धानावासाते ॥ २५ ॥

'सस्थितायामिष्टयामाहवनीयमेवैतदहरिन्धानावनमन्तौ वाग्यतावासाते यजमानः पत्नी च' (आप० श्री०९-२-७) इत्यापस्तम्बः । आहवनीयमेवेति तमेवाऽऽहवनीय सायहोमार्थमिन्धानावित्यर्थः । अथ वा सर्वाग्नीन्धनस्याऽऽश्वलायनादिभिरिष्टत्वातन्निवृत्त्यर्थ एवकारः ॥ २५ ॥

द्वयोः पयसा सायमग्निहोत्रं जुहुयात् । पूर्वमधिश्रित्योत्तरमानयेत् ॥ २६ ॥

द्वयोर्गवोरिति शेषः पूर्ववत् । यथा द्वयोः पयसा पशुकामस्य जुहुयादित्यत्रोक्तरीत्येत्यर्थः । तत्र पूर्वमधिश्रयणमुपकारार्थमिति गम्यते ॥ २६ ॥

यस्यानुद्धृतमग्निꣳ सूर्योऽभ्युदियाच्चतुर्ग्रहीतमाज्यं गृहीत्वा पूर्वः प्रतिपद्येतान्वङ्ब्राह्मण आर्षेयो बहुविदग्निमुद्धरेत् । अन्वङ्ङग्निहोत्रेणानुद्रवेदग्निं प्रतिष्ठाप्याग्निहोत्रमुपसाद्य ॥ (ख०७) ॥पुरस्तात्प्रत्यङ्ङासीन उषाः केतुना जुषतां यज्ञं देवेभिरिन्वितं देवेभ्यो मधुमत्तमꣳ स्वाहेत्येतच्चतुर्ग्रहीतꣳ हुत्वा नित्यमग्निहोत्रं जुहुयात् ॥ २७ ॥

व्याख्यातोऽभिनिनोचनविधिना । झ्यास्तु विशेषः-हिरण्यस्थाने जुह्वां चतुर्ग्रहीत हरेत् । तच्च प्रतिष्टापितेऽग्नावध्वर्युरग्निहोत्रमुपसाद्य पुरस्तादाहवनीयस्य प्रत्यङ्मुख उपविश्य-उषाः केतुनेति जुहुयादिति ॥ २७ ॥

तस्य स एव होमकल्पः । सा प्रायश्चित्तिः। यत्प्रातर्ऋतावतीते ॥ २८ ॥

आतमितोरप्राणन्नित्यादिवरदानान्तो होमकल्पोऽनन्तरविधिना समानः | तयाssदित्योपस्थानादि द्वयोः पयसा होमान्तं प्रायश्चित्तम् । यत्प्रातर्ऋतावतीते यत्प्रातःकाला. तिपन्ने सतीत्यर्थः ॥ २८॥

एतावन्नाना । नात्रानुगमयत्याहवनीयम् ॥ २९ ॥

तस्मिन्नेवाग्नौ मैत्रेष्टिः साहोमश्चेति भावः ॥ २९ ॥

१८८ सत्याषाढविरचितं श्रौतसूत्रम्- [१५ प्री

यस्याहुतमग्निहोत्रꣳ सूर्योऽभ्युदियादुन्नीयाऽऽतमितोरप्राणन्नासित्वा हुत्वा भूरित्युपतिष्ठेत । वरो दक्षिणा ॥ १५.२.३० ॥

यस्यानुदिते होण्यामीत्यभिसंधाय प्रक्रान्तमग्निहोत्रमनुदित एवाहुतं स्यात्तद्यथा प्रक्रान्तप्रसवा स्त्री सद्योऽप्रसूताऽऽतिमियात् ताहगात भवति । तेन च यजमानोऽप्यात्मानं रुणद्धि दुःखायाऽऽत्मानं नयतीत्यर्थः । ततो दुःखाय रुद्धः सर्वज्यानि जीयते सर्वा बाधाः प्राप्नोति । तस्मादादर्तव्यमेतत् प्रायश्चित्तमिति भावः । आतमितोरमाणनित्यादि व्याख्यातम् ॥ ३० ॥

यद्यन्ते स्यादुन्नीय प्राङुदाद्रवेत्स उपसाद्याऽऽतमितोरासीत यदा ताम्येदथ भूः स्वाहेति जुहुयात् ॥ ३१ ॥

यद्यन्ते स्याद्ययेतन्निमित्त होमसमीपे स्यात् । किमुक्तं भवति । यदि निष्पन्नेऽग्निहोत्रदन्येऽर्वाग्धोमादुदयः स्यादित्यर्थः । तथा च भरद्वाज:-'यद्यन्ते स्यादित्यग्निहोत्रादनन्तरवादोऽभिप्रेतः' इति । तत्रोन्नयनाद्योपसादनात्कृत्वा प्राणायामेन: तान्तो मः स्वाहेति पूर्वाहुतिं जुहुयात् ॥ ३१ ॥

यस्य होष्यामीति प्रवृत्ते हुतअग्निहोत्रꣳ सूर्योऽभ्युदियाद्धुत्वा तदथोत्साद्य पुनराधेय इत्येकेषाम् ॥ ३२ ॥

होज्यामीति प्रवृत्ते, इति हुत्वा तदग्निहोत्रं विधिवदुद्वास्य पुनराधेयमप्यस्य प्रायश्चित्तत्वेन कार्यमित्याश्मरथ्यो मन्यते । नत्वन्येषामेतन्मतमित्यर्थः ॥ ३२ ॥

यस्योभावनुगतौ सूर्योऽभ्युदियात् । अपिवाऽस्तमियात् । यदिवाऽरण्योः समारूढो नश्येत्पुनराधेयमेव । तत्र प्रायश्चित्तम् ॥ ३३ ॥

सूर्योऽमिनिम्रोचेदम्युदियाद्वा (आप० श्री०९-२-७) इत्यापस्तम्बोक्तेश्च ॥३३॥

अग्नये तन्तुमतेऽष्टाकपालं निर्वपेद्यस्याग्निहोत्रं विच्छिद्येत द्व्यहे त्र्यहे वा ॥ ३४ ॥

चतुर्यु होमेष्वतिपन्नेषु तन्तुमती कार्या, पसु पाऽष्टासु वा । प्राक्तेभ्योऽवधिम्यो विच्छेदे वैशेषिकप्रायश्चित्तावचनात्सामान्योक्तः सप्तहोता भवति, सप्तहोत्रा यज्ञविभ्रष्टं पानयेदिति । न चाग्निहोत्रस्यायज्ञस्वादयज्ञविभ्रेषत्वमस्य शङ्कनीयम् । तस्मादग्निहोप्रस्य यज्ञक्रतोः, इति तस्यापि यज्ञसंस्तवाद्वौधायनेनास्यैवाऽऽहत्य यज्ञविभ्रेषत्ववचनाच । यथा प्रोषितमधिकृत्योक्तम्-अथ यद्यस्मै यज्ञविभ्रषमाचक्षते, न तेऽहौषु.

३ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकान्याख्यासमेतम् । २८६

रितीति । तथोपग्रन्थकारेणापि को नु खलु विद्वेष इति प्रकृत्योक्तम्- 'यस्याग्निहोत्रस्याऽऽहुती अन्योन्यस्य स्थानमापद्यते । इति । तस्माद्युक्तमेव सप्तहोता भवतीति । यज्ञविनेषेष्टेस्तु विषयव्यवस्था प्रागेव दर्शिता । कात्यायनस्तत्राऽऽह- अग्निहोत्रातिपत्तावाहुतिं जुहुयान्मनो ज्योतिर्जुषतामिति । आश्वलायनश्च मनस्वत्या चतुर्गृहीतं प्रकृत्याऽऽह-अग्निहोत्राहोमे च प्रतिहोममेकः, इति । बौधायनेनासमारूढविषये प्रतिहोम एवोक्तः । । यथा दीप्यमानेष्वेवाहयमानेषु यावन्त्यतिक्रान्तान्यग्निहोत्राणि स्युस्तानि प्रतिसंख्याय जुहुयात् ' इति । विदुषस्तु ब्राह्मणोक्तमप्यनुसंधेयम्- तस्माद्यस्यैवं विदुषः उतैकाहमुत द्वयहं न जुह्वति हुतमेवास्य भवतीति । अत्र चतुरहादूर्ध्वमनेकविच्छेदेऽप्ययमेव विधिः । अतोऽन्यस्यावचनात् । अर्वाश्चतुरहादिष्टिनिवृत्त्यर्थत्वाच्चाधिकवचनस्य । भरद्वाजस्त्वत्र समारूढाग्नेश्चिरकालं होमादिविच्छेदे विशेषमाह-होमेष्वहूयमानेषु चाऽऽत्मन्यरण्योर्वा नियमाणानां कथं तत्र न लुप्यते द्वौ मासावहुतेऽग्निहोत्रे दर्शपूर्णमासाभ्यामनिष्ट्वाऽनये पर्थिकृतेऽनये वैश्वानरायाग्नये व्रतपतयेऽग्नये ऋतभृत इत्येषा महापथिकृदिष्टिः । पवित्रेष्ट्या यजेताग्निहोत्रदर्शपूर्णमासाविति सर्वमानोति । इति । तथा षण्मासानहुतेऽग्निहोत्रे दर्शपूर्णमासाभ्यामनिष्ट्वा वेति प्रकृत्य पूर्ववदेव पवित्रेष्टयन्तमुक्त्वाऽतिपवित्रेष्टया यजेतेत्युक्तवान् । अतो यदत्र कैश्चिच्चतुरहादूर्ध्व होमविच्छेदेऽग्निर्नश्यतीत्युक्तं तदतिसाहसं पश्यामः ॥ ३४ ॥

स्वयं कृण्वानः सुगमप्रयावं तिग्मशृङ्गो वृषभः शोशुचानः । प्रत्नꣳ सधस्थमनुपश्यमान आतन्तुमग्निर्दिव्यं ततान ॥ त्वं नस्तन्तुरुत सेतुरग्ने त्वं पन्था भवसि देवयानः । त्वयाऽग्ने पृष्ठं वयमारुहेमाथा देवैः सधमादं मदेमेति याज्यानुवाक्ये ॥ ३५ ॥ (ख०८)॥

इति सत्याषाढहिरण्यकेशिसूत्रे पञ्चदशप्रश्ने द्वितीयः पटलः ।

इति सत्यापादहिरण्यकेशिसूत्रव्याख्यायो महादेवशास्त्रिसंकलितायां प्रयोग चान्द्रकायां पञ्चदशप्रश्ने द्वितीयः पटलः । २९.. . सत्यापाठविरचितं श्रौतसूत्रम्- -- [१६ प्रश्ने

15.3 अथ पञ्चदशप्रश्ने तृतीयः पटलः ।

यस्याऽऽहवनीयेऽनुद्वाते गार्हपत्य उद्वायेदाहवनीयमुद्वाप्य गार्हपत्यस्यावक्षाणानि संनिधायेतः प्रथमं जज्ञे अग्निरिति मन्थेदाहवनीयं प्रणीयाग्ने सम्राडिषे रथ्यै रमस्व सहसे द्युम्नायोर्जेऽपत्याय सम्राडसि स्वराडसि सुषदा सीद सारस्वतौ त्वोत्सौ समिन्धातामित्युपसमिन्धेऽग्नये तपस्वते जनद्वते पावकवतेऽष्टाकपालं निर्वपेत् ॥१॥

. . यंत्रानने कर्मार्थ प्रणीते वाऽग्नौ ध्रियमाणे गार्हपत्य उद्वायत्तत्राऽऽहवनीयं दक्षिणाग्निं च गार्हपत्ययोनिमुद्वाप्य यथोक्तेन प्रकारेणानीनुत्पाद्य तपस्वीष्टिर्वक्ष्यमाणा, आहुतयो वा । ततः कर्मसमाप्ति: । सावित्रसारस्वतचतुर्होत्रादयो दर्विहोमा उदाहरणम् । अग्निहोत्रं च प्राधेमिकालादिष्टिपशवोऽपि प्रागन्वाधानात् । परतस्त्वन्वाधानाद्धोमकाले च तत्तत्प्रायश्चित्ताम्यां वैशेषिकाभ्यामपोद्यत एवायं विधिः । अपवदति चं स्वविषये यदि गार्हपत्य इत्यादिविधिम् । तं प्रति. विशेषविषयत्वात् । तेनाकर्मकालेऽप्ययमेव विधिरजस्त्राग्नेः । ........ ..... ! ___ अथवा विकल्प एव तयोविध्योर्न सामान्यविशेषभावः शम्खाभेदात्। वक्ष्यत्याचार्यः' यस्याग्निरनुगच्छेदित्येकेषाम् । न कालमवधारयेदिति । तेभ्य एवावक्षाणेभ्योऽधिम थितव्यः' ( स० श्री. १५-३) इति । भरद्वाजश्चाऽऽह-अथैकेषाम् । यतरोऽग्निरनुगच्छेत्तेम्प एव दारुभ्योऽधिमाथितव्य इत्यादि । अत्र बढचवाजसनेयकयोराश्वलायनकात्यायनबौधायनैश्वाऽऽहवनीयं ध्रियमाणमाहृत्य गार्हपत्यायतने निधाय ततः पुनः प्रणयनमुक्तम् । तत्र बचे तावदाहनीयमधिकृत्याऽऽम्नायते---सर्वमेवेनं सहभस्मानं समोप्य गार्हपत्यायतने निधायाथ प्राश्चमाहवनीयमुद्धरेत् ' इति । वाजसनेयकेऽप्ययमेवान्तरः पाठः । तथाऽऽश्वलायनकादावपि । बौधायनीये तु । सर्वमाहवनीय भाण्डे समोप्य दक्षिणेन विहारं हत्वाऽऽयतनद्वयादपि भस्मोद्वास्य शकृत्पिण्डेनोपलिप्य न्युप्योपसमाधाय प्रणयन मिति विशेषः । तथा प्रायश्चित्तेऽपि विशेष उक्तः पटवाहुतीर्जुहुयात्-'उबुध्यस्वाग्ने त्वमग्ने सप्रथा असि मनो ज्योतिर्जुषतां तन्तुं तन्वन्नुदु त्यं चित्रम्' इति ॥ १ ॥

३ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकान्याख्यासमेतम् । २९१

आयाहि तपसा जनेष्वग्ने पावको अर्चिषा । उपेमां सुष्टुतिं मम ॥ आ नो याहि तपसा जनेष्वग्ने पावक दीद्यत् । हव्या देवेषु नो दधदिति याज्यानुवाक्ये ॥ २॥

गतः । इदं याजुष होत्रम् ॥ २॥

एतदेवाऽऽहवनीयेऽनुगते प्रायश्चित्तम् । नात्र गार्हपत्यमनुगमयत्यग्नये ज्योतिष्मतेऽष्टाकपालं निर्वपति ॥३॥

तत्र तत्राऽऽहवनीयानुगतौ यथाविहितमग्निमुत्पाद्य ज्योतिष्मती . निर्वपति । यथा यदि सायमहुतेऽग्निहोत्रे यदि प्राग्योमकालादित्यादौ । यत्र तु प्रायश्चित्तविशेषश्चोदितस्तन स एवेप्यते यथाऽन्वाहितादौ । तेनाप्येषा विकल्पित (लप्यत) इत्यन्ये ॥३॥

ननु पूर्वसूत्रेण तपस्वत्यपि तत्र तत्र प्राप्ता । तत्किमनयोरेकस्मिन्दोषे श्रूयमाणत्वात्समुच्चयः । नेत्याह- .

न तपस्वते ॥ ४॥

यदा ज्योतिष्मते निर्वपति तदा न तपस्वते । विकल्प एव स्वनयोः शाखाभेदादिति भावः । अथवा सर्वत्रानुगतेष्टिमित्यनेन सहतत्सामान्यविशेषभावेन योजनीयम् । सर्वाग्निषु तपस्वती । ज्योतिष्मती त्याहवनीये न तपस्वत इति बाध एव तत्र तपस्वत्या इत्यर्थः । मन्थनविषये तु यदि गार्हपत्य आहवनीयो वेति विधिना तपस्वत्येव सर्वत्र न ज्योतिष्मती विशेषविहितत्वात् । अन्यथाऽऽहवनीय तस्यानवकाशत्वप्रसाच्च । तत्रापि तु द्वयोर्विकल्पः; इत्यपरम् ॥ ४ ॥

यदि सायमहुतेऽग्निहोत्रे पूर्वोऽग्निरनुगच्छेदग्निहोत्रमधिश्रित्योन्नीयेत्येकेषाम् । अग्निना पूर्वेणोद्धृत्याग्निहोत्रेणानुद्र(नूद्द्र)वेद्यो ब्राह्मणो बहुवित्सोऽग्निमुद्धरेत् । यत्पुनराधानमादायी स्यात्तद्दद्यात् ॥ ५॥

यद्यप्यत्राहुतेऽग्निहोत्र इतिवचनादा- पूर्वाहुतेरयं विधिरास्थ्यः । तथाऽप्यधिश्रित्याग्निहोत्रमुन्नीय वेत्युद्धरणकालनियमात्सहाग्निहोत्रेणोद्वणवचनाच्च ततः पूर्वकाल एवास्य संकोचः सामर्थ्यात् । बहुविव्याख्यातः । तदयमर्थ:-विहरणकालप्रभृत्याऽधिश्रयणादोन्नयनाद्वाऽऽहवनीयानुगती पूर्ववदाऽऽह्वनीयकर्मवर्जमाधिश्रयणान्तः उन्नयनान्ते वा कर्मणि कृते बहुविब्राह्मणस्तूष्णीमग्निमुद्धरेत् । ततोऽध्वर्युः कृतान्तादारभ्योद्र्वणात्कृत्वा

२९२ सत्यापाढषिरचित्तं श्रौतसूत्रम्- . [१५ प्रश्ने

सहाग्निहोत्रेण बहुविदमग्निं नयन्तमनु( न )द्ववेत् । ततो बहुविदा. प्रतिष्ठापितेऽसौ तस्मै यजमानस्तद्धनं दद्याद्यस्मै स्पृहयालुरात्मार्थ निहितवान् नेदमन्यस्मै दास्यामीति । तेनैवाच्युतेन धनेनैनमाहवनीयं गार्हपत्याच्च्यावितवि ( पा)न् भवति, एनं बहुविदं वा ततोऽग्निहोत्रमन्यस्मै दत्त्वाऽन्यत्र वा निधायानुगतेष्टिमित्राद्याहुतयो वा । तत आहवनीयकर्माण्यकृतानि कृत्वा कृतान्तादारभ्याग्निहोत्रसमाप्तिः । समानोऽयं विधिरजले विशेषावचनात् । न चाहुतेऽग्निहोत्र इति वचनादाग्निहोत्रमात्रार्थाग्निविषयो युक्त इति वाच्यम् । यदि प्रातरहुतेऽग्निहोत्रे परोऽग्निरनुगच्छेदित्यत्र व्यभिचारात् । यस्याग्निरुद्धृतोऽहुतेऽग्निहोत्र उद्वायेदित्यन्यत्र विशेषवचनाच ॥ ५॥

यदि प्रातरहुतेऽग्निहोत्रेऽपरोऽग्निरनुगच्छेदनुगमयित्वा पूर्वं मथित्वाऽपरमुद्धृत्य जुहुयात् ॥ ६॥

प्रातर्विहरणकालप्रभृत्या पूर्वाहुतेर्गार्हपत्यानुगतावाहवनीयोद्वापनादि तपस्वत्यन्तं कर्म त्यस्याऽऽहवनीयेऽनुद्वात इत्यादिविधिना समानम् । तत्कृत्वा ततोऽग्निहोत्रं जुहुयादित्यर्थः । पुनरुपन्यासस्तूत्तरावधिविकल्पार्थः ॥ ६॥

यदि त्वरेत पूर्वमग्निमन्ववसाय ततः प्राञ्चमुद्धृत्य जुहुयात् ॥ ७॥

यदि त्वरेत कालातिपत्तिभयादिना तदाऽऽहवनीयमेव गार्हपत्य परिकल्प्य तत्रैव दक्षिणाग्न्यादीनपि नीत्वा ततः प्राश्चमाहवनीयमुद्धृत्याग्निहोत्रं जुहुयात् । ततो यदि गार्हपत्य इत्यादिविधिना गार्हपत्यस्योत्पत्तिः ॥ ७ ॥

जामि तु तद्योऽस्य पूर्वोऽग्निस्तमपरं करोति ॥ अन्यत्रैवावसायाग्निं मथित्वोद्धृत्य जुहुयात् । श्वोऽग्नये तपस्वते जनद्वते पावकवतेऽष्टाकपालं निर्वपेत् ॥ (ख०९)॥८॥

जामीति पूर्वानन्दा, उत्तरविधिप्रशंसार्था । पौनःपुन्यनिमित्तमश्रेयस्त्वं जामित्वम् । तत्तु जामि यत्पूर्वमेवाग्निमपरमपि करोतीति । तस्मादन्यत्रैव देशे सहाग्निभिायमाणेगत्वा तत्रानुगमायत्वा पूर्वमित्यादिविधिनाऽपरं मथित्वा पूर्ववदेवोद्धृत्याग्निहोत्रं जुहुयात् । ततः श्वोभूते तपस्वतीं निर्वपेत् ॥ ८ ॥

यस्यापरोऽग्निरनुगच्छेदित्येकेषाम् ॥९॥

शाखोन्तरोक्तविधिविकल्पः ॥९॥

न कालमवधारयाति । ततोऽत्राग्निं मथित्वोद्धृत्याभिमन्त्रयत इतः प्रथमं जज्ञे अग्निरित्येतयाऽग्ने सम्राडिषे रय्यै रमस्व सरसे द्युम्नायोर्जेऽ

३ पटलः] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । १९३

पत्याय सम्राडसि स्वराडसि सुषदा सीद सारस्वतौ त्वोत्सौ प्रावतामित्युपसमिन्धेऽग्नये ज्योतिष्मते पुरोडाशमष्टाकपालं निर्वपेद्वारुणं यवमयं चरुम् ॥ १५.३.१०॥

अथ वा प्रातरिति न कालविशेपमवधारयेत् । सायं प्रातर्वाऽहुतेऽग्निहोत्रेऽपराम्यनुगतावनुगमयित्वा पूर्वमित्यादिविधिरेव स्यात् । तपस्वत्यास्तु स्थाने वारुण,ज्योतिष्मन्तौ समानबर्हिषो निर्वपदित्यर्थः । तदेवमेते त्रयः कल्पाः प्रातःकाले यस्याऽऽहवनीयेऽनुद्धत इत्यादिविधिना सह विकल्प्यन्ते । अन्त्यस्त्वेकः सायं कालेऽपि । गतमन्यत् ॥ १०॥

यस्य पूर्वोऽग्निरनुगच्छेदित्येकेषाम् । न कालमवधारयति । तेभ्य एवावक्षाणेभ्योऽधिमन्थितव्यः । अथ यदि न तादृशानीवावक्षाणानि स्युः । भस्मनाऽरणी सꣳस्पर्श्य मन्थितव्यः स्वादेवैनं योनेर्जनयति ॥ अग्नये तपस्वते जनद्वते पावकवतेऽष्टाकपालं निर्वपेत्॥ यस्याग्निरनुगच्छेदित्येकेषाम् । न कालमवधारयति। तेभ्य एवावक्षाणेभ्योऽधिमन्थितव्योऽथ यदि शल्केध्व् (द्ध)स्तृणेद्वो(द्धो)वा स्याद्भस्मनाऽरणी सꣳस्पर्श्य मन्थितव्यः स्वादेवैनं योनेर्जनयति। अग्नये तपस्वते जनद्वते पावकवतेऽष्टाकपालं निर्वपेत् ॥ ११॥

क्षामावशिष्टानि काष्ठान्यवक्षाणानीत्युच्यन्ते । तेषु मन्थनसमर्थेषु सत्सु तेभ्य एवं द्वे गृहीत्वा मन्थेत् । यदि पुनर्न तादृशानि स्युस्तदा तत्तद्भरमसंस्पर्श कृत्वा तयोररण्योमन्थेत् । एवमरणी संस्कृत्य मन्थनेन स्वादेव योनेर्जनयत्याग्निम् । अवक्षाणामावे भस्मस्थवादग्नेस्तत्स्थस्येदानीमरण्योः संक्रमितत्वाच्च । तारथ्ये च लिङ्गम्- ' अत्र वाव स निलायत' इति । अत एव वचनादवक्षाणाभावे भस्मसंस्कारमन्तरेण मथितोऽप्यामिः स्वयोन्यनुत्पन्नत्वादसत्सम इत्युक्तं भवतीति । न च गार्हपत्यारण्योराहवनीयमन्थनम् । पृषगरणीष्वग्नीनिति लिङ्गात् ।गार्हपत्यस्य तावदियमेवोत्पत्तिः सर्वत्र । प्रायश्चित्तं च तपस्वत्येवासत्यपवादे यथाऽन्वाहितादौ यत्राऽऽहवनीयस्यापि प्रणयनानुपदेशस्तत्रापीयमेवोत्पत्तिः। यथा सावित्रादिषु दर्विहोमेष्वग्निहोत्रे च होमकाले तथैव पशुप्वपि प्रागन्वाधानादित्यादि, प्रायश्चित्तं च तत्रेदमेवासत्यपवादे यथा यदि होमकाले प्राण उदानमित्यादिना । आप

२१ .... - सत्यापाढविरचितं श्रौतसूत्रम्-... [१५ प्रश्ने

स्तम्बस्त्वत्राऽऽह-'यदि गार्हपत्य आहवनीयो वाऽनुगच्छेत्तेभ्य एवावक्षाणेभ्योऽधिमन्थितन्यः' इति । भरद्वानश्च–'अकेषां यतरोऽसिरनुगच्छेत्तेभ्य एव दारुभ्योऽधिमन्धितव्यः' इत्यादि । एवं शकैधे तृणधे चेत्यापस्तम्बः' शकानि करीषाण्येधा यस्य स शकैधः । तथा तृणैध इति । शकादीन्धने चाग्नावनुगते भस्मनाऽरणी संस्पर्श्व मन्थितव्यः । तेषामपि मन्थनसामर्थ्यादिति भावः ॥ ११ ॥

अनुगतेष्टेर्वा स्थान एता आहतीर्जुहोति ॥ ॥ (ख०१०)॥ मित्राय स्वाहा वरुणाय स्वाहा सोमाय स्वाहा सूर्याय स्वाहाऽग्नये तपस्वते जनद्वते पावकवते स्वाहाऽग्नये शुचये स्वाहाऽग्नये ज्योतिष्मते स्वाहाsग्नये व्रतपतये स्वाहेति व्याहृतिभिर्विहृताभिः समस्ताभिश्च ॥ १२ ॥

सर्वस्या एवानुगतेष्टेरयं विकल्पः । पुनरनुगतोष्टिग्रहणात् । अन्यथा हि अपि वैता आहुतीरित्येवावक्ष्यत् । तथा सर्वासामेव प्रायश्चित्तेष्टीनामनुग्रहमाहाऽऽश्वलायन:'अपि वा प्रायश्चित्तेष्टीनां स्थाने तस्यै तस्यै देवतायै पूर्णाहुतिं जुहुयादिति विज्ञायते' इति । बढचाश्च ता एवेष्टीः प्रकृत्याधीयते ॥ १२ ॥

अथैकेषां विज्ञायते यदि प्रागग्निहोत्रकालादाहवनीयोऽनुगच्छेदन्यं प्रणयेत् ॥ १३ ॥

केचिदहुत इत्यनेन सकलस्य बाधं मन्यन्ते । तदयुक्तं शाखाभेदादेकोदाहरणाभिप्रायेण सामान्यायोगाच्च । यदि हि तथाऽभिप्रेप्येत प्रातर्ग्रहणमेवाकरिष्यत् । न हि 'माणवकायैकस्मै दधनि दित्सिते तके च कौण्डिन्याय भवति वचनं ब्राह्मणेभ्यो दधि 'दीयतां तक कौण्डिन्यायेति भवति च तत्रं वचनं माठराय दधि दीयतां तकं कौण्डि न्यायेति । तथा महाभाष्यकार:-न ह्येकमुदाहरणं सामान्यवचनं प्रयोजयतीति । तस्मादुभयकालार्थमित्येव युक्तम् । अथ को होमकालः । ननूक्ता आनक्षत्रदर्शनादयः काला: सायंप्रात)मयोः सूत्रकृता । तेषु यतमस्मिञ्जुहुपति ततमो भविष्यति प्राग्योमकालाद्विति । कोऽर्थः । यदेध्माहरणादि तन्त्रं प्र–स्यते ततः प्रागित्यर्थः । तथा च होमकोलमनुवद्वता' कात्यायनेनोक्तम्- आसन्नेषु चेत्पात्रेप्वाहवनीयोऽनुगच्छेद्गार्हपत्ये 'जुहुयात्प्राण उदानमप्यगात् ' इति । कश्च पात्रासादनकालः । तन्त्रारम्भ इति ब्रूयात् । यथा प्रणयन विध्यनन्तरमाह बौधायन:- अर्थतान्यग्निहोत्रपात्राणि प्रक्षालितान्युत्तरेण गाहपत्यमुपसादयति । इति । वैखानसभरद्वाजी तु परिस्तरणानन्तरमाहतुः- अग्नि

३ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमैतम् । २७५

होत्रपात्राणि प्रयुनक्ति ' इति । तस्मात्प्रणयनकाल प्रभृत्या तन्त्रारम्भादा की पारिस्तरणादाहवनीयस्यानुगतावन्यं प्रणीयानुगतेष्टिमित्राद्याहुतयो वा । समानोऽयं विघिरंजखे । अविशेषात् ॥ १३ ॥

यदि होमकाले प्राण उदानमप्यगादिति गार्हपत्ये जुहुयात् ॥ १४ ॥

व्याख्यातो होमकालः पूर्वसूत्रे । तत्र यद्याहवनीयोऽनुगच्छेत्प्राण इत्यादिना गाह. पत्ये प्रायश्चित्तार्थमाज्याहुतिं जुहुयात् । ततो यदि गार्हपत्य आहवनीयो वा इत्यादिविधिनाऽग्निमुत्पाद्य प्रकृतिवदग्निहोत्रसमाप्तिः । तथा चात्रैतामाहुतिमुक्त्वा यथानुपूळकरणमिति कात्यायनः । नात्रानुगतोष्टिः प्रायश्चित्तविशेषवचनात् । नापि विकल्प्यते शाखाभेदात् । यस्याग्निरुद्धृत इति विधिनोद्धरणमप्यस्याऽऽहवनीयस्योद्धार्यस्य लभ्यत इति द्रष्टव्यम् ॥ १४ ॥

यदि गार्हपत्य उदानः प्राणमप्यगादित्याहवनीये ॥ १५॥

व्याख्यातः पूर्वम् । नात्र यस्याऽ हवनीयेऽनुद्वात इत्येष विधिरिप्यते, जीवातमाहवनीयं कृत्वा तत्र होमवचनात् । यस्तु अथैकेषां यस्याग्निरनुगच्छेन्न कालमवधारयेत् , इति विधिः स त्वत्रापि भवत्येव सार्वकालिकत्वात् ॥ १५ ॥

यदि दक्षिणाग्निर्व्यान उदानमप्यगादिति गार्हपत्ये ॥ १६ ॥

एवं हुत्वैव प्रविशानीति यथायोन्युत्पाद्याऽऽधेयः ॥ १६ ॥

यदि सर्वेऽनुगच्छेयुरग्निं मथित्वा यां दिशं वातो वायात्तां दिशमाहवनीयं प्रणीय वायवे स्वाहेति जुहुयात् ॥ १७ ॥

होमकालेऽनुगतौ सर्वेषां गार्हपत्यं मथित्वा निधायानुवातमाहवनीयमुद्धृत्य वायवे स्वाहेत्याहुतिं जुहुयात् । ततो यथास्थानं विहत्याग्नीकृतान्तादारभ्य कर्मसमांसि। कात्यायनस्तु वायव्यामाहुतिमपि यथास्थानमुद्धृत्य तस्मिन्नग्नावेवाऽऽह यथा सर्वे चेत् तूर्ण मथित्वा प्रतिवातमुद्धृत्य वायव्यामाहुति हुत्वा यथानुपूर्यकरणम्, इति ॥ १-७ ॥

यदि निवातेऽनुगच्छेयुरग्निं मथित्वा विहारꣳ साधयित्वाऽपरेणाऽऽहवनीयमुपविश्य स्वयमग्निहोत्रं पिबेत् ( अग्निहोत्रप्रत्याम्नायो भवतीति विज्ञायते । )॥ १८ ॥

१९६ , सत्यापाढविरचितं श्रौतसूत्रम्- [१९ प्रश्ने--

यदि निवाते सति सर्वेऽनुगच्छेयुस्तदा गार्हपत्य मथित्वा यथास्थानमेव विहारं साधयित्वा 'ययाविधि संस्कृतमग्निहोत्रमपरेणाऽऽहवनीयमुपविश्य यजमानः स्वयं पिबेत् । पानस्य च होमप्रत्याम्नायत्वान्न पुनोंमः । होमकालादन्यत्र सर्वानुगतावनुगतिक्रमेण तस्य तस्यामेर्यथाविहितमुत्पत्तिः प्रायश्चित्तं च । क्रमानवगमे त्वाधानक्रमेणेति द्रष्टव्यम् ॥ १८ ॥

यद्यस्तमिते जुहुयात् । पुनरेवास्तमिते जुहुयात् ॥१९॥

प्रागस्तमयाद्धोमे साङ्गस्य होमस्याऽऽवृत्तिः । अकाले कृतस्याकृतत्वात्प्रधानकाल स्वाच्चाङ्गानाम् । न तु प्रणयनस्याऽऽवृत्तिः । काल एव तस्य कृतत्वात् । तत्र तु ‘हुत्वाऽप उपस्पृश्येत्येतावति कृते भवतं नः समनसावित्युपतिष्ठेत । गार्हपत्याहवनीयाविति शेषः । मन्त्रलिङ्गाच्च ॥ १९॥ __

यदि महारात्रे जुहुयात् । पुनरेवोषसि जुहुयात् ॥१५.३.२०॥

उपसि जुषतः । प्रागुषसो होमोऽप्येवौषतः पुनहोंम उपस्थानं च हुत्वैतयैवोपतिष्ठेत ( आप० श्री०९-३-१० ) इत्यापस्तम्बोऽप्यसूत्रयत ॥ २० ॥

अग्नयेऽग्निवते पुरोडाशमष्टाकपालं निर्वपेद्यस्याग्नावग्निमभ्युद्धरेयुः ॥ २१॥

यस्याऽऽहवनीये विद्यमाने तमसन्तं बुद्ध्वा तस्योपर्यन्यं प्रणयेत् तस्यैतामिष्टिं निर्वपेत् । ननु-किमप्युद्धरणमात्रप्रयुक्तमिदं प्रायाश्चित्तमाहोस्विदभिप्रणयनप्रयुक्तामिति न ज्ञायते । उद्धरणशब्दस्योभयत्रापि दर्शनात् । तत्र यद्यम्युद्धरणमात्रप्रयुक्तं ततोऽभ्युद्धृत्याग्निं मध्ये तत्त्वं विदित्वाऽनिहितवतोऽपि प्रायश्चित्तं स्यात् । विपर्यये तु न स्यात् । मतो वक्तन्यो विशेषः । तत्राऽऽहाऽऽपस्तम्बः-- यथा. कथा चाभ्युद्धरेयुः प्रायश्चितमित्याश्मरथ्यः । यद्यसंन्युप्ते पाशयेयुरनुगमयेयुरेनं न प्रायश्चित्तमित्यालेखनः । ( आप० श्री०९-३-१०) इति । अस्तु वाऽभिप्रणयनं मा वा । यदि कथंचि'दम्युद्धरेयुभवत्येवेदं प्रायश्चित्तमित्याश्मरथ्यमतम् । आलेखनस्तु मन्यते 'यद्यनिहितेऽसौ पाशयेयु नीयुस्तत्त्वं तदैनं पश्चादुद्धृतमग्निमनुगमयेयुर्नतु भवत्येव प्रायश्चित्तम् । सर्वप्रायश्चित्तमात्रं श्रूयते । अप्राप्तस्योद्धरणमिति । यत एतदुभयमप्याचार्याणां मतं तितो बयाकामी तयोरिति भावः । काग्न्यिभ्युद्धरणविषयश्चायं विधिनिर्दिष्टभागो वा । एतयोरन्योऽनिर्दिष्टभागोऽन्य इति लिङ्गात् । तेनापवृत्तकर्मण्यन्यार्थमुद्धृतेऽनौ सम्युप्ते लौकिकाग्निसंसर्गनिमित्तेष्टिरेव कार्या नाभ्युद्धरणनिमित्ता ॥ २१ ॥

भवतं नः समनसावित्यभिमन्त्रयेत ॥ २२ ॥

गतार्थम् ॥ २२ ॥

. . ३ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । २९७

अग्नये ज्योतिष्मते पुरोडाशमष्टाकपालं निर्वपेत् । यस्याग्निरुद्धृतोऽहुतेऽग्निहोत्र उद्वायेदपर आदीप्यानुद्धृत्य इत्याहुस्तत्तथा न कार्यं यद्भागधेयमभिपूर्व उद्ध्रियते किमपरोऽभ्युद्ध्रियेतेति तान्येवावक्षाणानि संनिधायेतः प्रथमं जज्ञे अग्निरिति मन्थेत् ॥ २३ ॥

ब्राह्मणे तु 'अग्नये ज्योतिष्मते पुरोडाशमष्टाकपाल निर्वपेद्यस्याग्निरुद्धृतोऽहुतेऽग्निहोत्र उद्वायेत् ' (तै: सं २ । २।४ ) इति प्रकृत्य प्रणयनं निषिध्य निन्दित्वा च पुनरितः प्रथममित्येतया मन्थनमुक्तम् । तत्र प्रणयननिन्दानिषेधयोर्मन्थनविधिप्रशंसार्थत्वात्प्रणयनमन्थनयोर्विकल्प इति सूत्रकाराभिप्रायः । तत्र च लिङ्गम्-तं हैतमेके पशुबन्ध एवोत्तरवेद्यां चिन्वीत' इति ब्राह्मणव्याख्याता विकरास्ताननुक्रमिष्यामः। 'पशुबन्धे सोमे सत्रे सर्ववेदसे वा ' इति ब्राह्मणनिषिद्धस्यैव पशुबन्धस्य विकल्पत याऽनुस्मरणम् । तथा दनोऽवदाय शृतस्यावाति एतद्वा विपरीतम् । तथा पत्नी सनह्यति तिष्ठन्ती वा, इत्यादि द्रष्टव्यम् । अयं च विधिः । अहुतेऽग्निहोत्र इति वचनादा पूर्वाहुतेमकालविषयैः सर्वैरपि पूर्वोक्तविधिभिर्विकल्प्यते । । यस्याग्निरुद्धृत इति वचनाच नाजनेऽनौ भवति ॥ २३ ॥

त्रयस्त्रिꣳशतन्तवो ये वितत्निर इति जुहुयात् ॥ २४ ॥

अथाऽऽहुतिं जुहुयादित्यापस्तम्बः । अथानुगतेष्टेरनन्तरं मित्राद्याहुतीनां वा त्रयस्त्रिशत्तन्तव इत्याहुतिः ॥ २४ ॥

यदि कृष्णशकुनिर्ध्वꣳसयन्नुपर्युपर्यग्निहोत्रमतीय( तिप )ते( त् ) । यस्याग्निहोत्रेऽधिश्रिते हविषि वा निरुप्ते पुरुषः श्वा रथोऽनो वाऽन्तराऽग्नी वीयात् ॥(ख०११)॥ गौर्वराह एडको वा । तत्रापोऽन्वतिषिच्य गामन्वत्याऽऽवर्तयेत्( वर्धतां भूतिर्दध्ना घृतेन मुञ्चतु यज्ञो यज्ञपतिमꣳहसः स्वाहेति ) ॥ २५ ॥

कृष्णशकुनिः कपोतो वायम इत्येके । ध्वंसयंत्रस्तयन्नुपर्युपर्यग्निहोत्री गौस्तामतीयते । यस्य सानाय्येऽधिश्रितेत्यापस्तम्बः । पुरुषो मनुष्यजातीयः । अनः शकटम् । गौरारण्योद्भवा । वराहः प्रसिद्धः । ग्रामसूकर इत्येके । एडको मेपः । क्रमेलक

२९८ . सत्यापाढविरचितं श्रौतसूत्रम्- १५ प्रश्भे- .

इत्यन्ये । यद्येषामन्यतमः सर्वो वा हविरुत्पत्तिप्रभृत्या प्रदानादन्तरा गार्हपत्याहवनीयौ गच्छेत्तदाऽत्र पुरुषादिगते मार्गेऽपोऽन्वतिषिच्य तानतिक्रान्तानन्वपः सिक्त्वा गामन्वय गां सर्वतोऽनुगमय्याऽऽवर्तयेत् । यत एव गमितस्तत एव प्रतिगमयेदित्यर्थः । गामन्तरेणातिक्रमयेदित्याश्वलायनः ॥ २५ ॥

गार्हपत्याद्भस्माऽऽदायेदं विष्णुर्विचक्रम इति वैष्णव्यर्चाऽऽहवनीयाद्ध्वꣳसयन्नुद्द्रवेदेतयैव भस्मना पदमपि वपति । वर्त्म च लोपयेत्पदं च ॥ २६॥

वर्ल्स समूहेत् , अनोरथयोवर्मनी समीपदेशेन समी कुर्यात् । पदं वा लोभ(प)येत् । पुरुषादीनां पदरूपं नाशयेत् । गार्हपत्यभस्मना पदमभिवपेत् । देवाञ्जनमिति षडाहुतीर्तुत्वेत्यापस्तम्बभरद्वाजौ ॥ २६ ॥

यद्यनो रथो वाऽन्तराऽग्नी वीयादित्येकेषाम् । न कालमवधारयति । अनुगमयत्या हवनीयं यदग्ने पूर्वं प्रभृतं पदꣳ हि ते रश्मीनन्वाततान । तत्र रयिष्ठामनुसंभरैतꣳ सं नः सृज सुमत्या वाजवत्या । त्वमग्ने सप्रथा असि जुष्टो होता वरेण्यः । त्वया यज्ञं वितन्वत इत्यन्यं प्रणीयाग्नये पथिकृते पुरोडाशमष्टाकपालं निर्वपेत् । अथोऽन्तिकाद्बर्हिराहरेदनड्वान्दक्षिणा ॥ २७ ॥

सामान्यवचनात्सार्वत्रिकोऽयं विधिः । पूर्वविधिविषये तु तेन बाध्यते । तथा यद्यनो रथो वाऽन्तराऽग्नी सदो हविर्धाने वा वीयात्पाथिकृती पूर्ववन्निपेदिति सौमिकेनापि बाध्यते तस्यापि सदोहविर्धाननिर्माणादृर्श्वभावित्वेन विशिष्टविषयत्वात् । अथवा विकल्प एवास्य द्वाभ्यां न सामान्यविशेषभावः शाखाभेदात् । तथा च भरद्वाजवैखानसाभ्यां पूर्वविधिमुक्त्वाऽन्तरमुक्तम् । ' यद्यनो वाऽन्तराऽनी वीयादित्येकेषाम् । न कालमवधारयति ' इति । समानोऽयं विधिरजोऽप्यविशेषात् । वय्चस्त्वनाधीयते-'यस्य गार्हपत्याहवनीयावन्तरेणानो वा रथो वा श्वा वा प्रतिपद्येत का तत्र प्रायश्चित्तिः । इति । नैनन्मनसि कुर्यादित्याहुरात्मन्यस्य हिता भवन्ति, इति । तच्चेन्मनसि कुर्वीत

३ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । २९९

गार्हपत्यादविच्छिन्नामुदकधारां हरेत् , तन्तुं तन्वरजसो भानुमन्विहीत्याहवनीयात् । सा तत्र प्रायश्चिात्तः, इति । पूर्ववदिति यथाऽन्तिकाहिराहरेदनड्वान्दक्षिणेति विधिनेत्यर्थः ॥ २७ ॥

एतामेव निर्वपेत् । स्तोत्रे मूढ एताꣳ शस्त्र एताम् ॥ २८ ॥

स्तोत्रशस्त्रयोरवयवस्याप्रतिभानमन्यथाप्रतिभानं वा मोहः । तत्राप्येतामेवेष्टिं निर्वपेत् । यद्या समाप्तेरप्रतिसंहिते भवतः । प्रतिसंधाने तु नेष्यते । सर्वाप्रतिभाने तु हुत्वा सर्वप्रायश्चित्तं तदेव प्रतिभावद्भिः प्रतिभावनीयम् ॥ २८ ॥

यस्य वाऽग्निभिरग्नीन्व्यवेयुर्यो वा व्यवेयात् ॥ २९ ॥

एतामेव निर्वपदित्यनुषङ्गः । अग्निभिरिति जात्याख्यायां बहुवचनं संसर्गित्वाद्वा । यस्याग्नीन्विहृतान्परः स्वेनाग्निना. समारूढेनासमारूढेन वा व्यवेयात् । व्यवद्ध्यात् । तस्येयमिष्टिः । यश्चायं व्यवेयात्तस्यापि लौकिकाग्निना व्यवेताग्नेरपीत्यन्ये ॥ २९ ।।

एतां जने प्रमीतस्य ॥ १५.३.३०॥

जने प्रमीतस्य देशान्तरे मृतस्य मरणश्रवणानन्तरं गृहेष्वेतामिष्टिं निर्वपेत् । भरद्वाजस्तत्रानुग्रहमाह--- प्राचीनावीती पूर्णाहुतिं जुहुयादित्येके ' ( भ० श्री. ९-१३) इति ॥ ३०॥

तस्याभिवान्यवत्सायैः पयसा जने प्रमीतस्याग्निहोत्रं जुहुयाद् यावदस्याग्निभिः शरीराणि सꣳस्पर्शयेयुः । य उदञ्चो दर्भास्तान्दक्षिणाग्रान्स्तृणाति । प्राचीनावीत्यग्निहोत्रं दोहयत्यधस्तात्समिधं धारयति ॥ ३१॥

व्याख्याताऽभिवान्यवत्सा | तस्याः पयसाऽग्निहोत्रं जुहुयात् , आ शरीरदाहात् । यद्यपि तद्यावज्जीवं श्रुतं तथाऽपि वचनाद्भूयते, निवर्तते त्वन्यत्सर्वम् । बाढच्ये त्वेवमेव मृताग्निहोत्रमुक्त्वोक्तम्- 'अथाप्याहुरेवमेवैनानजस्रानजुह्वत इन्धीरन्ना शरीराणामहोंः' इति । अत्र सर्वे तूष्णी क्रियेत । इत्यापस्तम्बभरद्वाजावाहतुः । य उदश्च इति ये पूर्व मग्निहोत्रे परिस्तरणदर्भेषूदगग्रा इत्यर्थः । प्रदर्शनार्थ दोहग्रहणम् । प्राचीनावीत्येव सर्वत्र पित्रर्थत्वात् । पित्रर्थत्वं चोपरि देवेभ्यो धारयतीति लिङ्गात् ॥ ३१ ॥

उपरि हि देवेभ्यो धारयन्तीति विज्ञायते ॥ ३२ ॥

३०० सत्यापाढविरचितं श्रौतसूत्रम्..... [१५ प्रश्ने

। देवेभ्यो थुपरि धार्यते न पितृभ्य इत्यर्थः ॥ ३२ ॥

अपो मृन्मयान(न्य)भ्यवहरन्ति ॥ ३३ ॥

अमैवेत्यापस्तम्बः । सर्वाण्यप्सु क्षिपेत् ॥ ३३ ॥

ददत्येवाऽऽयसानि ॥ ३४ ॥

पदयीमयमसिदः स्वदितिरित्यादि तहहत्येव । ददाति वा चिनोति वेतरयज्ञायुधानीति भावः । परमतंनिरासार्थं वाऽवधारणम् । यथाऽऽह भरद्वाजः-पुत्रस्य दृषस्यादायसं च इति ॥ ३४ ॥

ब्राह्मणाय यज्ञायुधानि दद्यात् ॥ ३५ ॥

पात्रप्रतिपत्तिकाले तानि पत्नी पुत्रो वा ब्राह्मणाय श्रोत्रियाय दद्यात् । दानवचना'देवं ज्ञायते प्रतिग्रहीतुरप्युपयोज्यान्येवेति ॥ ३५ ॥

अमैव पुत्रस्य दृषत् ॥ ३६॥

अमेव सहैव दृषत्पः , दृषदुपलाश्मादि पुत्रस्य स्यादित्यर्थः । तथा चाश्ममयानीत्येव कात्यायनः ॥ ३६ ॥

यद्यप्रमीतं प्रमीत इति शृणुयादग्नये सुरभिमते पुरोडाशमष्टाकपालं निर्वपेत् ॥ ३७ ॥

अमृतं मृतमुपश्रुत्य पुनरमरणे निणीते, अग्नये सुरमिते-निपेत् ॥ ३७॥

यदि पूर्वस्यामाहुत्याꣳ हुतायां यजमानो म्रियेत दक्षिण उत्तरामाहुतिं निनयेत् ॥ ३८ ॥

उत्तराहुत्यादेः कर्मशेषस्य मृतहोमन्यायेन समाप्तिर्वेदितव्या ॥ ३८ ॥

भस्मोत्करं वा गमयेत् ॥ (ख०१२) ॥ ३९॥

इति सत्याषाढहिरण्यकेशिसूत्रे पञ्चदशप्रश्ने तृतीयः पटलः ।

यत्राग्नीनां भस्मराशिर्निहितस्तत्र वा निनयेदित्यर्थः ॥ ३९ ॥ .........इति सत्याषाढहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयोग.. चन्द्रिकायां पञ्चदशप्रश्ने तृतीयः पटलः ॥ ...... ।

15.4 अथ पञ्चदशप्रश्ने चतुर्थः पटलः ।

यद्याज्यमनुत्पूतꣳ स्कन्देच्छिन्दद्देयं वरो देय इत्येकेषाम् । यद्युत्पूयमानं स्कन्देच्छिन्दत्प्राणि

-५ पटलः.] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । ३८१

दद्यात् ॥ यद्युत्पूतं चित्रं देयम् ॥ १॥

छिन्दत्प्राणीति यत्तणादीनि दन्तैश्छिन्दद्भक्षयति तदेव गवाजादि दद्यात् , न बालमित्यर्थः । चित्रं हृदयंगमं धममिति शेषः । तथा चित्रं धनमित्येव भरद्वाजः । वरो . देय इत्येकेषाम् , इत्यापस्तम्बः ॥ १॥

यदस्य गृहे पुष्कलꣳ स्यात्तद्दद्यात् ॥ २ ॥

यदस्य गृहे पुष्कलं सुलभं यवनीह्यादि तद्दयात् ॥ २॥

यदि स्रुग्गतं भूपतये स्वाहेति तत्प्राञ्चं प्रादेशं निदध्यात् । भुवनपतये स्वाहेति दक्षिणतः । भूतानां पतये स्वाहेति प्रत्यञ्चं भूताय स्वाहेत्युदञ्चम् । भूर्भुवः सुवरित्यूर्ध्वं सं त्वा सिञ्चामीति तत्सꣳसिञ्चत्यभिमन्त्रयते वा ॥ ३॥

यदि गुग्गते स्कन्ने पुष्कलं दत्वा सं त्वेति संसिच्याभिमन्व्य वा ततः प्रादेशाः । ततस्तत्त्रुचः स्कन्नं स्रुचि संसिश्चेत् त्रुचि पुननिक्षिपेत् । संसेकायोग्यत्वेऽभिमन्त्रयेत । केचित्तु-यदा तु देवाञ्जनमगन्यज्ञ इत्याभिमन्त्रणं तदा प्रादेशा न भवन्ति । न च पुष्कलदानादि। निगदव्याख्यातश्चायमर्थः कल्पान्तरेषु ॥ ३ ॥

यज्ञस्य त्वा प्रमयाऽभिमया प्रतिमयोन्मया परिगृह्णामीति परिगृह्णाति ॥ ४ ॥

ततः स्कन्नं परिगृह्णाति, परितश्छिन्नेनापभज्य तस्य देश तस्योपरि प्रतिदिशं प्रादेशान्मिमीते | तस्मात्प्रतिदिशमित्यन्ये । प्रदेशिन्यङ्गुष्ठयोः प्रसारितयोरायामः प्रादेशः । पूर्वतरविधिशेषश्चायं न सर्वविधिशेषः । प्रासङ्गिकत्वात्तस्य । तेन त्रुगते रकन्न इत्यर्थः ॥ ४ ॥

देवाञ्जनमगन्यज्ञ इत्येकेषामनन्तरमाज्याद्वदति ॥ ५ ॥

एकेषां शाखा । आज्यादनन्तरमाज्यमधिकृत्य देवाञ्जनमगन्यज्ञ इत्याज्यस्कन्नाभिमन्त्रणं वदतीत्यर्थः । कुत एतदभिमन्त्रणं बढ़तीति चेत् तस्यैवानन्तरवचनात , देवाञ्जनमगन्यज्ञ इत्येतैर्यथापूर्वमभिमन्व्येति लिङ्गाच्च । तथा देवाञ्जनमगन्यज्ञ इत्येतदभि मन्त्रयेतेत्येकेषामित्येव भरद्वाजः । एतदुक्तं भवति न केवलं झुग्गते, किंतु सर्वत्रैवाऽऽज्ये .. स्कन्ने देवाञ्जनमगन्यज्ञ इत्येतर्मन्त्रैरभिमन्त्रणं तैरतेविधिमिर्विकलप्यत इति ॥ ५ ॥

३०२ सत्यापादविरचितं श्रौतसूत्रम्- [१५ प्रश्भे

भूपतये स्वाहा भुवनपतये स्वाहा भूतानां पतये स्वाहेति स्कन्नमनुमन्त्रयेतेति सर्वहविषामनवयवेन श्रूयते ॥६॥

सर्वेषामेव हविषामर्थे श्रूयते नतु किंचिद्विशेषमवयुत्येत्यर्थः । केचित्त्वाहु:- सर्वहविषामित्यैष्टिकसर्वहविरभिप्रायं दर्शपूर्णमासप्रकरणे श्रुतत्वात् । अनवयवेनेत्यनेनापि तेष्वेव विषयकात्स्न्य विवक्षितमिति । तत्र त्वाह भरद्वाज:--'भूपतये स्वाहेति स्कन्नमनुमन्नयेतेत्येकेषाम् । न किंचन हविरधिकृत्य वदति । इति । तच्चेदमविशेषवचनं यत्राप्युक्तमभिमन्त्रणान्तरं तत्रापि तेन विकल्प्यते । समुच यत इत्यन्ये । यथा देवाञ्जनमगन्यज्ञ इत्यादौ । यत्र स्वनुक्तं तत्र नित्यमेवेप्यते। 'यथा यस्य हविनिरुतं स्कन्देदयस्य वा देवतायै गृहीतमहुतम् ' इत्यादौ । न बर्हिषि स्कन्ने हविषि प्रायश्चित्तमिष्यते, अस्कन हि तद्यर्हिषि स्कन्दति । इति श्रुतेः । तत्र त्वाह भरद्वाज:--'न बर्हिषि स्कन्ने प्रायश्चित्तमित्याश्मरथ्यः । यदि भूमि प्राप्नुयात्कुर्यादेव तन्त्र प्रायश्चित्तमित्यालेखनः । (भ. श्री०९-१३) इति ॥ ६ ॥

यदि कपालं नश्येदाश्विनं द्विकपालं निर्वपेद्द्यावापृथिव्यमेककपालम् । भार्गवो होता भवति । एकहायनो दक्षिणा ॥७॥

प्रयुक्तानां प्रागर्थकर्मणः' इत्यापस्तम्वः । अथ यदि कर्मणि प्रयुक्तानां मध्ये प्रागर्थकर्मणः पुरोडाशाधिश्रयणात्कपालं नश्येन्न दृश्येत तदैतां द्विहविष्का निर्वपेत् । तस्यां तु ऋत्विनियमात् प्रासङ्गिकत्वाच । तन्त्रिण एव होतारं भृगुवंश्यमागमयेत् । अविरोधाद्दक्षिणायाश्च समुच्चयः ।। ७ ।।

यदि भिद्येत गायत्र्या त्वा शताक्षरया संदधामीति तत्संधायाभिन्नो घर्म इत्यभिमन्त्र्यापोऽभ्यावहृत्याथान्यत्कपालꣳ सꣳस्कृत्य तद्वा पिष्ट्वाऽन्यया मृदा करणीयया कृत्वा घर्मो देवाꣳ अप्येत्विति कपालेष्वपि सृजति ॥ यदि प्रागुपधानाद्भिद्येत ॥ ८ ॥

यदि कर्मणि प्रयुक्तं कपालं मिद्येत तत्संधानाधैव्यैः संधाय मनो ज्योतिरित्याप.. स्तम्बीये संधानलिङ्गया तदभिजुहुयादित्युक्तम् । समानोऽयं विधिरेकदेशभेदेऽपि यथोक्तं न्यायविद्भिरर्थसमवायात्प्रायश्चित्तमेकदेशेऽपीति । भूमिभूमिमगादित्यध्वयोर्निव

४ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । ३०३

तते प्रत्याम्नानात् । ब्रह्मा तु तेनाभिमन्त्रयत एव । अन्यत्कपालं दर्भेषु प्रयुज्य तत एकवदूहेन संमृश्यैवं प्रोज्य धर्मो देवा अप्येत्विति भिन्नस्य स्थाने क्षिपेत् प्रागुपधानाचेत्तद्भिन्नं भवति ॥ ८ ॥

अथ यद्युपहितानामेतेनैव मन्त्रेणोपदध्यात् ॥ ९॥

परतस्तूपधानाद्भदेऽन्यत्संस्कृतमेतेनैव मन्त्रेणोपदध्यादित्येतावान्विशेषः । समानमन्यसंधानादि ॥९॥

वैश्वानरं द्वादशकपालं निर्वपेद्यदि पत्नी संयाजयन्कपालमभि जुहुयात् ॥ १५.४.१० ॥

प्रासङ्गिकत्वमस्यापि तन्त्रमध्यपाताद्रष्टव्यम् ॥ १० ॥

एतामेव निर्वपेत्पुत्रे जात एतामेव निर्वपेद्यो दर्शपूर्णमासयाजी सन्नमावास्यां वा पौर्णमासीं वाऽतिपाद(त)येत् ॥ ११ ॥

व्याख्यातोऽयं विधिः पथिकृद्विधिना ॥ ११ ॥

एतामेव निर्वपेद्यदनिष्ट्वाऽऽग्रयणेन नवस्याश्नीयात् ॥ १२ ॥

नानिष्ट्वाऽऽअयणेनाऽऽहिताग्निर्नवस्याभीयादित्युत्तम् । तदतिक्रमेऽप्येषैव प्रायश्चित्तिः ।। १२ ॥

आनीतो वा एष देवानां य आहिताग्निरदन्त्यस्य देवा अन्नम् । यदकृत्वाऽऽग्रयणं नवास्याश्नीयाद्देवेभ्यो(वानां) भागं प्रतिक्लृप्तमद्यादार्तिमार्छेत् ॥ १३ ॥

अथानेन प्रायश्चित्तनिमित्तस्य प्राशनस्य निन्दा प्रदयते, प्रायश्चित्तादरार्थम् । देवानां ह्येष संवन्धमानीतो योऽग्नीनाधत्ते, भागलिप्सुभिर्देवैः स्वीयत्वेन परिगृहीत इति यावत् । तस्मादतः परमस्यान्नं देवा भुञ्जते । तत्र यदि ताननिष्ट्वा स्वयं नवमश्नीयात् देवेभ्य एव भागतया क्लप्तमग्रपाकमशितवान्स्यात् ततश्चाऽऽति प्राप्नुयात्। तस्मादशननिषेधं नातिकामेत् । अतिक्रम्य त्ववश्यमेतां निर्वपेत् । निरुप्य चैनां स्वे काले पुनराग्रयणेन यजेत अशननिमित्तत्वादस्याः कालातिकमे च पुनः पाथिकृतवैश्वानरौ प्रागेव दर्शितौ ॥ १३ ॥

मारुतं त्रयोदशकपालं निर्वपेद्यस्य पुत्रौ यमौ जायेतां गावौ वा ॥ (ख० १३) ॥ १४ ॥

पुत्रावात्मसंभवी ग्रमी गायेयातां गावौ वा पुरुषो वेत्यापस्तम्बः ॥ १४ ॥

सत्यापाढविरचितं श्रौतसूत्रम्- [१६ प्रश्ने

निर्वीर्यतां वै जातः पुरुष आशास्तेऽपशुतां गौः ॥ १५ ॥

वीर्य प्रजननशक्तिः । आशासनमिच्छा । तया च तत्कार्यं करोति । अर्थों लक्ष्येत । तदयमर्थः-पुरुषो यमो जातो वीर्योपघातं करोति । पशुश्चापशुताम् । तस्मादादर्तव्यं प्रायश्चित्तमिति ॥ १५ ॥

गायत्री पुरोनुवाक्या भवति । त्रिष्टुग्याज्या ॥ १६ ॥

मरुतो यद्धवो दिवो, या वः शर्मेति । इदं याजुषं होत्रम् ॥ १६ ॥

वैष्णवं त्रिकपालमेके समामनन्ति ॥ १७ ॥

गतः ।। १७ ॥

आग्नावैष्णवमेकादशकपालं निर्वपेद्यस्या( द्य)न्यम(स्या)ग्निषु याजयेयुर्यो वा यजेत ॥ १८ ॥

यदि प्रमादवशात्परस्याग्निषु परमनवहिता ऋत्विजो याजयेयुस्तत्रेयमिष्टिरुभयोर्यष्टुराग्निमतश्च ॥ १८ ॥

रौद्रं वास्तुमयं चरुं निर्वपेद्यत्र पशुपतिः पशूञ्छमयेत ॥ १९ ॥

यस्य पशूज्वरो मारयेत्तस्य तच्छान्त्यर्थं चरुः । वास्तु म सस्यविशेषः ॥ १९ ॥

एतया निषादस्थपतिं याजयेत् ॥ १५.४.२० ॥

निषादो नाम ब्राह्मणाच्छूद्रायामुत्पन्नः । क्षत्रियादित्यपरम् । स्थपतिमहत्तरः । निषादश्चासौ स्थपतिश्चेति निपादस्थपतिः । सोऽपि स्वर्गकामोऽनयेष्टया यजेत ॥२०॥

ननु शूदस्य कर्मानहस्य कुतः कर्माधिकारः कुतश्च तस्याग्निविद्ये तत्राऽऽह -

कृष्णाजिनं वा कूटं वाऽकर्णो वा गर्दभो दक्षिणा। हरिणो वा हरिणपृणाका वा श्यामाकपात्रो वा। द्वे वाक्याम्बू शूर्पे शय्यां वा । सा हि तस्येष्टिः ॥ २१ ॥

निषादस्य मृगघातकवृत्तेः स्वकर्मार्थसाधनविशेषः कूटम् । अकर्णः कर्णविकलः । निषादैः कृतपारचया हरिणवश्याथै विसृष्टा हारणपोतिका हारणणाका । पात्रपूरणाः श्यामाकाः श्यामाकपात्रः । शफकः प्रसृतखुरो हरिण इप्यते । सा हि तदुद्देशेन विहिता । अतस्तावत्तस्यामस्ति तस्याधिकारः । सैव च यावदर्थमस्यानिविद्ये अप्याक्षे. प्स्यतीति भावः । लौकिकानाविधिरित्येके । तत्र हविकृदाधावेति शूद्रस्येत्यादि न विस्मर्तव्यम् ॥ २१ ॥

४ पटलः] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकान्याख्यासमेतम् । ३०५

यो ब्रह्मचारी स्त्रियमुपेयात्स गर्दभं पशुमालभेत ॥ २२ ॥

आहिता ब्रह्मचर्यकाले स्त्रियमुपेयुपोऽयं विधिः । आहिताग्न्यधिकारात् । अथवा प्रसिद्धब्रह्मचारिण एव ग्रहण रूढेर्बलीयस्त्वात् । वक्ष्यति च धर्मसूत्रे- गर्दभेनावकीर्णी नितिं पाकयज्ञेन यजेत ' इति । न चैवमस्याऽऽनर्थवयं देवताविकल्पार्थत्वात् । न चाऽऽहितान्याधिकारे वचनानुपपत्तिः, देवताभेदे श्रौतप्रयोगविधानार्थत्वेनोपपत्तेः । तस्माब्रह्मचर्यार्थत्वेऽपि न दोषः । तदुक्तं भरद्वाजेन-'यो ब्रह्मचारी स्त्रियमुपेयादिति कस्यायं वादः । आहिताग्नेरित्येकम । अनाहिताग्नेरित्यपरम् ' इति । तत्र त्वाहिताग्नेतिपत्यादिप्रायश्चित्तं द्रष्टव्यम् । यथोक्तं सूत्रकृता--' व्रत्येऽहनि मांसं वाऽग्नाति'। स्त्रियं वोपैति । । । यदि दीक्षितोऽवकिरेत् ' इत्यादि ॥ २२ ॥

भूमावेककपालं पशुपुरोडाशꣳ श्रपयति ॥ २३ ॥

अकपालम् इति(?) वचनामिकपालमित्यवचनाच्च कपालधर्मरहितायां भूमौ पुरोडाशं श्रपयेत् ॥ २३ ॥

अप्स्ववदानैश्चरेयुः ॥ २४ ॥

वपादिमिरवदानैरप्सु चरेयुः । प्रयानादिभिरप्यप्स्वेव प्रचारः, प्रधानसदेशत्वादङ्गानाम् । न चावभृथवद्यत्राऽऽपस्तत्र गच्छन्ति, अपोऽभ्यवहत्येत्यवचनात् । तेनाऽऽप एवोत्तरवेदिस्थाने स्थापनीया भवन्ति । तत्रावभृथवदेवेमादीनामर्थलुप्तानां निवृत्तियथार्थ मन्त्राणामूहश्च द्रष्टव्यः ॥ २४ ॥

नैर्ऋतः प्राजापत्यो वा । रक्षोदेवत इत्येकेषाम् । यमदेवत इत्येकेषाम् ॥ २५ ॥

गर्दभ इति शेषः ।। २५ ॥

यस्य हविः क्षायति तं यज्ञं निर्ऋतिर्गृह्णाति यदा तद्धविः संतिष्ठेत । अथ तदेव हविः पुनर्निर्वपेत् ॥ २६॥

यस्य हविः क्षायति विदह्यते तं यज्ञमलक्ष्मीगृह्णाति न स कार्य इति यावत् । ततश्च क्षामस्य हविष आज्यं प्रतिनिधिं कृत्वा शिष्टश्च हविभिस्तत्कर्म । तत्सस्थाप्यान्यद्धविस्तद्देवतं निर्वपेत् ' इत्यापस्तम्बभरद्वाजौ । संस्थाप्य तस्मिन्नेव विहारेऽन्यद्धविस्तद्देवतं निपेत् । अग्न्यन्वाधानादि तेनैव हविषा पुनर्यजेत नान्यैरक्षामैरपीत्यर्थः । तदेव हविनिपेदित्येव सूत्रकाराभिप्रायः । दोहयोर्दाहे तु वैशेषिकत्वादार्तिप्रायश्चित्तमेवेप्यते ॥ २६ ॥

३०६ सत्यापाढविरचितं श्रौतसूत्रम्- १५ प्रश्ने

यज्ञो यज्ञस्य प्रायश्चित्तिर्यदुच्छिष्टꣳ स्यात् ॥ तेन सꣳस्थापयेत् । यं द्विष्यात्तस्मै तां दक्षिणां दद्यात् । तमेव निर्ऋत्या ग्राहयति ॥ २७ ॥

पुरोडाशे क्षामेऽयं विधिः पूर्वेण विकल्प्यते । तत्र यदेव क्षामावशिष्टं स्यात्तेनैव यजेत । या तु तस्मिंस्तन्त्रे दक्षिणा तां हविरुच्छिष्टं च दद्यादित्यापस्तम्बभरद्वाजौ । क्षामहविःशेषं च द्वेप्याय दद्यात् । तथा च कृते यज्ञग्राहिणी निर्गतिस्तस्मिन् गमिता भवति । ततश्च स एव यज्ञः श्रेयानसंपद्यत इति पुनरिज्याऽपि न कार्येति भावः॥२७॥

यथाकथा च क्षायेत्प्रायश्चित्तमेव स्यात् ॥ २८ ॥

सर्वदाह इत्यापस्तम्बः । यदेतत्क्षामप्रायश्चित्तं तत्सर्वदाह एव भवेत् । नैकदेशदाहे तस्यावर्जनीयत्वात् । यथोक्तं न्यायविद्भिः-- क्षामे तु सर्वदाहे स्यादेकदेशस्यावर्जनीयत्वात् ' (जै० सू० ६-४-१७) इति ॥ २८ ॥

यदि वाऽवदानेभ्यो न प्रभवेत् ॥ २९ ॥

असर्वदाहेऽपि यदा शिष्टं हविरिज्यार्थेभ्योऽवदानेभ्यो न पर्याप्तं स्यात्तदाऽपीप्यते । न कथंचिवदानेभ्यः पर्याप्तमित्यर्थः ॥ २९ ॥

यद्यप्रत्तदैवतꣳ हविर्व्यापद्येताथान्यत्तदैवतꣳ हविरभ्युदाहरेत् ॥ १५.४.३० ॥

अप्रत्तं देवतमवदानं यस्येति विग्रहः । व्यापत्तिोष इति भरद्वाजः । सा च नाशादिनाऽप्ययोग्योपलक्षणार्था असर्वहविर्विष या च । यस्य सर्वाणि हवींषि नश्येयुर्दप्येयुरपहरेयुर्वेत्युत्तरत्र वचनात् । तदस्यां व्यापत्तौ सत्यां यदैवत्यं हविया॑पन्नं तन्मात्रमन्यनिर्वपेन्न तु तत्सहभाव्यव्यापन्नमपि हविरन्तरमित्यर्थः । प्रत्तदैवतस्य त्वप्रत्तसौविष्ट. कृतस्यापि व्यापत्तौ न पुनरुत्पत्तिः । अप्रत्तदैवतमिति वचनादप्रयोजकत्वाच्च । तथा प्रास्विष्टकृत इत्येवाऽऽश्वलायनः । तथाऽवदानदोपे पुनरायतनादवदानमिति च । सांनाय्यव्यापत्तौ त्वार्तिप्रायश्चित्तमेवेप्यते, वैशेषिकत्वाच्च । वक्ष्यति । जुगादानप्रभतयो मन्त्राः ' इति । तद्विकारव्यापत्तिरपि तेनैव व्याख्याता । तत्र त्वाह भरद्वाजःसांनाय्यप्रायश्चित्तान्यामिक्षायां न विद्यन्ते । यद्यन्यतरयापद्येत यत एव कुतश्चोत्पाद्य प्रचरेत् । यद्यभयं व्यापद्येतान्येन दना पयसा वा यजुपोत्पतेन प्रचरेत् । आज्येन वाजिने व्यं पन्न इति ॥ ३०॥

तत्र स्रुगादानप्रभृतयो मन्त्रा आवर्तेरन् ॥ ३१ ॥

गग्निहोत्रहवण्यादीयते येन स मन्त्रः खुमादानः । समन्त्राणामेव कर्मणामा सिद्धौ मन्त्रवचनमुत्तरविधिविकल्पार्थम् ॥ ३१ ॥

४ पटलः] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकान्याख्यासमेतम् । ३०७

(यावदन्ते वा व्यापद्येत ॥ ३२ ॥

यावदन्ते कणि कृते ब्यापत्तिर्माता ततः परभाविन एव मन्त्राः प्रयुज्येरन् । पूर्वभाविनां तु सकृत्प्रयोगादेव सिद्धः कर्मोपकारः । त एव वा पूर्वप्रयुक्ताः स्वैः स्वैः कर्मभिरावर्तमानैः संपत्स्यन्त इति भावः ॥ ३२ ॥)

यदि तु प्रत्तदैवतमाज्येन शेषꣳ सꣳस्थापयेत् ॥ ३३ ॥

यदि प्रत्तदैवतं ततः स्विष्टकृदादि शेषमाज्येन निर्वर्तयेत् । न तु हविरन्तरमागमयेल्लोपयेद्वेत्यर्थः । यदा तु प्रत्तदैवतमपि प्रागेव प्रदानादृष्टमिति ज्ञायते तदा तु पुनरुत्पत्तिरेवासत्कल्पत्वात्प्रदानस्य । अत्र त्वाह कात्यायन:---.'अदोषो वा न वै देवाः कस्माच्चन बीभत्सन्ते इति श्रुतेः, इति ।। ३३ ॥

यस्य सर्वाणि हवीꣳषि ॥ (ख० १४)॥ नश्येयुर्वा दुष्येयुर्वाऽपहरेयुर्वाऽऽज्येन देवताः प्रतिसंख्याय यजेत ॥ ३४ ॥

यस्य त्वेकद्विबहुषु तन्त्रेषु यावत्संभवं सर्वाण्येवाप्रत्तदैवतानि हवींषि नश्येयुर्दाहादिना दुष्येयुर्वा केशकीटादिनाऽपहरेयुर्वा तानि दस्यवस्तदा यासां हविापन्नं ता देवताः प्रतिसंख्याय प्रदानार्थ गणयित्वा ध्रौवाज्येन प्रतिनिधिना यथाप्रकृत्येव यजेत, नोपांशुधर्मेण प्रतिनिधेस्तद्धर्मवचनात् । पशुधर्माज्यं भवतीति लिङ्गाच्च । आज्यानामपि व्यापत्तौ स्वात्स्वाद्योनेः स्वैः स्वैर्मन्त्रैः पुनर्गृहीत्वा यजेत ॥ ३४ ॥

अथान्यामिष्टिमनुल्बणां तन्वीत । यज्ञो हि यज्ञस्य प्रायश्चित्तिः ॥ ३५॥

अथ संस्थितायामिष्टौ तामेवेष्टिं पुनरनुल्बणामविकृतां कुर्वीत । यतो यज्ञस्याऽऽर्तस्य पुनरिज्यैव प्रायश्चित्तिः । तत्र तु सर्वहविप्पत्तिविषये सांनाय्ययोरप्ययमेव विधिशेषिकत्वादिष्यते, नाऽऽर्तिप्रायश्चित्तम् । आश्वलायनमतात्त्वाबाहनावमेवायं विधिः । यथा हविषां व्यापत्तावेल्हासु(१) देवतास्वाज्येनेष्टिं समाप्य पुनरिज्यति । तथा हविरावृत्ति प्रकृत्याऽऽह प्रागावाहनाच दोष इति । तथाऽप्यत्यन्त गुणभूतानामिति च । गुणभूतानामपि हविषामत्यन्तमावाहनात्यागूर्व च सर्वदाहे हविरावृत्तिः । नेज्यावृत्तिरित्यर्थः ॥ ३५ ॥

अपो व्यापन्नꣳ हविरभ्यवहरतीति विज्ञायते ॥ ३६ ॥

व्यापन्नं तु हविरप्सु क्षिपेत् ॥ ३६ ॥

ननु किमेतद्वचापन्नं नाम । तत्राऽऽह

यदार्याणामभोजनीयं स्यान्न तेन यजेत ॥३७॥

३०८ सत्यापादविरचितं श्रौतसूत्रम्- [१५ प्रश्ने

अयमभिप्रायः-यागानहतापत्तिापत्तिः । सा चाऽऽर्यभोजनानहत्वलक्षणो दोषः। न तेन दुष्टपर्यायण व्यापन्नेन यजेत । तदप्स्वेव क्षिपेदिति । तथा चापो दुष्टं हविरभ्यवहरन्तीति प्रकृत्याह भरद्वाजः- 'कथं दुष्टं हविः स्यात् । यदायर्याणामभोजनीयं न तेन देवान्यजेत ' इति । तथा शिष्टभक्षप्रतिषिद्धं दुष्टमित्याह कात्यायनः । आश्वलायन श्चाऽऽह-व्यापन्नानि हवींषि केशनखकीटपतङ्गैरन्यैर्वा बीभत्सरिति ॥ ३७॥

यद्धविर्दुःशृतं यमदेवत्यं तद्यममेव गच्छतीति सꣳस्थाप्य तदन्वाहार्यपचने चतुःशरावमोदनं पक्त्वा चतुरो ब्राह्मणान्भोजयेत् ॥ ३८ ॥

हविर्ग्रहणाच्चरुपुरोडाशेप्वयं विधिरिति गम्यते नेतरविकारेषु । यदपक्कं विषमपक्कं वा तदुःशृतम् । तत्तस्यै देवतायै हुतमपि यमदेवत्यं भूत्वा यममेव गच्छति । तस्मातदारब्धं कर्म तेनैव हविषा संस्थाप्य ततश्चतुःशरावं पक्त्वा चतुरो ब्राह्मणान्भोजयेत् । एतदेवास्य प्रायश्चित्तमित्यर्थः ।॥ ३८ ॥

तेषां भार्गव एकः प्राशितॄणाꣳ स्यात्तेभ्यः समानो वरो देयः । सा प्रायश्चित्तिः ॥ ३९ ॥

एकस्य भार्गवनियमान्नविनियमो भोक्तृषु ॥ ३९ ॥

योऽदक्षिणेन यज्ञेन यजेत । स यज्ञः प्रक्षामोऽनायु(रु)र्वरा प्रतिष्ठिता देया सा प्रायश्चित्तिः ॥ १५.४.४०॥

दक्षिणाविशेषानाम्नाने यदि यत्किचिदोदनाद्यदत्त्वा यजेत स यज्ञः प्रक्षामो दग्ध इव भवति निर्यित्वादनायुरिव च भवति । 'यज्ञ आयुष्मान्स दक्षिणाभिः' इति श्रुतेः। अथ वा-अनायुरनायुष्यं च यजमानस्य स्यादित्यर्थः । तथाऽनायुर्यजमानः स्यादिति वैखानसभरद्वाजौ । तत्राभिप्रेतदक्षिणातुल्यमूल्यामुर्वरां दद्यात् । सर्वसस्याढ्या भूरुर्वरा ॥ ४० ॥

यद्यादिष्टां दक्षिणामन्तरियादुर्वरां दद्यात्सा प्रायश्चित्तिः ॥ ४१ ॥

अथ यदि चोदितामेव दक्षिणामदत्त्वा यजेत तत्रापि तत्तुल्योर्वरादानमेव प्रायश्चित्तं नेतरदित्यर्थः ॥ ४१!!

यद्यभागां देवतामावाहयेदाज्येनैनां यथोढां यजेत । पुरस्ताद्वा स्विष्टकृतः ॥ ४२ ॥

यद्यचोदितां देवतामावाहयेत्तां यथोढां यस्मिन्क्रम आवाहिता तस्मिन्नेव क्रमे यजेत हुतेषु वा नारिष्ठेषु । सा चाऽऽज्यहविष्वादुपांशुधर्मेण यष्टव्या । आवहनवचनं च निर्वा

४ पटलः ] महादेवशास्त्रिसंकलितपयोगचन्द्रिकान्याख्यासमतम् । ३०९

पोपाकरणदोहनादिरूपस्य हविर्ग्रहणस्यापि प्रदर्शनार्थम् । यद्यभागां देवतामावाहयेद्गृहीयाद्वेति बढचश्रुतेः । तेनाभागायै निरुतमुपाकृत दुग्धं चैवोत्सृज्य, एवमाज्येन यनेत । कात्यायनस्त्वाह- 'अधिकं निरुप्य तच्च यजेन्न वाऽचोदितत्वात् ' इति । तत्र मागिन्यमागयोर्मिश्रनिर्वापेऽपि विभागमन्त्रेण विभक्तस्याभागाभागस्य त्यागः ॥ ४२ ॥

यदि भागिनीं नाऽऽवाहयेद्यदोपस्मरेत्तदुपोत्थाय मनसाऽऽवाहयेद्यद्वो देवा अतिपाद(त)यानीत्याहुतिं जुहुयात् ॥४३॥

भागिन्यनावाहने सति प्रागिज्यायाः स्मते तदानीमेवोपोत्थाय मनसाऽऽवाह्य'यद्वो देवा' इत्याहुतिं जुहुयात् । परतस्त्विज्यायाः स्मृतावाहुतिरेव नाऽऽवाहनम्॥ ४३।।

यस्य हव्यं निरुप्तꣳ स्कन्देदाज्यं वा गृहीतं चित्रं देयम् । वरो देय इत्येकेषाम् ॥४४॥

निर्वापप्रभृत्योत्पवनाच्छिन्दत्प्राणि दद्यात् । ततचित्रम् । उभयत्र भूपतयं इत्यनुमन्त्रणम् । व्याख्यातः शेषः ॥ ४४॥

यस्यै देवतायै गृहीतमहुतꣳ स्कन्देद्यदस्य गृहे पुष्कलꣳ स्यात्तद्दद्यात् ॥ ४५ ॥

देवतायै गृहीतमितीज्यार्थमवत्तमित्यर्थः । देवतान्तराये स्वक्रमेऽनिज्या, अनिर्वापो वा । यदस्य गृह इत्यादि व्याख्यातम् । एतेषु निमित्तेषु पुष्कलदानमेव प्रायश्चित्तम् । यदाऽन्यदीयाद्धविषोऽन्या देवतेज्यते, अन्यदीयाभ्यां वा याज्यानुवाक्याभ्यां तत्र पुष्कलं दत्त्वा शिष्टादेव पुनरवदाय यजेत, सर्वस्यैव हविषो देवतार्थत्वात् । अवदानदोषे पुनरायतनादवदानमित्याश्वलायनवचनाच्च । तथा देवतायै गृहीतस्य स्कन्दने भूपतये' इत्यभिमन्यायमेव विधिरादानायोन्यत्वे तु तदेवाऽऽदाय यजेत । तथा देवतान्तरायेऽप्यसमा कर्मणि स्मृते तदानीमेवेज्या निर्वापो वा। समाप्ते त्वन्यावाधानादारभ्यान्तरितयागार्या पुनरिज्या ॥ ४५ ॥

यद्याहुती विपरिहरेयुर्मनो ज्योतिर्जुषतामित्याहुतिं जुहुयात् ॥ (ख० १५)॥ ४६॥ यस्य देवते अवदाने वा याज्यानुवाक्ये वा विपरिहरेयुस्त्वं नो अग्ने स त्वं नो अग्न इत्येताभ्याꣳ संततिं जुहुयात् । सर्वत्रान्तरिते विपरीते च ॥ ४७॥

यस्य देवते विपरिहरेयुर्व्यत्ययेन नयेयुर्ऋत्विजः । यथा निर्वापावाहनादिप्रथममग्नीपोमयोः कुर्युरथाझेरिति । प्रथमं पूर्वार्धादवदाय, अथ मध्यादित्यवदानविपर्यासः ।

सत्यापढिविरचितं श्रौतसूत्रम्- [१५ प्रश्ने

तथा- अग्नीधीमीयादग्नि यजत्या यादग्नीषोमावित्यादि हविषाम् । याज्यामनुवाक्यां कुर्योदनुवा] वा याज्यामचोदितां वाऽन्यतरत्र कुर्यादुभे वाऽचोदिते इति याज्यानुवाक्ययोः । सर्वत्रोक्तविषयेऽन्यत्र चाय विधिः । उत्तविषये तु पूर्वेण विकल्प्यते तत्र प्रधाना. न्तराये-कृत्वा प्रायश्चित्त, पुनः क्रिया पूर्वव दर्शिता । यदाऽङ्गमप्यन्तरितमसंस्थिते तन्त्र स्मृतं तदुपकारक्षम च तदपि क्रियते । द्रव्यसंस्कारस्तूपयुक्ते द्रव्ये न क्रियते तदर्थस्वात् । तथा समन्त्रके कर्मण्यमन्त्रकमपवृत्ते (क्ते) प्रायश्चित्तमेव न पुनमन्त्रप्रयोगस्तादादेव पुनः प्रयोगो वा यावदन्ते वा ब्यापयेतेत्यत्रोक्तान्न्यायात् । तथाच भरद्वाजः-अपवृक्तार्थस्य कर्मणो मन्त्रश्योगः कृताकृत इति । ब्राह्मायणेन चोत्तम्-'यजुरन्तर(रा)येऽन्वाहारं ध्यानजप्ये उपेक्षणं शाण्डिल्यः' इति । होममन्त्रान्तर(रा)ये तु पुनहींमोऽन्यत्र प्रतिनिगद्य होमेभ्यः । तेषु तु नाऽऽवृत्तिर्याज्याप्राधान्यात् ॥ ४६॥

यदि बहिष्परिध्याहुतिः स्कन्देदाग्नीध्रं ब्रूयादेताꣳ संकृष्य जुहुधीति । ताꣳ सोऽञ्जलिना संकृष्य जुहुयान्मा यजमानो रिषन्मा पत्नी मा यज्ञो मा यज्ञपतिः स्वाहेति तस्मै पूर्णपात्रं दद्यात् ॥ सा प्रायश्चित्तिः॥४८॥

xxx

यदि पुरोडाशं उद्वा पतेत्स वा विजेत तमन्तर्वेद्यासाद्य किमुत्पतसि किमुत्प्रोष्ठाः शान्तः शान्तेरिहाऽऽगहि । अघोरो यज्ञियो भूत्वा सीद सदनꣳ स्वं मा सीद सदनꣳ स्वं मा हिꣳसीर्देव प्रेषित आज्येन तेजसाऽऽज्यस्व मा नः किंचन रीरिषो योगक्षेमस्य शान्त्या अस्मिन्नासीद बर्हिषीति तमेतेन यजुषाऽभिमन्त्रयेदभिवाऽऽघारयेत् ॥४९॥

उत्पतेत्कपालेभ्यः पाच्या वा प्रमादादपगच्छेत्स विजेत भिद्येत वा ततस्तमादाय महिण्यासाचे किमुत्पतीति द्वाभ्यामंभिमन्व्य द्वाभ्यामभिघार्य पुनः स्थाने स्थापयेत् । अस्तीण हुँ बहिष्यनिमन्त्रणाभिधारणे एव क्रियेते नोद्वासनादि ॥ १९ ॥

५ पटलः ] महादेवशास्त्रिसंकलितमयोगचन्द्रिकान्याख्यासमैतम् । ३११

भूत्वा प्रभवति यजमानो यस्यैतां यज्ञे प्रायश्चित्तिं कुर्वन्ति ॥ (ख० १६) ॥ १५.४.५० ॥

इति सत्याषाढहिरण्यकेशिसूत्रे पञ्चदशप्रश्ने चतुर्थः पटलः ।

भूत्वा भूतिं प्राप्य प्रभवति प्रभुर्भवति समानानामीश्वरो भवतीत्यर्थः । प्ररोचनाप्रदर्शनमादरार्थम् ॥ ५० ॥ इति सत्यापाढहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयोगचन्द्रिकायां पञ्चदशप्रश्ने चतुर्थः पटलः॥

15.5 अथ पञ्चदशप्रश्ने पञ्चमः पटलः ।

अथ सोमप्रायश्चित्तान्युच्यन्ते

अग्निं नरो दीधितिभिररण्योर्हस्तच्युती जनयन्त प्रशस्तम् । दूरेदृशं गृहपतिमथर्युम् । अग्निनाऽग्निः समिध्यते सप्त ते अग्ने मनो ज्योतिर्जुषतां त्रयस्त्रिꣳशद्यन्मे मनसश्छिद्रं यद्वापो(चो)यच्च मे हृदः। अयं देवो बृहस्पतिः सं तत्सिञ्चतु राधसा ॥ विश्वकर्मा हविरिदं जुषाणः संतानैर्यज्ञꣳ समिमं तनोतु । या व्युष्टा उषसो याश्च याज्यास्ताः संदधामि हविषा घृतेन । अयाश्चाग्ने । त्वं नो अग्ने । सत्वं नो अग्ने । भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टु वाꣳसस्तनूभिर्व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु । पृषदश्वा मरुतः पृश्निमातरः शुभंयावानो विदथेषु जग्मयुः । अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसागमन्निह । शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् । पुत्रासो यत्र पितरो मदन्ति मा नो

सत्याषाढविरचितं श्रौतसूत्रम्- [१५ प्रश्ने

मध्या रीरिषताऽऽयुर्गन्तोः। प्रेद्धो अग्न इत्येषा । श्रुत्कर्णाय कवये मेध्याय वचोभिर्नाकमुपयामि शꣳसन् । यतो भयमभयं तत्कृधी नोऽग्ने देवानामव हेड युक्ष्व । अग्निं वो देवमग्निभिः सजोषा यवि(जि)ष्ठं दूतमध्वरे कृणुध्वम् । यो मर्ते(र्त्ये)षु निध्रुविर्ऋतावातपुर्मूर्धा घृतान्नः पावको घृतप्रतीको घृतयोनिरग्निर्घृतैः समिद्धो घृतम स्यान्नम् । घृतप्रुषस्त्वा सरितो वहन्ति घृतं पिबन्त्सुयजा यक्षि देवान् ॥ आयुर्दा अग्न इमो अग्ने सप्त ते अग्ने मनो ज्योतिर्जुषतां त्रयस्त्रिꣳशद्यन्मे मनसच्छिद्रं विश्वकर्मा युनज्मि त्वाऽग्निं युनज्मीन्धानास्त्वा ॥ (ख० १७ ) ॥ अग्निर्न ईडित ईडितव्यैर्देवैः पार्थिवैः पातु । वायुर्न ईडित ईडितव्यैर्देवैरान्तरिक्षैः पातु सूर्यो न ईडित ईडितव्यैर्देवैर्दिव्यैः पातु । विष्णुर्न ईडित ईडितव्यैर्देवैर्दिश्यैः पातु । अग्निर्यजुर्भिः पूषा स्वगाकारेण त इमं यज्ञमवन्तु ते मामवन्त्वनु व आरभेऽनु मा रभध्वꣳ स्वाहेत्येतैस्त्रिभिरनुवाकैरविज्ञातप्रायश्चित्ते सोमे त्रयस्त्रिꣳशतमाहुतीर्जुहोति ॥ १ ॥

तत्राश्रुतानि विशेषप्रायश्चित्तानि यत्र दोषाणां सोऽविज्ञातप्रायश्चित्तः सोमः । एतदुक्तं भवति, पुरुषप्रमादालस्यादिभिस्तत्र प्रायशो भवन्त्येवान्येऽन्येदोषाः । न च ते सर्वे श्रुतप्रायश्चित्तविशेषा एव भवन्ति, विचित्रत्वात्तेषाम् । तस्माददृष्टदोषविघातार्था एता आहुती होतीति । तत्र- अग्निर्न इंडित इत्यादीनां त इमं यज्ञमित्यादिरनुषङ्गः । यथा पार्थिवैः पातु त इमं यज्ञामित्यादि । तथा-अग्निर्यजुर्भिस्त इम, पूषा स्वगाकारैस्त इममिति च ॥ १ ॥

त्रयस्त्रिꣳशतं यज्ञतनूराग्नीध्रे ॥२॥

नात्र पूर्वपूर्वानुद्रवणम् , अवचनात् ॥ २ ॥

पृथिवि भूवरि सिनीवाल्युरन्ध्र आचित्ते मनस्ते भुवो विवस्त इति वसतीवरीषु सवनीयासु वा विषिक्तासु सप्ताऽऽहुतीर्जुहोति ॥ ३ ॥ सोम

५. पटलः) महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । . .३.१३

स्याऽऽज्यमसि हविषो हविर्ज्योतिषां ज्योतिर्विश्वेषां देवानां भागधेयी स्थेत्यभिमन्त्र्य सं वः सिञ्चन्तु मरुतः समिन्द्रः सं बृहस्पतिः । सं वोऽयमग्निः सिञ्चत्वायुषा • च बलेन च । सर्वमायर्दधातु मे ॥ मान्दा वाशाः। आपो भद्राः।.आदित्पश्यामि। आपो हि ष्ठा मयो भुवो यो वः शिवतमो रसस्तस्मा अरं गमाम व इत्येताभिः सप्तभिः सँसिञ्चेदभि वा मन्त्रयेत ॥ ४ ॥

प्रतिपदमेकैकाऽऽहुतिः । भुवो विवस्त इति सप्तमी । सवनीयासु एकधानासु विवि___ तासु स्कन्नासु । संसिश्चेत्ता एव पुनरावदीत । यदा त्वादानायोग्यास्तदाऽभिमन्त्र. येत ॥ ३ ॥ ४ ॥

यदि प्रातःसवने पुरा होमात्सोमोऽतिरिच्येत तं चमसेष्वभ्युन्नयेयुरुप जुहुयुर्वा ॥५॥

प्रातःसवनेऽन्तिमस्य चमसगणस्य प्राग्योमाद्यदि कलशादिषु पश्येयुरातिरिक्त(क्तानि) चमसेष्वानयेत् । उपजुहुयाद्वा परिप्लवादिनाऽगिनुवषट्कारात् । उपहोमास्तु परतो ' होमाईर्शनेऽपि यावदनुवषट्कारं लभ्यन्ते, उपहोमकालानत्ययात् । प्राग्योमादिति चानु. । वषट्कारहोमोऽभिप्रेतः ॥ ५ ॥

हुतेऽतिरिक्तस्याऽऽशयित्वा स्तुतशस्त्रवन्तं कुर्युः । सा प्रायश्चित्तिः ॥ ६ ॥

निवृत्ते सानुवषट्कारहोमे दृष्ट्वा ततः स्तुतशस्त्रवन्तं सोमं कुर्यात् ।। ६ ॥

होतृचमसमुख्याꣳश्चमसानुन्नीय बृहतः स्तोत्रमुपाकरोति ॥ ७ ॥

अतिरिक्तादेवोपस्तरणं चमसानाम् । अत्र चमसान्नीयति वचनाचमसंगणाय पर्याप्तसोमातिरेक एवातिरिक्तविधिः । अन्यथाऽनिं नरादिविधिरेवेति सिद्धं भवति । केचित्त्वाहुतिमात्रातिरकेऽप्येकधनाभिवर्धयित्वाऽतिरिक्तविधि कुर्वन्ति ॥ ७ ॥

गौर्धयति मरुतामिति धयद्वतीषु स्तुवीरन् ॥ ८ ॥

पञ्चमोऽन्न स्तोमभाग इति ब्रह्मत्वविधावेव दार्शतम् ॥ ८॥

अस्ति सोमो अयꣳ सुत इति वैतास्वैन्द्रावैष्णवीभिहोंत्रे स्तुयुः ॥ ९ ॥

१. पश्येत् इतिपाठ. . .:.:::

सत्यापाढविरचितं श्रौतसूत्रम्-- [१६ प्रश्न

एतासु वा स्तुवीरन् नेतरयोरन्यतरेण साम्ना । अथवा-ऐन्द्रविष्णवीमिहोत्रे ॥९॥

ऐन्द्रावैष्णवꣳ होताऽनुशꣳसति ॥ १५.५.१० ॥

गतः ॥ १० ॥

एतदेव माध्यन्दिने सवनेऽतिरिक्ते प्रायश्चित्तम्॥११॥

यदि माध्यंदिनेऽतिरिक्तं पश्येदेतदेव प्रायश्चित्तम् ॥ ११ ॥

बण्महाꣳ असि सूर्येति सौर्येषु बृहता गौरवीतेन वा स्तुवीरन् । एतदेव तृतीयसवनेऽतिरिक्ते प्रायश्चित्तम् । वैष्णवीषु शिपिविष्टवतीषु बृहता गौरवीतेन वा स्तुवीरन् ॥ १२ ॥

स्तोत्रे विकार इत्यापस्तम्बः ॥ १२ ॥

अग्निष्टोमे सोमोऽतिरिच्येतोक्थ्यं कुर्वीत ॥ १३ ॥

तृतीयसवनेऽपि प्राग्योमादृष्ट्वा स एवाभ्युन्नयनविधिरुपहोमो वा । हुते तु दृष्ट्या अग्निष्टोमश्चेत्क्रतुस्तमुक्थ्यं कुर्वीत । तत्रातिरिक्तं रसमाध(ह)वनीय प्रकृतिवद्धारां कृत्वा स्थाल्योक्थ्यं गृह्णाति । तत एकधनानां यथार्थमित्येतदाद्या पञ्चहोतुः क्रियते । ग्रहावकाशशतकारास्तु लुप्यन्ते । प्रस्त्र(श्र)प्स्यन्तो ग्रहानवेक्षन्त इति वचनात् । ततः प्रातःसवनवदुक्थ्यं विगृह्णातीत्याद्युन्नेतः सर्व राजानमित्यन्तं तन्त्रं तायते । स्तोत्रेषु चोक्थ्यवदेव स्तोमभागः । न तु द्वादशस्याऽऽवृत्तिः, उक्थ्यत्वविधानात् ॥ १३ ।।

यद्युक्थ्ये षोडशिनं यदि षोडशिन्यतिरात्रं यद्यतिरात्रे । (द्विरात्रं यदि द्विरात्र एकस्तोत्रमेव )॥१४॥

तृतीयसवनेऽतिरिच्यतेति कुर्वीतेति चानुषङ्गः । सर्वः प्रयोगश्चैषां ग्रहग्रहणादिरुक्थ्यपद्रष्टव्यः । एकस्तोत्रमेवेति तृतीयसवनेऽपि सवनान्तरवदेकस्तोत्रमेव, न तूंत्तरः ऋतुरित्यर्थः । अत्र सूत्रकारेण शाखान्तरानुसारादतिरावातिरेके द्विरात्रः । ततः परमेकस्तोत्रं चोक्तम् । तैत्तिरीयकेऽतिरात्रातिरेकेऽप्येकस्तोत्रमेवोच्यते । यस्यातिरात्रेऽतिरिच्यते तं वै दुष्प्रज्ञानम् । इत्यादिना । छन्दोगवहरैरपि तदेवाऽऽम्नातमनुमते च तत्तत्कल्पकारैः । वचनानि तु विस्तरभयान्न लिख्यन्ते । अतोऽतिरात्रातिरेकेऽप्येकस्तोत्रं युज्यते विकल्पयितुम् । कात्यायनस्तु तत्रैकस्तोत्रमुक्त्वाऽऽह- अप्तोर्यामो वा ' इति । अप्तोर्यामेऽप्येकस्तोत्रमेवाऽऽहोपग्रन्थकारः । अथो अतर्यामे गौरकीतमेव शिपिविष्टवतीषु कुर्यः' इति । अथ विकृत्येकाहानां यथास्वं प्रकृत्युक्त एवातिरिक्तविधिर नुसंघातव्यः । वाजपेये त्वेकस्तोत्रमेवोक्तवानुपग्रन्थकारः । तथा तासु बृहन्निधनं वा जुम्मं कुर्यः, इति । भत्र पुनः सर्वस्यास्य सोमातिरेकविधेरनुग्रहमाचष्टे बौधायन:--'यथा यस्यःप्रातःसवन

9 पडला ] महादेवशास्निसंकलितमयोगचन्द्रिकाव्याख्यासमेतम् । ३१५

इत्यादि यथा ब्राह्मणमुक्त्वाऽऽह ' इति च्छन्दोगवढचेषु कामयमानेषु ते चेन्न कामये. रन्प्रातःसक्नेऽतिरिक्त यां स्थाली राज्ञेऽतिशिष्टाय मन्यते तस्या उपरिष्टादाग्रयणमानीयाधस्तादुपगृह्णाति तं विरभिविष्यन्दयति. सोऽभिविष्यन्दमानः सर्व एवाऽऽअयणः संपद्यते तं त्रिरभिहिंकृत्य परिमृज्य सादयति ' इति । तथा माध्यंदिनेऽप्येतमेव विधिमविकृतमुक्त्वाऽऽह | तृतीयसवनेऽतिरिक्ते हारियोजनमेवात्राभिविष्यन्दयति । न हि पुनर्ग्रहणं विद्यत इति । कात्यायनोऽप्याह-- 'पूर्वात्सवनादतिरिक्तस्योत्तरे संयावनमेके तं निकामयमानोऽभ्यतिरिच्यत इति श्रुतेः । तृतीयसवनाच्चेद्धारियोजनेऽवनीय होमः । अप्सु तावृजीषामिश्रस्यास्ववहरणम् ' इति । अथ यदा सूत्रकारमतादतिराने द्विरात्रः क्रियते तदा पूर्वमहः पत्नीसंयाजान्त संस्थाप्य द्वितीयोऽस्वतिरात्रः कार्यः । उपरिष्टादतिरात्रत्वादहीनानां व्युष्टिदिरानप्रकृतित्वाच्च द्विरात्राणाम् । एवमन्येऽप्यहीनधर्मा द्विरात्रधर्माश्च यथाप्रकृति द्रष्टव्याः ॥ १४ ॥

(तत्र ) वैष्णवीषु शिपिविष्टवतीषु बृहता गौरवीतेन वा स्तुवीरन् ॥ १५॥

ताज्यसवनिक एकस्तोने ॥ १५ ॥

यदि सोमौ सꣳसुतौ स्यातां प्रथमानि चत्वारि संभारयजूꣳषि हुत्वा महति रात्रियै प्रातरनुवाकमुपाकुर्यात् । तस्मिन्परिहित एहि यजमानेत्युक्तेऽन्वारब्धे यजमाने संवेशायोपवेशाय गायत्रिया अभिभूत्यै स्वाहेति पुरस्तात्प्रातःसवनस्य जुहुयात् ॥ १६॥

यदि सोमयोः समानस(सु)त्यः स्यात् । आदितः प्रातःसवनस्य बुध्यमाने(ने) चतुर्भिः संभारयजुर्तुित्वा प्रबोधनकाले प्रातरनुवाकस्योपाकरणमन्वारब्धे यजमानेऽध्वर्युः (यजुर्भिः)

उत्तराणि चत्वारि संभारयजूꣳषि हुत्वा संवेशायोपवेशाय त्रिष्टुभोऽभिभूत्यै स्वाहेति पुरस्तान्माध्यंदिनस्य सवनस्य जुहुयात् । उत्तराणि चत्वारि संभारयजूꣳषि हुत्वा संवेशायोपवेशाय जगत्या अभिभूत्यै स्वाहेति पुरस्तात्तृतीयसवनस्य जुहुयात् । उत्तराणि चत्वारि संभार

३१६ .. सत्यापादविरचितं श्रौतसूत्रम्-......[१६ प्रग्ने

यजूꣳषि हुत्वा संवेशायोपवेशाय पङ्क्त्या अभिभूत्यै स्वाहेति पुरस्तादुदवसानीयाया जुहुयात् । समिद्धेऽग्नौ हूयन्ते प्राणापानौ मृत्योर्मा पातं प्राणापानौ मा मा हासिष्टमिति द्वे आहुती ॥ १७॥

एवं सवनस्य सवनस्य चाऽऽदावुत्तरोत्तरैश्चतुर्भिः संभारयजुर्भिश्छन्दसा सो(चो)त्तरे सह पङ्क्त्या । पञ्चसवनो यज्ञः । त्रीणि सवनान्यवभूयोऽनुबन्ध्येति ( आप० श्री १४-७-३) इत्यापस्तम्बः । पञ्चसक्नस्तु यजुः- अग्ने नयेति प्रातःसवमादि, अभिपवादि माध्यदिनम्, आदित्यारम्भणम्, अवभूयोऽनूबन्ध्येति पञ्च । अन्त्यसंभारयजुर्नियुज्यतें छन्दस्त्वेकैकम् । ज्वलत्यौ हूयन्ते प्राणापानाविति । जपं कृत्वा वनस्पतेः ॥ १७ ॥

पुरस्तात्पाशुकात्स्विष्टकृतो जुहोत्येतिवतीः प्रतिपदो भवन्ति । प्रेतिवन्त्याज्यानि ॥ १८ ॥

पुरस्तात्पाशुकात्स्विष्टकृतोऽध्वर्ये (यु)जुहोति । जपतीत्यापस्तम्बः । एतिशब्दः प्रेतिशब्दो निगद्यते । तान्याज्यानि भवान्त वैश्वदेव्यादीनि ॥ १८ ॥

मरुत्वतीः पूषण्वतीर्वा प्रतिपदो भवन्ति ॥१९॥

मरुत्वतीः पूषण्वतीर्वाऽऽरम्भ आज्यानाम् । ब्राह्मणांच्छंसिनों यत्स्सम तदभिवर्तः ।। उभे बृहद्रथंतरे कर्तव्ये । सर्वेषु संसवप्रायश्चित्तेप्वेष विधिः ॥ १९ ॥

यद्यग्निष्टोमः सोमः परस्तात्स्यादुक्थ्यं कुर्वीत । यद्युक्थ्यः षोडशिनम् । यदि षोडश्यतिरात्रम् । यद्यतिरात्रोऽप्तोर्यामम । यद्यप्तोर्यामो द्विरात्रम । यदि द्विरात्रस्त्रिरात्रम् । यदि त्रिरात्र एकस्तोत्रमेव ॥ १५.५.२० ॥

यद्यग्निष्टोमः । तेन सह संसवप्रायश्चित्तविधिरात्मयज्ञः कर्तव्यः संस्थाविधिकः । यद्युक्थ्यसंस्था स्यात्परयज्ञः । षोडशिसंस्था : स्वशाखीययज्ञः, तैत्तिरीयकोक्थ्यसंसवे सोऽतिरेक उक्थ्ये अतिरात्र एव कर्तव्यः । यदि षोडशी परयज्ञः स्यादतिरात्रसंस्था कर्तव्या । यद्यतिरात्रः स्यात्रिरात्रः स्वयज्ञः कर्तव्यः । सर्व गर्गत्रिरात्रवत् । यदि तु त्रिरात्रः परयज्ञः स्यात् । एकस्तोत्रमेव विवर्धते :। यद्येकसोमातिरेकेण वोक्थ्यादिविवृद्धिः ॥२०॥

९ पटलः । - महादेवशास्त्रिसंकलितमयोग चन्द्रिकाच्याख्यासमेतम् । ३१.६

अभिजित्कार्योऽभिजित्यै । विश्वजित्कार्यो विश्वस्य जित्यै । सर्वस्तोमः सर्वपृष्ठः सर्वस्याऽऽप्त्यै सर्वस्यावरुद्ध्यै । क्रोशानुक्रोशे कार्ये वसिष्ठस्य निहवे उभे बृहद्रथंतरे कार्ये । सजनीयꣳ शस्यं विहव्यꣳ शस्यमगस्त्यस्य कया शुभीयꣳ शस्यमिन्द्रस्य निष्केवल्यं तानि शꣳसेदभिवर्त ब्रह्मसाम कुर्यात् । अभिजितं विश्वजितं वा यज्ञक्रतुं कुर्यादिति संप्रेष्यति ॥ २१ ॥

आभिजिद्विश्वजिद्धा सर्वपृष्ठः सर्वस्तोमः सर्वस्याऽऽप्त्यः सर्वस्यावरुद्धया इति ब्राह्मणम् । वैराज शाकरं रैवतमिति सोमे तूभयच्छन्दसः । सप्तदश एकविंशस्तृणवस्त्रयस्त्रिंश इति । एवंलक्षणोऽतिरात्रो भवति । विश्वजितं (सर्वस्तोमः ऋतूनाम्) इति यस्मिंस्तस्य शंसनम् । ममाग्न इति । अगस्त्येन दृष्टं कया शुभीर्य नी(नारि)ष्ठे त्रीपयपि जानयिम्(यात् ।।) प्रातःसवनीये वैश्वदेवे क्षिपेत् । विहत्यः माध्यंदिनीये । मरुस्वतीये अगस्त्यस्य कयाशुभीय तृतीयसवनीले वैश्वदेवेऽनुप्रोहेन (क्षिपेत) पुनरेषांक प्रयोगः-तौरश्नवसं कार्यमित्येवाऽऽहाऽऽपस्तम्बः । क्रोशानुक्रोशे कुरुतानियेमातम ।। पुरस्तात् प्रातःपवनात्संप्रेष्यति । प्रातःसवनात्... प्रेषश्छन्दोमबचानां - मतादितिः । एतदामीजति विश्वजितिं वा'यदुक्तं संप्रैपे सवनीयादीनि च ।। २.१ ॥

पूर्ववत्सꣳस्थाप्यः । अभिषुत्यं वा दक्षिणाभिर्वा वर्षीयाꣳसं यज्ञक्रतुं कुर्युः ॥ २२ ॥

अथवा पूर्ववत् संस्थापयितव्यः । य एवाऽऽरब्ध नैवाभिषवं उक्तों) । यद्यग्निष्टोमः सोमः पुरस्तात्स्यात् । इति । दक्षिणानिया( आ।)नीयाः सम(सं.) र दक्षिणाभिवरीयासं) बहुदक्षिणं शक्रयज्ञात् ।. रथो वा यावन्त मध्वानं गच्छति ॥

यावद्रथान्ह्य(ध्वम)न्तरा गिरिं भिद्वा (त्त्वा) नदी तावता सꣳसवः समानजनपदे सꣳसवो नानाजनपदे सꣳसवो नाविद्विषाणयोः सꣳसवो विद्यत इत्येकेषाम् ॥ (ख०१९) ॥ २३ ॥

अन्य( याव )द्रथा ह्य(न्य )न्तरेति वचनात्तद्रयान्यं तावत्यध्वनि यजतो न संसबप्रायश्चित्तम् । यंत्र वा गिरी स्यातामन्तस यात न संसवप्रायश्चित्तं, सो गिरिकारीत्युच्यते, गिरिभिद्धा तत्रान्तरा न तत्र संसंवदोषः ()। गिरिवी यथा सर्वतः सर्वतो महच्छिखरैः संवा यत्रान्तरे वर्तते नानाभूते वोऽन्यत्र राज्येऽपि तत्रापि न संसवप्रायश्चित्तम् । अत्र शाखान्तरमुपसंहरत्यापस्तम्ब:- यावद्रयान्ह्यमन्तरा गिरिगिरिभिद्धा नदी

३१८ सत्यापाढपिरचितं श्रौतसूत्रम् [१५

मझे व्यवेयात्पर्वतान्तराये वा नानाराज्ययोर्वा संसो नाविद्विषाणयोः संसवो विद्यत इति कङ्कतिब्राह्मणं भवति ' ( आप नौ १४-९०-४) इति । अन्यस्मिश्चान्यं तत्र न संसवदोषः । विद्विषाणयोरेव संसवदोषो विद्यते । अविद्विषाणयोर्नास्ति संसवप्रायश्चि. तम् । अर्वागपि रथान्याद्यजतो लोके ॥ २३ ॥

यदि दीक्षितानामुप्रतापः स्यान्महानाग्नीध्रीयमुपसमाधाय ब्राह्मणं दक्षिणतो निषाद्यैकविꣳशतियवान्दर्भपुञ्जीलाꣳश्च पूर्णपात्रेऽवधाय ब्राह्मणाय प्रोच्यापः परिब्रूयात्-जीवा नाम स्थ ता इमममुं जीवयत जीविका नाम स्थ ता इमममुं जीवयत संजीवा नाम स्थ ता इमममुꣳ संजीवयतेति प्रतिब्रूयात् ॥ २४॥

दीक्षितानां यत्रोपतापो ज्वरः स्यात् । स यजमान आयतने शेत एव । न करोति यजमानकर्माणि । तं परिगृह्याऽऽधिमण्डपं नयेत् । परी परित इति नयनमन्त्र आप. स्तम्बीये द्रष्टव्यः । वास्त्यस्माकं नयनमन्त्रः । तूष्णीमानयनमिति वा गम्यते । आमीध्रीय एव स उपसमाधान बलवत्करणं पारस्तरणं च दर्भनालणस्तस्य दक्षिपात उपवि. शति । दर्भेष्वाग्नीध्रीयमभिमुखमुदकंपूर्णपात्रमुत्तरतो निषाद्यैकविंशतिकुशस्तम्बाश्च क्षिप्यन्ते । त्रिभिर्मन्राप उच्यन्ते जीवा नाम स्थ ता इत्यादि । तृतीये च मन्त्रे तस्य नामग्रणं द्वितीयान्तं देवदत्तं संजीवयवेति नूयात् ।। २४ ।।

या जाता ओषधय इत्योषधिसूक्तेनैताभिरद्भिरभिषिञ्चेत् ॥ २५ ॥

ओषधिसूफेन च सापयन्युदपात्रे या अपः ॥ २५ ॥

पाययत्येतासामपां प्राणापानौ त उपाꣳश्वन्तर्यामौ पातामसौ व्यानं व उपाꣳशु सवनः पातु वाचं म ऐन्द्रवायवः पातु दक्षक्रतू ते मैत्रावरुणः पातु चक्षुषी ते शुक्रामन्थिनौ पाताꣳ श्रोत्रं त आश्विनः पात्वात्मानं त आग्रयणः पात्वङ्गानि म उक्थ्यः पात्वायुष्टे ध्रुवः पातु वीर्यं तेऽतिग्राह्याः पान्त्वसावित्यभिमृशति ॥ २६ ॥

अपैनमभिमृशन्तीत्यापस्तम्बः । सर्वेऽभिमृशन्ति । असाविति नामग्रहण संमुख्या

६ पटलः] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमैतम् । ३१६

प्रतिजपति प्राणापानौ म उपाꣳश्वन्तर्यामौ पातां व्यानं मे उपाꣳशु सवनः पातु वाचं म ऐन्द्रवायवः पातु दक्षक्रतू मे मैत्रावरुणः पातु चक्षुषी मे शुक्रामन्थिनौ पाताꣳ श्रोत्रं म आश्विनः पात्वात्मानं म आग्रयणः पात्वङ्गानि म उक्थ्यः पातु वायुर्मे ध्रुवः पातु वीर्यं मेऽतिग्राह्याः पान्त्विति प्रतिजपिते पुष्टिपतौ पुष्टिं प्राणै प्राणमपानेऽपानं व्याने व्यानमुदान उदानꣳ समाने समानं वाचि वाचमस्मै पुनर्धेहीत्याहुतिं जुहोति ॥ २७ ॥

यजमान प्रतिजपत्यध्वर्युः । ब्रह्मेति वैखानसः । प्रतिजपिते पुष्टिपती पुष्टिमिति होममन्त्रः । हुत्वा पूर्ववदभिमर्श इत्यापस्तम्बः । भाष्ये तु स्वयं जपत्येतावेवोपांश्वन्त र्यामा इति । तत आहुतिराग्नीध्रीयेऽध्वर्युर्यथा पूर्व कृतमामिशर्भनं तयैव न तु स्वयं जपः। आग्नीध्रीय उत्पन्न एतत्कर्म, नतु पूर्वम् ।। २७॥

न पुनर्भेषजं करोति ॥ २८ ॥

ततो निवृत्तिः ॥ २८ ॥

यदि म्रियेत प्रागवभृथादग्न्यवभृथं कुर्युः ॥ २९ ॥

यदि यनमानो म्रियेलाक्रियमाणे तु नैमित्तिके प्रागवभृथादचितरेव दहनम् । अस्य परिसमापने कृते नैमित्तिके नतु प्रत्यक्षविधानात् । अधिकारः पितृमधेन यजमानार्यस्वात् कर्मणः स नास्ति यदर्थं तत् क्रियते । अन्ये स्वाहु:-आमिषु प्राक्षिप्यत इति बार९॥

अवभृथं वा गमयित्वोदाहृत्यावभृथादग्निभिरभिसमाहारं दहेयुः ॥ १५.५.३० ॥

अवभृथस्नानमन्त्रैरवभृथमन्त्रेणावभृथ इति । अथवा-' अवभृय नीत्वा स्वकालेऽवभूयस्नानकाले तुष्णी प्रोक्ष्याभ्युदाहृत्य प्राग्वरशमुन्नेतारे पुरस्कृत्य, अथ लुप्त यजमानकर्म निवर्तते । संस्कार आशिषश्च आयुराशास्त इत्येवमाद्याः समाप्य साङ्ग ऋतु स्वैरप्यग्निमिः । ये पितृमेधे व्यापार गच्छन्ति तैर्यथालोकं दहेयुः । पत्नीप्रयाणेऽ( मरणे )प्येतदेवेति मीमांसकाः । तस्या अपि प्राधान्यात् । पत्नी अङ्ग, तस्मान्न तस्या इत्युप

एतावदेकाहे ॥ ३१ ॥

एतावदेकाहे विधानात् ॥ ३१ ॥

अहर्गणे त्वाहर दहेत्युक्त्वा दक्षिणाग्नेरङ्गारं निर्वर्त्य निर्मन्थ्येन वा दहेयुः ॥ ३२ ॥

। ३२० : - . . . .. सत्यापाढविरचितं श्रौतसूत्र- : [ १५ प्रश्ने

अहर्गणे तु सत्रेऽहीने वाऽऽहर दहेत्युक्त्वा यजमानमात्मानमध्वर्युराहर तं यजमानं मृतं विधिना दह तं चैनमिति प्रैषार्थः । दक्षिणाग्नेगृहीत्वाऽङ्गारान्निर्मन्थ्येन वा, मृतस्य यजमानस्य दहनं तूष्णीममात्यैः कर्तव्यम् । वर्तमानमहः परिसमाप्यास्य पत्नीसंयाजान्तं कर्मान्ये कुर्युः ॥ ३२ ॥

दक्षिणस्यां वेदिश्रोण्यामस्थिकुम्भं निदधाति ॥ ३३ ॥

यजमानस्य चेति शेषः ॥ ३३॥

तिसृभिः सार्पराज्ञीभिरभिप्रतिहृताभिरुद्गातारः स्तुवीरन् ॥ ३४ ॥

उद्गातारः सार्पराज्ञीभिः स्तुवीरनिति तिसृभिरस्थीति ॥ ३४ ॥

इतर ऋत्विजो होतृप्रथमाः प्राचीनावीतिनो यामीरनुब्रुवन्तः सार्पराज्ञीनां कीर्तयन्तो दक्षिणान्केशपक्षानुद्ग्रथ्य सव्यान्प्रस्रस्य दक्षिणानूरूनाघ्नानाः सव्यानित्येकेषाम् ॥ ३५॥

ऋत्विजो होतृप्रथमाः प्रोचीनावीतिनो दक्षिणान्केशपक्षानुद्वथ्य बद्ध्वा सव्यान्मुक्त्वा दक्षिणानूरूनानाना विपरीतमित्येके ॥ ३५॥

त्रिः प्रसव्यं मार्जालीयमनुपरीयुः ॥ ३६॥

अस्थीनि त्रिः प्रसव्यं परिंगच्छन्त्यप नः शोशुचदमिति मन्त्रेणानेन पश्चाद्यामीयं - यमो दाधारेति सार्पराजीश्च कीर्तयति । यत्स्तुतमननुशमि(१)स्तमित्ति लिङ्गात् । उच्चै। स्तुष्टमानसाः सर्पराज्ञीः । सव्यान्बद्ध्वा दक्षिणोन्मुक्त्वा सव्यानुरूनानानाः स्त्रीरेव प्रतिनिधिमप नः शोशुचदघमित्येतेनैव तत्कृत्वोदङ्मुखा गच्छन्ति । अयम्यो यजमानेभ्यो दक्षिणतोऽश्मानं परिधि दधाति---इमं जीवेभ्यः० पर्वतेनेति विशेप्व(षोड) कृता. : स्वहीनसंततिषु पूर्वकाल एव रात्री परिस्तरणान्ते.महाराने बुद्ध्वा यत्प्राप्तकालमहस्तन्त्रं कुर्वन्तिः ।। ३६ ॥

ऐन्द्रवायवाग्रा ग्रहा मैत्रावरुणाग्रा वा मार्जालीयन्यन्ते भक्षानुपनिनीयुः॥३७॥

अग्निष्टोमनिमित्तं कुर्वन्त्युपसमूहनं, तस्य भूयस्त्वात् । तस्मादेव स्तोमान(मा), गृह्यन्ते । तथा दर्शपूर्णमासयोः प्रायश्चित्तेषूत्पन्नेषु नान्यमाज्य निरुप्यते । केचित्त्वस्यार्थे सोमक्रयं कुर्वन्ति । अयमग्निष्टोमो नैमित्तिक इतरेषां मृतस्य नाधिकार इति न्यायः । तदा सर्वे याजमानं कुर्वन्ति । सूत्रकारमतिस्तु - तस्यायं यज्ञ इति तदा-बु जपानां यानमानानां संस्काराणाम्-आयुराशास्त इत्यादीनां लोपः । अग्निष्टोमसंस्थासु सोमे चैन्द्रवायवाया

५ पटलः] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । ३२१

ग्रहा मैत्रावरुणाया वा । यामीषु सर्वस्तोत्राणि । स्तोत्रे स्तोत्रे वर्तमानेऽस्थिघटो निशीयते । मार्जालीयेऽअङ्गप्रधानभक्षान्निनीयन्ते ॥ ३७॥

अग्न आयूꣳषि पवस इति प्रतिपदं कुर्वीरन् ॥ ३८ ॥

अग्न आयपीति सर्वस्तोत्राणामारम्भः । अत्र विशेषमाहाऽऽपस्तम्ब:-'रथंतरसामैषां सोमः स्यात् । आयुरेवाऽऽत्मन्दधतेऽथो पाप्मानमेव विजहतो यन्तीति विज्ञायते । (आप० श्री० १४-७-२२) इत्यादि । रथंतरपृष्ठ एवायं स्तोत्रविधिः । अस्मिपत्नीसंयाजान्ते कृते तस्याग्नयोऽपशीयन्ते निर्मथ्य पितृमेधादिप्रकृतिवच्छेषं समापयन्ति । सत्रमहीन वा । यस्त्वकृतो दिवसस्तस्मादारभ्य मृतस्य च यत्कर्म तत्सर्वं कुर्वन्ति ! तस्मिन्निहरिपक्ष एष विधिरनाथस्य ॥ ३८ ॥

एतावदनाथे नाथवतस्तु दग्ध्वाऽस्थीन्युपनह्य यस्तस्य स्वो नेदिष्ठी स्यात्तं तस्य स्थाने दीक्षयित्वा तेन सह यजेरन् ॥ ३९ ॥

एतावदनाथे नाथवत इति हेतुवचनात् । यदि तु नाथवान्दग्ध्वाऽऽहर दहेत्युक्त्वा दक्षिणाग्नेरङ्गारेण कृष्णाजिनेऽस्थीनि बद्ध्वा निधाय तस्मिन्नपि न दृश्यन्ते । मृतस्य यः पुत्रः सोदयों भ्राता वा मृतस्य स्थाने दीक्षित आत्मसंस्कारे न वपनमिति केचि. द्वयाचक्षते । यस्याऽऽवृत्तिः । प्रेताग्नयस्तु ये दीक्षितास्त एव तिष्ठन्त्या ऋतुसमाप्तेः । येनेष्टयोऽग्नयस्ते गृहे तिष्ठन्ति नित्यकर्मापि तस्य क्रियते । प्रवासागतस्य चेन्न स्वयं तु पितृशुश्रूषां कुर्वन्प्रतिनिधियं एतेन सहेतरयाजमानस्तिष्ठति । मृतस्य यजमानस्य कर्म यः करोति ये वितरे यजमानास्ते ॥ ३९ ॥

संवत्सरेऽस्थीनि याजयेयुः। अग्निष्टोमः सोमो रथंतरं गौरवीतं वा साम सप्तदशः स्तोत्रो व्याख्याते ग्रहाग्रे स्तोत्रेऽस्थिकुम्भमुपनिदधाति ॥१५.५.४० ॥

संवत्सरे पूर्णेऽस्थीनि याजयेयुरिति श्रुतेः । जपो यजमानसंस्कारश्च निवर्तते । अर्थलप्ता आयुराशास्त इत्येवंविधा आशिषश्च । दक्षिणीया तु देवतापरिग्रहार्थेन न दीक्षार्थेन । अग्निष्टोम ऐन्द्रवायवाग्रा मैत्रावरुणाया वेत्येवमादि पूर्वास्थियज्ञवत् । अनुत्पन्ने तु मार्जालीये ये तक्षास्तेषां तु त्याग उत्करे । द्वादशमासात्मकमस्यास्थियज्ञस्य दक्षिणा उदवसानीयान्तं पृष्ठशमनीयं मैत्रावरुण्यामिक्षा वा कृत्वा क्रियतेऽस्थियज्ञ: ! एप विधिः सूत्रकाराणाम् । मीमांसकानां तु पृथक्पृथक् पृष्ठशमनीय सौत्रामण्यामिक्षां कृत्वा यथैव पूर्वयज्ञे दीक्षिताः सह(व)नेष्टिना(या) कुर्वन्ति । ते नैमित्तिको यजेत प्रमीत इति

३२२ सत्यापाढविरचितं श्रौतसूत्रम्- १५ प्रश्ने

यावज्जीवश्रुतेः । नित्यानां निवृत्तिः । अग्निहोत्रं तु मृतहोभे न क्रियते चतूरात्रमहूयमानानां लौकिकत्वश्रुतेः । अग्नेर्गुप्त्यर्थत्वादिति अनुपदकारवचनाच्च । केचित्त्वयमानाग्नीधारयन्ति | संवत्सरेऽस्थीनि याजयेयुरिति वचनान्न लौकिका भविष्यन्तीति मृतपत्न्यस्थियज्ञेऽपि दीक्षिते पत्नीकर्म च करोति नेष्टिसमीपतः ॥ ४० ॥

यामेन साम्ना स्तुवते । द्वादशशतं दक्षिणा ॥ (ख०२०) ॥४१॥

इति सत्याषाढहिरण्यकेशिसूत्रे पञ्चदशप्रश्ने पञ्चमः पटलः॥ गतः ॥ ४१ ॥

" इति सत्याषाढहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयोग- . चन्द्रिकायां पञ्चदशप्रश्ने पञ्चमः पटलः ॥

15.6 अथ पञ्चदशप्रश्ने षष्ठः पटलः ।

यदि सत्राय दीक्षेताथास्य साम्युत्थानं जायेत । सोममय(वि)भज्य विश्वजिताऽतिरात्रेण सर्वस्तोमेन सर्वपृष्ठेन सर्ववेदसदक्षिणेन यजेत ॥१॥

सत्राय सत्रार्थम् । यज्ञशून्यसत्रेण यक्ष्य इत्युक्त्वा यदि न यजेत । यो यक्ष्य इत्युक्त्वा न यजत इति लिङ्गात् । याऽत्र योक्ष्य इत्युक्त्वेति विधिप्राप्तां धातवीयामेके सहस्रदक्षिणां समामनन्ति (आप० श्री० १४-८-२) इत्यापस्तम्बः। मा सहस्रदक्षिणा कार्या । सत्रे दीक्षित्वा रोगादिना निमित्तेन मध्य एवोत्यात्तुमिच्छेन्स सोमस्य स्वांशं गृहीत्वा स्वाग्नीश्च समारोप्य गत्वा कृतान्तादेव प्रक्रम्य विश्वनिद्विधिना ऋतु: समापनीयः । एवमतिरात्रेण सर्वस्तोमेन सर्वष्ठेन सर्ववेदसदक्षिणेन यजेत इति वचनात् । न चास्य सप्तदशोऽग्निष्टुद्भवति । अत एव विधेरयज्ञविभ्रषात् ॥ १ ॥

कृतान्तात्कर्माणि प्रतिपद्यते ॥ २ ॥

कृतान्तो यमः । तस्य संबन्धात्पैतृमधिककर्माणि प्रतिपद्यत इत्यर्थः ॥ २॥

अवलिख्योखायास्तैरन्यां मृदꣳ सꣳस्कृत्य कुर्यात् ॥ ३॥

यदि दीक्षासूतिष्ठासेदित्यापस्तम्बः । स चोखायाः पासूनपादाय तैरन्यां मृदं संसृज्य तूष्णीमुखां कृत्वा तस्यामुख्यमुत्पादयेत् ॥ ३ ॥

अवलिख्य पशुशिरसां तूष्णीकेष्वाश्लेषयेत् ॥ ४ ॥

तथा पञ्चपशशिरोभ्यो लेशानपादाय लौकिकेषु पशुशिरःस्वाश्लिष्य मृदा प्रलिप्य निदधाति ॥ ४ ॥

६ पटलः ] महादेवशास्तिसंकलितमयोगचन्द्रिकाच्याख्यासमेतम् । ३२.३

प्रणीत आहवनीये तूष्णीमग्निꣳ हरति ॥ ५॥

प्रणीतेऽनौ तूष्णीमन्यं प्रणयेत् । मन्त्रवन्तमित्यपरम् ' ( आप० श्री० १४८-१०) इत्यापस्तम्बः । प्रणीतेऽग्नावृत्तिष्ठत इत्यनुषङ्गः । स्पष्टमन्यत् ॥ ५ ॥

संचितेऽग्नावुत्तिष्ठतो न साम्युत्थानेऽग्निचयनं विद्यते ॥ ६॥

चितेऽग्नावृत्तिष्ठतो नाग्निचित्या विद्यते । तूष्णीं वाऽग्निं चिन्वीत । मन्त्रवन्तमित्यपरम् ' इति भरद्वाजः ॥ ६ ॥

प्राचीनमुदीचीनं वोदवसाय विहारꣳ साधयित्वा सर्वपृष्ट्या (ष्ठया) यजेत । सर्वक्रतुभ्य आगूर्याशक्यमाने यष्टुम् । त्रैधातवीयया सत्रे तु विश्वजितातिऽरात्रेण ॥ ७॥

आगोरणं मनसा संकल्पः । वाचा चेत्यपरम् । सूत्रार्थः पूर्वैाख्यातः ॥ ७ ॥

यदि सुन्वतामाहवनीयोऽनुगच्छेदाग्नीध्रात्प्रणयेयुरेनं यद्याग्नीध्रो गार्हपत्याद्यदि गार्हपत्यो मन्थेयुरेनम् ॥ ८ ॥

सुन्वतामिति जात्याख्यायामिति बहुवचनम् । नतु सत्रार्थम् । औत्तरवेदिकस्याऽsगांधीयोऽग्निोनिस्तस्यापि शालामुखीयः । तस्य त्ववक्षाणमन्थनम् । प्राक्त्वानीध्रप्रणयनादौत्तरवेदिकस्यान्वाहितविधिना प्रणयनं शालामुखीयात् । तस्य तु तेनैव विधिना मन्थनं प्र[स]क्त्वौत्तरवेदिकप्रणयनात्तेनैव विधिनाऽस्य प्रणयनं प्राजहितात् । प्रानहि. तदक्षिणाग्निसम्यावसथ्यानां तु यथाप्रकृत्यवाहितविधिरेव सर्वत्र ॥ ८ ॥

यस्माद्दारोरुद्वायेत्तस्यारणी कुर्यात् ॥ ९॥

अत एव पुनर्मन्थेदित्युक्तम् । तत्र यद्दारुगतोऽग्निरन्ततोऽनुगच्छेत्तच्छित्त्वाऽरणी परिकल्प्य मन्येत् ॥९॥

क्रमुको भवति ॥ १० ॥

धनुरादिनिलेखनप्रभवाः शकलाः क्रमुकः, तत्रेन्धनार्थे भवति ॥ १०॥

ब्रह्मण उद्गात्रे होत्रेऽध्वर्यवे च चतुरो वरान्दद्यात् ॥ ११ ॥

मुख्याश्चत्वारो महत्विजः ॥ ११ ॥

यद्यकीतꣳ सोममपहरेयुरन्यः क्रेयः ॥ १२ ॥

प्राक्क्रयादपहरणे पुनराहृत्य क्रय एव कार्यों नान्यत्प्रायश्चित्तमित्यर्थः ॥ १२ ॥

यदि क्रीतं यो नेदिष्ठी स्यात्तत आहृत्याभिषुणुयात् ॥ १३ ॥

सत्यापादविरचितं श्रौतसूत्रम्- १५ प्रश्ने

क्रीतस्यापहरणे यो नेदिष्ठी नेदिष्ठः सोमसनिकृष्टदेश इति यावत् । ततो यावदर्थमाहृत्य तमेवामिषुणुयादित्यर्थः ॥ १३ ॥

सोमाहाराय सोमविक्रयिणे वा किंचिद्दद्यात् ॥ १४ ॥

य इदानीं सोमस्य हर्ता यो वा पूर्वः सोमविक्रयीं तयोरन्यतरस्मै यथाश्रद्धं दयात् ॥ १४ ॥

यदि तं न विन्देयुः पूतीकानभिषुणुयात् । यदि न पूतीकानथ फाल्गुनानि । यदि न फाल्गुनान्यथार्जुनान्यथाऽऽदारान् । यदि नाऽऽदारान्या एव काश्चाऽऽर्द्रा ओषधीराहृत्याभिषुणुयात् ॥ (ख०२१) ॥ १५ ॥

पूतीकादय ओषधिविशेषाः | फाल्गुनानि तृणविशेषाः । तेप्वादाराः फाल्गुनानि च समुच्चीयन्ते । तत्राप्यापस्तम्बीये विशेष:--'पूतीकाभाव आदारान्फाल्गुनानि च यानि श्वेततूलानि स्युस्तदभावे याः काश्चौषधीः क्षीरिणीररुणदूर्वाः कुशान्वा हरितानिति । वाजसनेयकम् । अप्यन्ततो ब्रीहियवान् ' ( आप० श्री० १४-८-१३ ) इति । तत्राऽऽदारादयोऽपि सोमस्यैव प्रति निधयो न पूतीकादेः सोमस्याङ्गत्वात् । तेन सर्वेषां तद्धर्मतच्छब्दी भवतः । हरितानित्येव सर्वालामेऽपि इरितान्त्रीहिस्तम्बान्यवस्तम्बान्वाऽभिषुणुयान्न त्वसमाप्य विरमेदित्यर्थः ॥ १५॥

प्रतिधुक्प्रातःसवने पूतीकाꣳश्च । दधिं च माध्यंदिने सवने पूतीकाꣳश्च । शृतं च तृतीयसवने पूतीकाꣳश्च ॥ १६ ॥

प्रतिधुगादयः पूर्तीकाश्च सहाभिषूयन्ते, न तु श्रयणं प्रतिधुगादिभिरित्यर्थः ।।१६ ॥

अपिवा प्रतिधुषा प्रातःसवने सर्वान्सोमाच्छ्रीणाति । शृतेन माध्यंदिने सवने दध्ना तृतीय सवने नीतमिश्रेण ॥ १७ ॥

सर्वेप्वप्येतेषु प्रतिनिधिकल्पेषु प्रतिधुगादिभिः सर्वसोमानां श्रयणं स्यात् । समुच्चीयते च तत्तत्प्राकृतैः श्रयणैमत्रावरुणादीनाम् । प्रतिधुगशतं दुग्धमात्रं पयः । तथा च भरद्वाज:-प्रतिधुगिति दुग्धमात्रं स्यात् । इति । नीतमिति नवनीतम् | तन्मिश्रेण केवलेन वा दध्ना श्रयणम् ॥ १७ ॥

अग्निष्टोमः सोमः स्याद्रथंतरसामा ॥ १८ ॥

आरब्धः ऋतुरग्निष्टोमान्त एव कार्यों रथंतरसामा च यद्यपि संस्थान्तरं सामान्तरं वाऽभिहितमासीत् ।। १८ ॥

६ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । ३२५

एकां गां दक्षिणां दद्यात्तेभ्य एव॥१९॥

यद्यपि पुनरिज्यायां तेभ्यो दास्यन्ते दक्षिणास्तथाऽपि तेभ्य एवेत्यर्थः । एवं च पुनरिज्यायामपि त एवविज इति सिद्धं भवति ॥ १९ ॥

पुरा द्वादश्याः संवत्सरे वा । तस्मा एव क्रतवे पुनर्दीक्षेत । तत्र तद्दद्यात्पूर्वस्मिन्दास्यन्त्स्यात् त एवैनमृत्विजो याजयेयुः ॥ २० ॥

प्रतिनिधिना प्रवृत्तस्य क्रतोः कर्मान्तरत्वभ्रमात्विगन्तरपरिग्रहनिरासार्थोऽयं नियमः। ब्राह्मणवाक्यमेतत्पुनरिज्याविधानार्थं व्याख्यातुमुदाहियते कल्पान्तरे पुनः सोमं क्रीणीयादिति लिङ्गेन पुनरिज्याऽनुमीयते । वाक्यशेषश्च भवति यज्ञेनैव तद्यज्ञमिच्छति, इति । अत्रैवमुच्यतां तर्हि कियदन्तः पूर्वक्रतुः कियदादिश्ोत्तरः कश्च तस्य कालः का वा संस्थेति तदेतत्सर्वमाहाऽऽपस्तम्बः-अवस्थादुदेत्य पुरस्ताद्वादश्यास्तस्मा एव ऋतवे पुनीक्षेत ' इति । अवभृधान्तस्तावत्पूर्वः क्रतुः । दीक्षणीयादिश्चोत्तरः । दीक्षायाश्च पूर्वसुत्याप्रभृत्यद्विादशरात्रात्कालः । तस्मा एव च क्रतो. दीक्षेत यत्संस्थ: प्रागारब्ध इत्यर्थः । आश्वलायनस्तु अन्न पूर्वमपि ऋतुमुदवसानीयान्तमुक्तवान् । यथा यज्ञं संस्थाप्योदवसाय पुनर्यजेत, इति । विकल्पं स्वाह कात्यायन:-'यथा समाप्य पुनर्यज्ञोऽवभृथान्तो वा ' इति । तत्र तद्दद्यात्पूर्वस्मिन्दास्यस्यादिति । तामेव दक्षिणां दद्यात् । या पूर्वस्मिन्क्रतौ दास्यस्यात् । दक्षिणोत्कर्षवचनसामर्थ्यात् 'प्रारदक्षिणाभ्योऽ पहार एवायं विधिः । दत्तासु दक्षिणासु रसस्य षस्य वाऽपहारेऽपि समाप्तिरेव प्रतिनिधिना । तथा प्रवृत्तव्यलाभे नायं विधिः सर्वत्र । तथा चाऽऽश्वलायन:- सोमाधिगमे प्रकृत्येति एवं च पूतीकानेव क्रीतवतस्तदपहारे पुनस्तानेव लभमानस्य नार्थ विधिर्भवति । तथा सर्वापहार एवायं विधिः । असर्वापहारे त्वतिशिष्टमन्येन वर्धयित्वाऽभिषुणुयुः । सर्वः क्रीतापहारविधिः क्रीतनाशदोषयोरपि दर्शनार्थः, तुल्यन्यायत्वात् । अभिदग्धे तु तत् प्रायश्चित्तं यदपहृत इति लिङ्गाच्च । तथा क्रीते राजमि नष्टे दग्धे वा ' इत्याश्वलायनः ॥ २० ॥

अथ यदि सदोहविर्धानान्यभिदह्येरन्ग्रहानध्वर्युः स्पाशयेत् । स्तोत्राण्युद्गाता । शस्त्राणि होता।॥२१॥

ग्रहान्गृहीतानगृहीतान्हुतान्होप्यमाणांश्चाध्वर्युः स्पाशयेद्बुध्येतेत्यर्थः ॥ २१ ॥

अनभिदग्धे सोमे कृतान्तात्कर्मणि प्रतिपद्येरन् ॥ २२ ॥

पार्श्वतो देवयजनमध्यवसाय कृतान्तादेव प्रक्रामेयुः ' इत्यापस्तम्बः । देवयजनमवसाने वेदिकरणादीनि तूष्णीं क्रियन्ते मन्त्रेण वा प्रागुक्तन्यायात् । तथाऽनावृताः

३२६ सत्यापादविरचिवं श्रौतसूत्रम्- [१५ प्रश्ने

क्रियेरन्नावृता वेत्याश्वलायनः । कृतान्तादिति यावत्कर्म कृतं ततः परं तन्त्रमित्यर्थः । प्राग्वंशादिमण्डपदाहे तु न देवयजनान्तरं गम्यते ॥ २२ ॥

दग्धे तत्प्रायश्चित्तं यदपहृते ॥ २३ ॥

अभिदग्धे तु सोमे यदपहृतप्रायश्चित्तं यो नेदिष्ठी स्यादित्यादि तदेव भवति ॥२३॥

पश्चात्र गा दक्षिणा ददाति । पञ्च वरानित्येकेषाम् ॥ २४ ॥

या तत्रोक्ता गौरेको दक्षिणां दद्यादिति तस्याः स्थाने तत्र पञ्च दद्यात् । अनडु. होऽपि प्राप्त्यर्थे वरवचनम् । प्रवृत्तद्रव्यस्य लाभे त्वत्रापि प्रकृत्या समाप्तिद्रष्टव्या॥२४॥

यदि ग्रावा दीर्येत द्युतानस्य मारुतस्य साम्ना स्तुवीरन् । ब्रह्मसाम्नेत्येकेषाम् ॥ २५ ॥

यदि प्रातःसवने यावा शीर्यंत पुरस्ताहिष्पवमानादित्यापस्तम्बः । दीर्यंत खण्डितः स्यात् । धुतानस्य मारुतस्य यत्साम तेनात्र स्तुवीरन् । यद्यपि न तस्य च्छन्दोगैब्रह्मसामत्वमुक्तं तथाऽप्यत एवानुवादात्वचिद्विधिद्रष्टव्यः ॥ २५ ॥

यदि प्रातःसवने कलशो दीर्येत वैष्णवीषु शिपिविष्टवतीषु स्तुवीरन् ॥ २६॥

व्याख्यातमिदं ब्राह्मणे-'यदि प्रातःसवने कलशो दीर्यंत वैष्णवीषु शिपिविष्टवतीषु स्तुवीरन् यदि मध्यंदिने दीर्थेत वषट्कारनिधन साम कुर्युः । यदि तृतीयसवन एतदेव ' इति । तद्यथा ब्राह्मणमेवानुसंधातन्यमित्यर्थः । कलश इति द्रोणकलशस्यैवैकदेशग्रहणं, यथा सत्यभामा भामा भीमसेनो मीम इति । दीर्येत भिद्येत ॥ २६ ॥

यदि माध्यंदिने दीर्येत वषट्कारनिधनꣳ साम कुर्युः । यदि तृतीयसवन एतदेव ॥ २७॥

निधनमन्तिमा भक्तिः । तद्वषट्कारो यस्य तद्वषट्कारनिधनं तत्साम गायेयुः॥२७॥

यदि कलशो दीर्येत वषट्कारनिधनं ब्रह्मसाम कुर्युरित्येकेषाम्। सर्वेषामनवयवेन श्रूयते॥(ख०२२)॥ ॥ २८ ॥ असवे स्वाहा वसवे स्वाहा विभुवे स्वाहा विवस्वते स्वाहा गणश्रियै स्वाहा मलिम्लुचाय स्वाहा शूषाय स्वाहेति सप्ताऽऽहुतीर्हुत्वेन्द्रस्य ग्रहोऽस्य गृहीतो ग्राह्यो देवानां पूरसि तं त्वा प्रपद्ये सह ग्रहैः सह पशुभिः सहर्त्विग्भिः सह सौम्यैः सह सदस्यैः सह दाक्षिणेयैः सह

१६ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकान्याख्यासमेतम् । ३२७

दक्षिणाभिः सह यज्ञेन सह यज्ञपतिना प्रविशानि सह यन्मे अस्ति तेनेत्यभिमन्त्र्य ॥ २९ ॥

यद्वषट्कारनिधनं साम ताणाच्छसि साम कुर्यात् । तथाऽसवे स्वाहा, इत्याहुतिषु हुतास्वध्वर्युणा दीर्णमनुमन्त्रयते यजमानः । नोत्तरयोः सवनयोरयं विधिः । यदि प्रात. सवने कलशो दीर्यंत ( आप० श्री० १४-८-२५) इत्यापस्तम्बीये तु प्रातःसव. नग्रहणादुत्तरविधावनुसबनमितिवचनाच्च ॥ २८ ॥ २९ ॥

संवेशाय त्वोपवेशाय त्वेत्यनुसवनं दीर्णे जुहोति ॥ ३०॥

एतैः प्रतिमन्त्रमनुसवनं दीर्णे पञ्चाऽऽहुतीर्नुहोतीत्येके (आप०ौ० १४-८-८५) इत्यापस्तम्बः । सवनत्रयार्थोऽयं कल्पः । तेन सर्वत्र विकल्प्यते । एवं कृते प्रायश्चित्ते संघानीयद्रव्यैः कलशं प्रतिलिम्पेत् । तथा च बौधायन:-'स यद्यवदीर्णो भवति प्रतिलिम्पत्येनम्' इति । धारणासमर्थत्वे त्वन्यं मन्त्रेण प्रयुज्य तस्मिन्न(र)समवनयेत् । स्कन्ने तु रसे विधिमाह बौधायन:- आग्रयणादत्राऽऽप्तुं प्रस्कन्दयति' इति । पूतभदाधवनीययोस्तु दीर्णयोः सर्वप्रायश्चित्तं हुत्वाऽयमेव प्रकारो द्रष्टव्यः । तथा च तावेवैकैकं प्रकृत्याऽऽह बौधायन:-'स यद्यवदीणों भवति लिम्पत्येनम् ' इति । तथा- 'आग्रयणादेवात्राऽऽतुं प्रस्कन्दयति ' इति । समानोऽयं प्रकार आग्रयणस्थाल्यां विदीर्णायाम् । कलशात्तु रसोत्पत्तिः । यथोक्तम् -- यदाऽऽअयणः कलशादिति ॥ १० ॥

यदि सर्वैः पर्यायैरस्तुतमभिव्युच्छेत षड्भिर्होत्रे स्तुयुः। तिसृभिस्तिसृभिरितरेभ्यः ॥ ३१ ॥

यदि सई रात्रिपर्यायैः (आप० श्री० १४-२३-१२) इत्यापस्तम्बः । अतिरात्रे त्रयो रात्रिपर्यायाश्चतुश्चमसगणास्तस्त्रिभिरप्यस्तुते यदि व्युष्टा रात्रिः स्यात्तदा विष्वपि पर्यायेषु होतृशस्त्रार्थानि स्तोत्राणि षड्भिः षड्भिः स्तुयुः, इतराणि मैत्रावरुणब्राह्मणाच्छंस्यच्छावाकशस्त्रार्थानि तिसृभिस्तिभिः । एवं द्वादशस्वपि रात्रिस्तोत्रेषु हासः कार्यः || ३१ ।।

यदि द्वाभ्यां पर्यायाभ्यामस्तुतमभिव्युच्छेद्धोत्रे मैत्रावरुणाय चान्यतरस्य स्तुयुः । ब्राह्मणाच्छꣳसिनेऽच्छावाकाय चान्यतरस्य ॥ ३२ ॥

यदि द्वाभ्यां पर्यायाभ्यामस्तुते प्रथममात्रेण स्तुते ब्युच्छेत्तदा मध्यमपर्याये होत. मैत्रावरुणार्थे द्वे एव स्तोत्रे स्तुयुः । ब्राह्मणाच्छंस्यच्छावीकार्थे तु लुप्यते । एतदेव विपरीतमुत्तरपर्याये । मध्यमोत्तमयोः पर्याययोरितरेतरापेक्षायां पूर्वोत्तरत्वं वेदितव्यम् ॥३२॥

- ३२८ : ... सत्यापाढविरचितं श्रौतसूत्रम् । १५ प्रश्ने

यद्येकेन पञ्चदशभिर्होत्रे स्तुयुः । तिसृभिस्तिसृभिरितरेभ्यः ॥ ३३॥

योकेन पर्यायेणास्तुते व्युछेत्तदा होतुः स्तोत्रं यथाप्रकृत्येव पञ्चदशभिः स्तुयुः । इतराणि पञ्चभिः । अत्रेयं मीमांसा-'किमयमभिव्युष्टिशङ्कायामेव विधिरुताभिव्युष्टी - सत्याम्' इति । शङ्कायाम्, इति ब्रूयात् । कुतः । ब्राह्मणेष्वभिब्युच्छेदित्येवाऽऽन्नानात् । नियतपरिमाणभूतासु स्तोमवचनानुपपत्तेश्च । न हि नियतकालपरिमाणा सर्वत्राभिव्युष्टि. थेन तत्परिमिताः स्तोमा. नियन्येरन् । अतः सत्यामभिव्युष्टौ नैमित्तिको हासः । न त्वनभिव्युष्टयर्थ इति सांप्रतम् । तदुक्तमुपग्रन्थकारण-अभिव्युच्छेदित्येव शाट्यायनिब्राह्मणं भवति । तथा भाल्लविनां तथा कालविनां तथा तैत्तिरीयाणां तथा सर्वेषां विभक्त्युपनिपात एव स स्यात् । अथापि चेदनभिविवासार्थोऽभविष्यदपरिमितः स्तोमोऽमविव्यत् । यथां नामिविवसेत् तथा स्तुवीरन्नित्येवाभविष्यत् । न ह्यनभिविवासार्थे परिमाणमुपपद्यते । तेन तु परिमाणग्रणेन जानीमोऽभिव्युष्टया संयुक्त एवायं कल्पो भवतीति अग्ने विवस्वदुषस इत्याश्चिनस्य प्रतिपदं कुर्वीरन् ॥ ३४ ।।

अग्ने विवस्वदुषस इत्याश्विनस्य प्रतिपदं कुर्वीरन् ॥ ३४ ॥

xxx

यस्याऽऽश्विने शस्यमाने सूर्यो नोदियात्। सर्वा अपि दाशतय्यः शꣳसेत् । सौर्यं पशुं बहुरूपमपाकुर्यात् । यस्याऽऽश्विने शस्यमाने सूर्यो नाऽऽविर्भवतीति विज्ञायते ॥ ३५ ॥

यदा सूर्यो न प्रकाशते मेघादिच्छन्नस्तदा संधिचमसेषु भाक्षितेषु नानावर्णश्छाग आलभ्यते प्रसज्यते च तत्र सवनीयतन्त्रम् । दश मण्डलान्यवयवा अस्या इति दशतयी ऋक्संहिता । तस्या ऋचो दाशतयीर्दाशतयीरित्याहानतिभेदात् । ता बीरप्यनुब्रू. याद्वा यावत्सूर्यः प्रकाशते ॥ ३५ ॥

यदि समन्वारब्धानाꣳ सर्पतामुद्गाताऽपच्छिद्येत । यज्ञेन यजमानो व्यृध्येतादक्षिणः स यज्ञक्रतुः सꣳस्थाप्योऽथान्य आहृत्यः ॥ ३६ ॥

स यज्ञ उदवसानीयान्तः संस्थाप्यः । अथानन्तरे पर्वणि स एव ऋतुः पुनराह.र्तव्यः ॥३६॥

तत्र तद्दद्याद्यत्पूर्वस्मिन्दास्यन्स्यात् ॥ ३७॥

उक्तोऽर्थः ॥ ३७॥

- ई पटलः] महादेवशासिंकलितप्रयोगचन्द्रिकाव्याख्यासमैतम् । ३२९

- ननु सन्त्वेते विधय एकैकस्यापच्छेदे । यदा पुनरेषां त्रयाणां द्वयोर्वा युगपदपच्छेदस्तत्र को विवेकः । किमत्र विवेचनीयं यावतामपच्छेदस्तावतां प्रायश्चित्तानि समुच्चेष्यन्ते निमित्तसंनिपातात् । सत्यं समुच्चीयतां सर्वत्र प्रस्तोतृप्रायश्चित्तमविरोधात् । उद्भातृप्रतिहोस्तु विरुद्धे प्रायश्चित्ते कथं समुच्चेष्येते, न ह्यदक्षिणत्वसर्वस्वदक्षिणत्वयोः समुचयसंभवः । तत्राऽऽह

त एवैनमृत्विजो याजयेयुः। अथ यदि प्रस्तोताऽपच्छिद्येत यज्ञस्य शिरोऽपच्छिद्येत ब्रह्मणे वरं दत्त्वा ॥ ३८ ॥

उद्गातृप्रतिहानिमित्तसंनिपाते मुख्यत्वादुगातुरेव प्रायश्चित्तं प्रवर्तते न प्रतिहतुस्तेन विरोधात् । तस्य तु कृते सर्वप्रायश्चित्तमात्रं भवति ॥ ३८ ॥ अथ पवमानात्सप्तामुद्गातृणामपच्छेदे प्रायश्चित्तमारभ्यते -

स एव पुनर्वर्तव्यः ॥ ३९ ॥

स एव पुनः पूर्ववत्विग्वरणविधिना वर्तव्यः ॥ ३९ ॥

अथ यदि प्रतिहर्ताऽपच्छिद्येत पशुभिर्यजमानो व्यृध्येत । पुनर्यज्ञे सर्ववेदसं दद्यात् ॥ ४० ॥

ऋतुदक्षिणार्थे सर्ववेदसं दद्यात् ॥ ४० ॥

युगपदपच्छिन्नयोरुद्गातुः प्रायश्चित्तां कुर्यात् । प्रतिहर्तुः सर्वप्रायश्चित्तं जुहुयात् ॥ ४१ ॥

युगपदपच्छेदे तूद्गातुः प्रायश्चित्तं प्रतिहर्तुः सर्वप्रायश्चित्तं जुहोतीत्यर्थः ॥ ४१ ॥ अस्त्वेवं योगपद्ये । क्रमादपच्छेदेऽपि किमयमेव न्यायः, नेत्याह

पूर्वापरापच्छेदे यो जघन्यः सर्वप्रायश्चित्तं कुर्यात् ॥ ४२ ॥

पूर्वापरयोस्त्वनयोर्यतरो जघन्योऽपच्छियेत ततरस्य प्रायश्चित्तमेव प्रवर्तते । सर्वप्रायश्चित्तमात्रं वितरस्य भवति । पूर्वबाधेनैव जघन्यप्रायश्चित्तस्योत्पत्तेः । तथा च मीमांसकाः- पौर्वापर्थे पूर्वदौर्बल्यं प्रकृतिवत् ' ( मी० सू० ६-५-१९) इति । एतदुक्तं भवति यदा प्रतिहर्ता जघन्यस्तदा सर्ववेदसमेव दीयते, न पुनरिज्या । यदा तूद्गाता जघन्यस्तदा पुनरिज्यैव भवति न तत्रैव क्रतो सर्ववेदसमात्रमिति । तत्र तु पुन. रिज्यायां सर्ववेदसं देयमिति प्रतीयात् । कुत एतत् । पूर्वस्मिन्क्रती प्रागुद्गातुरपच्छेदा प्रतिहज़पच्छेदने तस्यैव प्राप्तत्वात् । तत्र तद्द्याद्यत्पूर्वस्मिन्दास्यस्यादिति नियमाच्च । तथा च मीमांसका:-~~-'याद्गाता जघन्यः स्यात्पुनर्यज्ञे सर्ववेदसं दद्याद्यथेतरस्मिन्' (ले०

. ३३० । सत्यापाढविरचितं श्रौतसूत्रम्- --- १५ प्रश्ने

V०१-५-२० ) इति । येषां त्वनुक्तमपच्छेदप्रायश्चित्तं ब्रह्मादीनां तेषां सर्वप्रायश्चित्तमेव सर्वत्र ।। ४२॥

यद्युद्गाता जघन्योऽपच्छिद्येत पुनर्यज्ञे सर्ववेदसं दद्यात् ॥ ४३ ॥

पूर्वसूत्रेण व्याख्यातम् ॥ ४३ ॥

यद्यार्भवे पवमानेऽपच्छिद्येत सर्वप्रायश्चित्तं जुहुयात् ॥ (ख०२४) ॥ ४४ ॥

इति सत्याषाढहिरण्यकेशिसूत्रे पञ्चदशप्रश्ने षष्ठः पटलः ।

यदि माध्यंदिने पवमान एतदेव । आर्भवे सर्वप्रायश्चित्तमेव सर्वेषों कृते जुहुयात् इति सत्याषाढहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां .. प्रयोगचन्द्रिकायां पञ्चदशप्रश्ने षष्ठः पटलः ।

15.7 अथ पश्चदशप्रश्ने सप्तमः पटलः॥

यदि सोम उपदस्येत्सुवर्णꣳ हिरण्यं द्वैधं विभज्यार्धमृजीषेऽन्तर्धायापोऽवनयेदर्धमभ्युन्नीय ग्रहैः प्रचरेत् ॥ १ ॥

हिरण्यस्या) द्रोणकलशेऽवधाय वसतीवरीग्रहीत्वा तासु पयः क्षिपेत् । तत्सोमस्थाने भवति । तस्मात्तु येषां ग्रहण ग्रहाणां चमसानामर्धमभ्युन्नीय होमः पूर्ववत् ।।१।।

ब्रह्मण उद्गात्रे होत्रेऽध्वर्यवे च चतुरो वरान्दद्यात् ॥ २ ॥

उक्तोऽर्थः ।। २॥

यद्याग्रयणः स्कन्देदुप वा दस्येदितरग्रहेभ्यो निगृह्णीयात् । यदीतरे ग्रहाः स्कन्देयुरुप वा दस्येयुराग्रयणान्निगृह्णीयात् । अन्याञ्छुक्राद्ध्रुवाच्च ॥३॥

गतः । शुक्रध्रुवरहितानां ग्रहाणां कलशस्य चाऽऽग्रयणो योनिरिति ॥ ३॥ अथान्य विधिमाह--

द्रोणकलशान्निगृह्णातीति सर्वग्रहाणाꣳ स्कन्नानामुपदस्तानां वेति विज्ञायते ॥४॥

७ पटकः ]. महादेवशास्त्रिसंकलितपयोगचन्द्रिकाघ्याख्यासमेतम् । ३३१

सर्वेषामेव ग्रहाणां शुक्रध्रुवसहितानामुपदस्तानां स्कन्नानां च कलश एव योनिरिति । त एते चत्वारो विधयस्तत्र तत्र विकरुप्यन्ते । केचित्तु-सर्वग्रहाणामित्यनेन पवमानग्रहाणामपि ग्रहणमिष्ट्वा पूतभृदाधवनीययोरप्युपदस्तयोः कलशादुत्पत्तिमाहुः । तदयुक्तम् ।' यद्रहो वा कलशो वा ' इति कलशस्य पृथग्रहणेन पवमानग्रहाणामत्र ग्रहग्रहणेनाग्रहणावगमात् । अतः कलशवदाप्रय. णादेव तयोरुत्पत्तिः । यथा तं तं प्रकृत्याऽऽह बौधायन:-'आग्रयणादेवाऽऽस्तु प्रस्कन्दयति ' इति । चमसानां तु सर्वत्र पूतभृत एवोत्पत्तिः, तद्योनित्वात् । सर्वेषामप्येषां विधीनां योनिविशेषपरत्वात् । क्वचिदुपदासग्रहणं क्वचित्स्कन्दनोपदासग्रहणं चैवमादेर्नाशपकारस्य प्रदर्शनार्थ द्रष्टव्यम् । तथा सर्वत्र सशेषस्कन्दने सोमे सोममभिगृह्य जुहुयादित्ययमपि विधिरनुसंधातव्यः । यदा तु निःशेष: स्कन्दति तदा स्वेन स्वेन मन्त्रेण यथायोनि गृहीत्वा सादयेत् ।। ४ ।।

यदि ध्रुवः स्कन्देदायुर्दा असि ध्रुव आयुर्मे देहीति वर्चोदा असि ध्रुव वर्चो मे देहीति तनूपा असि ध्रुव तन्वं मे पाहीत्यभिमन्त्र्य वरं ददाति॥५॥

गतः ॥५॥

यद्युपदस्येत्सुवर्णꣳ हिरण्यं त्रैधं विभज्य स्वाहा दिव आप्यायस्वेति प्रथममवधायाऽऽप्याययति॥६॥

स्थालीमात्दृत्य द्रोणकलशादाप्याययति । यदा तु दीर्णा स्यादसमर्था च तदाऽन्यां प्रयुज्य स्कलशेषस्यावनीयाऽऽघ्याययति । निःशेषस्कन्नस्तु ग्रहणमन्त्रेणैव ग्राह्यः ॥ ६ ॥

स्वाहाऽन्तरिक्षादाप्यायस्वेति द्वितीयम् । स्वाहा पृथिव्या आप्यायस्वेति तृतीयम् ॥ ७ ॥

अवधायाऽऽप्याययतीत्यनुकर्षः ॥ ७ ॥

अध्वरो यज्ञोऽयमस्तु देवा ओषधीभ्यः पशुभ्यो नो धनाय विश्वस्मै भूतायाध्वरोऽसि स पिन्वस्व घृतवद्देव यज्ञस्य ध्रुवा द्यौर्ध्रुवा पृथिवी ध्रुवं विश्वमिदं जगत् । ध्रुवा ह पर्वता इमे ध्रुवो राजा विशामयम् ॥ इहैवैधि मा व्यथिष्टाः पर्वत इवाविचाचलिः । इन्द्र इवेह ध्रुवस्तिष्ठेह राष्ट्रमु धारय । अभितिष्ठ पृतन्यतोऽधरे सन्तु शत्रवः । इन्द्र इव वृत्रहा तिष्ठापः क्षेत्राणि संजयन् ॥ इन्द्र एन

. . सत्याषाढविरचितं श्रौतसूत्रम्- [१५ प्रश्ने,

मदीधरद्ध्रुवं ध्रुवेण हविषा । तस्मै देवा अधिब्रुवन्नयं च ब्रह्मणस्पतिरिति चतसृभिरभिमन्त्र्य वरं ददाति ॥ (ख०२५) ॥ ८॥

सन्नेऽभिमन्त्रिते चाध्वर्युणा, वरं ददाति यजमानः ॥ ८॥

यदि नाराशꣳसꣳ स्कन्देद्यमध्वर्युरुत्तरं ग्रहं गृह्णीयात् । तं वषट्कारानुवषट्कृते हुत्वाऽऽप्यायस्व मदिन्तमेति तस्मादेनमाप्याययति तेनैनं भक्षवन्तं करोति ॥ ९॥

भक्षिताप्यायितश्चमसो नाराशंस इत्युक्तम् । स यदि शोषणादिना नश्येत्तदा यश्च. मसाप्यायनादनन्तरो ग्रह ऐन्द्राग्नादिस्तं स्वकाले हुत्वा चमसाध्वर्यवे दद्यात् । स च भक्षं शेषयित्वा तेन चमसानाप्याययति अनुप्रकम्पयति च द्विः । तदर्थत्वादाप्यायनस्य


देवाञ्जनमगन्यज्ञ इति प्रातःसवने सोम स्कन्नमभिमन्त्रयेत। गन्धर्वाञ्जनमगन्यज्ञ इति माध्यंदिने । पितृञ्जनमगन्यज्ञ इति तृतीयसवने । आप ओषधीर्वनस्पतीञ्जनमगन्यज्ञ इति नक्तम् । द्यावापृथिवी जनमगन्यज्ञ इति । तिरोअह्नियान्सोमे सोममभिगृह्य निदधाति ॥१५.७.१०॥

हविर्वा स्कन्ददित्यापस्तम्बः । हविः सवनीयादि । नक्तं रात्रिपर्यायेषु । तिरोअर्नेषु संधिचमसेषु । एवमनुक्रमणात्तिरोअर्नेभ्यः परेप्वप्तोर्यामचमसगणेषु नायं विधिभवति ॥ १०॥

पृषदाज्यꣳ स्कन्देद्यद्यथान्यद्दधि पृषदाज्यं गृहीत्वा द्रप्सश्चस्कन्द मनो ज्योतिर्जुषतामिति सꣳहिताभ्यामेकाहुतिं जुहोति ॥ ११ ॥

यदि पृषदाज्य स्कन्देदिति भरद्वाजः ॥ ११ ॥

यद्यृतुग्रहैः प्रचरन्तौ मुह्येयातां विसृष्टधेनाः सरितो घृतश्चुतो वसन्तो ग्रीष्मो मधुमति वर्षाः शरद्धेमन्त उत नो मयोभुव उदप्रुषो नभसी संवसाथाम् । आ नः प्रजां जनयतु प्रजापतिर्धाता ददातु परिवत्सरो नः । संवत्सर ऋतुभिश्चाक्रपाणो मयि पुष्टिं पुष्टिपतिर्दधातु ॥ आ देवानां त्वमग्ने व्रतपा

७. पटलः ] महादेवशास्त्रिसंकलितमयोगचन्द्रिकान्याख्यासमेतम् । ३३३.

असि यद्वो वयं प्रमिनाम व्रतानि । मधुश्च माधवश्च वासन्तिकावृतू । इमं यज्ञमवन्तु ते मामवन्तु अनु व आरभेऽनु माऽऽरभध्वꣳ स्वाहेत्येतैः सह दशभिर्ऋग्यजुर्भिर्दशाऽऽहुतीर्जुहोति । प्रत्याहुति वरं ददाति ॥ (ख० २६) ॥ १२ ॥

मन्त्रतो मुखतः श्रेषतो मार्गतो वा विपर्यासो मोहः । तत्र विसृष्टधेना इति पञ्चभिः, मधुश्चेति त्रयोदशमासनामभिश्च जुहोति ।। १२ ॥

यदि सोमः स्कन्देद्ब्रह्मन्सोमोऽस्कानिति ब्रह्मण आवेद्य यत्र स्कन्देत्तदपो निनीयाभूद्देवः सविता वन्द्योऽनु न इदानीमह्न उपवाच्यो नृभिः। वि यो रत्ना भजति मानवेभ्यः श्रेष्ठं नो अत्र द्रविणं यथा दधदित्यभिमन्त्र्य हिरण्यगर्भः समवर्तताग्र इति जुहुयात् ॥ १३॥

ब्रह्मणः स्कन्दनादिवदनं प्रायश्चित्तानुसंधानार्थम् | तत्राभूद्देव इत्यूचा स्कलममिमन्त्र्य तस्योपरि पूर्ववत्प्रादेशान्मिमीत इत्यापस्तम्बः ॥ १३ ॥

यदि चमसमभक्षितꣳ स्तोत्रेणाभ्युपाकुर्यात् ॥ १४ ॥

यद्यमक्षिते चमसगण उत्तरस्मै चमसगणाय स्तोत्रमुपाकुर्यात् ॥ १४ ॥

इन्दुर्हिन्वानमवागदि(र्धगि)न्दोरुभयोः सोमाः साम[म]सृक्षत दिव्याश्च पार्थिवाश्च तस्य त इन्द्रपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामीत्यभिवृष्टस्य सोमस्य भक्षयति ॥ १५॥

यत्र वर्षबिन्दुः पतितः सोऽभिवृष्टः । तस्य त्वेताववेक्षणं तूष्णीमिति गम्यते । प्रत्यस्म पिपीषत इत्यवेक्षणमन्त्रः । इन्दुरिन्दुरिति भक्षणमन्त्र इति सूत्रान्तरे द्रष्टव्यः । भक्षणमन्त्रस्तु नित्यमन्त्रप्रत्याम्नायः ॥ १५ ॥

यदि दीक्षतोऽवकिरेदप्स्वग्न इत्येषा । तपोष्वग्ने अन्तराꣳ अमित्राँस्तपाशꣳ समररुषः परस्य । तपा वसो चिकितानो अचितान्वि ते तिष्ठन्तावजरा अयासः ॥ यो नः सनुत्यो

१ मवन्तु में ता

३३ । सत्यापाविरचितं श्रौतसूत्रम्-.....: [ १५ प्रश्ने

अभिदासदग्ने यो अन्तरो मित्रमहोऽवनुष्यात् । तमजरेभिर्वृषभिस्तप स्वैस्तपा तपस्व तपसा तपिष्ठ ॥ सं स्मा कृणोतु केतुमा नक्तं चिद्दूर आसते । पावको यद्वनस्पतीन्प्रास्मा मिनोत्यजरः। न हि ते अग्ने तनुवै क्रूरं चकारमर्त्यः । कपिर्बभस्ति तेजनं स्वं जरायुगौरिव । मेष इव यदुप च वि च शर्वरी यदप्सुरग्रोरुपरस्य खादति । शीर्ष्णा गिरो वक्षसा वक्षणां जयन्नꣳशून्बभस्ति हरितेभिरासभिरित्येतैः सह दशभिर्ऋग्यजुभिर्दशाऽऽहुतीर्जुहोति । प्रत्याहुति वरान्ददाति ॥ (ख०२७) ॥ १६ ॥

ब्रह्मचर्यावस्थस्य योनौं रेतःस्कन्दनमवकिरणम् । अयोनावपि बुद्धिपूर्वमित्यपरे । पट्पुणा तर्हित्वा, इत्यापस्तम्बः । पूर्णया खुचाऽऽहुतिः पूर्णाहुतिः । प्रत्याहुतीत्यनेनैकैकहया आहुतेरेवैको वो दक्षिणेति दर्शितं, न. त्याहुतावाहुनौ हुतायां देय इति । . अन्यथा षट्पूर्णाहुती त्वेल्सनेच विरोधात् । अन्विष्टकं दक्षिणा ददातीत्यादौ तथा दर्शः नाच ॥ १६:॥

यद्देवा देवहेडनमिति वा (दशाऽऽहुतीर्हुत्वा प्रवमानः सुवर्जन इत्येतेनानुवाकेनाभिषिञ्चेत् ) ॥ १७ ॥

अभिषेकवचनानागाहेत् । पत्न्या सहावकिरणे तन्त्रेणोऽऽहुती त्वा पृथगुभयोरभिषेकः। यदि पुनदास्याश्योनी वा रेतःस्कन्दनं स्यात्तदा सामयाचारिकोऽपि विधिरनुसंन्धातन्यः । शूद्रायां च रेतः सिकृत्वाऽयोनौ वाऽब्लिङ्गाभिरेप उपस्पृशेत् । वारुणीभिर्वाऽन्यः समिरिति शुद्धिपूर्वकस्कन्दने तूक्त एव विधिः । यन्मेऽत्र पयस इत्यादिना ॥ १५ ॥

यदि हुताहुतौ सोमौ सꣳसृजेयातामन्तःपरिध्याहवनीयादङ्गारं निर्वर्त्य यज्ञस्य हि स्थ ऋत्वियाविन्द्राग्नी चेतनस्य च हुताहुतस्य तृप्यतमहुतस्य हुतस्य च हुतस्य चाहुतस्य चाहुतस्य हुतस्य चेन्द्राग्नी अस्य सोमस्य वीतं पिबतं जुषेथाꣳ स्वाहेति हुताहुतौ सोमौ जुहुयात् ॥ १८ ॥

यदा ग्रहस्य चमसस्य वा हुतस्य भक्षायाऽऽनीयमानः शेषः प्रसा(मा)दक्विचिद

७ पटल: j महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमैतम् । १३३५

हुतग्रहादावापतेत् । अहुतो वा ग्रहादिर्हतशेषे तदा । तमस्मै भक्षं यच्छेत्' इत्यापस्तम्बः । तं समृष्टमेवं हुत्वा तस्मै भक्षं प्रयच्छेद्यः पूर्वहुतशेषभक्षणाः प्रायः ॥ १८ ॥

मा नोऽध्वरिषुः पितरो मोत वीरान्मा नः स बन्धुरुत वाऽन्यबन्धुः । मा नो दुश्चक्षा अघशꣳस ईशताहुतोऽयं यज्ञमप्येतु देवा इति हुताहुतौ सोमौ भक्षयति ॥ १९ ॥

प्रत्याम्नायोऽयं नित्याय भक्षमन्त्रस्य ।। १९

मा यजमानं तमोऽविदन्मर्त्विजो मा इमाः प्रजाःI मा यः सोममिमं पिबात्सꣳ सृष्टमुभयं कृतमिति भक्षयन्तमभिमन्त्रयते ॥ १५.७.२० ॥

अध्वर्युरिति शेषः । यदा त्वध्वर्युभक्षयति तदैनं प्रतिप्रस्थाताऽभिमन्त्रयते । एवं संसृष्टं सोममिन्द्राग्निभ्यां प्रतिपाद्य पुनोनित उत्पन्नेन स्वकाले ती देवतां यजेद्यस्यै गृहीतोऽयमहुतोऽन्यत्र प्रतिपन्नः । यदा हुतस्यैकदेश एव' हुतशेषे पतितो न कृत्स्नस्तदा शेषेणैव वर्धितेन यजेत ॥ २० ॥

सप्तर्त्विजः सप्त सदाꣳस्येषां दश क्षिपो अश्विना पञ्च वाजाः। प्राणो व्यानोऽपानो मन आकूतमग्निः स्वाहा कृतꣳ हविरदन्तु देवाः ॥ प्रजापते न त्वदेतानिति भक्षं व्यापन्नप्तूत्तरार्धपूर्वार्ध उपरवेऽवनयेत् ॥ २१ ॥ दक्षिणार्धपूर्वार्धे वा ॥ २२ ॥

केशकीटादिभिरुपधातो व्यापत्तिः । तत्रं पात्रमपि निर्णिज्यते निलिख्यते वा यथादोषम् । न चान्यो मक्ष उत्पाद्यः । अप्रयोजकत्वात् । प्रतिपत्त्यन्तरण शेषकार्याच । नाराशंसास्तूत्पाद्य एवानुप्रकम्प नार्थम् ॥ २१ ॥ २२ ॥

स्कन्ना द्यौः स्कन्ना पृथिवी स्कन्नं विश्वमिदं जगत् । स्कन्नाऽदो विश्वा भूतानि प्रस्कन्नाज्जायताꣳ हविः ॥ इह गावः प्रजायध्वमिहाश्वा इह पूरुषाः॥ इहो सहस्रदक्षिणो रायस्पोषो निषीदतु ॥ अयं यज्ञो वर्धतां गोभिरश्वैरियं वेदिः स्वपत्या सुवीराः । इदं बर्हिरति बर्हीꣳष्यन्येमं यज्ञं विश्वे अवन्तु देवाः ॥ पयस्वतीरोषधय

३३६ ... - सत्यापाढविरचितं श्रौत अम्- -- [१५ प्रश्

इत्येताभिः पृषदाज्यꣳ स्कन्नमभिमन्त्र्यापोऽभ्यवहृत्य पात्रं निर्णिज्य पुनर्निष्टप्य निदधाति । तस्मिन् हिरण्यꣳ शतमानमवधायैकमिषे विष्णुस्त्वाऽन्वेत्विति वैष्णव्यर्चाऽथान्यद्दधि पृषदाज्यं गृहीत्वा द्रप्सश्चस्कन्देत्यभिमृश्याश्वेनावघ्राप्य सादयति ॥ २३ ॥

स्रुचमित्यापस्तम्बः । खुक्संयोगात्म्गतस्यैवाय विधिः । स्थालीगतस्य त्वाज्यवदेव विधिर्भवति । तत्र स्कन्नं चतसृभिरभिमन्य स्कन्नशिष्टमप्सु क्षिप्त्वा पुनः स्थाल्याः पंचकृत्वो वैष्णन्या गृहीत्वा मन्त्रेण सादयेत् ॥ २३ ॥

यदपामृक्षच्छकुनिर्मुखेन निर्ऋते तव । अग्निष्टत्सर्वꣳ शुन्धतु हव्यवाड्घृतसूदन इति शंकुन्यवमृष्टं तस्यैतदेव प्रायश्चित्तं निर्लिख्यतेऽत्र पात्रम् ॥ २४॥

अभिमन्प्रणमन्त्रस्त्वत्र यदपामृक्षदिति भवति पात्रनिलखेनं चाधिकम् । समानमन्यस्पत्यर्थः । केचित्तु मुखेनेति मन्त्रवर्णात् । काकमुखेनापमृष्टस्यैवैनं विधिमिष्ट्वाऽङ्गान्तरस्पष्ट तदन्यापन्नविधिनाऽप्सु क्षिप्त्वा निलिखितायां सुचि स्वमन्त्रेण गृह्णन्ति॥२४॥

यदवालिक्षच्छ्वपान्मुखेन निर्ऋते तव । अनिष्टत्सर्वं शुन्धतु हव्यवाड्घृतसूदन इति श्वापदावलीढमभिमन्त्रयते । तस्यैतदेव प्रायश्चित्तम् । (अभ्यवहरणादि पूर्ववत् । ) नात्र पात्रं प्रयुज्यते ॥ (ख० २८) ॥ २५ ॥

इति सत्याषाढहिरण्यकेशिसूत्रे पञ्चदशप्रश्ने सप्तमः पटलः ॥

शुन इव पादा यस्य स श्वापदः श्वशगालमा रादिः पञ्चनखः । तदवमृष्ट त्वेतयाऽमिमध्ये चं च तां त्यक्त्वा पात्रान्तरं संस्कृत्य तस्मिन्गृह्णाति । समानमन्यत्पूर्वेण । एतेनैवं निदर्शनेन पतितोदक्याद्यप्रयतस्पृष्टानां द्वादशमलोपहतानां च त्यागो वेदि. तव्यः ॥ २५ ॥ इति सत्याषाढहिरण्यकेशिसूत्रव्याख्यार्या महादेवशास्त्रिसंकलितायां प्रयोगचन्द्रिकायां पञ्चदशप्रश्ने सप्तमः पटलः ॥ ७ ॥ पात्रं प्रयु:.....: . . १ पादम्।

पटल:], महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । ३.३५

15.8 अथ पञ्चदशप्रश्नेऽष्टमः पटलः ।

यदस्य पारे रजस इति जुहुयात् । यदि पशुरुपाकृतो वेपेत निषीदेद्वाश्येतोच्छ्रयेत्पलायेताकामसंज्ञपने च । यस्माद्भीषाऽवेपिष्ठास्ततो नो अभयं कृधि । प्रजाभ्यः सर्वाभ्यो मृड नमो रुद्राय मीढुष इति द्वितीयां वेपमाने ॥१॥

उपाकरणप्रभृत्या संज्ञपनाद्यदि पशुः क्रन्देत्तदा यदस्य० इति हुत्वा यस्माद्दीषेत्यनया जुहुयात् । अभिमन्त्रयेत वा पशुमित्यापस्तम्बवैखानसौ । संज्ञपनदशायां विन्द्रस्य भाग 'इत्यवेक्षणस्यापि समुच्चय इति द्रष्टव्यम् ॥ १ ॥

यस्माद्भीषा न्यषद इति द्वितीयां निषण्णे ॥ २॥

जुहुयादित्यनुवर्तते । उपाकृतस्योपवेशने त्वतयैव यस्माद्भीषा न्यषद इति विकृतया द्वितीयामाहुतिं जुहुयात् । समानमन्यत्पूर्वेणेत्यर्थः । केचित्तु तिष्ठति पशाविति प्रयाजेषु नियमात्तत्रैवैन विधिमिच्छन्ति ॥ २ ॥

उदुस्र तिष्ठ प्रतितिष्ठ मा रिषो मेमं यज्ञं यजमानं च रीरिषः । सुवर्गे लोके यजमानꣳ हि धेहि शं न एधि द्विपदे शं चतुष्पद इत्युस्रमुत्थापयेत्॥३॥

निषण्णे तं मैत्रावरुणो दण्डेनोत्थापयेदित्यापस्तम्बः । निषण्णे त्वयमध्यपरो विशेष इति भावः । उनशब्दस्य गोजातिवचनत्वाद्गन्युरेत्यविकृतो मन्त्रः ॥ ३ ॥

उच्छागेति च्छागम् | उन्मेषेति मेषम् । ऊर्ध्व ऊषुण ऊतय इति द्वितीयाम् । ऊर्ध्वो नः पाह्यꣳहसो निकेतुना विश्वꣳ समत्रिणं दह । कृधीत ऊर्ध्वां च रथाय जीवसे विदा देवेषु नो दुव इति तृतीयाम् ॥ ४॥

च्छागमेपयोस्तूच्छाग तिष्ठ उन्मेष तिष्ठेति विक्रियते । क्शायां तु जात्यनादरेणोद्वश इत्येव भवति । तत्रोच्छागेत्यस्य प्रकृत्यर्थत्वाद्विकृतिषु पश्वनेकत्वे स्त्रीपशौ च यथार्थमूहः । नोनादीनामूहो बिकृत्यर्थमेवोपदेशात् ॥ ४ ॥

यस्माद्भीषाऽवाशिष्ठा इति द्वितीयां वाश्यमाने यस्माद्भीपा समुत्क्रꣳस्था इति द्वितीयामुच्छ्रयति ॥५॥

३३८ सत्याषाढविरचितं श्रौतसूत्रम्- [१५ प्रश्ने

स्पष्टम् ॥ ६ ॥

यस्माद्भीषाऽपलायिष्ठा इति द्वितीयां पलायितेऽनागच्छत्यन्यं तद्रूपं तद्वर्णं तद्वयसं तज्जातीयं तद्दैवतमुपाकृत्य तेन सꣳस्थापयेत् ॥ ६॥ तज्जातीयेऽविद्यमाने अजा अवयो गाव इत्यन्योन्यस्य प्रतिनिधयो भवन्ति ॥ ७ ॥

अपक्रमणं पलायनम् । अनागच्छत्यन्यं तद्रुपवर्णवयसं तदैवतमुपाकृत्य यजेत ' इत्यापस्तम्बः । तस्मिन्नागमयितुमशक्ये सति संस्थानवर्णवयोभिस्तत्सदृशं ताजातीयमन्यमुपाकुर्यात् , तज्जातीयालाभे प्रतिनिधिरुक्तः सूत्रकारेण - 'अजा अवयो गाव इत्यन्योन्यप्रतिनिधयो भवन्तीति ॥ ६ ॥ ७ ॥

तेष्वविद्यमानेष्वाज्येन शेषꣳ सꣳस्थापयेत् ॥८॥

स्पष्टोऽर्थः ॥ ८॥

यस्माद्भीषा समज्ञास्था इति द्वितीयामकामसंज्ञपने ॥९॥

स्वयं व्याध्यादिना मरणमकामसंज्ञपनम् ॥ ९॥

य इदमकस्तस्मै स्वाहेति सर्वोत्तमां जुहोति ॥ १५.८.१० ॥

उत्तमा तृतीयामित्यर्थः । सर्वत्र तृतीयामित्यापस्तम्बवैखानसौ ॥ १ ॥

न वा उ वेतन्म्रियसे । आशानां त्वा विश्वा आशाः । आपो हि ष्ठा मयोभुव इति चतसृभिः पशुं व्यापन्नमभिमन्त्र्यापोऽभ्यवहृत्यान्यं तद्रूपं तद्वर्णं तद्वयसं तज्जातीयं तद्दैवतमुपाकृत्य तेन सꣳस्थापयेत् । तज्जातीयेऽविद्यमाने ॥(ख०२९)॥ पलायिते व्याख्यातम् ॥ ११ ॥

मृतं पशुमपोऽभ्यवहृत्य पूर्ववदन्येन यजेत ॥ ११ ॥

उखाꣳ स्रवन्तीमगदामकर्माग्निर्होता पृथिव्यन्तरिक्षं द्यौर्यदतश्च्युतदग्नावेव तन्न तत्प्राप्नोति निर्ऋतिं पराचैरिति पशूखाꣳ स्रवन्तीमभिमन्त्रयेत ॥१२॥

भिन्नां स्त्रवन्तीमभिमन्यान्यामुखां संस्कृत्य निवेशयेत् ॥ १२ ॥

यावन्ति पशोरवदानानि न विन्देयुस्तावत्कृत्व आज्यस्यावद्येत ॥ १३ ॥

८ पटलः ] महादेषशास्त्रिसंकलितपयोगचन्द्रिकाव्याख्यासमेतम् । ३३९ यहि पशुमित्यारभ्य ये पशु विमनीरन्नित्यन्तं प्राग्यदुक्तं ब्राह्मणे तत्तत्रैवानुसंधातव्यमित्यर्थः । तत्र हि देशं पशु प्रकृत्योक्तम्-'याई पशुमाप्रीतमुदचं नयन्ति तर्हि तस्य पशुश्रपण' हरेत् ' इति । यहि यस्मिन्काले पशुमाप्रीतमिष्टप्रयाज संज्ञपनार्थमुदश्चं नयन्ति तर्हि तस्मिन्काले तस्य तस्मात्प्राजहितात्पशुश्रपणं शामित्राग्निं हरेदित्यर्थः । पुनश्च यजमानं वा एतद्विकर्षन्ते यदाहवनीयात्पशुश्रपणं हरन्तीत्याहवनीयादुद्धरणं निन्दित्वोक्तम् । स वैव स्यान्निर्मन्थ्यं वा कुर्यादिति । स एव प्राजहित एव योनिः स्यान्निर्मन्थ्यं वेत्यर्थः । पूर्वत्र चात्र च तवृत्ताभ्यां प्राजहितपरामर्श इत्येतदपि प्राञ्चमग्निं प्रहरन्तीत्यादिब्राह्मणपर्यालोचनयैव प्रत्येतव्यम् । बौधायनश्चाऽऽह-'स वैव स्यादिति पुराणगार्हपत्यमभ्युपदिशति ' इति । समानोऽयं विधिः सवनीयेऽपि तत्प्रकृतित्वात् । निरूढपशौ त्वाहत्यवचनादाहवनीयादेवाऽऽहर्तव्यः । पुनश्चोक्तं ब्राह्मणे-'यदि पशोरवदानं नश्येदाज्यस्य प्रत्याख्यायमवद्येत्सव ततः प्रायश्चित्तिः' इति । पशुसंवन्ध्येकमनेके वावदानं नाशदोषादिनाऽवदानायोग्यं स्यात्तस्य स्थाने धौवादाज्यादवोदित्यर्थः । तदुक्तं भरद्वाजेन–'यद्यद्धविस्तस्याऽऽज्यं प्रतिनिधिः' इति । कृत्स्ननाशे तु पुनरालम्भः।। " केचित्तु वपाहृदययोनाशेऽपि पुनरालम्भमिच्छन्ति तयोः पश्चात्मत्वसंभवात् । यथा आत्मा वपेति पशोर्दा आलब्धस्य हृदयम त्माऽभिसमेति, इति च । तदयुक्तम् । विशेषानुपदेशात् । अर्थवादमात्रत्वाच्चाऽऽत्मप्रवादस्य । तदुक्तं कात्यायनेन-~-अवदानहानी नाऽऽद्रियेत, हृदयनाशे त्वन्यमालमतेत्येके हृदयं पशुभिरिति श्रुतेः । सर्वेषां वाऽऽज्यस्य यजेत, अर्थवादमात्रं पशुवचन मिति । यदि मतमनवदानत्वाद्वपाया न तत्रायं विधिरिति तदुपोत्तरसूत्रे निरसिष्यते वपादीनां मात्राहीनत्वेऽप्येकदेशे विद्यमाने तेनैव यजेत प्रतिनिधिना द्रव्यप्राधान्यात् । यथोक्त मात्रापचारे तच्छेपेण समाप्नुयादिति ॥ १३ ॥

ये पशुं विमथ्नीरन्यस्तान्कामयेताऽऽर्तिमार्छेयुरिति कुविदङ्गेति नमोवृक्तिवत्यर्चाग्नीध्रे जुहुयात् आहवनीये( शामित्रे वा ) निरूढपशुबन्धे ॥१४॥

यदि दस्यवः पशु विमथ्नीरन् जीवन्तं मांसावस्थं वा वलात्कारेण हरेयुस्तांश्च यदि यजमानः कामयेताऽऽति प्राप्नुयुरिति तदाऽनया जुहुयात् । तदलाभे तु पलायितविधिखे भवति ॥ १४ ॥

यद्यष्टापदीत्यनुबुध्येरन्धाता रातिः सूर्यो देव इति द्वाभ्यां गार्हपत्ये जुहोति ॥ १५ ॥

२४० : सत्याषाढविरचितं श्रौतसूत्रम्-...... [१५ प्रश्ने

विकृतिषु स्त्रीपशुरालब्धव्या । यद्यष्टापदीत्यनुबुध्येत । गर्भिणीत्यर्थः । गर्भपादः सहास्या अष्टौ पादा भवतीति कृत्वा गर्भप्रदर्शनार्थत्वाच्च । गर्भद्वित्वादिना द्वादशप. यादावपि समानोऽयं विधिः । ततः प्रासंज्ञपनादनुवोधे तामुत्सृज्यान्यामुपाकुर्यात् । परतस्त्वनुवोधे-धाता रातिः सूर्यो देव इत्याहुती जुहुयात् ॥ १५ ॥

यस्यास्ते हरितो गर्भ इत्यभिमन्त्र्याऽऽवर्तनवर्तयेति प्रदक्षिणं गर्भमावर्तयति ॥ १६ ॥

अथैनामध्वर्युरभिमन्त्रयत इत्यापस्तम्बः । गर्भिणीमभिमन्त्रयते.. यस्यास्ति " इति । विशसनकाले पशोरुपस्थं निर्गमानुगुणमावर्तयतीत्यर्थः ॥ १६ ॥

वि ते भिनद्मि तकरीमित्यन्तरा श्रोणी गर्भं निष्खिदति ॥ १७ ॥

तदावरकमल्वं नाम मेदं निखिदिति च्छिनत्ति ॥ १७ ॥

बहिस्ते अस्तु बालित्याशयाद्गर्भं निरस्योरुद्रप्सो विश्वरूप इन्दुरिति रसाय पात्रमुपयच्छति । शूलेन पशुश्रपणे निहत्य गर्भꣳ श्रपयति ॥१८॥

तत उर्वोमध्येन गर्ने निःसार्य शूले प्रणीक्ष्य( य ) शूलाग्रपोत( प्रोप्त है। कृत्वा निहत्य अपयति । गर्भश्रपणानुगुणमनिसमीपे शूलं निखाय शामित्रे श्रपयतीत्यर्थः।। १.८॥

पशुपुरोडाशं निरुप्य न( भ )क्ती द्यावापृथिवीयं गर्भपुरोडाशं निर्वपति ॥ १९ ॥

पशुपुरोडाशनिर्वपणकाल एव चेज्ज्ञाता गर्भिणीति तदा तन्निरुप्यानन्तरं गर्भपुरोडाशमनुनिपति । पुरस्तात्त ज्ञाने यदेव जानीयात्तदैव निर्वपेत् । स च मक्ती द्यावापृथि धीम्यां निरुप्यते, न गर्यदेवतायै । न चास्यैककपालधर्माः, शेषस्योत्तरत्र प्रतिपत्तिविधानात् । इतरथा सर्वहुतत्वेन शेषासंभवात् ॥ १९॥

पशोरवदानान्यवदाय गर्भस्य पुरस्तान्नाभ्या अन्यदवद्येदुपरिष्टादन्यदवदाय दैवतेष्ववदधाति ॥ १५.८.२० ॥

पशोर्दैवतेष्ववत्तेषु गर्भस्य नाम्या ऊर्वमेकमवदाय दैवतेषु क्षिपति । तदा अधस्तानाभ्या अवदाय सौविष्टकृतप्वित्यर्थः । पुरस्ताद्वै नाभ्यै प्राण उपरिष्टादपानं इति लिङ्गात् ।। २० ॥

रसं त्रैधं करोति । दैवतेषु सौविष्टकृतेष्वैडेषु च ॥ २१ ॥

८ पटलः ] . महादेवशास्त्रिसंकलितमयोगचन्द्रिकाच्याख्यासमेतम्। ३६

यूष्णः समुच्चयार्थश्वकारो मिन्नक्रमो योजनीयः, समासोपात्तस्वादेवतादीनां समुच्चे. यान्तराभावाच्च । यूष्णोपसिच्य त्रिषु गर्भरसं ब्यानयतीत्यर्थः ॥ २१ ॥

एकपदी द्विपदीति वषट्कृते जुहोति ॥ २२ ॥

पुरस्तात्स्विष्टकत इत्यापस्तम्बः । पुरस्ताद्वनस्पतेरिति वचनात्तस्य पुरस्तादेवेयमाहुतिः ॥ २२ ॥

वषट्कृते विष्णो प्रतत्ते अद्य शिपिविष्ट नामेत्यन्यतरया गर्भस्य दक्षिणपूर्वꣳसविंश जुहोति ॥ २३॥

विष्णवे शिपिविष्टाय जुहोतीति लिङ्गात् । तथा निमित्त विष्णाविति जुहोतीत्येव कल्पातरकाराः । अतो दर्विहोमधर्मेण जुहोति ॥ २३ ॥

दक्षिणाकालेऽष्टाप्रूड्ढिरण्यं दक्षिणा। तृतीयेऽन्तरकोश उष्णीषेणाऽऽविष्टितं भवति । तद्ददाति । विबलान्कोशान्करोति ॥२४॥

अत्राध्वर्यवेऽष्टाढिरण्यं सकोशं ददाति । अष्टाढिरण्यमुणषिणाऽऽवेष्टय कोशेऽवाय तृतीयेऽवधाय तृतीयेऽवदधाति, इत्यापस्तम्ब । अष्टायूडष्टबिन्दुकं हिरण्यमुनीषण दीर्घवाससाऽवेष्टय तत्कस्मिंश्चित्सापिधाने कोशेऽवधाय तमपि कोशमन्यस्मिन्कोश तथा कृत्वा तमपि तृतीये कोशेऽवदधाति । अष्टाग्रूढिरण्यं दक्षिणेत्यापस्तम्ब ।

मरुतो यस्य हि क्षये यज्ञैर्वा यज्ञवाहस इत्यन्यतरया पशुश्रपणे गर्भं जुहोति ॥ २५ ॥

गर्भ गर्भपुरोडाशं चाऽऽहवनीये जुहोति ॥ २५ ॥

गर्भपुरोडाशं च न स्वाहाकरोति ॥ २६ ॥

प्रतिषिद्धत्वात् ॥ २६ ॥

अपि वा मही द्यौः पृथिवी च न इति पशुश्रपणस्य शीते भस्मनि गर्भमुपोहति ॥२७ ॥

अपिवेति पक्षान्तरद्योतनार्थम् | उपोहनं प्रच्छादनम् ॥ २७ ॥

गर्भपुरोडाशं ॥ २८ ॥

उपोहतीत्यनुकर्षः ॥ २८ ॥

एतं युवानं परि वो ददामीति ॥ (ख०३०)। पञ्चभिरभिमन्त्र्य ॥ २९ ॥

एतं युवानमित्यमित्यभिमन्व्य ततः स्विष्टकृदादि कर्म प्रतिपद्यते ॥ २९ ।।

३४९ सत्यापादविरचितं श्रौतसूत्रम्-- [१५ प्रश्ने

यस्यानप्रवृत्तो(क्तो) यूपो विरोहेत्तस्मिꣳस्त्वाष्ट्रꣳ साण्डं लोमशं पिङ्गलं बहुरूपं ( सवनीयस्योपलम्भं) कुर्यात्त्रयस्त्रिꣳशत्तन्तवो ये वितत्निर इति जुहुयात् ॥ १५.८.३०

अहर्गणेषु यद्यप्समाप्तकार्यो यूपो विरोहेत् तदा तस्मिन्नेव यूपे तत्कालपर्यागतस्य पशोः प्रसङ्गन्यायेन त्वाष्ट्र, पशुमुपालम्भ्य कुर्यात् ॥ ३० ॥

यदि कृष्णशकुनिर्ध्वꣳसयन्नुपर्युपरिसदो हविर्धानान्यतिपतेद्भय उत्पन्ने शक्ये यष्टुꣳ सर्वेभ्यो हविर्भ्यः सोमेभ्यश्च द्रोणकलशे समवदाय ये देवा येषामिदं भागधेयं बभूव येषां प्रयाजा उतानूयाजाः । इन्द्रज्येष्ठेभ्यो वरुणराजभ्योऽग्निहोतृभ्यो देवेभ्यः स्वाहेत्याहुतिं जुहोति ॥३१॥ अभये पुनर्यजेत ॥ ३२ ॥

कृष्णशकुनिः काकः । स हविषामासन्नानामुपरि पक्षवायुना वीजमान उप समीपसो गच्छेत्तेषामुपरि निषीदेवा तत्र देवा इति जुहुयात् । तत्संसृष्टं हविरप्सु प्रक्षिप्या. न्यमुत्पादयेच ॥ ३१ ॥ ३२ ॥

यद्यृक्तो यज्ञभ्रेष ऋच्छेद्भूरिति गार्हपत्ये जुहुयात् । यदि यजुष्टो भुव इति दक्षिणाग्नौ । यदि सामतः सुवरित्याहवनीये । यदि सर्वतः सर्वाभिरेकामाहवनीये ब्रह्मा वा जुहुयात् ॥ ३३ ॥

ऋक्त ऋम्द्वारतः । ऋग्वेदविहितस्य कस्यचित्कर्मणो मन्त्रस्य वा भ्रष इत्यर्थः । एवं यजुष्ट इत्यादि ॥ ३३ ॥

मनसा वा ध्यायेत् ॥ ३४ ॥

ब्रह्मेति शेषः ।। ३४ ॥

औदुम्बरी नश्येद्भज्येत वाऽन्यां प्रच्छिद्योर्गस्यूर्जं मयि धेहि श्रियो तिष्ठ प्रतिष्ठिता दिवꣳ स्तब्धान्तरिक्षं च पृथिव्यां च दृढा भव धमित्री धरित्री जनित्रीत्युच्छ्रयति ॥ ३५॥

८ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमैतम् । ३४३

अध्वर्युरुद्वाता यजमानश्वोच्छ्रयन्ति, इत्यापस्तम्बः । नाशः क्रिमिभक्षणमपहारादिर्वा ॥ ३५ ॥

अध्वर्युर्यजमानो ब्रह्मा वोच्छ्रयति ॥ ३६॥

एकमन्त्राणि कर्माणीति न्यायात् ॥ ३६॥

संमितां नित्येन यजुषाऽभिमन्त्रयते ॥ ३७॥

तूष्णीं निखाय द्युतानस्त्वेति यजुवाऽभिमन्त्रयतेऽध्वर्युः ॥ ३७॥

यदि हविर्धाने पद्येयातां दक्षिणामध्वर्युरुद्गृह्णीयात्प्रतिप्रस्थातोपस्तभ्नुयात् । उत्तरं प्रतिप्रस्थातोद्गृह्णीयादध्वर्युरुपस्तभ्नुयात् ॥ ३८॥

हविर्धानशकटयोरुभयोरन्यतरस्य वा पतने दक्षिणमध्वर्युरुद्गृह्णीयाकुत्कर्षयेत् । प्रति. प्रस्थातोपस्तभ्नुयान्मध्यामवद्ध्यात् । एतदेव विपरीतमुत्तरस्य ॥ ३८॥

वैष्णव्योपस्तभ्नुतः । वैष्णव्योपमिनुते । आश्विन्या संमृशतः ॥ ३९ ॥

तत्रोद्रहणं तावदुभयोस्तुप्पीकम् । उपस्तम्भनं तु वैष्णव्यर्चा कूरतः । ततस्तयेवोपमायाऽऽश्चिन्या समृशतः - कल्पयतश्च । तत्र यथास्थानमवस्थापन पमानमवस्थापनस्य हृढीकरणं समर्शनम् । इदं विष्णुः, इति वैष्णवी । यदा-दिवो वा विष्णो विष्णोभुकमिति पृथगृचावुभयोः । नित्यस्थापने तयोर्दर्शनात् । तदा तु वैष्णवीम्यामिति भनि तन्यम् । या वां कशेत्याश्विनी ॥ ३९ ॥

अग्ने वाजस्य गोमत इति तिसृभिरुष्णिग्भिरध्वर्युराग्नीध्रे जुहोति । ककुद्भिः प्रतिप्रस्थाता.॥(३१) भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः । भद्रा उत प्रशस्तयः । भद्रा उत प्रशस्तयो भद्रं मनः कृणुष्व वृत्रतूर्ये । येना समत्सु सासहः । येनासमत्सु सासहोऽवस्थिरा तनु हि भूरि शर्धताम् । वने मा ते अभिष्टिभिरित्येता आम्नाता भवन्ति ॥ १५.८.४०॥

पूर्वाभिस्तिसृभिरुष्णिम्भिरध्वर्युर्नुहोति । इतराभिस्तिसृभिः ककुद्भिरिस । षड्मिलष्णिककुद्भिरिति श्रुतिरुदाहृता । तामापस्तम्बो व्याचष्टे- पूर्वामिरुणिम्भिरपर्युः । उत्तराभिः ककुद्धिः प्रतिप्रस्थाता' (१४-३०-७) इति ॥ ४० ॥

सत्यापाढविरचितं श्रौतसूत्रम्- [१५ प्रश्नै

शिरो यज्ञस्य प्रतिधीयताममृतं देवतामयं वैष्णव्या क्रियताꣳ शिर आश्विन्या प्रतिधीयतामिति चतुर्गृहीतं पञ्चगृहीतं वा गृहीत्वा समानौ होमौ जुहुतः ॥ ४१॥

इयमप्याहुतिरामीधीयेऽधिकारात् । समानौ होमाविति समानता मन्त्रक्ये ॥ ११ ॥

यद्याग्निक्युखाऽऽमा भिद्येत संकृष्य पुनः कुर्यात् ॥ ४२ ॥

यद्यामा भियत तदा तान्येव कपालानि संकृष्याद्विरुपस्कृत्य पुनः कुर्यात् । तूष्णी मन्त्रैर्वा साम्युत्थानोक्तानन्यायात् ।। ४२ ॥

यदि पक्वा भिद्येत तैरेव कपालैः सुपिष्टैरन्यां मृदꣳ सꣳसृज्य कुर्यात् ॥ ४३ ॥

यदि पक्का भिद्येत तदा कपालानि पिष्वा मृदं तेन सह मेलयित्वा कुर्यात् ॥ ४३ ॥

यस्याग्निरुख्य उद्वायेदाहवनीयं प्रणीय स एव पुनः परीध्यः ॥ ४४ ॥

उखायां भव उख्यः । स यदि प्रासंनिवापादुद्वायेद्गार्हपत्यादन्यमाहवनीयमायतने प्रणयेत् । ततश्च स एवाऽऽहवनीयः पुनः परीध्यः परित उखामियः । शणकुलाAnshyam नेत्यारम्य जातोपस्थानान्तेन प्रवृञ्जनविधिना 'पुनरुखायामुत्पादयितव्य इत्यर्थः । युस्य तु कामती निमित्ततो वा प्रदायादियोनिनिर्मच्यो वा भवत्युख्यस्तस्यापि स्यात्स्वाद्योंनैराहत्याऽधेयो नतु परीध्यः । पुनः परीध्य इति लिङ्गात् । स्वादेवन योनेजनयतीति । लिङ्गाच्च ॥ ४४ ॥

कृष्णं वासो देयम् । कृष्णा धेनुः कृष्णो वा गौः शतमानं च हिरण्यम् ॥ ४५ ॥

गौर्षलीवर्दः । चशब्दः समुच्चयार्थः ॥ ४५ ॥

यत्पूर्वस्मिन्नहन्युत्तरस्मा अह्ने यज्ञायज्ञियं प्रति वसतीवरीर्गृह्णाति । तेनाहरभ्यासजति । तेन यज्ञꣳ संतनोति ॥ ४६॥

यत्पूर्वेचुरुत्तराहाथै कर्म क्रियते । यथा-सवनीयस्येमाबहिराहरणादि तेनोत्तरमहः । वैस्मिन्नहन्यासंजति, पूर्वोत्तरयोरहोः कर्माण(णी) संबध्नातीति यावत् । तेन च यज्ञ'मेव सतनोति । अन्यथा स एव -विच्छिन्नः स्यात् । अतोऽयमावश्यकोऽभ्यासङ्ग इत्यर्थः ॥ ४६॥

-१ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाब्याख्यासमेतम् । ३४५

यत्पूर्वस्मिन्नहन्युत्तरस्मा अह्ने स्तोत्र्यमनुरूपं कृत्वा शꣳसति । तेनाहरभ्यासजति । तेन यज्ञꣳ संतनोति । यदतिप्रेष्यति तेनाहरभ्यासजति तेन यज्ञꣳ संतनोतीति ॥ ४७ ॥

यज्ञायज्ञियं प्रति यज्ञायज्ञियकाले । पयांसि आशीराइर्थानि विशास्ति । विविध .. प्रेष्यति । सूक्तवाककाले श्वः सुत्यामिन्द्राग्निभ्यामित्यादिनाऽपि । शेषं पूर्ववत् ॥ ४७ ॥

एतेषामेकस्मिन्नक्रियमाणे नमो ब्रह्मणे नमो अस्त्वग्नये नमः पृथिव्यै नम ओषधीभ्यः । नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते करोमि स्वाहेत्येतत्प्रायश्चित्तं जुहुयादेतत्प्रायश्चित्तं जुहुयात् ॥ (ख०३२) ॥ ४८ ॥

इति सत्याषाढहिरण्यकेशिसूत्रे पञ्चदशप्रश्नेऽष्टमः पटलः ।

इति सत्याषाढहिरण्यकेशिसूत्रे पञ्चदशः प्रश्नः ॥

एतेषामेकस्मिन्नपि कर्मणि पूर्वेयुरेवाक्रियमाणे जुहुयादेते आहुती । किं पुनर्द्वयोबहुषु वेत्यर्थः । द्विरुक्तिः प्रश्नसमाप्त्यर्थी ॥ ४८॥

... इति. सत्याषाढहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयोगचन्द्रिकायां पञ्चदशप्रश्वेऽष्टमः पटलः । इति सत्यापाढहिरण्यकेशिसूत्रव्याख्यायां पञ्चदशः प्रश्नः ।।


16.1 अथ षोडशप्रश्ने प्रथमः पटलः ।

विनेययुक्ताखिलसिद्धवर्यः लसच्चिदानन्दसुखं मुनीन्द्रम् । नमामि सूत्रार्थविदे मुदाऽहं हिरण्यकेश्याख्यगुरुं कृपाब्धिम् ॥ प्रायश्चित्तं पञ्चदशे प्रश्न च समुदीरितम् । व्याचष्टे षोडशप्रश्ने द्वादशाहविधिं ततः ।। अथ द्वादशाहस्य कर्मोच्यते

द्वादशाहेन प्रैव जायते ॥ १ ॥