प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← स्थानकं ७ काठकसंहिता (विस्वरः)
स्थानकम् ०८
[[लेखकः :|]]
स्थानकं ९ →
दिशस्थानकम्।

अथाष्टमं स्थानकम् ।

दिशस्थानकम् ।
दिशो वै नाकल्पन्त न प्रजायन्त तत एतामग्नये प्राचीं दिशमरोचयन्यत् कृत्तिका यत् कृत्तिकास्वग्निमाधत्ते प्राच्यामेवैनं दिश्याधत्त एष वावैकः प्राङवस्यति य आहिताग्निः प्रत्यञ्चोऽन्य आग्नेयमेतन्नक्षत्रं यत् कृत्तिका यत् कृत्तिकास्वग्निमाधत्ते स्व एवैनं नक्षत्र आधत्ते प्रजापतेर्वा एतच्छिरो यत् कृत्तिका यत् कृत्तिकास्वग्निमाधत्ते शीर्षण्यो मुख्यो भवति सप्त वै कृत्तिकास्सप्त शीर्षण्याः प्राणाः प्राणा इन्द्रियाणि प्राणानेवेन्द्रियाण्याप्नोति पुष्टिमावद्भूयिष्ठमेकं नक्षत्रं पुष्टिमेव प्रजायाः पशूनां गच्छति ।। रोहिण्यामाधेयो रोहिण्यां वा एतं देवा आदधत तया रोहमरोहँस्तद्रोहिण्या रोहिणीत्वं रोहिण्यां वा एतं प्रजापतिराधत्त तया रोहमरोहत् तद्रोहिण्या रोहिणीत्वमेष वै मनुष्यस्य स्वर्गो लोको यदस्मिंल्लोके वसीयान् भवत्यृद्ध्या एव रोहिण्यामाधेयः कालकाञ्जा वै नामासुरा आसँस्त इष्टका अचिन्वत तदिन्द्र इष्टकामप्युपाधत्त तेषां मिथुनौ दिवमाक्रमेतां ततस्तामावृहत् ते ऽवाकीर्यन्त ता एतौ दिव्यौ श्वानौ यो व्यवृह्यत सोऽयमूर्णवाभिस्स्वैरान्त्रैस्संतितँसत्योजो वावैषां तद्वीर्यमाधत्तौजो वीर्यं भ्रातृव्यस्याधत्ते यच्चित्रायामग्निमाधत्ते तदेतदैन्द्रं नक्षत्रमभिभूतिमत् पूर्वासु फल्गुनीष्वादधीत यः कामयेत भगी स्यामिति भगस्य वा एतन्नक्षत्रं भगी भवत्युत्तरास्वादधीत यः कामयेत दानकामा मे प्रजास्स्युरित्यर्यम्णो वा एतन्नक्षत्रमेषोऽर्यमा यो ददाति दानामिमाः प्रजा उपजीवन्ति दानकामा अस्मै भवन्ति राजन्यस्यादध्यात् स हि दानमुपजीवति वसन्ता ब्राह्मणेनाधेयो वसन्तो वै ब्राह्मणस्यर्तुस्स्व एवैनमृता आधत्ते तेजो ब्रह्मवर्चसमुपाधत्ते ग्रीष्मे राजन्येनाधेयो ग्रीष्मो वै राजन्यस्यर्तुस्स्व एवैनमृता आधत्त ओजो वीर्यमुपाधत्ते शरदि वैश्येनाधेयश्शरद्वै वैश्यस्यर्तुस्स्व एवैनमृता आधत्त ऊर्जं पशूनुपाधत्ते । सोमेन यजा इति वा अग्निमाधत्ते यस्मिन्नेव कस्मिंश्चर्ता आदधीत सोमेन यक्ष्यमाण एतद्ध्यवर्धयत् सोमेन यजते फल्गुनीपूर्णमास आधेय एतद्वा ऋतूनां मुखमृतुमुख एवैनमाधत्ते शिशिर आधेयश्शिशिरं वा अग्नेर्जन्म प्रजातमेवैनमाधत्ते सर्वासु दिक्ष्वृध्नवानीति वा अग्निमाधत्ते सर्वासु दिक्ष्वग्निश्शिशिरे सर्वास्वेव दिक्ष्वृध्नोति यश्शिशिरेऽग्निमाधत्ते पूर्णमासे वामावस्यायां वादधीतैतद्वै पुण्याहं पुण्याह एवैनमाधत्ते तस्मादिष्ट्या वाग्रायणेन वा पशुना वा सोमेन वा पूर्णमासे वामावस्यायां वा यजेतैष वै यज्ञो यज्ञमेवैतत् प्रति यज्ञमालभते ।।१।।
  
यद्वा इमे व्यैतां यदमुष्यायज्ञियमासीत् तदिमामभ्युसृज्यतोषा यदूषा भवन्त्यनयोरेवैनं यज्ञिय आधत्ते प्राजापत्या वा ऊषाश्श्वश्श्वो भूयाँसो भवन्ति प्रजननायैवैते पशूनां वा एतत् प्रियं धाम यदूषा यदूषा भवान्ति पशूनामेव प्रियं धामोपाप्नोत्यलेलेद्वा इयं पृथिवी साबिभेदग्निर्मातिधक्ष्यतीत्यबिभेदग्निर्हरो मे विनेष्यतीत्यार्द्रेव हीयमासीत् तां देवाश्शर्कराभिरदृँहँस्तेजोऽग्ना अदधुर्यच्छर्करा भवन्तीमामेव दृँहति तेजोऽग्नौ दधात्यभिमृता वा इयं वृत्रेण वम्रियस्त्वै तद्विदुर्यत्रास्या जीवं यज्ञियं यद्वल्मीकवपा भवन्त्यस्या एवैनं जीवे यज्ञिय आधत्त आपो वा इदमासन् सलिलमेव स प्रजापतिर्वराहो भूत्वोपन्यमञ्जत् तस्य यावन्मुखमासीत् तावतीं मृदमुदहरत् सेयमभवद्यद्वराहविहतं भवत्यस्यामेवैनं प्रत्यक्षमाधत्ते वराहो व अस्यामन्नं पश्यति तस्मा इयं विजिहीते यद्वराहविहतं भवति तदेवान्नमवरुन्द्धे यत् तदादत्त तददितिर्यदप्रथत तत् पृथिवी यदभवत् तद्भूमिर्यद्वराहविहतं भवति प्रथत एवं प्रजया पशुभिर्नाना वै पशूनामन्नान्यन्यद्गोरन्नमयदश्वस्यान्यदव्या अन्यदजाया अन्यत् पुरुषस्यापोऽन्नं यदप उपसृजति यावदेवान्नं तदवरुन्द्धे पञ्चैते संभाराः पञ्च वै पुरुषे वीर्याणि करोत्यनया वीर्यं करोत्यनया करोत्यनेन यावदेव वीर्यं तदाप्नोति तत् स्पृणोति पञ्चैते संभाराः पाङ्क्तो यज्ञो यज्ञमेवावरुन्द्धे ।। न वा ऋत ऊर्जोऽन्नं धिनोत्यूर्गुदुम्बरो यदौदुम्बराणि भवन्त्यन्न एवोर्जं दधाति शमीमयानि भवन्ति मिथुनत्वायाग्निं वै सृष्टं प्रजापतिस्तँ शम्याग्रे समैन्द्ध यच्छमीमयानि भवन्ति स्वयैवैनँ समिधा समिन्द्धेऽश्वो वै भूत्वाग्निर्देवेभ्योऽपाक्रामत् स यत्रातिष्ठत् तदश्वत्थस्समभवत् तदश्वत्थस्याश्वत्थत्वं यदाश्वत्थानि भवन्ति यदेवास्य तत्र न्यक्तं तत् तैस्संभरत्यग्निर्वै मनुष्यैर्देवेभ्योऽपाक्रामत् तं देव अमन्यन्तायं वावेदं भविष्यतीति तस्य मरुतस्स्तनयित्नुना हृदयमच्छिन्दन् सा दिव्याश निरभवद्यद्वृक्षस्याशनिहतस्य भवति यदेवास्य तत्र न्युक्तं तत् तैस्संभरति पर्णमयानि पञ्चथानि भवन्ति पाङ्क्तत्वाय ।। २ ।।

अष्टासु प्रक्रमेषु ब्राह्मणेनाधेयोऽष्टाक्षरा गायत्री गायत्रच्छन्दा ब्राह्मणस्स्वस्यैवैनं छन्दसः प्रात्येनस्य आधत्ते यथा पिता पुत्रं जिन्वत्येवमेवैनं स्वं छन्दो जिन्वत्येकादशसु प्रक्रमेषु राजन्येनाधेय एकादशाक्षरा त्रिष्टुप् त्रिष्टुप् छन्दा राजन्यस्स्वस्यैवैनं छन्दसः प्रात्येनस्य आधत्ते यथा पिता पुत्रं जिन्वत्येवमेनँ स्वं छन्दो जिन्वति द्वादशसु प्रक्रमेषु वैश्येनाधेयो द्वादशाक्षरा जगती जगच्छन्दा वैश्यस्स्वस्यैवैनं छन्दसः प्रात्येनस्य आधत्ते यथा पिता पुत्रं जिन्वत्येवमेनँ स्वं छन्दो जिन्वत्यपरिमितमवरुणधा इति वा अग्निमाधत्तेऽपरिमित आधेयोऽपरिमितस्यावरुद्ध्यै यावति चक्षुषा मन्येत तावत्यादधीत सत्यं वै चक्षुस्सत्य एवैनमाधत्ते पूर्वाह्ण आधेय एतद्वै पुण्याहं पुण्याह एवैनमाधत्ते व्युष्टायां पुरा सूर्यस्योदेतोराधेय एतस्मिन् वै लोके प्रजापतिः प्रजा असृजत ताः प्राजायन्त प्रजननायैवमाधेय आग्नेयी वै रात्र्यैन्द्रमहर्यदुदिते सूर्य आदधीताग्नेयाद्वर्णादियाद्यदनुदित ऐन्द्रादनुदितेऽपर आधेय उदिते पूर्व उभा एवेन्द्राग्न्योर्वर्णा आप्नोत्यसुर्या वै रात्री वर्णेन शुक्रियमहश्शुक्रिय आधत्ते य उदिते सूर्य आधत्ते नक्तं वा अनुदितेन दिवोदितेन दिवाधत्ते य उदिते सूर्य आधत्ते ।। न वै सु विदुरिव मनुष्या नक्षत्रं मीमाँसन्त इव ह्युदितेन वाव पुण्याहं पुण्याह आधत्ते य उदिते सूर्य आधत्ते सप्त ते अग्ने समिधस्सप्त जिह्वास्सप्तर्षयस्सप्त धाम प्रियाणि सप्त होत्रा अनु विद्वान् सप्त योनीँरापृणस्वा घृतेनेति यावतीर्वा अग्नेस्तन्वो यो वा अस्य ता आदधानो वितर्षयति वि ह तृष्यत्येतावतीर्वा अग्नेस्तन्वः षोढा सप्त सप्त ता एवास्य प्रीणाति न वितृष्यति पूर्णया स्रुचा मनसा प्रजापतये जुहोति पूर्णः प्रजापतिः प्रजापतिमेवाप्नोति ।। ३ ।।

अङ्गिरसां त्वा देवानां व्रतेनादध इति ब्राह्मणेनाधेयो ये वै देवानामङ्गिरसस्ते ब्राह्मणस्य प्रत्येनसोऽग्निर्वायुर्वाग्बृहस्पतिस्ततो बन्धुरस्य यज्ञस्तत आयनो यतो बन्धुरेवास्य यज्ञो यत आयनस्तत एनं प्रतीच्छतीन्द्रस्य त्वा मरुत्वतो व्रतेनादध इति राजन्येनाधेयो ये वै देवानां राजानस्ते राजन्यस्य प्रत्येनस इन्द्रो वरुणो धाता त्वष्टा ततो बन्धुरस्य यज्ञस्तत आयनो यतो बन्धुरेवास्य यज्ञो यत आयनस्तत एनं प्रतीच्छति मनोस्त्वा ग्रामण्यो व्रतेनादध इति वैश्येनाधेयो मरुतो वै देवानां विशस्ते वैश्यस्य प्रत्येनसस्ततो बन्धुरस्य यज्ञस्तत आयनो यतो बन्धुरेवास्य यज्ञो यत आयनस्तत एनं प्रतीच्छतीडा वै मना आसीत् सासुरानग्निमादधानानगच्छत् त आहवनीयमग्र आदधताथ गार्हपत्यमथौदनपचनं तानब्रवीदाप्त्वा श्रियं प्रत्यवारुक्षन् पुण्या भविष्यन्ति परा तु भविष्यन्तीति सा देवानग्निमादधानानगच्छत् त ओदनपचनमग्र आदधताथ गार्हपत्यमथाहवनीयं तानब्रवीदापञ्छ्रियं वीमं लोकमच्छिन्दन् पुण्या भविष्यन्ति प्रज़ा त्वेषां न भविष्यतीति सेडैव मनोरादधात् साब्रवीत् तथा तेऽग्निमाधास्यामि यथा मनुष्या देवानुप प्रजनिष्यन्त इति सा गार्हपत्यमग्र आदधादथौदनपचनमथाहवनीयमनयोर्लोकयोर्य्चवगृहीत्यै ॥ ततो मनुष्या देवानुप प्राजायन्त प्रजननायैवमाधेयोऽथो अनयोरेव लोकयोर्व्यवगृहीत्यै प्रजापतिर्वै यदग्रे व्याहरत् स सत्यमेव व्याहरदेतद्वाव स त्रिर्व्याहरद्भूर्भुवस्स्वरित्येतद्वै वाचस्सत्यं यदेव वाचस्सत्यं तेनाधत्ते भूष्णु वै सत्यं य एवं विद्वानेतेनाधत्ते भवत्येवायं वा अपरो भूरसौ पूर्वो भुवो भूर्भुवरित्यपर आधेयस्सत्यस्याननुगत्यै भूर्भुवस्स्वरिति पूर्वस्तत् पुरस्सर्वमाप्यते वाग्वै देवतां निरवदत निरुदितदेवता हि वै वागथ तत् सर्वं न सत्यं यद्वाचा शपते यत् प्राशूर्भवति या वै तां वाग्देवतां निरवदतैषा वाव सा यदेता व्याहृतय एतद्वै वाचस्सदेवं यदेव वाचस्सदेवं तेनाधत्तेऽयं वा अपरो भूरसौ पूर्वो भुवो भूर्भुवरित्यपर आधेय उभा एवैनौ सहाधत्त एष ह्येतस्य योनिरेतस्माद्ध्येषोऽधिसृज्यतेऽयं वावाग्निर्योऽयमन्तरग्नि यो ऽसौ पूर्वोऽसा आदित्य एष योऽसा अमुष्मादधिसृज्यते यद् द्वितीयं ज्योतिस्तदेव तद्भूर्भुवस्स्वरिति पूर्व आधेय उभा एवैनौ सहाधत्त एष ह्येतस्य योनिरेतस्माद्ध्येषोऽधि प्रह्रियते योऽसा अमुष्मादधि प्रह्रियते यत् तृतीयं ज्योतिस्तदेव तेनाप्यतेऽसौ वावैष आदित्यः प्रत्यङ्ङाधीयते तस्मादेष सर्वाः प्रजाः प्रत्यङ्ङग्निना वै देवा अन्नमदन्ति प्रत्यग्वा अन्नमद्यते यत् प्रत्यङ्ङाधीयतेऽन्नाद्याय प्राचो वै देवान् प्रजापतिरसृजतापाचोऽसुरान् सोऽसुरान् ब्रह्मणापानुदताग्निर्ब्रह्म यत् प्रत्यङ्ङाधीयते भ्रातृव्यस्यापनुच्या इममर्धमाग्निना परियन्तीममर्धमुपचरन्ति देवानामेवार्धं परियन्ति देवानामर्धमुपचरन्तीमां दिशमभ्यावृत्य जुहोत्येतस्यां वै देवा दिशि यस्यामेव देवा दिशि तां दिशमभ्यावृत्य जुहोति ।। ४ ।।

अग्निर्वै प्राङुदेतुं नाकामयत तमश्वेनोदवहन्यत्र पूर्वमुदवहँस्तत् पूर्ववाहः पूर्ववाट्त्वमग्निर्वै प्रजापतिस्तस्याश्वश्चक्षुर्यदश्वं पुरो नयन्ति स्वमेव तच्चक्षुः पश्यन्ननूदेति स्तोमपुरोगा वै देवा एभ्यो लोकेभ्योऽसुरान् प्राणुदन्त स्तोमादश्वस्संभूतो यदश्वं पुरो नयन्ति स्तोमपुरोगा एवैभ्यो लोकेभ्यो भ्रातृव्यं प्रणुदतेऽग्निं वै जातं रक्षाँस्यधूर्वँस्तान्येनमभिसमलभन्त तान्यश्वेनापाहत यदश्वं पुरो नयन्ति रक्षसामपहत्या अश्वो वै भूत्वा यज्ञो मनुष्यानत्यक्रामत् तमेतदतिक्रामन्तं मन्यन्ते यदश्वमभ्यावर्तयन्ति यज्ञमेवैतद्यजमानमभ्यवर्तयन्त्यग्निर्वा अश्वं प्राविशत् कृष्णो भूत्वा सोऽत्रागच्छद्यत्रैष मृगशफ इव तस्मादाक्रम्यो यदश्वमाक्रमयति तमेवावरुन्द्धे वास्तु वा एतदथो अन्तर्हितमिव तस्मान्नाक्रम्य इन्द्रो वै यतीन् सालावृकेयेभ्यः प्रायच्छत् तेषामद्यमानानाँ स्यूमरश्मिर्ऋषिरश्वं प्राविशत् तस्मादश्वस्स्वँ शकृदुपजिघ्रति कश्चिदृषिं चाग्निं च न निरास्था३मित्यग्निं वै विभाजं नाशक्नुवँस्तमश्वेन व्यभजन्यदश्वं पुरो नयन्त्यग्नेरेव विभक्त्यै। यौ वाव ता ऋषिश्चाग्निश्च ते एवैनं तद्देवते विभजतोऽश्वो देयः प्राजापत्यो वा अश्वो यदश्वं ददाति सर्वा एवास्य तेन देवता अभीष्टाः प्रीता भवन्ति परमा वा एषा दक्षिणा यदश्वो यदश्वं ददाति पर्याप्त्यै वही देयो वहिनो वै पशवो भुञ्जन्ति यज्ञोऽग्नेर्वही भुनक्त्येनमग्निराहितो हिरण्यं देयँ सतेजस्त्वाय शतमानं वीरं वा एष जनयति योऽग्निमाधत्ते शतदायो वीरस्त्रिंशन्माने पूर्वयोर्हविषोर्देये चत्वारिँशन्मानमुत्तमेऽभिक्रान्त्या अभिक्रान्तेन हि यज्ञस्यर्ध्नोत्यात्मा वै हविः पवित्रँ हिरण्यँ सर्वेष्वैवैनं हविष्षु पुनात्यग्निर्वै वरुणानीरभ्यकामयत तस्य तेजः परापत्त्तद्धिरण्यमभवद्यद्धिरण्यमुपास्यति स्वेनैवैनं तेजसा समर्धयति नोपास्य पुनरादधीत ग्रसितमस्य निष्खिदति शोधुको भवत्यग्निं वै वरुणानीरभ्यकामयन्त तास्समभवदापो वरुणानीर्यदग्ने रेतोऽसिच्यत तद्धरितमभवद्यदपां तद्रजतं तस्माद्धरितरजताभ्यामुभयाहिरण्यो यद्गर्भस्य शमलं तद्दुर्वर्णं तस्माद्ब्राह्मणेन दुर्वर्णं न भर्तव्यँ शमलँ हि तद्धिरण्यमुपास्यति स्वेनैवैनं रेतसा समर्धयति ॥ ५ ॥
  
सह वा इमा अग्नेस्तन्व इयमोदनपचनोऽन्तरिक्षं गार्हपत्यो द्यौराहवनीयो यो वा अस्यैता अव्याकृत्याधत्ते न पाप्मना व्यावर्तते घातकोऽस्य रुद्रः पशून् भवति यदेतैरुपतिष्ठते ता एवास्यैतद्व्याकृत्य यथायोनि प्रतिष्ठाप्याधत्ते वि पाप्मना वर्ततेऽघातकोऽस्य रुद्रः पशून् भवति द्यौर्मह्नासीति महानग्निमाधाय भवति भूमिर्भूम्नेति श्वश्श्वो भूयान् भवति तस्यास्ते देव्यदित उपस्थेऽन्नादमन्नाद्यायान्नपत्यायादध इत्यन्नादमेवैतमन्नाद्यायानपत्यायाधत्तेऽन्नाद्यायाग्निमाधत्तेऽत्त्यन्नं य एवं विद्वानग्निमाधत्ते।। अथैतास्सर्पराज्ञ्या ऋच इयं वै सर्पराज्ञ्यन्नँ सार्पराज्ञमन्नाद्यायाग्निमाधत्तेऽत्त्यन्नं य एवं विद्वानग्निमाधत्ते वसन्तो वा इमाः प्रजा ग्रीष्मायोपरुणद्धि ग्रीष्मो वर्षाभ्यो वर्षाश्शरदे शरद्धेमन्ताय हेमन्तश्शिशिराय शिशिरमग्नयेऽग्निर्यजमानायान्नाद्यायाग्निमाधत्तेऽत्त्यन्नं य एवं विद्वानग्निमाधत्ते ॥ ६ ॥

निरुप्तँ हविरुपसन्नमप्रोक्षितं भवत्यथ मध्वाधिदेवनमवोक्ष्याक्षान्न्युप्य जुहोति निषसाद धृतव्रतो वरुणः पस्त्यास्वा साम्राज्याय सुक्रतुरिति त्रिर्वै विराड़ व्यक्रमत गार्हपत्यमाहवनीयं मध्याधिदेवनं विराज एवैनं विक्रान्तमनुविक्रमयति प्रत्येव तिष्ठति गच्छति प्रतिष्ठां धर्मधृत्या जुहोति धर्मधृतमेवैनं करोति सवितारं धारयितारं गां घ्नन्ति तां विदीव्यन्ते तां सभासद्भ्य उपहरन्ति तेनास्य सोऽभीष्टः प्रीतो भवति प्र नूनं ब्रह्मणस्पतिरित्यामन्त्रणे जुहोति मन्त्रवत्या वैश्वदेव्या मन्त्रमेवास्मै गृह्णाति । तमभिसमेत्य मन्त्रयन्ते ।। सह वै देवाश्च मनुष्याश्चौदनपचन आसँस्ते मनुष्या देवानत्यचरँस्तेभ्यो देवा अन्नं प्रत्युह्य गार्हपत्यमभ्युदक्रामँस्ताँस्तस्मिन्नन्वागच्छँस्ते मनुष्या एव देवानत्यचरँस्तेभ्यो देवाः पशून् प्रत्युह्याहवनीयमभ्युदक्रामँस्ताँस्तस्मिन्नन्वागच्छँस्ते मनुष्या एव देवानत्यचरँस्तेभ्यो देवा यज्ञं प्रत्युह्य सभामभ्युदक्रामँस्ताँस्तस्यामन्वागच्छँस्ते मनुष्या एव देवानत्यचरँस्तेभ्यो देवा विराजं प्रत्युह्यामन्त्रणमभ्युदक्रामँस्ताँस्ततो नानुप्राच्यवन्तैते वै देवानाँ संक्रमाश्श्रेयाँसँ श्रेयाँसं लोकमभ्युत्क्रामति य एवं वेदैतद्वै देवानाँ सत्यमनभिजितं यदामन्त्रणं तस्मादामन्त्रणँ सु प्रातर्गच्छेत् सत्यमेव गच्छति तस्मादामन्त्रणं नाहुत एयात्तस्मादामन्त्रणे नानृतं वदेद्वह्निर्वै नामौदनपचन आस्य वह्निर्जायते य एवं वेद गृहा गार्हपत्यो गृहवान् भवति य एवं वेद धिष्ण्या आहवनीय उपैनं यज्ञो नमति य एवं वेद सप्रथा मध्याधिदेवनं प्रथते प्रजया पशुभिर्य एवं वेदानाप्त आमन्त्रणं नैनमाप्नोति य ईप्सति य एवं वेद ।। ७ ।।

अजो देयस्सयोनित्वाय वासो देयँ सर्वदेवत्यं वासो देवतानामभीष्ट्यै वर्धमाना दक्षिणा देया दक्षिणाया वै वृद्धिं यजमानोऽनुवर्धत उपाहरन्ती दक्षिणा देया धेनुर्वा उपाहरन्त्युप ह्येषा पय आहरति नास्याग्निमादधानस्य कनीयो भवति धेनुर्होत्रे देयाशिषामवरुद्ध्या अनड्वानध्वर्यवे वह्येी व यज्ञस्यावरुन्द्धे रथो देयो देवरथो वा एष प्रयुज्यते यद्यज्ञो मनुष्यरथेनैव देवरथमभ्यातिष्ठति मिथुनौ गावौ देयौ मिथुनस्यावरुद्ध्यै षड् देयाः षड्वा ऋतव ऋतुष्वेव प्रतितिष्ठति द्वादश देया द्वादश मासास्संवत्सरस्संवत्सरस्याप्त्यै यदि द्वादशातिप्रच्यवेत चतुर्विंशतिं दद्याच्चतुर्विँशत्यक्षरा गायत्री गायत्री यज्ञमुखं गायत्रीमेव यज्ञमुखं नातिक्रामति त्रीणि हवीँषि भवन्ति त्रय इमे लोका इमानेव लोकानाप्नोति त्रिर्विराड् व्यक्रमत विराज एवैनं विक्रान्तमनु विक्रमयति यत् पवमानं पुनात्येवैनं तेन यत् पावकमन्नं वै पावकमन्नमेवास्मै तेन प्रयच्छति यच्छुचये शुचिमेवैनं मेध्यं यज्ञियं तेन करोति पशुमानसानि प्रजावानसानि तेजस्व्यसानीति वा अग्निमाधत्ते प्राणो वै पवमानः प्राणादधि पशवः प्रजायन्ते यदग्नये पवमानाय पशूनेवास्मै तेन प्रजनयत्यापो वै पावका अद्भ्यः प्रजाः प्रजायन्ते यदग्नये पावकाय प्रजामेवास्मै तेन प्रजनयत्यसौ वा आदित्यश्शुचिरेष तेजसः प्रदाता यदग्नये शुचयेऽसा एवास्मा आदित्यस्तेजः प्रयच्छति देवाश्च वा असुराश्च संयत्ता आसन् सोऽग्निर्विजयमुपयत्सु त्रेधा तन्वो विन्यधत्त पशुषु तृतीयमप्सु तृतीयममुष्मिन्नादित्ये तृतीयं यदेतानि हवींषि निरुप्यन्ते ता एवास्यैतत् तन्वस्संभरति सतनूरेवैतत् सतेजा आधीयत इमे वै लोका एतानि हवींषि नानाबर्हिँषि भवन्तीमानेव लोकानापृणाति यन्नानाबर्हीँषि स्युर्लोकं प्रजननाय नोच्छिँषेदूनं वै प्रजा उपप्रजायन्ते समानबर्हिषी उत्तरे कार्ये लोकमेव प्रजननायकस्तमुपप्रजायते विद्म वा इमं लोकं विद्मेमं नामुं पश्यामो वा तु न वा तस्मात् समानबर्हिषी उत्तरे कार्ये पशवो वा एतानि हवींषि घृतं पुरोडाशा रुद्रोऽग्निर्यदम्नोऽनुनिर्वपेद्रुद्राय पशूनपिदध्यादपशुस्स्यात् संवत्सरेऽनुनिरुप्यँ संवत्सरेणैवैनँ शमयति शिथिलं वा एतद्यज्ञस्य क्रियतेऽसयोनि यत् संवत्सरेऽनुनिर्वपत्यम्न एवानुनिरुप्यमशिथिलत्वाय सयोनित्वाय ॥ ८॥

अग्निर्वा इमं लोकं नोपाकामयत यदस्मिन्नामं माँसं पचन्ति यत् पुरुषं दहन्ति यत् स्तेयं पचन्ति तदभीमं लोकं नोपाकामयत स यदिमं लोकमुपावर्तत या अस्य यज्ञियास्तन्व आसँस्ताभिरुदक्रामत् ता एताः पवमाना पावका शुचिस्तस्य या पवमाना तनूरासीत् पशूँस्तया प्राविशद्या पावकापस्तया या शुचिरमुमादित्यं तया प्राणो वै पवमानः प्राणेन पशवो यता यदग्नये पवमानाय पशूनेवास्मै तेन यच्छत्येषा वा अस्य सा तनूर्यया पशून् प्राविशद्यदिदं घृते हुते प्रतीवार्चिरुज्ज्वलत्येषा वा अस्य सा तनूर्ययापः प्राविशद्यदिदमप्सु परीव ददृशे यद्धस्ता अवनिज्य स्नात्वा श्रदिव धत्ते य एवाप्स्वग्निस्स एवैनं तत् पावयति स स्वदयति यदग्नये पावकाय सपशुमेवैनं पावयत्येषा वा अस्य सा तनूर्ययापः प्राविशद्यदिदं घृते हुते शोणमिवार्चिरुज्ज्वलत्येषा वा अस्य सा तनूर्ययामुमादित्यं प्राविशद्यदिदमुपरिष्टाद्वीव भाति यज्ज्योतिरिव यदग्नये शुचय आविर्भूत्या एव घोषायैव श्लोकायैव रुच एवैषा वा अस्य सा तनूर्ययामुमादित्यं प्राविशद्यदिदं घृते हुते सुवर्णमिवार्चिरुज्ज्वलति यदेतानि हवीँषि निरुप्यन्ते ता एवास्यैतत् तन्वस्संभरति सतनूरेवैतत् सतेजा आधीयत इमे वै लोका एतानि हवींषि नानाबर्हीँषि भवन्ति नाना हीमे लोकाः प्रतिष्ठिताः ॥ ९ ॥

गायत्रीस्संयाज्या भवन्ति गायत्रो वा अग्निर्गायत्रच्छन्दा आग्नेयमेतत् क्रियते यदग्न्याधेयमग्ना एवैतदग्निः प्रतितिष्ठन्नेति यदाग्नेयानि हवीँष्यग्निनाग्निस्समिध्यत इत्युत्तरयोर्हविषोरनुवाक्यां कुर्यात् तेजस आयतनायोर्वशी वै पुरूरवस्यासीत् सान्तर्वती देवान् पुनः परैत् सोऽदो देवेष्वायुरजायत तामन्वागच्छत् तां पुनरयाचत तामस्मै न पुनरददुस्तस्मा आयुं प्रायच्छन्नेष आयुरित्यग्निं चोख्यमुखायाँ समुप्यैतमाधत्स्व तेन प्रजनिष्यस इति स वृक्षस्य शाखायामग्निमासज्यायुना ग्राममभ्यवेत् स पुनरैमीत्यैद्वृक्षस्याग्रेऽग्निं ज्वलन्तँ सोऽचिकेदयं वाव सोऽग्निरिति तस्यारणी आदायाग्निं मथित्वाधत तेन प्राजायत यदारोहस्यारणी भवतः प्रजननायादित्यै घृते चरुममावस्यायां पशुकामोऽनुनिर्वपेदियमदितिरस्यामधि पशवः प्रजायन्ते यज्ञमुखमग्न्याधेयं यज्ञमुखमेवालभ्य पशूनवरुन्द्धे चातुष्प्राश्यो भवत्याचतुरँ हीमे पशवो द्वन्द्वं मिथुनास्ते वीर्यकृतोऽग्नीषोमीयमेकादशकपालं पूर्णमासेऽनुनिर्वपेदाग्नेयो वै ब्राह्मणो देवतया सोमराजा यज्ञमुखमग्न्याधेयं यज्ञमुखमेवाक्रम्य स्वाराज्यमुपैति ।। देवान् वै यज्ञो नाभ्यनमत्तेऽश्राम्यन्यज्ञो नो नाभिनमतीति तेषामग्नीषोमा एवाग्रे यज्ञोऽभ्यनमत्तेऽविदुरग्नीषोमौ वै नोऽग्रे यज्ञोऽभ्यनाँस्तयोर्यज्ञस्याभिनतिमिच्छामहा इति तेऽब्रुवन् युवां वै नोऽग्रे यज्ञोऽभ्यनान्युवयोर्नोऽधि यज्ञोऽभिनमत्विति ता अब्रुवतां वार्यं वृणावहा आवामेवाग्र आज्यभागौ यजानिति तस्मादग्नीषोमा एवाग्र आज्यभागौ यजन्ति वार्यवृतँ ह्येनयोर्यदग्नीषोमीयमनुनिर्वपति यज्ञस्याभिनत्या अतो हि देवानग्रे यज्ञोऽभ्यनमद्यदन्यदनुनिर्वेपेद्देवतया यज्ञमन्तर्दध्यान्मिथुनं वा अग्निश्च सोमश्च सोमो रेतोधा अग्निः प्रजनयिताग्निर्वावेदं सर्वमाप ओषधयो वनस्पतयस्तदेव सोम एतौ वै नो देवानां नेदिष्ठमेतौ हि पश्यामो यथा वा इदं मनुष्या उपासत एवमेतं देवा उपासत तेऽचिकयुरुद्धृतेन त्वा अनेनाभिजयेमेति तमुदहरन्त तेनाभ्यजयन्नभिजित्या एवैष उद्ध्रियतेऽग्निर्वै निराधानादबिभेन्नातिदूर आधेयो निराधानाय ॥ १० ॥

अग्निं वै सृष्टमग्निहोत्रमन्वसृज्यत तस्मादग्निमाहितमग्निहोत्रेणानूद्द्रवन्त्याग्नेयी सायमाहुतिस्सौरी प्रातर्यदाग्नेय्या प्रातर्जुहुयात् प्रजननं पुरस्तात् परिहरेदयथापूर्वं कुर्यात् पूर्णया स्रुचा मनसा प्रजापतये जुहोति पूर्णः प्रजापतिः प्रजापतिमेवाप्नोति पूर्णो वै प्रजापतिस्समृद्धिभिरूनो व्यृद्धिभिः पूर्णः पुरुषः कामैरूनस्समृद्धिभिः पूर्णयैव पूर्णास्समृद्धीरवरुद्ध आनीता वा अन्येषां देवानाँ स्मोऽनानीता अन्येषाँ सँस्पर्शनान्येषां जीवामस्सकाशेनान्येषां पृथिव्या वातस्यापां तेषामानीतास्स्मस्तेषाँ सँस्पर्शेन जीवामोऽग्नेस्सूर्यस्य दिवस्तेषामनानीतास्स्मस्तेषाँ सकाशेन जीवामस्तानेवालब्ध त एनमानेषत श्रेयसो व्रातस्य भवति नास्य मनुष्याः पापवसीयसस्येशते य एवं वेद ॥ यदात्मनालभेत प्रमायुकस्स्यादाज्येन चौषधीभिश्चालभतेऽप्रमायुको भवत्यानीतो वा एष देवानां य आहिताग्निरदन्त्यस्यान्नं पूर्णया स्रुचा जुहोति पूर्णयाग्नयेऽलमकरलमस्मै भवत्योषधयश्च वै वनस्पतयश्च दिवा समदधुस्त इतोऽन्यत्सर्वमबाधन्त स प्रजापतिरमन्यतेमे वावेदमभूवन्निति सोऽग्निं सृष्ट्वा तमाधत्त तेनैनान्न्यभावयद्भ्रातृव्यसहनो वावैष आधीयते हुताद्यायैष वा अहुताद्योऽलमग्न्याधेयाय सन्ननाहिताग्निर्हुतमेवैतेन स्वदितमत्ति ।। ११ ।।

आधेयोऽग्नी३र्नाधेया३ इति मीमाँसन्ते श्वोऽग्निमाधास्यमानेना३ इत्याधेय एवायज्ञो ह्येष योऽनग्निरजो बद्धस्तां रात्रीं वसेदग्नितेजसं वा अजस्तदेव तमग्निमाधत्ते कल्माषस्स्यात् स हि सर्वदेवत्यो यस्तँ श्वोऽग्निमाधास्यन् स्यात् सं तां रात्रीं व्रतं चरेन्न माँसमश्नीयान्न स्त्रियमुपेयात् सर्वो वै पुरुषोऽग्निमानग्निरस्मादपक्रामेदेष ह्येतस्य योनिरेतस्माद्ध्येषोऽधि सृज्यते यस्तमुद्धरति यो दक्षिणो ब्रह्मवर्चसायैवैष मथ्यतेऽथो अग्निभ्यामेवैनँ सयोनिं करोति दुर्गोपस्त्वहरहरस्य मन्थेयुर्यत एव कुतश्चाहरेदेष वा अस्यानवरुद्धा तनूस्तामेवावरुन्द्धे यत्र दीप्यमानं परापश्येत् तत आहरेद्देवता वा एता आविर्भवन्ति त एवावरुन्द्धे भृज्जनादाहरेदनन्कामस्यैषा वा अस्यान्नादी तनूस्तामेवावरुन्द्धे ।। यो ब्राह्मणो वा वैश्यो वा पुष्टोऽसुर इव स्यात् तस्य गृहादाहरेद्यैव सा पुष्टिर्यदन्नं तदवरुन्द्धे गृहे त्वस्य ततो नाश्नीयात् त्रिरुद्यच्छते त्रय इमें लोक इमानेव लोकानाप्नोति यदुद्यच्छत इमं तेन लोकमाप्नोति यत् प्राङुद्र्ववत्यन्तरिक्षं तेन यदादधात्यमुं तैन नाधाय पुनरुद्गृह्णीयादपक्रमस्स पापीयान् भवति प्राणेभ्यो वै प्रजापतिः प्रजा असृजत ताः प्रजायन्त तया मात्रयोद्गृह्णीयात् प्रजननाय नात्युद्गृह्णीयादग्निरस्य प्राणानुद्दहेत् प्रमीयेत नाधो दघ्नुयादपक्रमस्स पापीयान् भवति ॥ १२ ॥

अहुतादो वा एतस्य पुरा देवा अथैतद्धुताद उपावर्तते तेऽस्योर्जापक्रामन्त्यूर्जमेवावरुन्द्धे तानेव भागिनः करोति यजन्त्यमुष्मिञ्जुह्वत्यस्मिन् पचन्त्यमुष्मिन्ननन्तरयायैतस्याथो वैश्वानरतायामेवैनमुपातिष्ठिपद्ये वै यज्ञेनायजन्तार्नुैशवँस्ते न वै सु विदुरिव मनुष्या यज्ञं तस्मान्न सर्व इवर्ध्नोति दक्षिणावद्भ्याँ ह स्म वै पुरा दर्शपूर्णमासाभ्यां यजन्ते य एष ओदनः पच्यते दक्षिणामेवैतां ददाति यज्ञस्यर्याध्स् इष्टी वा एतेन यद्यजते य एष ओदनः पच्यते तेन पूर्त्येष वावेष्टापूर्ती य एतं पचति ।। प्रजापतिर्वै देवेभ्यो भागधेयानि व्यादिशद्यज्ञमेव सोऽमन्यतात्मानमन्तरगामिति स एतमोदनमपश्यत्तमात्मने भागमकल्पयत् प्रजापतेर्वा एष भागो महान्तमपरिमितं पचेदपरिमितः प्रजापतिः प्रजापतिमेवाप्नोति देवाश्च वा असुराश्चास्पर्धन्त ते देवाः प्रजापतिमेवाभ्ययजन्तान्योऽन्यस्यासन्नसुरा अजुहवुस्ते देवा एतमोदनमपचँस्तं प्रजापतये भागमनुनिरवपँस्तं भागं पश्यन् प्रजापतिर्देवानुपावर्तत ततो देवा अभवन् परासुरा अभवन् य एवं विद्वानन्वाहार्यमाहरति भवत्यात्मना परास्य भ्रातृव्यो भवतीड्या वा अन्ये देवास्सपर्येण्या अन्ये देवा ईड्या ब्राह्मणास्सपर्येण्या यज्ञेनैवेड्यान् प्रीणात्यन्वाहार्येण सपर्येण्याँस्तस्योभये प्रीता यज्ञे भवन्ति प्रजापतेभागोऽस्यूर्जस्वान् पयस्वानक्षितोऽस्यक्षित्यै त्वाक्षितो नामासि मा मे क्षेष्ठाः प्राणापानौ मे पाहि समानव्यानौ मे पाह्युदानरूपे मे पाह्यूर्गस्यूर्जं मयि धेह्या मा गम्या इति प्रजापतिमेव समक्षमृध्नोति ॥ १३ ॥

पुनराधेय आधीयते देवानां ज्योतिषा सह । अग्ने सहस्रमाभर रूपं रूपं वयो वयः ।। यत्ते मन्युपरोप्तस्य पृथिवीमनुदध्वसे । आदित्या विश्वे तद्देवा वसवः पुनराभरन् ।। यत्ते क्रुद्धः परोवप मन्युना यदवर्त्या । सुकल्पमग्ने तत् तव पुनस्त्वोद्दीपयामसि ॥ पुनस्त्वादित्या रुद्रा वसवस्समिन्धतां पुनर्ब्रह्माणो वसुधीतमग्ने ।
इहैव धेह्यधि दक्षमुग्रमश्वावद्गोमद्यवमत् सुवीर्यम् ॥
पुनस्त्वा मित्रावरुणौ पुनरिन्द्रः पुनर्भगः ।।
पुनस्त्वा विश्वे देवा ब्राह्मणा उददीदिपन् ।
पुनरूर्जा निवर्तस्व पुनरग्न इषायुषा । पुनर्नः पाह्यँहसः ॥
सह रय्या निवर्तस्वाग्ने पिन्वस्व धारया । विश्वप्स्न्या विश्वतस्परि ।। केतस्सुकेतस्सकेतस्ते न आदित्या जुषाणा अस्य हविषो व्यन्तु स्वाहा सलिलस्सलिगस्सगरस्ते न आदित्या जुषाणा अस्य हविषो व्यन्तु स्वाहा दिवो ज्योते विवस्व आदित्य ते नो देवा देवेषु सत्यां देवहूतिमासुवध्वमादित्येभ्यस्स्वाहा ।। १४ ॥

अग्नेर्वै भागः पुनराधेयं तं भागं प्रेप्सन् व्यर्धयति यद्याधाय मन्येत व्यृध्यतेऽस्या इति पुनरादधीत यं भागं प्रेप्सन् व्यर्धयति तं प्राप्यार्धयत्येव सर्वमाग्नेयं क्रियते यत् किंच सर्वमग्नये भागं प्रादात् सर्वामृद्धिमृध्नोति न संभृत्यास्संभारा इत्याहुर्न यजुष्कार्यमिति संभृतसंभारो ह्येष कृतयजुस्तत् तन्न सूर्यँष्रा संभृत्या एव संभाराः कार्यं यजुः पुनरुत्स्यूतं वासो देयं पुनरुत्सृष्टोऽनड्वान् पुनर्निष्कृतो रथएतानि वै पुनराधेयस्य रूपाणि रूपैरेवैनत् समर्धयत्यग्निर्वा उत्सीदन्नप ओषधीरनूत्सीदत्याप एता ओषधयो यद्दर्भा यद्दर्भा उपोलपा भवन्त्यद्भ्य एवैनमोषधीभ्योऽध्यवरुन्द्धे । देवाश्च वा असुराश्च संयत्ता आसँस्ते देवा विजयमुपयन्तोऽग्नौ प्रियास्तन्वस्संन्यदधत यदि जयेमेमा उपावर्तेमहि यदि नो जयेयुरिमा अभ्युपधावेमेति तेऽभिजित्यान्वैच्छन् सर्वेषां नस्सहेति सोऽग्निरब्रवीद्यो मा मद्देवत्यमादधातै स एताभिस्तनूभिस्संभवादिति तं देवा आदधत त एताभिस्तनूभिस्समभवन्नेताभिरेव तनूभिस्संभवति य एवं विद्वानेतमाधत्ते त्वष्टा पशुकाम आधत्त त इमे त्वाष्ट्राः पशवस्तेनर्द्धा मनुः पुष्टिकाम आधत्त स इमान् पोषानपुष्यत्तेनर्द्धाः प्रजापतिः प्रजाकाम आधत्त ता इमाः प्राजापत्याः प्रजाः प्राजायन्त तेनर्द्धा यो वै तमाधत्त स तेन वसुना समभवत् तस्मात् पुनर्वसुस्तस्मात् पुनर्वसा आधेय आर्ध्नोद्वै स यस्तमाधत्त तस्मादनुराधास्तस्मादनुराधेष्वाधेयः ॥ १५ ॥

घर्मं न सामन्तपता सुवृक्तिभिर्जुष्टं गिर्वणसे बृहत् ।।
आमासु पक्वमैरय आ सूर्यं रोहयो दिवि ।।
आ यस्मिन् सप्त वासवा रोहन्ति पूर्व्यारुहः ।।
ऋषिर्ह दीर्घश्रुत्तम ईन्द्रस्य घर्मो अतिथिः ॥
इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु । इन्द्र तानि त आवृणे ।।
अनु ते दायि मह इन्द्रियाय सत्र ते विश्वमनु वृत्रहत्ये ।
अनु क्षत्रमनु सहो यजतेन्द्र देवेभिरनु ते नृषह्ये ।।
इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः । इन्द्रं वाणीरनूषत ।।
एवेदिन्द्रं वृषणं वज्रबाहुं वसिष्ठासो अभ्यर्चन्त्यर्कैः ।
स नस्स्तुतो वीरवद्धातु गोमद्यूयं पात स्वस्तिभिस्सदा नः ।।
सं यत्त इन्द्र मन्यवस्सं चक्राणि दधन्विरे । अध त्वे अध सूर्ये ।।
आ ते मह इन्द्रोत्युग्र संमन्यवो यत् समरन्त सेनाः ।
पताति दिद्युन्नर्यस्य बाह्वोर्मा ते मनो विष्वद्र्यग्विचारीत् ।।
स्थिरं मनश्चकृषे जात इन्द्र वेषीदेको युधये भूयसश्चित् ।।
अश्मानं चिच्छवसा दिद्युतो वि विदो गवामूर्वमुस्रियाणाम् ।।
यो जात एवं प्रथमो मनस्वान् देवो देवान् क्रतुना पर्यभूषत् ।
यस्य शुष्माद्रोदसी अभ्यसेतां नृम्णस्य मह्ना स जनास इन्द्रः ।।
इन्द्रस्सुत्रामा स्ववाँ अवोभिस्सुमृडीको भवतु विश्ववेदाः ।।
बाधतां द्वेषो अभयं कृणोतु सुवीर्यस्य पतयस्स्याम ।।
तस्य वयँ सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ।।
स सुत्रामा स्चवाँ इन्द्रो अस्मे आराच्चिद् द्वेषस्सनुतर्युयोतु ।।
अँहोमुचे प्रभरेमा मनीषां भूयिष्ठदाव्ने सुमतिमावृणानाः ।।
इदमिन्द्र प्रति हव्यं जुषस्व सत्यास्सन्तु यजमानस्य कामाः ।
विवेष यन्मा धिषणा जजान स्तवै पुरा पार्यादिन्द्रमह्नः ।
अँहसो यत्र पीपरद्यथा नो नावेव यान्तमुभये हवन्ते ।।
अनवस्ते रथमश्वाय तक्षन् त्वष्टा वज्रं पुरुहूत द्युमन्तम् ।
ब्रह्माण इन्द्रं महयन्तो अर्कैरवर्धयन्नहये हन्तवा उ ॥
वृष्णे यत् ते वृषणो अर्कमर्चानिन्द्र ग्रावाणो अदितिस्सजोषाः ।
अनश्वासो ये पवयोऽरथा इन्द्रेषिता अभ्यवर्तन्त दस्यून् ।
अनु त्वाहिघ्ने अध देव देवा मदन्विश्वे कवितमं कवीनाम् ।
करो यत्र वरिवो बाधिताय दिवे जनाय तन्वे गृणानः ।।
अनु द्यावापृथिवी तत् त ओजोऽमर्त्या जिहत इन्द्र देवाः ।।
कृष्वा कृत्नो अकृत यत् ते अस्त्युक्थं नवीयो जनयस्व यज्ञैः ।।
अभि प्रभर धृषता धृषन्मनश्श्रवाश्चित्ते असद्बृहत् ।।
अर्षन्त्वापो जवसा वि मातरो हेनो वृत्रं जया स्वः ।।
अस्मा इदु प्रभरा तूतुजानो वृत्राय वज्रमीशानः कियेधाः ।
गोर्न पर्व विरदा तिरश्चेष्यन्नर्णाँस्यपां चरध्यै ॥
उत बुवन्तु जन्तव उदग्निर्वृत्रहाजनि । धनंजयो रणे रणे ।।
ममाग्ने वर्चः ।।
इन्द्र क्षत्रमभि वाममोजोऽजायथा वृषभ चर्षणीनाम् ।।
अपानुदो जनममित्रयन्तमुरुं देवेभ्यो अकृणोरु लोकम् ।।
मृगो न भीमः कुचरो गिरिष्ठाः परावत आजगन्था परस्याः ।
सृकँ सँशाय पविमिन्द्र तिग्मं वि शत्रून् ताढि वि मृधो नुदस्व ॥ १६ ।।

रेवतीर्नस्सधमाद इन्द्रे सन्तु तुविवाजाः । क्षुमन्तो याभिर्मदेम ।।
ता अस्य नमसा सहस्सपर्यन्ति प्रचेतसः ।।
व्रतान्यस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीरनु स्वराज्यम् ।।
इन्द्राणी पत्या सुजितं जिगायोदँशेन पतिविद्ये बिभेद ।।
त्रिँशद्यस्या जघनं योजनान्युपस्थ इन्द्रँ स्थविरं बिभर्ति ।।
सेना ह नाम पृथिवी धनंजया विश्वव्यचा अदितिस्सूर्यत्वक् ।
इन्द्राणी प्रासहा संजयन्ती मयि पुष्टिं पुष्टिपत्नी दधातु ।।
इन्द्राणीमासु नारिषु सुपत्नीमहमश्रवम् ।।
नह्यस्या अपरं चन जरसा मरते पतिर्विश्वस्मादिन्द्र उत्तरः ।।
नाहमिन्द्राणि रारण सख्युर्वृषाकपेर्ऋते ।
यस्येदमप्यँ हविः प्रियं देवेषु गच्छति विश्वस्मादिन्द्र उत्तरः ।।
प्राच्यां दिशि त्वमिन्द्रासि राजोतोदीच्यां वृत्रहन् वृत्रहासि ।
यत्र यन्ति स्रवत्यस्तज्जितं ते दक्षिणतो वृषभ हव्य एधि ।।।
अस्येदेव प्ररिरिचे महित्वं दिवः पृथिव्याः पर्यन्तरिक्षात् ।
स्वराडिन्द्रो दम आ विश्वगूर्तस्वरिरमत्रो ववक्षे रणाय ।।
त्वमिन्द्रास्यधिराजस्त्वं भवाधिपतिर्जनानाम् ।
दैवीर्विशस्त्वमुता विराजौजस्वत् क्षत्रमजरं ते अस्तु ।।
हिरण्यगर्भो यः प्राणतः ।।
सोमापूषणा जनना रयीणां जनना दिवो जनना पृथिव्याः ।
जातौ विश्वस्य भुवनस्य गोपौ देवा अकृण्वन्नमृतस्य नाभिम् ।।
इमौ देवौ जायमानौ जुषन्तेमौ तमाँसि गूहतामजुष्टा ।
आभ्यामिन्द्रः पक्वमामास्वन्तस्सोमापूषभ्यां जनदुस्रियासु ।।।
प्रिया वो नाम हुवे तुराणाम् । आ यत् तृपन्मरुतो वावशानाः ।।
श्रियसे कं भानुभिस्संमिमिक्षिरे ते रश्मिभिस्त ऋक्वभिस्सुखादयः ।
ते वाशीमन्त इष्मिणो अभीरवो विद्रे प्रियस्य मरुतस्य धाम्नः ॥
इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः । अस्मकमस्तु केवलः ॥
आ नो विश्वाभिरूतिभिस्सजोषा ब्रह्म जुषाणो हर्यश्व याहि ।।
वरीवृजत्स्थविरेभिस्सुशिप्रास्मे दधद्वृषणँ शुष्ममिन्द्र ।।
मरुतो यद्ध वो दिवस्सुम्नायन्तो हवामहे । आ तू न उपगन्तन ।
यूयमस्मान्नयत वस्यो अच्छा निरँहतिभ्यो मरुतो गृणानाः ।।
जुषध्वं नो हव्यदातिं यजत्रा वयँ स्याम पतयो रयीणाम् ।।
स युध्मस्सत्वा खजकृत् समद्वा तुविम्रक्षो नदनुमाँ ऋजीषी ।
बृहद्रेणुश्च्यवनो मानुषीणामेकः कृष्टीनामभवत् सहावा ।।
सं यद्धनन्त मन्युभिर्जनासश्शूरा यह्वीष्वोषधीषु विक्षु ।।
अध स्मा नो मरुतो रुद्रियासस्त्रातारो भूत पृतनास्वर्यः ।
एन्द्र सानसिं रयिं सजित्वानँ सदासहम् । वर्षिष्ठमूतये भर ॥
स्वस्तये वाजिभिश्च प्रणेतस्सं यन्महीरिष आसत्सि पूर्वीः ।
रायो वन्तारो बृहतस्स्यामास्मे अस्तु भग इन्द्र प्रजावान् ।
या वश्शर्म शशमानाय सन्ति त्रिधातूनि दाशुषे यच्छताधि ।
अस्मभ्यं तानि मरुतो वियन्त रयिं नो धत्त वृषणस्सुवीरम् ।। १७ ।। [६४१]


इति श्रीयजुषि काठके चरकशाखायामिठिमिकायां दिशस्थानकं नामाष्टमं स्थानकं संपूर्णम् ॥८॥