काठकसंहिता (विस्वरः)/स्थानकम् १०
← स्थानकं ९ | काठकसंहिता (विस्वरः) स्थानकम् १० [[लेखकः :|]] |
स्थानकं ११ → |
आग्नावैष्णवम्। |
अथ दशमं स्थानकम् ।
आग्नावैष्णवम् ।।
आग्नावैष्णवमेकादशकपालं निर्वपेत् सारस्वतं चरुं बार्हस्पत्यं चरुमभिचरन्वाभिचर्यमाणो वाग्निर्वै सर्वा देवता विष्णुर्यज्ञो वाक् सरस्वती ब्रह्म बृहस्पतिरग्निनैवास्य देवताभिर्देवताः प्रतिचरति विष्णुना यज्ञेन यज्ञँ सरस्वत्या वाचा वाचं बृहस्पतिना ब्रह्मणा ब्रह्म सममेव कृत्वा यत् किंच ततः करोति तेनातिप्रयुङ्क्त एतामेव निर्वपेदभिचरन्नग्निर्वै सर्वा देवता विष्णुर्यज्ञो वाक् सरस्वती ब्रह्म बृहस्पतिरग्निनैवैनं देवताभिरभिप्रयुङ्क्ते विष्णुना यज्ञेन सरस्वत्या वाचा बृहस्पतिना ब्रह्मणा स्तृणुत एनमाग्नावैष्णवमेकादशकपालं निर्वपेत् पशुमालप्स्यमानो व्यृद्धेन वा एष पशुना चरति यो देवताश्च यज्ञं चानवरुध्य पशुमालभतेऽग्निर्वै सर्वा देवता विष्णुर्यज्ञो देवताश्चैव यज्ञं चावरुध्य पशुमालभत आग्नावैष्णवमेकादशकपालं निर्वपेत् संग्रामेऽग्निर्वै सर्वा देवता विष्णुर्यज्ञो देवताभिश्चैवैनं यज्ञेन च जयति यदि मन्येत प्रति पुरस्ताच्चरन्तीति द्वे अनुवाक्ये कुर्यादेकां याज्यां सममेव द्वाभ्यां करोत्येकया प्रयुङ्क्त आग्नावैष्णवं घृते चरुं निर्वपेदभिचर्यमाणोऽग्निर्वै सर्वा देवता विष्णुर्यज्ञो देवताश्चैव यज्ञं च मध्यतः प्रविशति । मिथुनं वा एतद्यद् घृतं च तण्डुलाश्च धेन्वा घृतं पयोऽनडुहस्तण्डुला मिथुनेनैवात्मानमभितः पर्यूहते स्तृत्या आग्नावैष्णवं घृते चरुं निर्वपेच्चक्षुष्कामोऽग्नेर्वै मनुष्याश्चक्षुषा पश्यन्ति विष्णोर्देवतास्तौ चक्षुषः प्रदातारौ ता एव भागधेयेनोपधावति ता अस्मै चक्षुः प्रयच्छतो मिथुनं वा एतद्यद् घृतं च तण्डुलाश्च धेन्वा घृतं पयोऽनडुहस्तण्डुला मिथुनं चक्षुर्मिथुनेनैवास्मै मिथुनं जनयति घृते भवति तेजो वै घृतं तेजश्चक्षुस्तेजसैवास्मिंस्तेजो दधात्याग्नावैष्णवमष्टाकपालं निर्वपेत् प्रातस्सारस्वतं चरुं बार्हस्पत्यं चरुमाग्नावैष्णवमेकादशकपालं मध्यंदिन एतौ च चरू आग्नावैष्णवं द्वादशकपालमपराह्ण एतौ च चरू यस्य भ्रातृव्यस्सोमेन यजेताग्निर्वै सर्वा देवता विष्णुर्यज्ञो वाक् सरस्वती ब्रह्म बृहस्पतिरग्निनैवास्य देवताभिर्देवता आप्नोति विष्णुना यज्ञेन यज्ञँ सरस्वत्या वाचा वाचं बृहस्पतिना ब्रह्मणा ब्रह्म पुरोडाशैस्सवनानि कपालैश्छन्दाँसि सैषाध्वरकल्पा नामेष्टिर्यज्ञमेवैतयाप्नोति तत्र यत् किंच ददाति तद्दक्षिणा मैत्रावरुणमेककपालमनुनिर्वपति यैवासौ मैत्रावरुणी वशानूबन्ध्या तामेव तेनाप्नोत्येककपालो भवति न वै पुरुषं कपालैराप्तुमर्हत्येकधैवैनमाप्नोति ।। १ ।।
देवा वै सत्रमासत यशस्कामा अग्निस्सोम इन्द्रस्तेऽब्रुवन् यन्नो यश ऋच्छात् तन्नस्सहेति तेषाँ सोमं यश आर्च्छत् तस्मात् स यशस्वी स गिरिमगच्छत् तस्मात् स गिरौ तमग्निरन्वागच्छत अग्नीषोमौ समभवतामथेन्द्रोऽधृतश्शिथिल इवामन्यत सोऽन्वगच्छत् सोऽग्नौ चैव सोमे चानाथत तमेतयेष्ट्यायाजयतामग्नीषोमीयेणैकादशकपालेन तेजो वा अग्निरिन्द्रियँ सोमस्तेज एवास्मिन्नग्निराग्नेयेनादधादिन्द्रियँ सोमस्सौम्येन ततो वै सोऽभवदेतेन यजेत बुभूषन्नग्नीषोमीयेणैकादशकपालेन तेजो वा अग्निरिन्द्रियँ सोमस्तेज एवास्मिन्नग्निराग्नेयेनादधातीन्द्रियँ सोमस्सौम्येन भवत्येवाग्नीषोमीयमेकादशकपालं निर्वपेत् सर्वेभ्यः कामेभ्यो ब्राह्मणोऽग्नीषोमौ वै ब्राह्मणस्य स्वा देवता ता एवं भागधेयेनोपधावति ता अस्मै सर्वान् कामान् प्रयच्छतोऽग्नीषोमीयमष्टाकपालं निर्वपेच्छ्यामाकं वसन्ता ब्राह्मणो ब्रह्मवर्चसकामोऽग्नीषोमौ वै ब्रह्मवर्चसस्य प्रदातारौ ता एव भागधेयेनोपधावति ता अस्मै ब्रह्मवर्चसं प्रयच्छतो वसन्ता यजेत वसन्तो वै ब्राह्मणस्यर्तुस्स्व एवर्तौ ब्रह्मवर्चसमवरुन्द्ध एवमिव वै ब्रह्मवर्चसं बभ्र्विव क्षुद्रमिव हरितमिव ब्रह्मवर्चसमेव संदधाति यदष्टाकपालस्तेनाग्नेयो यच्छ्यामाकस्तेन सौम्यस्तेनोभयस्मान्नैत्यग्नीषोमीये याज्यानुवाक्ये भवतस्सोमाग्नी संयाज्ये तेजो वा अग्निरिन्द्रियँ सोमस्तेजसा चैवेन्द्रियेण च ब्रह्मवर्चसमुभयतः परिगृह्यात्मन्धत्ते ।। २ ।।
अग्नये वैश्वानराय द्वादशकपालं निर्वपेद्योऽनन्नमद्याद्यो वा जिघत्सेत् संवत्सरो वा अग्निर्वैश्वानरस्संवत्सरेणैव पूतँ स्वादितमत्ति यदि जग्ध्वा निर्वपति संवत्सर एवास्मै जग्धं स्वदयत्यग्नये वैश्वानराय द्वादशकपालं निर्वपेद्यस्समान्तमभिद्रुह्येद्यो वाभिदुद्रुक्षेत् संवत्सरो वा अग्निर्वैश्वानरस्संवत्सरायैष सममते यस्सममते संवत्सरमेवाप्त्वा काममवरुणमभिद्रुह्यत्यग्नये वैश्वानराय द्वादशकपालं निर्वपेद्यः प्रतिगृहीतस्स्यात् सनिकामस्संवत्सरो वा अग्निर्वैश्वानरस्संवत्सरायैतं प्रतिगृह्णन्ति यं प्रतिगृह्णन्ति संवत्सरमेवाप्त्वा साताँ सनिं वनुतेऽग्नये वैश्वानराय द्वादशकपालं निर्वपेत् सनिं निदधत् संवत्सरो वा अग्निर्वैश्वानरस्संवत्सरमेष प्रयुङ्क्ते यो याचति संवत्सरमेव विमुञ्चति संवत्सरो वा एतदेतस्मै सनोति यद् वनुते तमेव भागिनं करोति यमुत्तममार्जत् तँ स रज्जुमप्रियाय भ्रातृव्याय दद्यात् पाशेन वा एष चरति यो याचति पाशमेवाप्रियाय भ्रातृव्याय प्रतिमुञ्चत्यग्नये वैश्वानराय द्वादशकपालं निर्वपेद्यः कामयेतानेन राज्ञा वा ग्रामण्या वेदँ सस्यमाददीयेति संवत्सरो वा अग्निर्वैश्वानरस्संवत्सरोऽन्नाद्यस्य प्रदाता तमेव भागधेयेनोपधावति सोऽस्मा अन्नाद्यं प्रयच्छति संवत्सरं ह्यनमनुप्रजायतेऽग्नये वैश्वानराय द्वादशकपालं निर्वपेद् वृष्टिकामस्संवत्सरो वा अग्निर्वैश्वानर एषा संवत्सरस्य क्रूरा तनूर्या वैश्वानरी तयैतदभितपन्नभिशोचौयँस्तिष्ठति भागधेयमिच्छमानस्तामेवास्य प्रीणाति सास्मै प्रीता वृष्टिं निनयत्यग्नये वैश्वानराय द्वादशकपालं निर्वपेत् संग्रामे संवत्सरो वा अग्निर्वैश्वानरो यतरस्संयत्तयोरनायतनो भवति परा स जयते संवत्सरमेवायतनं कृत्वा जयति संग्रामम् ॥ ३ ॥
अग्नये वैश्वानराय द्वादशकपालं निर्वपेद्ग्रामकामो भूतिकामो ब्रह्मवर्चसकामस्तस्य हरितँ हिरण्यं मध्ये कुर्याद् रजतमुपरिष्टात् संवत्सरो वा अग्निर्वैश्वानरो वीर्यँ संवत्सर आत्मा हरितँ हिरण्यं वीर्यस्यैवैनं मध्यतो दधाति भूत्यै भवत्येव यद् रजतं तत् सह भस्मनापोहति शमलगृहीतो वा एष योऽलं ब्रह्मवर्चसाय सन्न ब्रह्मवर्चसी भवति शमलमेवास्मादपहन्ति ब्रह्मवर्चसेनैनँ सँसृजति यथा वै नाभिमरा अभिसँश्रिता एवँ संवत्सरं मासाश्चर्तवश्चाभिसँश्रिता यद्धिरण्यं मध्ये करोति नाभिमेवैनं करोति।। यथा नाभिमरा अभिसँश्रिता एवमेनँ सजातैरभिसंश्रयति वारुणं यवमयं चरुं निर्वपेदग्नये वैश्वानराय द्वादशकपालमामयावी वरुणगृहीतो वा एष य आमयावी यद् वारुणो वरुणादेवैनं मुञ्चति यवमयो भवत्येतद्वै वरुणस्य भागधेयं यद्यवास्स्वेनैव भागधेयेन वरुणं निरवदयते प्रादेशमात्रो भवत्येतावान् वै पुरुषो यावदस्य प्राणा अभि यावानेवास्यात्मा तं वरुणान्मुञ्चति संवत्सरो वा अग्निर्वैश्वानर आयुस्संवत्सरस्संवत्सर एवैनमायुषि प्रतिष्ठापयति सर्वमायुरेति वारुणं यवमयं चरुं निर्वपेदग्नये वैश्वानराय द्वादशकपालं राजन्यायाभिचरते वा बुभूषते वा वरुणगृहीतो वा एष योऽन्यस्याददान उपहरमाणश्चरति यद् वारुणो वरुणादेवैनं मुञ्चति यवमयो भवति प्रादेशमात्रो भवति संवत्सरो वा अग्निर्वैश्वानरो वीर्यँ संवत्सरस्संवत्सर एवैनं वीर्ये प्रतिष्ठापयति भूत्यै भवत्येवाग्नये वैश्वानराय द्वादशकपालं निर्वपेदग्निमुत्सादयिष्यन् संवत्सरो वा अग्निर्वैश्वानरस्संवत्सरमेष उत्साद्यमानोऽनुत्सीदति भागिनमेवैनं कृत्वा संवत्सरमनूत्सादयत्यग्नये वैश्वानराय द्वादशकपालं निर्वपेद्यः पुरुषं प्रतिगृह्णीयादाप्तां वा एष आत्मना दाक्षिणां प्रतिगृह्णाति यः पुरुषं प्रतिगृह्णात्याप्तां दक्षिणां प्रतिगृहीताँ हिनस्ति संवत्सरो वा अग्निर्वैश्वानरस्संवत्सरस्स्वदितस्य स्वदयिता तमेव भागधेयेनोपधावति सोऽस्मै तत् सर्वं स्वदयति ।। ४ ।।
अग्नये पथिकृतेऽष्टाकपालं निर्वपेद्यस्य पौर्णमासी वामावस्या वातिपद्येत बहिष्पथं वा एष एति यस्य पौर्णमासी वामावस्या वातिपद्यतेऽग्निर्देवानां पथिकृत् तमेवान्वारभते स एनं पन्थामपिनयति वि वा एतद्यज्ञं छिनत्ति यद्यज्ञे प्रतत एतमन्तरेष्टिं निर्वपति य एवासा आग्नेयोऽष्टाकपालः पूर्णमासे योऽमावस्यायां तमग्नये पथिकृते कुर्यात् तेनैव पुनः पन्थामवैति न यज्ञं विच्छिनत्त्यग्नये वाजसृतेऽष्टाकपालं निर्वपेत् संग्रामेऽग्निर्वै देवानां वाजसृद्वाजमेष धावति यस्संग्रामं जयति तमेव भागधेयेनोपधावति वाजमेव धावति जयति संग्राममथो अग्निरिव न प्रतिधृषे भवत्यग्नये व्रतपतयेऽष्टाकपालं निर्वपेद्य आहिताग्निस्सन्नव्रत्यं चरेदानीतो वा एष देवानां य आहिताग्निरदन्त्यस्यान्नं व्रतपतिमेतस्य व्रतं गच्छति य आहिताग्निस्सन्नव्रत्यं चरत्यग्निर्देवानां व्रतपतिस्तमेव भागधेयेनोपधावति व्रतपतेरेवाधि व्रतमालभतेऽग्नये रक्षोघ्नेऽष्टाकपालं निर्वपेदामयावीन्द्रं वै जातं रक्षाँस्यसचन्त स आदीयमानो रक्षोभिस्संमृश्यमानोऽग्निं प्राविशत् तस्मादग्नी रक्षाँस्यपाहन् रक्षाँस्येतँ सचन्ते य आमयाव्यग्निर्देवानां रक्षोहा तमेव भागधेयेनोपधावति सोऽस्माद् रक्षाँस्यपहन्त्यमावस्यां रात्रीं निशि यजेतामावस्यां वै रात्रीं निशि रक्षाँसि प्रेरते पूर्णान्येवैनान्यपवपति परिश्रिते यजेत रक्षसामन्तर्हित्यै॥ वामदेवस्यैतत् पञ्चदशं राक्षोघ्नँ सामिधेन्यो भवन्ति वामदेवश्च वै कुसिदायी चात्मनोराजिमयातां तस्य कुसिदायी पूर्वस्यातिद्रुतस्य कूबरं न्यमृणत् सा द्वितीयमुपपर्यावर्ततेषां वाक्षं वा छेत्स्यामीति स वामदेव उख्यमग्निमबिभस्तमवैक्षत स एतत् सूक्तमपश्यत् कृणुष्व पाजः प्रसितिं न पृथ्वीमिति तामग्निरनूद्द्रुत्य समदहत् सा दह्यमाना ह्रदं कौसिदं प्रामज्जद्यदेतदनूच्यते रक्षसां दुष्ट्यै ।। ५ ।।
नैमिष्या वै सत्रमासत त उत्थाय सप्तविंशतिं कुरुपञ्चालेषु वत्सतरानवन्वत तान्वको दाल्भिरब्रवीद्यूयमेवैतान् विभजध्वमिममहं धृतराष्ट्रं वैचित्रवीर्यं गमिष्यामि स मह्यं गृहान् करिष्यतीति तमागच्छत् तन्नासूर्क्षत् तं प्राकालयतैता गा ब्रह्मबन्ध इत्यब्रवीत् पशुपतिर्गा हन्ति ताः परः पचमानश्चरेति तासां देवसूर्मे राजान्नं प्रासुपोदिति सक्थान्युत्कर्तमपचत तस्मिन् पचमाने व्युदस्यत् सोऽग्नये रुद्रवतेऽष्टाकपालं निरवपत् कृष्णानां व्रीहीणां तस्य यत् किंच धृतराष्ट्रस्यासीत् तत् सर्वमवकर्णं विद्राणमभिव्यौच्छत् ता विप्रश्निका अविन्दन् ब्राह्मणो वै त्वायमभिचरति तस्मिनाथस्वेति तमुपाशिक्षत् तस्मै बह्वददात् सोऽग्नये सुरभिमतेऽष्टाकपालं निरवपच्छुक्लानां व्रीहीणां ततो वै तद्व्युदस्यदग्नये रुद्रवतेऽष्टाकपालं निर्वपेत् कृष्णानां व्रीहीणामभिचरन्नग्निर्वै रुद्रो रुद्रायैवैनमपिदधाति कृष्णानां व्रीहीणां भवति कृष्णमिव वै तमस्तमो मृत्युर्मृत्युनैवैनं ग्रहयत्यग्नये सुरभिमतेऽष्टाकपालं निर्वपेद्यर्ह्ययं देवः प्रजा अभिमन्येत यदा कामयेत विदस्येदित्येषा वा अग्नेर्भिषज्या तनूर्या सुरभिमती तामेव भागधेयेनोपधावति तयैना भिषज्यत्यग्नये सुरभिमतेऽष्टाकपालं निर्वपेद्यं प्रमीतँ शृणुयुः पूतिर्वा एष श्रूयते यः प्रमीतश्श्रूयते यैवाग्नेस्सुरभिमती तनूस्तामेव भागधेयेनोपधावति तयैनँ सुरभिं करोत्यग्नये सुरभिमतेऽष्टाकपालं निर्वपेद्यमजघ्निवाँसमभिशँसेयुश्शमलगृहीतो वा एष यमजघ्निवाँसमभिशँसन्ति यैवाग्नेस्सुरभिमती तनूस्तामेव भागधेयेनोपधावति तयैनं पुनात्यग्नयेऽन्नादायाष्टाकपालं निर्वपेद्यः कामयेतान्नादस्स्यामित्यग्निर्वै देवानामन्नादस्तमेव भागधेयेनोपधावति स एनमन्नादं करोत्यग्नयेऽन्नवतेऽष्टाकपालं निर्वपेद्यः कामयेतान्नवान् स्यामित्यग्निर्वै देवानामन्नवाँस्तमेव भागधेयेनोपधावति स एनमन्नवन्तं करोत्यग्नयेऽन्नपतयेऽष्टाकपालं निर्वपेद्यः कामयेतान्नपतिस्स्यामित्यग्निर्वै देवानामन्नपतिस्तमेव भागधेयेनोपधावति स एनमन्नपतिं करोति संवत्सरं परिनिर्वपेत् संवत्सरो वा अन्नाद्यस्य प्रदाता तमेव भागधेयेनोपधावति स एनमन्नादमन्नवन्तमन्नपतिं करोत्यग्नये वसुमतेऽष्टाकपालं निर्वपेत् सर्वेभ्यः कामेभ्यो ब्राह्मणो यद्वै किंच विन्दते तद्वस्वग्निर्देवानां वसुमाँस्तमेव भागधेयेनोपधावति सोऽस्मै सर्वान् कामान् प्रयच्छति ॥ ६ ॥
अग्नये यविष्ठायाष्टाकपालं निर्वपेदभिचरन् वाभिचर्यमाणो वा देवाश्च वा असुराश्च व्यभ्यचरन्त तेऽसुरा देवेभ्यो विसृष्टीर्व्यसृजँस्ते देवा अविदुर्विसृष्टीर्वै नोऽसुरा व्यस्राक्षुरिति तेऽग्नये यविष्ठायाष्टाकपालं निरवपँस्तेन वै ते ता विसृष्टीरयावयन्तात्मनोऽधि विसृष्टिमेतस्मै विसृजन्ति यमभिचरन्ति यदग्नये यविष्ठाय निर्वपति तेनैव तां विसृष्टिं यावयत आत्मनोऽध्यग्नये यविष्ठायाष्टाकपालं निर्वपेत् समृतसोमे देवतासु वा एते समृच्छन्ते येषाँ सोमौ समृच्छेते अग्निस्सर्वा देवता अग्निनेवैषां यविष्ठेन देवता वृङ्क्ते।। देवाश्च वा असुराश्च संयत्ता आसन् यान् देवानामघ्नँस्तदेव तेऽभवन् यानसुराणां पुनस्त उत्पत्त्यायुध्यन्त ते देवा अविदुर्ये वै न इमे केच म्रियन्तेऽग्निर्वावैतान् हन्तीति तेऽब्रुवन् मा नश्शम्नीथाः कथा नश्शम्नीष इति भागो मेऽस्त्वित्यब्रवीन्न वोऽभागधेयः क्षमिष्य इति तेऽग्नये क्षमवतेऽष्टाकपालं निरवपँस्ततो वै स तेभ्योऽक्षमताग्नये क्षमवतेऽष्टाकपालं निर्वपेद्यर्ह्ययं देवः प्रजा अभिमन्येत यदा कामयेत विद्स्येदिति ये वा इमे केच म्रियन्तेऽग्निर्वावैतान् हन्त्यग्निर्देवानां क्षमवाँस्तमेव भागधेयेनोपधावति सोऽस्मै प्रीतः क्षमत एव देवाः पितरो मनुष्यास्तेऽन्यत आसन्नसुरा रक्षाँसि पिशाचास्तेऽन्यतस्ते समयतन्त ते यद्देवानामप्यल्पकं लोहितमसुरा अकुर्वँस्तद्रात्रीभी रक्षाँस्यसुम्भँस्तान् सुब्धान् मृतानभिव्यौच्छत् ते देवा अविदुर्ये वै न इमे केच म्रियन्ते रक्षाँसि वावैतान् सुम्भन्तीति तान्युपामन्त्रयन्त तान्यब्रुवन् वार्यं वृणामहै यदेवेमानसुराञ्जयाम तन्नस्सहासदिति ततो देवा असुरानजयँस्तेऽसुराञ्जित्वा रक्षाँस्यपानुदन्त तान्यनृतमकर्तेति समन्तं देवान् पर्यविशँस्ते देवा अग्ना एवानाथन्त तेऽग्नये प्रवतेऽष्टाकपालं निरवपन्नग्नये विबाधवतेऽष्टाकपालमग्नये प्रतीकवतेऽष्टाकपालं यदग्नये प्रवते यान्येव पुरस्ताद्रक्षाँस्यासँस्तानि तेन प्रणुदन्त यद्विबाधवते यान्येवाभित आसँस्तानि तेन व्यबाधन्त यत् प्रतीकवते यान्येव पश्चाद्रक्षाँस्यासँस्तानि तेनापानुदन्तैतया यजेत भ्रातृव्यवान् यो बहुभ्रातृव्यस्स्यादग्नये प्रवतेऽष्टाकपालं निर्वपेदग्नये विबाधवतेऽष्टाकपालमग्नये प्रतीकवतेऽष्टाकपालं यदग्नये प्रवते य एवैनं पूर्वोऽतिक्रान्तो भ्रातृव्यस्त तेन प्रणुदते यद्विबाधवते य एवैनेन सदृङ् तं तेन विबाधते यत् प्रतीकवते य एवास्य पश्चाद्भ्रातव्यस्तं तेनापनुदते प्र श्रेयाँसं भ्रातृव्यं नुदतेऽति सदृशं क्रामति नैनं पापीयानाप्नोति य एवं विद्वानेतया यजते देवाश्च वा असुराश्च संयत्ता आसँस्तान् गायत्र्यन्तरातिष्ठदोजो वीर्यमन्नाद्यं परिगृह्य संवत्सरो वावैनान् सोऽन्तरातिष्ठच्चतुर्विंशतिर्गायत्र्या अक्षराणि चतुर्विँशतिस्संवत्सरस्यार्धमासास्तेऽविदुर्यतरान्वा इयमुपावर्त्स्यति त इदं भविष्यन्तीति तां व्यह्वयन्त दाभीत्यसुरा अह्वयन् विश्वकर्मन्निति देवास्सा नान्यतराँश्चनोपावर्तत ते देवा एतद्यजुरपश्यन्नोजोऽसि सहोऽसि बलससि भ्राजोऽसि देवानां धाम नामासि विश्वमसि विश्वायुस्सर्वमसि सर्वायुरभिभूरिति सा देवानुपावर्तत ततो देवा अभवन् परासुरा अभवन्नाग्नेयमष्टकपालं निर्वपेद्भ्रातृव्यवान् वा स्पर्धमानो वा तमासाद्यैतैर्यजुर्भिरभिमृशेदोजो वै वीर्यँ संवत्सर ओज एव वीर्य भ्रातृव्यस्य वृङ्क्ते स निर्वीर्यः पराभवति सैषा गायत्री नामेष्टिरथो आहुः क्षत्रस्य संवर्ग इति ।।७।।
इन्द्राय घर्मवत एकादशकपालं निवपेद्ब्रह्मवर्चसकामोऽसौ वा आदित्यो घर्म एष इन्द्र एष ब्रह्मवर्चसस्य प्रदाता तमेव भागधेयेनोपधावति सोऽस्मै ब्रह्मवर्चसं प्रयच्छतीन्द्रायेन्द्रियवत एकादशकपालं निर्वपेत् पशुकाम इन्द्रियं वै पशव इन्द्रः पशूनां प्रदाता तमेव भागधेयेनोपधावति सोऽस्मै पशून् प्रयच्छतीन्द्रायार्कवत एकादशकपालं निर्वेपेदन्नकामोऽन्नं वा अर्क इन्द्रोऽनाद्यस्य प्रदाता तमेव भागधेयेनोपधावति सोऽस्मा अन्नाद्यं प्रयच्छतीन्द्रायार्कवत एकादशकपालं निर्वपेदपरुद्धोऽवगमकामोऽन्तं वा एष गच्छति यमपरुन्धन्त्येषेन्द्रस्यान्त्या तनूर्यार्कवत्यन्त एवास्मा अन्तं कल्पयति वशा दक्षिणा वशं मा नयादितीन्द्राय घर्मवत एकादशकपालं निर्वपेदिन्द्रायेन्द्रियवत एकादशकपालमिन्द्रायार्कवत एकादशकपालँ समानबर्हीँषि बुभूषन् यदिन्द्राय घर्मवतेऽसौ वा आदित्यो घर्म एष इन्द्र एष शिरः प्रजानां शिर एव तेन कुरुते यदिन्द्रायेन्द्रियवत इन्द्रियमेव तेनात्मन् धत्ते यदिन्द्रायार्कवत इयं वा अर्कोऽस्यामेव तेन प्रतितिष्ठति चरुर्मध्ये स्याद जामित्वायेन्द्राय मन्युमत एकादशकपालं निर्वपेत् संग्रामे मन्युना वै वीर्यं करोतीन्द्रियेण जयति मन्युं चैवेष्विन्द्रियं च जित्यै दधातीन्द्राय मन्युमते मनस्वत एकादशकपालं निर्वपेत् संग्रामे मन्युना वै वीर्यं करोतीन्द्रियेण जयति मन्युं चैवेष्विन्द्रियं च सयुजौ कृत्वा तयोर्मनो जित्यै दधातीन्द्राय मनस्वते त्विषीमत एकादशकपालं निवेपेद्यः कामयेत मनस्वी त्विषीमान् स्यामिति मनो वै श्रीस्त्विषिर्मन एवास्मिञ्छ्रियं त्विषिं दधाति संवत्सरं पुरा मनसो न कीर्तयेत् संवत्सरेण वा अनाप्तमाप्यते संवत्सरमेवाप्त्वावरुन्द्धे ॥ ८ ॥
इन्द्राय सुत्राम्ण एकादशकपालं निर्वपेदपरुद्धो वापरुरुत्स्यमानो वेन्द्रो वै त्रातेन्द्रोऽपरोद्धा तमेव भागधेयेनोपधावति स एनं त्रायत इन्द्रायाँहोमुच एकादकपालं निर्वपेदामयाव्यँहसा वा एष गृहीतो य आमयाव्येषेन्द्रस्य भिषज्या तनूर्याँहोमुगिन्द्रोँऽहसो मोक्ता तमेव भागधेयेनोपधावति स एनमँहसो मुञ्चतीन्द्रायाँहोमुच एकादशकपालं निवपेद्य आत्मना वा गृहैर्वाँहूरणमवेयादँहसा वाएष गृहीतो य आत्मना वा गृहैर्वाँहूरणमवैतीन्द्रोँऽहसो मोक्ता तमेव भागधेयेनोपधावति स एनमँहसो मुञ्चतीन्द्रायार्कवतेऽश्वमेधवत एकादशकपालं निर्वपेद्यः कामयेत महायज्ञो मोपनमेदितीयं वा अर्कासा अश्वमेध ऐन्द्रो यज्ञोऽन्तमेतस्य यज्ञो गच्छति यं यज्ञकामं यज्ञो नोपनमत्येते इन्द्रस्यान्त्ये तन्वौ ये अर्कवती ये एवेन्द्रस्यान्त्ये तन्वौ ताभ्यामेव यज्ञमालभत उपैनं यज्ञो नमतीन्द्रायान्वृजव एकादशकपालं निवपेत् सजातकाम इन्द्रियं वै ज्यैष्ठ्यमिन्द्रियेणैव सजातानन्वृजून् कुरुत इन्द्राय प्रबभ्रायैकादशकपालं निर्वेपेद्भ्रातृव्यवान् वज्रो वै प्रबभ्रः प्रबभ्रेण वा इन्द्रोऽसुरेभ्यो वज्रं प्राहरद्वज्रमेव भ्रातृव्याय प्रहरति स्तृणुत एनमाग्नेयमष्टाकपालं निर्वपेदिन्द्राय विमृधायैकादशकपालँ संग्राम ऋद्ध्या एवाग्नेय इन्द्रं वै वृत्रं जघ्निवाँसं मृधोऽसचन्त स एतं वैमृधमपश्यत् तेन ता मृधोऽपाहत वृत्रमेष जिघाँसति यस्संग्रामं जिगीषति यैवेन्द्रस्य विमृधा तनूस्तामेव भागधेयेनोपधावति तया मृधोऽपहते हन्ति वृत्रं जयति संग्राममाग्नेयमष्टाकपालं निर्वपेदिन्द्राय विमृधायैकादशकपालं यँ सर्वतो भयमागच्छेदृद्ध्या एवाग्नेय इन्द्रं वै वृत्रं जघ्निवाँसं तँ समन्तं मृधस्संप्राकम्पन्त स एतं वैमृधमपश्यत् तेन ता मृधोऽपाहत समन्तमेतं मृधस्संप्रकम्पन्ते यँ सर्वतो भयमागच्छति यैवेन्द्रस्य विमृधा तनूस्तामेव भागधेयेनोपधावति तया मृधोऽपहत आत्मनोऽधि ।। ९ ।।
प्रजापतिर्वा इन्द्राय वज्रं प्रत्यमुञ्चन्महानाम्नीस्तेन व्यजयत ततो वै सोऽभवत् सोऽबिभेद्वज्रो मेऽशान्तो ग्रीवा अपिधक्ष्यतीति ततो रेवतीर्निरमिमीत शान्त्या ऐन्द्रं चरुं निर्वपेद्राजन्याय बुभूषत ऐन्द्रो वै राजन्यो देवतया स्वादेवैनं योनेर्जनयति भूत्यै भवत्येव रेवत्यनुवाक्या शक्करी याज्या वज्रो वै रेवती वज्रश्शक्करी वज्रमेव संदधाति तेन विजयते भवत्येव चरुर्भवति शान्त्या अनुद्दाहायेन्द्राण्यै चरुं निर्वपेत् सेनायामुत्थितायां राज्ञो गृहे सेना वा इन्द्राणी ब्रह्मणैवैनां वित्त्यै सँश्यति बल्बजा इध्मे च बर्हिषि चापिभवन्ति शक्रो वा एते जाता न्यायेनैवैनामभिनयति यत् सा विन्देत ततो दक्षिणा समृद्ध्या इन्द्राय चेन्द्राण्यै च चरुं निर्वपेत् सेनायामुत्थितायां राज्ञो गृह एषा वा इन्द्रस्य परिवृक्ती जाया गोष्वेवैनामधिनयति बल्बजा इध्मे च बर्हिषि चापिभवन्ति शक्रो वा एते जाता न्यायेनैवैनामभिनयति यत् सा विन्देत ततो दक्षिणा समृद्ध्यै प्रजापतिर्वै देवेभ्यो भागधेयानि व्यादिशत् तदिन्द्रियमत्यरिच्यत तदिन्द्रोऽब्रवीन्मयादमस्त्विति तदस्मिन्नदधात् तदेनमत्यत्येवारिच्यत तदिमांल्लोकानूर्ध्वमनूदश्रयत तन्नैकेनाप्नोन्न द्वितीयेन तत् तृतीयेनाप्त्वावारुन्द्ध त्रीन् पुरोडाशान्निर्वपेद् बुभूषँस्त्रय इमे लोका इमानेव लोकानाप्त्वौजो वीर्यमवरुद्ध उत्तर उत्तरो ज्यायान् भवत्युत्तर उत्तरो ह्येषां लोकानां ज्यायानिन्द्राय राज्ञे प्रथममथेन्द्राय स्वराजेऽथेन्द्रायाधिराजायैतानि वै सर्वाणीन्द्रोऽभवन्नोदेतान्येव सर्वाणि भवति य एवं विद्वानेतया जयते ।। तिस्रोऽनुवाक्यास्ता याज्यास्तासां प्रथमामनूच्य मध्यमया यजति मध्यमामनूच्योत्तमया यजत्युत्तमामनूच्य पुनः प्रथमया यजत्येषां लोकानाँ संतत्यै प्रतिप्रज्ञात्यै सर्वा एवानुवाक्याः करोति सर्व याज्या देवाश्च वा असुराश्च संयत्ता आसँस्तेऽसुरा भूयाँसोऽजितमनस आसन् कनीयाँसः पराजितमनस्तरा इव देवास्ते देवा अब्रुवँश्चिकित्सत यो नो वीर्यवत्तमस्तमनुसमारभामहा इति त इन्द्रमब्रुवँस्त्वं वै नो वीर्यवत्तमोऽसि त्वामनु समारभामहा इति सोऽब्रवीत् तिस्रो म इमास्तन्वो वीर्यावतीस्ता मे प्रीणीताथैतानभिभविष्याम इति ता वै ब्रूहीत्यब्रुवन्नियं विमृधेत्यब्रवीदियमँहोमुगियमिन्द्रियावतीति त इन्द्राय विमृधायैकादशकपालं निरवपन्निन्द्रायाँहोमुच एकादशकपालमिन्द्रायेन्द्रियवत एकादशकपालं यदिन्द्राय विमृधाय मृधा वै तेऽभिषण्णा आसन् ये श्रेयोभिरसुरैरस्पर्धन्त मृध एव तेनापाघ्नत यदिन्द्रायाँहोमुचेँऽहसा वै ते गृहीता आसन्नँहस एव तेनामुच्यन्त यदिन्द्रायेन्द्रियवत इन्द्रियमेव तेनात्मन्नदधतैतया यजेत भ्रातृव्यवान् यो बहुभ्रातृव्यस्स्यादिन्द्राय विमृधायैकादशकपालं निर्वपेदिन्द्रायाँहोमुच एकादशकपालमिन्द्रायेन्द्रियवत एकादशकपालम् ।। यदिन्द्राय विमृधाय मृधा वा एषोऽभिषण्णो यश्श्रेयसा भ्रातृव्येण स्पर्धते मृध एव तेनापहते यदिन्द्रायाँहोमुचेँऽहसा वा एष गृहीतो यो भ्रातृव्यवानँहस एव तेन मुच्यते यदिन्द्रायेन्द्रियवत इन्द्रियमेव तेनात्मन् धत्ते त्रयस्त्रिंशद्वै देवतास्तास्तँ सर्वा वीर्यैरनुसमारभन्त स उत्तमां विजितिमसुरैर्व्यजयत ततो वै सोऽभवद्यत् त्रयस्त्रिँशत् कपालानि भवन्ति यावतीरेव देवतास्तास्सर्वा वीर्यैरात्मानमनुसमारम्भयते भवत्येव सैषा विजितिर्नामेष्टिरुत्तमामेव विजितिं भ्रातृव्येण विजयते य एवं विद्वानेतया यजते ।।१०।।
प्रजापतिः पशूनसृजत तेऽस्मादपाक्रामँस्तेषां बृहस्पतिश्च पदेनान्वैतां ते यत्रावसँस्तद्गर्मुतँ शक्नो जातामविन्दतां तामाच्छिद्याहरतां ते बृहस्पतिरब्रवीदनया त्वाया जयान्युप वै त्वैते पशवः पुनर्नँस्यन्तीति स प्राजापत्यं चरुं निरवपद्गार्मुतमप्सु ततो वै तं पशवः पुनरुपानमन् प्राजापत्यं चरुं निर्वपेद्गार्मुतमप्सु पशुकामोऽपक्रान्ता वा एतस्मात् पशवो योऽपशुः प्रजापतिः पशूनां प्रदाता तमेव भागधेयेनोपधावति सोऽस्मै पशून् पुनरुपावर्तयति गोमूत्रस्यापि स्यात् सयोनित्वाय प्रजापतिः पशून् सृष्ट्वा तेषां पूषणमधिपामकरोत् तेऽस्मादपाक्रामँस्तेषां पूषा पदेनान्वैत् ते यत्रावसँस्तद्गर्मुतँ शक्नो जातामविन्दत् तामाच्छिद्याहरत् तया प्रजापतिमब्रवीदनया मा प्रतिष्ठस्वोप वै त्वैते पशवः पुर्ननस्यन्तीति तत् सोमोऽभ्यार्तीयत । मम वा एतद्यदकृष्टपच्यमिति स सौमापौष्णं चरुं निरवपद्गार्मुतमप्सु ततो वै तं पशवः पुनरुपानमन् सौमापौष्णं चरुं निर्वपेद्गार्मुतमप्सु प्रजाकामो वा पशुकामो वा सोमो वै रेतोधाः पूषा प्रजनयिता सोम एवास्मै रेतो दधाति पूषा प्रजनयति विन्दते प्रजा वा पशून् वा यतरस्मै कामाय निर्वपति गोमूत्रस्यापि स्यात् सयोनित्वाय मारुतं प्रैयङ्गवं चरुं निर्वपेत् पृश्न्या दुग्धे सजातकामः पृश्न्या वै मरुतो जाता वाचो वास्या वा पृथिव्या मारुतास्सजाता एतन्मरुताँ स्वं पयो यत् प्रियङ्गवस्स्वेनैवैनान् पयसाच्छैति यथा वत्स ऊधोऽभ्यायच्छत्येवमेनँ सजाता अभ्यायच्छन्ति ।। प्रियवत्यनुवाक्या श्रीवती याज्या यत् प्रियवती प्रियमेवैनँ सजातानां करोति यच्छ्रीवती श्रियमेवैनं गमयति द्विपदानुवाक्या चतुष्पदा याज्या द्विपदश्चैव चतुष्पदश्च पशूनवरुन्द्ध ऐन्द्रमैकादशकपालं निर्वपेन्मारुतं प्रैयङ्गवं चरुं तं पश्चा शृतं कुर्युर्यस्मात् क्षत्रियाद्विडभ्यर्धश्चरेत् क्षत्रं वा इन्द्रो विण्मरुतः क्षत्रायैव विशमनुनियुनक्ति तमनूच्यमाने पश्चात् प्राञ्चमुदाहरन्ति विशमेवास्मै पश्चादुपदधात्यसँसर्गाय मारुतँ सप्तकपालं निर्वपेदैन्द्रमैकादशकपालं यः कामयेत विशे च क्षत्राय च समदं कुर्यामिति क्षत्रं वा इन्द्रो विण्मरुतो भागधेय एवैभ्यस्समदं करोति मारुतस्य मारुतीमनूच्यैन्द्र्या यजेदैन्द्रस्यैन्द्रीमनूच्य मारुत्या यजेत् क्षत्रमेव विशः परिहायादत्ते विट् क्षत्रस्य ते अन्यान्यां निर्णयत उभयतः पुरोडाशस्यावद्येद्यतरान् कामयेत पराजयेरन्नित्युभयत एवं विशमुपदीपयति ताजक् पराजयन्त एतमेव निर्वपेद्यदा कामयेत कल्पेरन्निति तस्याः प्रसतिं यजेद्भागधेयेनैवैनान् कल्पयति मारुतँ सप्तकपालं निर्वपेद्यः क्षत्रियो विशो ज्यान्या बिभीयाद्ब्राह्मणो वा विड्वै मरुतो भागधेयेनैवैनाञ्छमयत्यगस्त्यस्यैतत् सूक्तं कयाशुभीयं तस्य सामिधेनीष्वप्यनुब्रूयात् तस्य याज्यानुवाक्ये स्यातामगस्त्यो वै मरुद्भ्यश्शतमुक्ष्णः पृश्नीन् प्रौक्षत् तानिन्द्रायलभत तं मरुतः क्रुद्धा वज्रमुद्यत्याभ्यपतन् स एतत् सूक्तमपश्यत् तेनैनानशमयद्यदेतदनूच्यते शान्त्यै ॥ ११ ॥
अस्मै ते प्रतिहर्यते जातवेदो विचर्षणे । अग्ने जनामि सुष्टुतिम् ।।
यस्मै त्वँ सुकृते जातवेद उ लोकमग्ने कृणवस्स्योनम् ।।
अश्विनँ स पुत्रिणं वीरवन्तं गोमन्तं रयिं नशते स्वस्ति ।।
य इमा विश्वा जातान्याश्रावयति श्लोकेन । प्र च सुवाति सविता ।।
विश्वा रूपाणि ।।
वायुरग्रेगा यज्ञप्रीस्साकं गन्मनसा यज्ञम् । शिवो नियुद्भिश्शिवाभिः ॥
प्र याभिर्यासि दाश्वाँसमच्छा नियुद्भिर्वाय इष्टये दुरोणे ।।
नि नो रयिं सुभोजसं युवस्व नि वीरं गव्यमश्व्यं च राधः ।।
बडित्था पर्वतानां खिद्रं बिभर्षि पृथिवि । प्र या भूमिं प्रवत्वति मह्ना जिनोषि महिनि।।
दृढा चिद्या वनस्पतीन् क्ष्मया दर्धर्ष्योजसा ।।
यत् ते अभ्रस्य विद्युतो दिवो वर्षन्ति वृष्टयः ।।
आ नो अग्ने रयिं भर सत्रासाहं वरेण्यम् । विश्वासु पृत्सु दुष्टरम् ।।
गोमाँ अग्ने ।
मदे मदे हि नो ददिर्यूथा गवामृजुक्रतुः ।।
संगृभाय पुरू शतोभयाहस्त्या वसु शिशीहि राय आभर ।।
शिप्रिन् वाजानां पते शचीवस्तव दँसना ।।
आ तू न इन्द्र शँसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ।।
रेवतीर्नः प्र ससाहिषे ।।
संज्ञानं नो दिवा पशोस्संज्ञानं नक्तमर्वतः ।
संज्ञानं नस्स्वेभ्यस्संज्ञानमरणेभ्यस्संज्ञानमश्विना युवमिहास्मासु नियच्छतम् ।।
समिन्द्र राया समिषा रभेमहि सं वाजेभिः पुरुश्चन्द्रैरभिद्युभिः ।
सं देव्या प्रमत्या वीरशुष्मया गोअग्रयाश्वावत्या रभेमहि ।।
इन्द्रवायू सुसंदृशा सुहवेह हवामहे । यथा नस्सर्व इज्जनस्संगमे सुमना असत् ॥
अग्निः प्रथमो वसुभिर्नो अव्यात् सोमो रुद्रैरभिरक्षतु त्मना ।
इन्द्रो मरुद्भिर्ऋतुथा कृणोत्वादित्यैर्नो वरुणश्शर्म यँसत् ।।
समग्निर्वसुभिर्नो अव्यात सँ सोमो रुद्रियाभिस्तनूभिः ।।
समिन्द्रो रातहव्यो मरुद्भिस्समादित्यैर्वरुणो विश्ववेदाः ।।
समाना व आकूतानि समाना हृदयानि वः ।।
समानमस्तु वो मनो यथा वस्सुसहासति ।।
सं वो मनाँसि सं व्रता समु चित्तान्याकरम् ।।
अमी ये विव्रतास्थन तान् वस्संनमयामसि ।।
यथादित्यमादित्या आप्याययन्ति यथाक्षितिमक्षितयो मदन्ति ।
एवा मामिन्द्रो वरुणो बृहस्पतिराप्याययन्तु भुवनस्य गोपाः ।।
नवो नवो भवति जायमानोऽह्नां केतुरुषसामेत्यग्रम् ।
भागं देवेभ्यो विदधात्यायन् प्र चन्द्रमास्तिरते दीर्घमायुः ॥ १२ ॥
प्र यो जज्ञे विद्वाँ अस्य बन्धुं विश्वा देवानां जनिमा विवक्ति ।
ब्रह्म ब्रह्मण उज्जभार मध्यान्नीचादुच्चा स्वधयाभि प्रतस्थौ ॥
महान्मही अस्कभायद् वि जातो द्यां द्विता पार्थिवं च रजः ।
स बुध्नादाष्ट जनुषाभ्यग्रं बृहस्पतिर्देवता तस्य सम्राट् ।।
गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम् ।
ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नश्शृण्वन्नूतिभिस्सीद सादनम् ॥
स सुष्टुभा स ऋक्वता गणेन वलं रुरोज फलिगं रवेण ।
बृहस्पतिरुस्रिया हव्यसूदः कनिक्रदद् वावशतीरुदाजत् ।।
अग्निरुक्थे पुरोहितो ग्रावाणो बर्हिरध्वरे ।।
ऋचा यामि मरुतो ब्रह्मणस्पतिं देवाँ अवो वरेण्यम् ।
उत्तिष्ठ ब्रह्मणस्पते देवयन्तस्त्वेमहे ।
उप प्रयन्तु मरुतस्सुदानव इन्द्र प्राशूर्भवा सचा।।
आर्यमा यातु वृषभस्तुविष्मान् यन्ता वसूनि विधते तनूपाः ।।
सहस्राक्षो गोत्रभिद् वज्रबाहुरस्मासु देवो द्रविणं दधातु ।।
ये ते अर्यमन् बहवो देवयानाः पन्थानो राजन् दिव आचरन्ति ।
तेभिर्नो अद्य पथिभिस्सुगेभी रक्षा च नो अधि च ब्रूहि देव ।।
अस्मे इन्द्राबृहस्पती रयिं धत्तँ शतग्विनम् । अश्वावन्तँ सहस्रिणम् ।।
बृहस्पतिर्नः परिपातु पश्चादुतोत्तरमादधरादघायोः ।
इन्द्रः पुरस्तादुत मध्यतो नस्सखा सखिभ्यो वरिवः कृणोतु ॥
हिरण्यगर्भो यः प्राणत उदु त्यं चित्रं देवानाम् ।।
तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य । विश्वमाभासि रोचनम् ॥
दिवो रुक्म उरुचक्षा उदेति दूरे अर्थस्तरणिर्भ्राजमानः ।
नूनं जनास्सूर्येण प्रसूता अयन्नर्थानि कृणवन्नपाँसि ।। १३ ॥ [७८०]
इति श्रीयजुषि काठके चरकशाखायामिठिमिकायामाग्नावैष्णवं नाम दशमं स्थानकं संपूर्णम् ॥१०॥