प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← स्थानकं ८ काठकसंहिता (विस्वरः)
स्थानकम् ०९
[[लेखकः :|]]
स्थानकं १० →
उत्सीदनम्।

अथ नवमं स्थानकम् ।

उत्सीदनम् ।
अग्निर्वा उत्सीदन् संवत्सरमनूत्सीदति सप्तदश सामिधेनीः कार्यास्सप्तदशो वै संवत्सरः पञ्चर्तवो द्वादश मासा एष वाव स संवत्सरस्संवत्सरादेवैनमध्यवरुन्द्धे तदाहुः पञ्चदशैव कार्या न सप्तदशेत्येतद्धि संवत्सरस्य संक्रमणतरं यत् पञ्चदश पञ्चदश सामिधेनीरनूच्यन्ते पञ्चदशार्धमासस्य रात्रयस्ताभिरेव ता आप्यन्ते यावन्ति वै सामिधेनीनामक्षराणि तावन्ति संवत्सरस्याहानि तैरेव तान्याप्यन्तेऽग्निर्वा उत्सीदन् संवत्सरमनूत्सीदति षड्वा ऋतवस्संवत्सरो यत् षड् विभक्तयस्संवत्सरादेवैनमध्यवरुन्द्धे ॥ संवत्सरो वा अग्निर्वैश्वानरष्षडृतवस्तस्मात् षड् विभक्तयो यद् द्व्यक्षरास्सतीश्चतुरक्षराः क्रियन्त आचतुरं हीमे पशवो द्वन्द्वं मिथुनास्ते वीर्यकृतो यद्वा इदमग्निं बहुधा विहरन्ति यदिमान् पोषान् पुपोष तस्मादग्निरेवैतावतीर्विभक्तीरश्नुते नान्या देवता यज्ञमुखं वै प्रयाजा यत् प्रयाजानन्तरियाद्यज्ञमुखमन्तरियादन्नं वै प्रयाजा यत् प्रयाजानन्तरियादन्नमन्तरियाद्यं कामयेतर्ध्नुयादिति तस्योपरिष्टात् प्रजानां विभक्तीः कुर्याद्वीर्यं वै प्रयाजा वीर्यं विभक्तयो वीर्यादेवाधि वषट्करोत्यजिरमृद्धिमभिक्रामति ।। नानाग्नेयं क्रियत इत्याहुः कस्मात् सविभक्तयः प्रयाजा भवन्तीति संवत्सर वा एते परीज्यन्ते यत् प्रयाजास्तेनाग्नेयं तेन नानाग्नेयं क्रियते ।। पुनरूर्जा निवर्तस्व पुनरग्न इषायुषा पुनर्नः पाह्यँहस इति पुरस्तात् प्रयाजानां जुहुयात् सह रय्या निवर्तस्वाग्ने पिन्वस्व धारया विश्वप्स्न्या विश्वतस्परीत्युपरिष्टादनुयाजानां जुहुयादूर्जा वा एष पशुभिरुत्सीदन् सहोत्सीदति पुनरेवोर्जं पशूनवरुन्द्धेऽथो उभयत एव यज्ञस्याशिषर्ध्नोति ॥ १ ॥

नानाग्नेयं क्रियत इत्याहुः कस्मादाज्यभागौ यजन्तीति चक्षुषी वा एते यज्ञस्य यदाज्यभागौ यदाज्यभागा अन्तरियाच्चक्षुषी यज्ञस्यान्तरियादग्न आयूँषि पवस इत्येताँ सोमस्याज्यभागस्य लोके कुर्याद्यदाग्नेयं तेनाग्नेयी यत् पावमानं तेन सौमी नानाग्नेयं क्रियते न सोममन्तरेत्यग्निर्मूर्धा दिवः ककुदित्येताँ सोमस्याज्यभागस्य लोके कुर्यात् प्रजाकामस्य वा पशुकामस्य वा यन्मिथुना तेन प्रजननवती यद्रेतस्वती तेन सौमी नानाग्नेयं क्रियते न सोममन्तरेति ।। वीरहा वा एष देवानां योऽग्निमुत्सादयते शतदायो वीरो यदेताश्शताक्षरा अक्षरपङ्क्तयो वीरमेवैतद्देवानामवदयतेऽन्यस्यै वै प्रमाया आधेयोऽन्यस्यै पुनराधेयो न वै तामाधेयेन स्पृणोति यस्यै पुनराधेयः पुनराधेयेन वाव ताँ स्पृणोति जरा वै देवहितमायुस्तावतीर्हि समा जीवति तस्मादाहुश्शतदायो वीर इति यदेताश्शताक्षरा अक्षरपङ्क्तयो भवन्ति यावदेव वीर्यं तदाप्नोति तत् स्पृणोत्यायुषा वा एष वीर्येण व्यृध्यते योऽग्निमुत्सादयते शतायुर्वै पुरुषश्शतवीर्य आयुर्वीर्यं हिरण्यं यद्धिरण्यँ शतमानं ददात्यायुरेव वीर्यं पुनरालभेत ।। २ ।।

यज्ञेन वा एष व्यृध्यते योऽग्निमुत्सादयते पाङ्क्तो यज्ञो यत् पञ्चकपालो यज्ञमेवालभते तदाहुरष्टकपाल एव कार्यो न पञ्चकपाल इत्यष्टाक्षरा गायत्री गायत्रोऽग्निर्गायत्रच्छन्दा आग्नेयमेतत् क्रियते यत् पुनराधेयं तस्मादष्टाकपालस्तत् तन्न सूर्क्ष्यं पञ्चकपाल एव कार्योऽग्निर्वा उन्सीदन् संवत्सरमनूत्सीदति पञ्च वा ऋतवस्संवत्सरः पञ्चथाद्वा अध्यृतोष्षष्ट ऋतुर्बभूव। समानमेतद्यत् पञ्चथश्चर्तुष्षष्टश्च यत् पञ्चकपालस्संवत्सरादेवैनमध्यवरुन्द्धे पञ्च वा ऋतवः प्रजननमृतवो यत् पञ्चकपालः प्रजननाय प्रजननं वा ऋतवोऽग्निः प्रजनयिता यत् पञ्चकपालः प्रजननादेवैनं प्रजनयिता प्रजनयत्यादित्या वा इतस्सर्वेणैव सहामुं लोकमायँस्तेऽमुं लोकं गत्वा व्यतृष्यँस्तेऽविदुरमुतः प्रदानाद्वा इहाजगामेति त एतं पुनरादधत तेनार्ध्नुवन्नादित्या वा अस्मिंल्लोक ऋद्धा आदित्या अमुष्मिन् पशवोऽस्मिनृतवोऽमुष्मिन्नुभयोरेव लोकयोर्ऋध्नोति य एवं विद्वानेतमाधत्ते केतस्सुकेतस्सकेतस्ते न आदित्या जुषाणा अस्य हविषो व्यन्तु स्वाहा सलिलस्सलिगस्सगरस्ते न आदित्या जुषाणा अस्य हविषो व्यन्तु स्वाहा दिवो ज्योतिर्विवस्व आदित्य ते नो देवी देवेषु सत्यां देवहूतिमासुवध्वमादित्येभ्यस्स्वाहेत्येतैर्वै ते तमादधत तेनार्ध्नुवन् यदा वा एतैराधत्तेऽथाहित आदित्यो हि पुनराधेयः ॥ ३ ॥

आग्नेयोऽष्टाकपालस्सौम्यश्चरुस्सावित्रो द्वादशकपालस्सारस्वतश्चरुः पौष्णश्चरुर्मारुतस्सप्तकपालो वैश्वदेव्यामिक्षा द्यावापृथिव्य एककपाल आग्नेयोऽष्टाकपालस्सौम्यश्चरुस्सावित्रोऽष्टाकपालस्सारस्वतश्चरुः पौष्णश्चरुरैन्द्राग्नो द्वादशकपालो मारुत्यामिक्षा वारुण्यामिक्षा काय एककपालो नमस्त आतानानर्वा प्रेहि घृतस्य कुल्यामनु सह प्रजया सह रायस्पोषेण ।।
प्रघास्यान् हवामहे मरुतो यज्ञवाहसः । करम्भेण सजोषसः ।।
मो षू ण इन्द्रात्र पृत्सु देवा अस्तु स्म ते शुष्मिन्नवयाः ।।
मही देवस्य मीढुषोऽवया हविष्मतो मरुतो वन्दते गीः ।।
यद्ग्रामे यदरण्ये यत् सभायां यदिन्द्रिये । यदेनश्चकृमा वयं यदप्सश्चकृमा वयम् ।
यदेकस्यापि धर्मण्येतत् तदवयजामहे । स्वाहा ।।
अक्रन् कर्म कर्मकृतस्सह वाचा मयोभुवा । देवेभ्यः कर्म कृत्वास्तं प्रेत सुदानवः॥४॥

अग्नयेऽनीकवते प्रातरष्टाकपालो मरुद्भ्यस्सांतपनेभ्यो मध्यंदिने चरुर्मरुद्भ्यो गृहमेधेभ्यस्सर्वासां दुग्धे सायमोदनो निष्काषो निधीयते संतत्यै ॥
पूर्णा दर्वे परापत सुपूर्णा पुनरापत । वस्न इव विक्रीणावहा इषमूर्जँ शतक्रतो ।।
देहि मे ददामि ते नि मे धेहि नि ते दधे । निहारमिन्नि मे हर निहारं निहरामि ते ।।
अपामित्यमिव संभरेषमूर्जँ शतक्रतो ।।
मरुद्भ्यः क्रीडिभ्यः प्रातस्सप्तकपालस्साकँ सूर्यस्य रश्मिभिराग्नेयोऽष्टाकपालस्सौम्यश्चरुस्सावित्रोऽष्टाकपालस्सारस्वतश्चरुः पौष्णश्चरुरैन्द्राग्न एकादशकपाल ऐन्द्रश्चरुर्वैश्वकर्मण एककपालोऽग्ने वेर्होत्रं वेर्दूत्यमूर्ध्वोऽध्वरेऽस्था अवतां त्वा द्यावापृथिवी अव त्वं द्यावापृथिवी स्विष्टकृदिन्द्राय देवेभ्यो भव जुषाणो अस्य हविषो घृतस्य वीहि स्वाहा ।। ५ ।।

सोमाय पितृमत आज्यं पितृभ्यो बर्हिषद्भ्यष्षट्कपालः पुरोडाशः पितृभ्योऽग्निष्वात्तेभ्यो धाना अग्नये कव्यवाहनाय मन्थ एतत् ते तत ये च त्वान्वेतत् ते पितामह ये च त्वान्वेतत् ते प्रपितामह ये च त्वान्वत्र पितरो मादयध्वम् ।।
सुसंदृशं त्वा वयं मघवन् मन्दिषीमहि ।
प्र नूनं पूर्णवन्धुर स्तुतो यासि वशाँ अनु योजा न्विन्द्र ते हरी ।।
परेत पितरस्सोम्यासो गम्भीरेभिः पथिभिः पूर्विणेभिः ।।
दत्त्वायास्मभ्यं द्रविणेह भद्रं रयिं च नस्सर्ववीरं नियच्छत ।।
अमीमदन्त पितरः ।।
अया विष्ठा जनयन् कर्वराणि स हि घृणिरुरुर्वराय गातुः ।
स प्रत्युदैद्धरुणं मध्वो अग्रँ स्वा यत् तनू तन्वमैरयत ।।
अक्षन्नमीमदन्त ह्यव प्रिया अधूषत ।।
अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्विन्द्र ते हरी ।।
नमो वः पितरो मन्यवे नमो वः पितरश्शुष्माय नमो वः पितरो जीवाय नमो वः पितरो रसाय नमो वः पितरः क्रूराय नमो वः पितरो बलाय नमो नमो वः पितरस्स्वधा वः पितरो यात्र पितरस्स्वधा यत्र यूयँ स्थ सा युष्मासु तया यूयं यथाभागं मादयध्वं येह पितर ऊर्ग्यत्र वयँ स्मस्सास्मासु तस्यै वयं ज्योग्जीवन्तो भूयास्म ।।।
मनो न्वाहुवामहे नाराशँसेन स्तोमेन । पितॄणां च मन्मभिः ।।
आ न एतु मनः पुनः क्रत्वे दक्षाय जीवसे । ज्योक्च सूर्यं दृशे ।।
पुनर्नः पितरो मनो ददातु दैव्यो जनः । जीवं व्रातँ सचेमहि ॥
आ ते अग्न इधीमहि द्युमन्तं देवाजरम् । यद्ध स्या ते पनीयसी समिद्दीदयति द्यवि ।
इषँ स्तोतृभ्य आभर ॥
यदन्तरिक्षं पृथिवीमुत द्यां यत् पितरं मातरं वा जिहिँसिम् ।।
अग्निर्नस्तस्मादेनसो गार्हपत्यः प्रमुञ्चतु चकृम यानि दुष्कृता ।। ६ ।।

रुद्राखुं ते पशुं करोमि तेन त्वा पशुभ्यो निरवदय एष ते रुद्र भागस्सह स्वस्राम्बिकया तं जुषस्व स्वाहा ।।
अवाम्ब रुद्रमदिमह्यव देवं त्र्यम्बकम् ।
यथा नो वस्यसस्करद्यथा नश्श्रेयसस्करद्यथा नो व्यवसाययात् ॥
भेषजं गवेऽश्वाय पुरुषाय सुगं मेषाय मेष्यै ।।
अथो अस्मभ्यं भेषजं सुभेषजं यथासति ।।
त्र्यम्बकं यजामहे सुगन्धिं रयिपोषणम् ।।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ।।
भगस्स्थ भगस्य वो लप्सीयैष ते रुद्र भागस्तेनावसेन परो मूजवतोऽतीहि कृत्तिवासाः पिनाकहस्तोऽवततधन्वा । एधोऽस्येधिषीमहि समिदसि समेधिषीमहि तेजोऽसि तेजो मयि धेहि ।। ७ ।।

चित्तिस्स्रुक् चित्तमाज्यं वाग्वेदिराधीतं बर्हिः केतो अग्निर्विज्ञातमग्निद्वाचस्पतिर्होता मन उपवक्ता प्राणो हविस्सामाध्वर्युरिन्द्रं गच्छ स्वाहा पृथिवी होता द्यौरध्वर्युस्त्वष्टाग्निन्मित्र उपवक्ता वाचस्पते वाचो वीर्येण संभृततमेनायक्षसे यज्ञपतये वार्यमा स्वस्करो वाचस्पतिस्सोमं पिबतु जजनदिन्द्रमिन्द्रियाय स्वाहा सोमस्सोमस्य पुरोगाश्शुक्रश्शुक्रस्य पुरोगाश्श्रातस्त इन्द्र सोमा वातापे हवनश्रुतस्स्वाहाग्निर्होताश्विनाध्वर्यू रुद्रोऽग्निद्बृहस्पतिरुपवक्ता वाचस्पते हृद्विधे नामन् वाचस्पतिस्सोममपादास्मासु नृम्णं धात् स्वाहा सोमस्सोमस्य पुरोगाश्शुक्रश्शुक्रस्य पुरोगाश्श्रातास्त इन्द्र सोमा वातापे हवनश्रुतस्स्वाहा ।। ८ ।।

देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामि वरुणस्त्वा नयतु देवि दक्षिणे यमायाश्वं तेनामृतत्वमशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामि वरुणस्त्वा नयतु देवि दक्षिणेऽग्नये हिरण्यं तेनामृतत्वमशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामि वरुणस्त्वा नयतु देवि दक्षिणे रुद्राय गां तेनामृतत्वमशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे ।। देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामि ग्नास्त्वाकृन्तन्नपसोऽतन्वत वरुत्रीरवयन् वरुणस्त्वा नयतु देवि दक्षिणे बृहस्पतये वासस्तेनामृतत्वमशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामि वरुणस्त्वा नयतु देवि दक्षिण उत्तानायाङ्गिरसायाप्राणत् तेनामृतत्वमशीय वयो दात्रे भूयन्मयो मह्यं प्रतिग्रहीत्रे देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामि वरुणस्त्वश्वा नयतु देवि दक्षिणे प्रजापतये पुरुषं तेनामृतत्वमशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे क इदं कस्मा अदात् कामः कामाय कामो दाता कामः प्रतिग्रहीता कामस्समुद्रमाविशत् कामेन त्वा प्रतिगृह्णामि कामैतत् ते महाहविर्होता सत्यहविरध्वर्युरचित्तपाजा अग्निदचित्तमना उपवक्तानाधृष्यश्चाप्रतिधृष्यश्चाभिगरा अयास्य उद्गाता वाचस्पते विधे नामन् विधेम ते नाम विधेस्त्वमस्माकं नाम मा देवानां तन्तुश्छेदि मा मनुष्याणाम् ।। ९ ।।

अग्निर्यजुर्भिस्सविता स्तोमैरिन्द्र उक्थामदैर्बृहस्पतिश्छन्दोभिर्विष्णुर्दीक्षातपोभ्यामदितिस्सदोहविर्धानाभ्यामादित्या आज्यैर्मित्रावरुणौ धिष्ण्येभिरग्निभिर्मरुतोऽपश्च बर्हिश्च त्वष्टा समिधाश्विना आशिरा पूषा स्वगाकारैः पृथिव्यग्नेर्वाग्वातस्य सेनेन्द्रस्य धेना बृहस्पतेः पथ्या पूष्णो गायत्री वसूनां त्रिष्टुब्रुद्राणां जगत्यादित्यानामनुष्टुम्मित्रस्य विराड्वरुणस्य पङक्तिर्विष्णोर्दीक्षा सोमस्य ॥ १० ॥

प्रजापतिरकामयत स्यात् प्रजायेयेति स दशधात्मानं व्यधत्त तस्य चित्तिस्स्रुगासीच्चित्तमाज्यं वाग्वेदिराधीतं बर्हिः केतो अग्निर्विज्ञातमग्निद्वाचस्पतिर्होता मन उपवक्ता प्राणो हविस्सामाध्वर्युस्स दशधात्मानं विधाय मिथुनं कृत्वा स आयतनमैच्छत् स त्रिवृतमेवायतनमचायत प्राणाँस्ततः प्रजा असृजत तत ऊर्ध्वोऽन्य उदतृणत् पञ्चदशोऽवाङ्न्योऽवातृणत् पञ्चदशो य ऊर्ध्व उदतृणत् स पूर्वपक्षस्तेन देवानसृजत तमूर्ध्वमाप्यायमानं देवा ऊर्ध्वा अन्वाप्यायन्त योऽवाङवातृणत् सोऽपरपक्षस्तेनासुरानसृजत तमपध्वँसमानमसुरा अवाञ्चोऽनुप्राध्वँसन्त दक्षिणँ हस्तमनु देवानसृजत ते वीर्यावन्तोऽभवन् सव्यँ हस्तमन्वसुराँस्ते मृद्धा अभवँस्तस्माद्दक्षिणोऽर्ध आत्मनो वीर्यावत्तरस्सत्येन देवानसृजत ते सत्यमभवन्ननृतेनासुराँस्तेऽनृतमभवन्नह्ना देवानसृजत ते शुक्लं बर्णमपुष्यन् रात्र्यासुराँस्ते कृष्णा अभवन् स वै तदेवैच्छद्यस्मिन् होष्यामीति स इन्द्रमेव वीर्यमन्तरात्मन्नपश्यत् सर्वमन्यजातमासीत् स इन्द्रं गच्छ स्वाहेत्यपानीद्वीर्यं वै प्राणो वीर्यमिन्द्रो वीर्य एव वीर्यमादधात् ते चतुर्होत्रा सोमगृहपतयो न्यसीदन्निन्द्रं जनयामेति तेषां पृथिवी होतासीद् द्यौरध्वर्युस्त्वष्टाग्निन्मित्र उपवक्ता त एतौ ग्रहा अगृह्णत त आयतनमैच्छँस्त एकविंशमेवायतनमचायँस्त इन्द्रमजनयँस्ते पञ्चहोत्रा वरुणगृहपतयो न्यसीदन् स्वरयामेति तेषामग्निर्होतासीदश्विनाध्वर्यू यदश्विना तेन पञ्चहोत्रा रुद्रोऽग्निद्बृहस्पतिरुपवक्ता त एतौ ग्रहा अगृह्णत त आयतनमैच्छँस्ते त्रिणवमेवायतनमचायँस्ते स्वरायँस्तँ सेतुं कृत्वा तत् पशवोऽसृज्यन्त तान् देवताभ्योऽनयन् यमायाश्वमग्नये हिरण्यं रुद्राय गां बृहस्पतये वास उत्तानायाङ्गिरसायाप्राणत् प्रजापतये पुरुषम् ॥ ११ ॥

तस्य यमस्याश्वं प्रतिजगृहुषोऽर्धमिन्द्रियस्यापाक्रामत् स एतेन प्रत्यगृह्णात् सोऽर्धमिन्द्रियस्योपाधत्त य एतद्विद्वानश्वं प्रतिगृह्णात्यर्धमिन्द्रियस्योपधत्ते य एतदविद्वान् प्रतिगृह्णात्यर्धमस्येन्द्रियस्यपक्रामति तस्याग्नेर्हिरण्यं प्रतिजगृहुषस्तृतीयमिन्द्रियस्यापाक्रामत् स एतेन प्रत्यगृह्णात् स तृतीयमिन्द्रियस्योपाधत्त य एतद्विद्वान् हिरण्यं प्रतिगृह्णाति तृतीयमिन्द्रियस्योपधत्ते य एतदविद्वान् प्रतिगृह्णाति तृतीयमस्येन्द्रियस्यापक्रामति तस्य रुद्रस्य गां प्रतिजगृहुषश्चतुर्थमिन्द्रियस्यापाक्रामत् स एतेन प्रत्यगृह्णात् स चतुर्थमिन्द्रियस्योपाधत्त य एतद्विद्वान् गां प्रतिगृह्णाति चतुर्थमिन्द्रियस्यपधत्ते य एतदविद्वान् प्रतिगृह्णाति चतुर्थमस्येन्द्रियस्योपक्रामति ।। तस्य बृहस्पतेर्वासः प्रतिजगृहुषः पञ्चममिन्द्रियस्यापाक्रामत् स एतेन प्रत्यगृह्णात् स पञ्चममिन्द्रियस्योपाधत्त य एतद्विद्वान् वासः प्रतिगृह्णाति पञ्चममिन्द्रियस्योपधत्ते य एतदविद्वान् प्रतिगृह्णाति पञ्चममस्येन्द्रियस्यापक्रामति तस्योत्तानस्याङ्गिरसस्याप्राणत् प्रतिजगृहुषः षष्ठमिन्द्रियस्यापाक्रामत् स एतेन प्रत्यगृह्णात् स षष्ठमिन्द्रियस्योपाधत्त य एतद्विद्वानप्राणत् प्रतिगृह्णाति षष्ठमिन्द्रियस्योपधत्ते य एतदविद्वान् प्रतिगृह्णाति षष्ठमस्येन्द्रियस्यापक्रामति तस्य प्रजापतेः पुरुषं प्रतिजगृहुषस्सप्तममिन्द्रियस्यापाक्रामत् स एतेन प्रत्यगृह्णात् स सप्तममिन्द्रियस्योपाधत्त य एतद्विद्वान् पुरुषं प्रतिगृह्णाति सप्तममिन्द्रियस्योपधत्ते य एतदविद्वान् प्रतिगृह्णाति सप्तममस्येन्द्रियस्योपक्रामति ।। क इदं कस्मा अदात् कामः कामायेति कामो हि दाता कामः प्रतिग्रहीता कामसमुद्रमाविशदिति समुद्र इव हि कामोऽपरिमितः कामेन त्वा प्रतिगृह्णामि कामैतत् त इति कामेनैव प्रतिगृह्णाति कामे प्रतिष्ठापयति न ह वै तस्मिन्नमुष्मिँल्लोके दक्षिणामिच्छन्ति य एवं विद्वान् दक्षिणां प्रतिगृह्णाति यस्तं देवं वेद योऽग्रे दक्षिणा अनयत् प्र तावदाप्नोति यावद्दक्षिणानां नेत्रं य उ तान् वेद येभ्यस्स तदनयद्दक्षिणीयो भवति यस्तं प्रतिग्रहं वेद येन ते प्रत्यगृह्णन् वसीयान् भवति प्रतिगृह्य वसीयाँसो हि ते प्रतिगृह्याभवँस्ते देवास्स्वरित्वा व्यतृष्यँस्तेऽविदुरमुतः प्रदानाद्वा इहाजगामेति ।। ते ऋषीनब्रुवन्नतो नो यूयं प्रयच्छतेति सप्तहोतॄन् केनायतनेनेत्यत्रैव वेत्स्यथेति ते सप्तहोत्रार्यमगृहपतयो न्यसीदन् संतनवामेति तेषां महाहविर्होतासीत् सत्यहविरध्वर्युरचित्तपाजा अग्निदचित्तमना उपवक्तानाधृष्यश्चाप्रतिधृष्यश्चाभिगरा अयास्य उद्गाता त एतं ग्रहमगृह्णत त आयतनमैच्छँस्ते त्रयस्त्रिंशमेवायतनमचायँस्तेनेदं समतन्वँस्त्रयस्त्रिँशेन च ह वा इदँ सप्तहोत्रा च संततं यदिदं देवमनुष्या अन्योऽन्यस्मै प्रददति संततमस्मा अविच्छिन्नं प्रदीयते य एवं वेद ॥ १२ ॥

प्रजापतिर्दशहोता दर्शपूर्णमासौ चतुर्होता चातुर्मास्यानि पञ्चहोता सौम्योऽध्वरस्सप्तहोताग्निहोत्रं दशहोता दर्शपूर्णमासौ चतुर्होता पशुयज्ञष्षड्ढोता सौम्योऽध्वरस्सप्तहोता प्राणो दशहोता चक्षुश्चतुर्होता श्रोत्रं पञ्चहोता वाक्चात्मा च सप्तहोतायुषे कमग्निहोत्रँ हूयते सर्वमायुरेति य एवं वेद चक्षुषे कं पूर्णमा इज्यते न चक्षुषो गृहये य एवं वेद श्रोत्राय कममावस्येज्यते न श्रोत्रस्य गृहये य एवं वेद । वाचे चात्मने च कँ सौम्योऽध्वर इज्यते न वाचो नात्मनो गृहये य एवं वेद प्रजापतिर्दशहोतैकस्सन् भूयिष्ठभाग्व्याहृतीनामुतैकस्सन् बहुर्भवति य एवं वेद तेजसे कं पूर्णमा इज्यत आग्नेयो वै ब्राह्मणो गायत्रोऽग्निर्गायत्रच्छन्दास्स्वे एव देवते सप्रस्थे अकर्नास्यान्यो योगक्षेमस्येशे य एवं वेदायुषे कममावस्येज्यते सर्वमायुरेति य एवं वेद स्वर्गाय कॅँ सौम्योऽध्वर इज्यते स्वर्गमेव तेनैति ।। १३ ।।

यः प्रजया पशुभिरेव प्रभवेद्वरासीं परिधाय तप्तं पिबन् द्वादश रात्रीरधश्शयीत द्वादश्याः प्रातः प्राङुद्द्रुत्य दशहोतारं व्याचक्षीतामिथुनो हि वा एषोऽथ न प्रभवति प्रजापतिर्दशहोता दशधैवात्मानं विधाय मिथुनं कृत्वा प्र प्रजया प्र पशुभिर्जायते चतुर्होत्रा याजयेत् पुत्रकामं चतुर्होत्रा वै देवा इन्द्रमजनयन्निन्द्रियं पुत्रः पुत्रमेवास्मै जनयति न त्वेनमपरोऽनुजायते सर्वेण हीन्द्रियेण सर्वेण वीर्येण जायते वरो दक्षिणा वरो हि पुत्रश्चतुर्होत्रा याजयेद्राजानँ संग्रामे संयत्ते चतुर्होत्रा वै देवा इन्द्रमजनयन्यतरेषामिन्द्रो भवति ते संग्रामं जयन्तीन्द्रमेवास्मै जनयति जयति संग्रामं यत् तत्र विन्दते ततो दक्षिणा समृद्ध्यै पञ्चहोत्रा याजयेत् पशुकामं पञ्चहोत्रा वै देवाः पशूनसृजन्त सर्वानेवास्मै पशूञ्जनयति तस्यैताश्चतस्रो दक्षिणा अश्वो हिरण्यं गौर्वासस्सप्तहोत्रा याजयेद्यो यज्ञस्य सँस्थामनु पापीयान् स्याद्वि वा एष च्छिनत्ति यो यज्ञस्य सँस्थामनु पापीयान् भवति पराङेव संक्रामति सप्तहोत्रा वै देवास्स्वरायन् सप्तहोत्रेदँ समतन्वन् समेव तनोति न ततः पापीयान् भवति यादृक्तन्यजते यच्चतुर्होतॄननुसवनं तर्पयितव्यान् वेद तृप्यति प्रजया पशुभिरुपैनँ सोमपीथो नमति।। दशहोतारं व्याख्याय बहिष्पवमानेनोद्गायेत् प्रजापतिर्दशहोता प्रैव जनयति चतुर्होतारं व्याख्यायाज्यैरुद्गायेच्चतुहोत्रा वै देवा इन्द्रमजनयन्निन्द्रमेवास्मै जनयति सेन्द्रं तत् सवनं करोति पञ्चहोतारं व्याख्याय माध्यंदिनेन पवमानेनोद्गायेत् पञ्चहोत्रा वै देवा असुरान् प्राणुदन्त पञ्चहोत्रा पशूनसृजन्त भ्रातृव्यमेव पराणुद्य पशून् सृजते सप्तहोतारं व्याख्यायार्भवेण पवमानेनोद्गायेत् सप्तहोत्रा वै देवास्स्वरायन् सप्तहोत्रेदँ समतन्वन् समेव तनोति ।। दशहोतारँ सामिधेनीष्वनूच्यमानासु व्याचक्षीत प्रजापतिर्दशहोता प्रैव जनयति चतुर्होतारं प्रयाजानां पुरस्ताद्व्याचक्षीत चतुर्होत्रा वै देवा इन्द्रमजनयन्निन्द्रमेवास्मै जनयति सेन्द्रं यज्ञं करोति पञ्चहोतारँ हविषामवदीयमाने व्याचक्षीत पञ्चहोत्रा वै देवा असुरान् प्राणुदन्त पञ्चहोत्रा पशूनसृजन्त भ्रातृव्यमेव पराणुद्य पशून् सृजते सप्तहोतारमनुयाजानामुपरिष्टाद्व्याचक्षीत सप्तहोत्रा वै देवास्स्वरायन् सप्तहोत्रेदँ समतन्वन् समेव तनोति चतुर्होत्रा पूर्णमासे हवीँष्यासन्नान्यभिमृशेच्चतुर्होत्रा वै देवा इन्द्रमजनयन् प्रजननं पूर्णमाः प्रैव जनयति पञ्चहोत्रामावस्यायाँ हवीँष्यासन्नान्यभिमृशेत् पञ्चहोत्रा वै देवास्स्वरायन् स्वर्ग्यामावस्या स्वर्गस्यैवेष लोकस्य परिग्रहः ।। १४ ।।

अन्नं वै चतुर्होतारोऽन्नवान् भवति य एवं वेद यदेक एव चतुर्होतेत्याहुः कस्मात् सर्वे चतुर्होतार उच्यन्त इति चत्वारो वा एते यज्ञास्तेषां चत्वारो होतारस्तदेषां चतुर्होतृत्वँ संवत्सरं चतुर्णामेको नाश्नीयात् तदेषां व्रतमेषा वा अनाहिताग्नेरिष्टिर्यच्चतुर्होतारोऽन्नाद्यायैवैतां विदुस्तेजसे वीर्याय सर्पराज्ञ्या ऋग्भिर्दशमेऽहन्नुद्गातोद्गायेदियं वै सर्पराज्ञ्यन्नं चतुर्होतारोऽन्नमेवाप्त्वान्नमवरुन्द्धेऽप्रयुक्ता वा एतेऽनवरुद्धा यच्चतुर्होतारो यच्चतुर्होतॄन् होता वदति तानेव प्रयुङ्क्ते तानवरुन्द्ध एतद्वै देवानाँ स्तोत्रमनिरुक्तं यत् सर्पराज्ञ्या ऋचस्तस्यै तदुक्थमनिरुक्तं यच्चतुर्होतारो मनसा प्रस्तौति मनसोद्गायति मनसा प्रतिहरति रेत एवैतदुद्गातारः प्रसिञ्चन्ति यच्चतुर्होतॄन् होता वदति रेत एव प्रसिक्तँ होता प्रजनयत्यग्न्याधेये व्याचक्षीत ब्रह्मणो वा एतदुदरणं यदग्न्याधेयं ब्रह्मण एतदुदरणं यच्चतुर्होतारो ब्रह्मण एतदुदरणं यदसा आदित्य उदेति सर्वमेव ब्रह्म सृजतेऽथैते संभारास्सह वै देवानां चासुराणां च यज्ञौ प्रतता आस्तां यदेव देवा अकुर्वत तदसुरा अकुर्वत ते देवा यज्ञमादाय व्यक्रामँस्तमुपरि समभरँस्तेनासुरान् पराभावयन् यत् समभरँस्तत् संभाराणाँ संभारत्वँ समृतसोम एतेषां चतुर्भिश्चतुर्भिः प्रचरिष्यञ्जुहुयात् पूर्व एव यज्ञं पूर्वो देवता गृह्णाति सयज्ञो भवत्ययज्ञ इतरो दीक्षायां वाचयेदेतावान् वै यज्ञो यावानेव यज्ञस्तं गृहीत्वा दीक्षते द्वादशाहे वाचयेदेतावान् वै यज्ञो यावान् द्वादशाहो यावानेव यज्ञो यावान् द्वादशाहस्तं गृहीत्वा दीक्षतेऽथैताः पत्न्यो दक्षिणतो वै देवानामसुरा यज्ञमभ्यजयँस्तेषामाग्नीध्रमनभिजितमासीत् तद्देवाः पत्नीभिस्सं प्रापद्यन्त तेऽसुरा ह्लीकाः पत्नीः प्रख्याय पुनरावर्तन्त तान् देवास्ततोऽनूत्थाय माध्यंदिनेन पवमानेनाभ्यजयन् यस्य पत्नीर्विद्वानग्निद्भवत्यभि भ्रातृव्यस्य गृहानभि पशूनारोहति नास्य भ्रातृव्यो गृहान्न पशूनभ्यारोहति यस्य पत्नीर्विद्वानग्नित्पात्नीवतस्य यजति विद्वान् पत्नीं तर्पयति तृप्ता पत्नी रेतो धत्ते रेतसः प्रजाः प्रजायन्ते प्रजनिष्णुः प्रजया च पशुभिश्च भवति ।। १५ ।।

प्रजास्सृष्ट्वा सोऽकामयत यज्ञँ सृजेयेति स एतँ सप्तहोतारमपश्यत् तं मनसानूद्द्रुत्याजुहोत् तेन यज्ञमसृजत सोऽस्माद्यज्ञस्सृष्टः पराङैत् तं ग्रहेणानूद्द्रुत्यागृह्णात् तद्ग्रहस्य ग्रहत्वं दीक्षिष्यमाणस्सप्तहोत्रा पुरस्ताज्जुहुयाद्यज्ञमेव सृष्ट्वालभ्य प्रतनुते ग्रहो भवति यज्ञस्य सृष्टस्य धृत्यै यज्ञँ सृष्ट्वा सोऽकामयत दर्शपूर्णमासौ सृजेयेति स एतँ चतुर्होतारमपश्यत् तं मनसानूद्द्रुत्याजुहोत् तेन दर्शपूर्णमासा असृजत ता अस्माद्दर्शपूर्णमासौ सृष्टौ पराञ्चा ऐतां तौ ग्रहेणानूद्द्रुत्यागृह्णात् तद्ग्रहस्य ग्रहत्वं दशपूर्णमासा आलप्स्यमानश्चतुर्होत्रा पुरस्ताज्जुहुयाद्दर्शपूर्ण मासा एव सष्ट्वालभ्य प्रतनुते ग्रहो भवति दर्शपूर्णमासयोस्सृष्टयोर्धृत्यै दर्शपूर्णमासौ सृष्ट्वा सोऽकामयत चातुर्मास्यानि सृजेयेति स एतं पञ्चहोतारमपश्यत् तं मनसानूद्द्रुत्याजुहोत् तेन चातुर्मास्यान्यसृजत तान्यस्माच्चातुर्मास्यानि सृष्टानि पराञ्च्यायँस्तानि ग्रहेणानूद्द्रुत्यागृह्णात् तद्ग्रहस्य ग्रहत्वं चातुर्मास्यान्यालप्स्यमानः पञ्चहोत्रा पुरस्ताज्जुहुयाच्चातुर्मास्यान्येव सृष्ट्वालभ्य प्रतनुते ग्रहो भवति चातुर्मास्यानाँ सृष्टानां धृत्या अभिचरन् दशहोत्रा जुहुयान्नव वै पुरुषे प्राणा नाभिर्दशमी प्राणानेवास्योपदासयति स्वकृत इरिणे प्रदरे वा जुहुयादेतद्वा अस्या निर्ऋतिगृहीतं निर्ऋत्यैवैनं ग्राहयति वषट्करोत्येतद्वै वाचः क्रूरं वाच एवैनं क्रूरेण प्रवृश्चत्याङ्गिरसश्च वा आदित्याश्च स्वर्गे लोकेऽस्पर्धन्त त आदित्या एतं पञ्चहोतारमपश्यँस्तं मनसानूद्द्रुत्याजुहवुस्तत आदित्यास्स्वर्गं लोकमायन्नपाङ्गिरसोऽभ्रँशन्त तेऽङ्गिरस आदित्यनब्रुवन् क्व स्थ कथं वो हव्यं वक्ष्याम इति च्छन्दस्स्वित्यब्रुवन् गायत्र्यां वसवस्त्रिष्टुभि रुद्रा जगत्यामादित्य इत्यत्र वै देवेभ्यस्सद्भ्यो हव्यमुह्यते य एवं देवानुपदेशनाद्वेदोपदेशनवान् भवति यस्स्वर्गकामस्स्यात् स एत पञ्चहोतारं मनसानूद्द्रुत्य जुहुयात् पञ्च वा ऋतव ऋतवस्संवत्सरस्संवत्सरस्स्वर्गो लोक ऋतुष्वेव संवत्सरे प्रतिष्ठाय स्वर्गं लोकमेति ।। योऽब्राह्मणो विद्यामनूच्य नेव रोचेत से एताँश्चतुर्होतॄनरण्यं परैत्य दर्भस्तम्बमुद्ग्रथ्य ब्राह्मणं दक्षिणतो निषाद्य व्याचक्षीतैतद्वै देवानां ब्रह्मानिरुक्तं यच्चतुर्होतारस्तदेनं निरुच्यमानं प्रकाशं गमयति दर्भस्तम्बमुद्ग्रथ्य व्याचष्टेऽग्निर्वै दर्भस्तम्बोऽग्निमत्येव व्याचष्टे ब्राह्मणो दक्षिणत आस्ते ब्राह्मणो वै प्रजानामुपद्रष्टोपद्रष्टृमत्येव व्याचष्ट ईश्वरं वा एता उभौ यशोऽर्तोर्यो व्याचष्टे यश्च दक्षिणत आस्ते यो दक्षिणत आस्ते तस्मै वरं दद्याद्यदेव तत्र यश ऋच्छति तद्वरेणावरुन्द्रे ।। १६ ।।

ऐन्द्राग्नमेकादशकपालं निर्वपेद्भ्रातृव्यवानोजो वै वीर्यमिन्द्राग्नी ओजसैवैनं वीर्येणाभिभवत्यैन्द्राग्नमेकादशकपालं निर्वपेत् सजातकाम ओजो वै वीर्यमिन्द्राग्नी ओजसैवैनान् वीर्येणाधस्तादुपास्यते न वा एत एनं प्रयान्तमकामा अनुप्रयान्त्योजो वीर्यमिन्द्राग्नी यदैन्द्राग्न ओज एवैषां वीर्यं संगृह्य प्रयाति तं प्रयान्तमकामा अनुप्रयान्त्यैन्द्राग्नमेकादशकपालं निर्वपेत् प्रजाकामः प्रजापतेर्वै प्रजास्सिसृक्षमानस्य तस्येन्द्राग्नी प्रजा अपागूहताँ सोऽवेदिन्द्राग्नी वै मे प्रजा अपाधुक्षतामिति स एतमैन्द्राग्नमपश्यदेकादशकपालं ततो वै तस्मै तौ प्रजाः पुनरदत्तामिन्द्राग्नी एतस्य प्रजामपगूहतो योऽलं प्रजायै सन् प्रजां न विन्दते ता एव भागधेयेनोपधावति ता अस्मै प्रीतौ प्रजां पुनर्दत्तः पुनर्दातृमती याज्यानुवाक्ये भवतस्समृद्ध्या ऐन्द्राग्नमेकादशकपालं निर्वपेत् संग्राममभिप्रयानोजो वै वीर्यमिन्द्राग्नी ओजसैवैनं वीर्येणाभिप्रयात्यैन्द्राग्नमेकादशकपालं निर्वपेत् संग्राममागत्यौजो वै वीर्यमिन्द्राग्नी ओजसैवैनं वीर्येण जयत्यैन्द्राग्नमेकादशकपालं निर्वपेत् संग्रामं जित्वौजसा वा एष वीर्येण व्यृध्यते यस्संग्रामं जयति सर्वेण हीन्द्रियेण सर्वेण वीर्येण जयत्योजो वीर्यमिन्द्राग्नी यदैन्द्राग्न इन्द्राग्नी एवैनमोजसा वीर्येण समर्धयत ऐन्द्राग्नमेकादशकपालं निर्वपेत् पौष्णं चरुँ सनिं प्रयन्नोजो वै वीर्यमिन्द्राग्नी ओजसैव वीर्येण प्रैति पूषा वीर्यस्यानुप्रदाता यत् पौष्णः पूषैवास्मै वीर्यमनुप्रयच्छत्यैन्द्राग्नमेकादशकपालं निर्वपेत् पौष्णं चरुं क्षेत्रस्य पतये चरुं यः कामयेतास्यां मे जनतायामृध्येतेत्योजो वै वीर्यमिन्द्राग्नी यदैन्द्राग्न इन्द्राग्नी एवास्मा ओजसा वीर्येण लोकं विन्दतः पूषा वीर्यस्यानुप्रदाता यत् पौष्णः पूषैवास्मै वीर्यमनुप्रयच्छतीयं क्षेत्रस्य पतिर्यत् क्षेत्रपत्योऽस्यामेव प्रतितिष्ठति।।१७।

कया शुभा संवयसस्सनीड़ास्समान्या मरुतस्संमिमिक्षुः ।
कया मती कुत एतास एतेऽर्चन्ति शुष्मं वृषणो वसूया ।।
कस्य ब्रह्माणि जुजुषुर्युवानः को अध्वरे मरुत आववर्त ।
श्येन इव ध्रजतो अन्तरिक्षे केन महा मनसा रीरमाम ।।
कुतस्त्वमिन्द्र महिनस्सन्नेको यासि सत्पते किं त इत्था ।
संपृच्छसे समराणश्शुभानैर्वोचेस्तन्नो हरिवो यत् ते अस्मे ।।
ब्रह्माणि मे मतयश्शँ सुतासश्शुष्म इयर्ति प्रभृतो मे अद्रिः ।
आशासते प्रतिहर्यन्त्युक्थेमा हरी वहतस्ता नो अच्छ ।
अतो वयमन्तमेभिर्युजानास्स्वक्षत्रेभिस्तन्वश्शुम्भमानाः ।।
महोभिरेताँ उपयुज्महे न्विन्द्र स्वधामनु हि नो बभूथ ।।
क्व स्या वो मरुतस्स्वधासद्यन्मामेकँ समधत्ताहिहत्ये ।
अहँ ह्युग्रस्तविषस्तुविष्मान् विश्वस्य शत्रोरनमं वधस्नैः ।।
भूरि चकर्थ युज्येभिरस्मे समानेभिर्वृषभ पौँस्येभिः ।।
भूरीणि हिं कृणवामा शविष्ठेन्द्र क्रत्वा मरुतो यद्वशाम ।।
वधीं वृत्रं मरुत इन्द्रियेण स्वेन भामेन तविषों बभूवान् ।
अहमेता मनवे विश्वश्चन्द्रास्सुगा अपश्चकर वज्रबाहुः ॥
अनुत्तमा ते मघवन्नकिर्नु न त्वावाँ अस्ति देवता विदानः ।।
न जायमानो नशते न जातो यानि करिष्या कृणुहि प्रवृद्ध ।।
एकस्य चिन्मे विभ्वस्त्वोजो या नु दधृष्वान् कृणवै मनीषा ।
अहँ ह्युग्रो मरुतो विदानो यानि च्यवमिन्द्र इदीश एषाम् ।।
अमन्दन्मा मरुतस्स्तोमो अत्र यन्मे नरश्श्रुत्यं ब्रह्म चक्र ।
इन्द्राय वृष्णे सुमखाय मह्यँ सख्ये सखायस्तन्वे तनूभिः ।
एवेदेते प्रति मा रोचमाना अनेद्यश्श्रव एषो दधानाः ।।
संचक्ष्या मरुतश्चन्द्रवर्णा अच्छान्त मे छदयाथा च नूनम् ।।
को न्वत्र मरुतो मामहे वः प्रयातन सखीँरच्छा सखायः ।।
मन्मानि चित्रा अपिवातयन्त एषां भूत नवेदा म ऋतानाम् ।।
आ यद्दुवस्याद्दुवसे मे कारुरस्माञ्चक्रे मान्यस्य मेधा ।।
ओ षु वर्त मरुतो विप्रमच्छेमा ब्रह्माणि जरिता वो अर्चत् ॥
एष वस्स्तोमो मरुत इयं गीर्मान्दार्यस्य मान्यस्य कारोः ।।
एषायासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥ १८ ॥

मरुतो यद्ध वो दिवो यूयमस्मानिन्द्रं वः ।।
आ ते शुष्मो वृषभ एतु पश्चादोत्तरादधरादा पुरस्तात् ।।
आ विश्वतो अभि समेत्वर्वाङिन्द्र द्युम्नँ स्वर्वद्धेह्यस्मे ॥
त्वा युजा तव तत् सोम सख्य इन्द्रो अपो मनवे सस्रुतस्कः ।
अहन्नहिमरिणात् सप्त सिन्धूँरपावृणोदपिहितेव खानि ।।
ऋदूदरेण सख्या सचेय यो मा न रिष्येद्धर्यश्व पीतः ।
अयं यस्सोमो न्यधाय्यस्मे तस्मा इन्द्रं प्रतिरमेम्यायुः ।।
अग्ने नक्षत्रमग्ने बृहन्नुदु त्यं चित्रं देवानाम् ।।
अंयुक्त सप्त शुन्ध्युवस्सूरो रथस्य नप्त्युः । ताभिर्याति स्वंयुक्तिभिः ।
सप्त त्वा हरितो रथे वहन्ति देव सूर्य । शोचिष्केशं विचक्षण ।।
अयं पूषा रयिर्भगस्सोमः पुनानो अर्षति । पतिर्विश्वस्य भूमनो व्यख्यद्रोदसी उभे ।।
वयस्सुपर्णा उपसेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः ।।
अप ध्वान्तमूर्णुहि पूर्धि चक्षुर्मुमुग्ध्यस्मन्निधयेव बद्धान् ।।
यथा ह त्यद्वसवः ।।
चक्षुर्मे धेहि चक्षुषे चक्षुर्विख्यै तनूभ्यः । सं चेदं वि च पश्येम ।।
सुसंदृशं त्वा वयं प्रतिपश्येम सूर्य । विपश्येम नृचक्षसः ।।
अग्ने त्री ते वाजिना त्री षधस्था तिस्रस्ते जिह्वा ऋतजात पूर्वीः ।।
तिस्र उ ते तन्वो देववातास्ताभिर्नः पाहि गिरो अप्रयुच्छन् ।।
विद्मा ते अग्ने त्रेधा त्रयाणि विद्मा ते सद्म विभृतं पुरुत्रा ।।
विद्मा ते नाम परमं गुहा यद्विद्मा तमुत्सं यत आजगन्थ ।
इन्द्र त्रिधातु शरणं त्रिवरूथँ स्वस्तिमत् ।।
छर्दिर्यच्छ मघवद्भ्यश्च मह्यं च यावया दिद्युमेभ्यः ।।
अतिविद्धा विथुरेणा चिदस्त्रा त्रिस्सप्त सानु सँहिता गिरीणाम् ।
न तद्देवो न मर्त्यस्तुतुर्याद्यानि प्रवृद्धो वृषभश्चकार ।।
यस्तस्तम्भ सहसा वि ज्मो अन्तान् बृहस्पतिस्त्रिषधस्थो रवेण ।
तं प्रत्नास ऋषयो दीध्यानाः पुरो विप्रा दधिरे मन्द्रजिह्वम् ।।
विभिद्या पुरँ शयथेमपाचीं निस्त्रीणि साकमुदधेरकृन्तत् ।।
बृहस्पतिरुषसँ सूर्यं गामर्कं विवेद स्तनयन्निव द्यौः ॥ १९ ॥ [७२६]

इति श्रीयजुषि काठके चरकशाखायामिठिमिकायामुत्सीदनं नाम नवमं स्थानकं संपूर्णम् ॥९॥