प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← स्थानकं १५ काठकसंहिता (विस्वरः)
स्थानकम् १६
[[लेखकः :|]]
स्थानकं १७ →
अग्निवीशिका

अथ षोडशं स्थानकम् ।

अग्निवीशिका ।।
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामाददे नार्यसि गायत्रेण च्छन्दसा पृथिव्यास्सधस्थादग्निं पुरीष्यमङ्गिरस्वदाभर त्रैष्टुभेन च्छन्दसाभ्रिरसि नार्यसि त्वया वयमग्निं शकेम खनितुँ सधस्थ आ जागतेन च्छन्दसा ।।
हस्त आधाय सविता बिभ्रदभ्रिं हिरण्ययीम् । अग्निं ज्योतिर्निचाय्य पृथिव्या अध्याभरत्॥
अनुष्टुभेन च्छन्दसा ।।
प्रतूर्तं वाजिन्नाद्रव वरिष्ठमनु संवतम् । दिवि ते जन्म परममन्तरिक्षे तव नाभिः ।।
पृथिव्यामधि योनिरित् ॥
युञ्जाथाँ रासभं युवमस्मिन यामे वृषण्वसू । अग्निं भरन्ता अस्मयुम् ।।
योगे योगे तवस्तरं वाजे वाजे हवामहे । सखाय इन्द्रमूतये ॥
प्रतूर्वन्नेह्यवक्रामन्नशस्ती रुद्रस्य गाणपत्ये मयोभूरेहि। उर्वन्तरिक्षं वीहि ॥
स्वस्ति गव्यूतिरभयानि कृण्वन् पूष्णा सयुजा सह पृथिव्यास्सधस्थादग्निं पुरीष्यमङ्गिरस्वदाभराग्निं पुरीष्यमङ्गिरस्वदच्छेमोऽग्निं पुरीष्यमङ्गिरस्वद्भरिष्यामोऽग्निं पुरीष्यमङ्गिरस्वद्भरामः ॥१॥

अन्वग्निरुषसामग्रमख्यदन्वहानि प्रथमा जातवेदाः ।
अनु सूर्यस्य पुरुत्रा च रश्मीननु द्यावापृथिवी आततन्थ ।।
आगत्य वाज्यध्वानँ सर्वा मृधो विधूनुत । अग्निँ सधस्थे महति चक्षुषा निचिकीषते ॥
आक्रम्य वाजिन् पृथिवीमग्निमिच्छ रुचो त्वम् ।
भूम्या वृत्वाय नो ब्रूहि यतः खनेम तं वयम् ।।
द्यौस्ते पृष्ठं पृथिवी सधस्थमात्मान्तरिक्षं समुद्रो योनिः ।
विख्याय चक्षुषा त्वमभितिष्ठ पृतन्यतः ।।
उत्क्राम महते सौभगायास्मादास्थानाद् द्रविणोदा वाजिन् ।
वयँ स्याम सुमतौ पृथिव्या अग्निं खनन्त उपस्थे अस्याः ।।
उदक्रमीद् द्रविणोदा वाज्यर्वाकस्सु लोकँ सुकृतं पृथिव्याः ।
ततः खनेम सुप्रतीकमग्निँ स्वो रुहाणा अधि नाक उत्तमे ।।
जिघर्म्यग्निं मनसा घृतेन प्रतिक्षियन्तं भुवनानि विश्वा ।
पृथुं तिरश्चा वयसा बृहन्तं व्यचिष्ठमन्नं रभसं विदानम् ।।
आ त्वा जिघर्मि वचसा घृतेनारक्षसा मनसा तज्जुषेथाः । मर्यश्रीस्स्पृहयद्वर्णो अग्निर्नाभिधृषे तन्वा जर्हृषाणः ।।
परि वाजपतिः कविरग्निर्हव्यान्यक्रमीत् । दधद्रत्नानि दाशुषे ।।
परि त्वाग्ने पुरं वयं विप्रँ सहस्य धीमहि । धृषद्वर्णं दिवे दिवे हन्तारं भङ्गुरावताम् ॥
त्वमग्ने द्युभिस्त्वमाशुशुक्षणिस्त्वमद्भ्यस्त्वमश्मनस्परि।
त्वं वनेभ्यस्त्वमोषधीभ्यस्त्वं नृभ्यो नृमणो जायसे शुचिः ॥२।।
 
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां पृथिव्यास्सधस्थे अग्निं पुरीष्यमङ्गिरस्वत् खनामि ज्योतिष्मन्तं त्वाने सुप्रतीकमजत्रेण भानुना दीद्यतं शिवं प्रजाभ्यो अहिँसन्तं पृथिव्यास्सधस्थे ॥ अग्निं पुरीष्यमङ्गिरस्वत् खनामि ॥
अपां पृष्ठमसि योनिरग्नेस्समुद्रमभितः पिन्वमानम् ।
वर्धमानो महाँ आ च पुष्करे दिवो मात्रया वरिणा प्रथस्व ।।
शर्म च स्थो वर्म च स्थो अच्छिद्रे बहुले उभे ।
व्यचस्वती संवसाथां भर्तमग्निं पुरीष्यम् ॥
संवसाथाँ स्वर्विदौ समीची उरसा त्मना । अग्निमन्तर्भरिष्यन्ती ज्योतिष्मन्तमजस्रमित्॥
पुरीष्योऽसि विश्वभराः ।। अथर्वा त्वा प्रथमो निरमन्थदग्ने ।।
त्वामग्ने पुष्करादध्यथर्वा निरमन्थत । मूर्ध्नो विश्वस्य वाघतः ।।
तमु त्वा दध्यङ्ङृषिः पुत्र ईधे अथर्वणः । वृत्रहणं पुरंदरम् ॥
तमु त्वा पाथ्यो वृषा समीधे दस्युहन्तमम् । धनंजयं रणे रणे ।।
सीद होतस्स्व उ लोके चिकित्वान् सादया यज्ञँ सुकृतस्य योनौ ।
देवावीर्देवान् हविषा यजास्यग्ने बृहद्यजमाने वयो धाः ।।
नि होता होतृषदने विदानस्त्वेषो दीदिवाँ असदत् सुदक्षः ।
अदब्धव्रतप्रमतिर्वसिष्ठस्सहस्रंभरजश्शुचिजिह्वो अग्निः ।।
सँसीदस्व महाँ असि शोचस्व देववित्तमः ।।
वि धूममग्ने अरुषं विविग्धि सृज प्रशस्त दर्शतम् ।।
जनिष्ट हि जेन्यो अग्रे अह्नाँ हितो हितेष्वरुषो वनेषु ।
दमे दमे सप्त रत्ना दधानोऽग्निर्होता निषसादा यजीयान् ॥३॥

अपो देवीरुपसृज मधुमतीरयक्ष्माय प्रजाभ्यः ।
तासामास्थानादुज्जिहतामोषधयस्सुपिप्पलाः ।।
सं ते वायुर्मातरिश्वा दधातूत्तानाया हृदयं यद्विकस्तम् ।।
यो देवानां चरसि प्राणथेन तस्मै देव वषडस्तु तुभ्यम् ।।
सुजातो ज्योतिषा शर्म वरूथमासदत्स्वः । वासो अग्ने विश्वरूपँ संव्ययस्व विभावसो।।
उदु तिष्ठ स्वध्वरावा नो देव्या कृपा ।
दृशे च भासा बृहता सुशुक्वभिराग्ने याहि सुशस्तिभिः ।।
ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सविता ।।
ऊर्ध्वो वाजस्य सनिता यदञ्जिभिर्वाघद्भिर्विह्वयामहे ।।
स जातो गर्भो असि रोदस्योरग्ने चारुर्विभृत ओषधीषु ।।
चित्रश्शिशुः परि तमाँस्यक्तः प्र मातृभ्यो अधि कनिक्रदद्गाः ।।
स्थिरो भव वीड्वङ्ग आशुर्भव वाज्यर्वन् । पृथुर्भव सुषदस्त्वमग्नेः पुरीषवाहनः ।।
शिवो भव प्रजाभ्यो मानुषीभ्यस्त्वमङ्गिरः ।।
मा द्यावापृथिवी अभिशुचो मान्तरिक्षं मा वनस्पतीन् । ।
प्रैतु वाजी कनिक्रदन्नानदद्रासभः पत्वा ।
भरन्नग्निं पुरीष्यं मा पाद्यायुषः पुरा ।
वृषाग्निं वृषणं भरन्नपां गर्भँ समुद्रियम् । अग्न आयाहि वीतये ॥
ऋतँ सत्यमृतँ सत्यम् ॥
ओषधयः प्रतिगृह्णीताग्निमेतं शिवमायन्तमभ्यत्र युष्मान् ।
व्यस्यन् विश्वा अनिरा अमीवा निषीदन्नो अप दुर्मतिं जहि ॥
ओषधयः प्रतिमोदध्वं पुष्पवतीस्सुपिप्पलाः ।
अयं वो गर्भ ऋत्वियः प्रत्नँ सधस्थमासदत् ।।
वि पाजसा पृथुना शोशुचानो बाधस्व द्विषो रक्षसो अमीवाः ।।
सुशर्मणो बृहतश्शर्मणि स्यामग्नेरहँ सुहवस्य प्रणीतौ ॥
आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन । महे रणाय चक्षसे ।।
यो वश्शिवतमो रसस्तस्य भाजयतेह नः । उशतीरिव मातरः ।।
तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः ।।४।।

मित्रस्सँसृज्य पृथिवीं भूमिं च ज्योतिषा सह ।
सुजातं जातवेदसमयक्ष्माय त्वा सँसृजामि प्रजाभ्यः ।।
रुद्रास्सँसृज्य पृथिवीं बृहज्ज्योतिस्समीधिरे । तेषां भानुरजस्र इच्छुक्रो देवेषु रोचते ।।
सँसृष्टां वसुभी रुद्रैर्धीरैः कर्मण्यां मृदम् ।।
हस्ताभ्यां मृद्वीं कृत्वा सिनीवाली करोतु ताम् ।।
सिनीवाली सुकपर्दा सुकुरीरा स्वौपशा । सा तुभ्यमदिते मह्योखां दधातु हस्तयोः ॥
उखां करोतु शक्त्या बाहुभ्यामदितिर्धिया ।
माता पुत्रं यथोपस्थे साग्निं बिभर्तु गर्भ आ ।।
मखस्य शिरोऽसि वसवस्त्वा कुर्वन्तु गायत्रेण च्छन्दसाङ्गिरस्वद् ध्रुवासि पृथिव्यसि धारया मयि प्रजां रायस्पोषं गौपत्यँ सुवीर्यँ सजातान् यजमानाय रुद्रास्त्वा कुर्वन्तु त्रैष्टुभेन च्छन्दसाङ्गिरस्वद् धुवास्यन्तरिक्षमसि धारया मयि प्रजां रायस्पोषं गौपत्यँ सुवीर्यँ सजातान् यजमानायादित्यास्त्वा कुर्वन्तु जागतेन च्छन्दसाङ्गिरस्वद् ध्रुवासि द्यौरसि धारया मयि प्रजां रायस्पोषं गौपत्यँ सुवीर्यँ सजातान् यजमानाय विश्वे त्वा देवा वैश्वानराः कुर्वन्त्वानुष्टुभेन च्छन्दसाङ्गिरस्वद् ध्रुवासि दिशोऽसि धारया मयि प्रजां रायस्पोषं गौपत्यँ सुवीर्यँ सजातान् यजमानायादित्या रास्नास्यदितिस्ते बिलं गृह्णातु ।।
कृत्वाय सा महीमुखां मृन्मयीं योनिमग्नये । तां पुत्रेभ्यस्संप्रायच्छददितिश्श्रपयानिति।।
वसवस्त्वा धूपयन्तु गायत्रेण च्छन्दसाङ्गिरस्वद्रुद्रास्त्वा धूपयन्तु त्रैष्टुभेन च्छन्दसाङ्गिरस्वदादित्यास्त्वा धूपयन्तु जागतेन च्छन्दसाङ्गिरस्वद्विश्वे त्वा देवा वैश्वानरा धूपयन्त्वानुष्टुभेन च्छन्दसाङ्गिरस्वदिन्द्रस्त्वा धूपयतु वरुणस्त्वा धूपयतु विष्णुस्त्वा धूपयतु ।।५॥

अदितिस्त्वा देवी विश्वदेव्यावती पृथिव्यास्सधस्थे अङ्गिरस्वत् खनत्ववट देवानां त्वा पत्नीर्देवीर्विश्वदेव्यावतीः पृथिव्यास्सधस्थे अङ्गिरस्वद्दधतूखे धिषणास्त्वा देवीर्विश्वदेव्यावतीः पृथिव्यास्सधस्थे अङ्गिरस्वदभीन्धतामुखे वरूत्रीस्त्वा देवीर्विश्वदेव्यावतीः पृथिव्यास्सधस्थे अङ्गिरस्वच्छ्रपयन्तूखे ग्नास्त्वा देवीर्विश्वदेव्यावतीः पृथिव्यास्सधस्थे अङ्गिरस्वत् पचन्तूखे जनयस्त्वाच्छिन्नपत्रा देवीर्विश्वदेव्यावतीः पृथिव्यास्सधस्थे अङ्गिरस्वत् पचन्तूखे ॥
मित्रस्य चर्षणीधृतश्श्रवो देवस्य सानासि । द्युम्नं चित्रश्रवस्तमम् ।।
देवस्त्वा सवितोद्वपतु सुपाणिस्स्वङ्कुरिः । सुबाहुरुत शक्त्या ॥
अव्यथमाना पृथिव्यामाशा दिश आपृण । उत्तिष्ठ बृहती भवोर्ध्वा तिष्ठ ध्रुवा त्वम् ।।
मित्रैतां त उखां परिददाम्यभित्त्या एषा मा भेदि वसवस्त्वाच्छृन्दन्तु गायत्रेण च्छन्दसाङ्गिरस्वद्रुद्रास्त्वाच्छृन्दन्तु त्रैष्टुभेन च्छन्दसाङ्गिरस्वदादित्यास्त्वाच्छृन्दन्तु जागतेन च्छन्दसाङ्गिरस्वद्विश्वे त्वा देवा वैश्वानरा आच्छृन्दन्त्वानुष्टुभेन च्छन्दसाङ्गिरस्वत् ।।६।।

आकूतिमग्निं प्रयुजँ स्वाहा मनो मेधामग्निं प्रयुजँ स्वाहा चित्तं विज्ञातमग्निं प्रयुजँ स्वाहा वाचो विधृतिमग्निं प्रयुजँ स्वाहा प्रजापतये मनवे स्वाहाग्नये वैश्वानराय स्वाहा ॥
विश्वो देवस्य नेतुर्मर्तो वरेत सख्यम् । विश्वो राय इषुध्यति द्युम्नं वरेत पुष्यतु ।।
स्वाहा मा सु भित्था मा सु रिषोऽम्ब धृष्णु वीरयस्व सु । अग्निश्चेदं करिष्यथः ।।
दृँहस्व देवि पृथिवि स्वस्तय आसुरी माया स्वधया कृतासि ।
जुष्टं देवेभ्य इदमस्तु हव्यमरिष्टा त्वमुदिहि यज्ञे अस्मिन् ॥ द्व्टनस्सर्पिरासुतिः प्रत्नो होता वरेण्यः । सहसस्पुत्रो अद्भुतः ॥
परस्या अधि संवतोऽवराँ अभ्यातर । यत्राहमस्मि ताँ अव ।।
परमस्याः परावतो रोहिदश्व उपागहि । पुरीष्यः पुरुप्रियोऽग्ने त्वं तरा मृधः ॥
यदग्ने कानि कानि चा ते दारूणि दध्मसि । सर्वं तदस्तु ते घृतं तज्जुषस्व यविष्ठ्य।।
यदत्युपजिह्विका यद्वम्रो अतिसर्पति । सर्वं तदस्तु ते घृतं तज्जुषस्व यविष्ठ्य ।।
रात्रीं रात्रीमप्रयावं भरन्तोऽश्वायेव तिष्ठते घासमस्मै ।
रायस्पोषेण समिषा मदन्तोऽग्ने मा ते प्रतिवेशा रिषाम् ।।
नाभा पृथिव्यास्समिधानो अग्निं रायस्पोषाय बृहते हवामहे ।
इरंमदं बृहदुक्थं यजत्रं जेतारमग्निं पृतनासु सासहिम् ।।
यास्सेना अभीत्वरीराव्याधिनीरुगणा उत ।
ये स्तेना ये च तस्करास्ताँस्ते अग्नेऽपि दधाम्यास्ये ॥
दँष्ट्राभ्यां मलिम्लूनग्ने जम्भ्येभिस्तस्करानुत ।
हनुभ्याँ स्तेनान् भगवस्ताँस्त्वं खाद सुखादितान् ॥
ये जनेषु मलिम्लवस्स्तेनासस्तस्करा वने । ये कक्षेष्वघायवस्ताँस्ते दधामि जम्भयोः॥
 यो अस्मभ्यमरातीयाद्यश्च नो द्वेषते जनः ।
निन्दाद्यो अस्मान् दिप्साच्च सर्वॉँस्तान् मष्मषा कुरु ।।
सँशितं मे ब्रह्म सँशितं वीर्यं बलम् ।
सँशितं क्षत्रं मे जिष्णु यस्याहमस्मि पुरोहितः ॥
उदेषां बाहू अतिरमुद्वर्चो अथो बलम् ।
क्षिणोमि ब्रह्मणामित्रानुन्नयामि स्वाँ अहम् ।।७।।

दृशानो रुक्म उर्विया व्यद्यौद्दुर्मर्षमायुश्श्रिये रुचानः ।
अग्निरमृतो अभवत् सहोभिर्यदेनं द्यौरजनयत् सुरेताः ॥
नक्तोषासा समनसा विरूपे धापयेते शिशुमेकँ समीची ।
द्यावाक्षामा रुक्मो अन्तर्विभाति देवा अग्निं धारयन् द्रविणोदाः ॥
विश्वा रूपाणि प्रतिमुञ्चते कविः प्रासावीद्भद्रं द्विपदे चतुष्पदे ।
वि नाकमख्यत् सविता वरेण्योऽनु प्रयाणमुषसो विराजति ।।
सुपर्णोऽसि गरुत्मान् त्रिवृत् ते शिरो गायत्रं चक्षुर्बृहद्रथन्तरे पक्षौ स्तोम आत्मा छन्दाँस्यङ्गानि यजूंषि नाम साम ते तनूर्वामदेव्यं यज्ञायज्ञीयं पुच्छं धिष्ण्याश्शफास्सुपर्णोऽसि गरुत्मान् दिवं गच्छ स्वः पत ।। विष्णोः क्रमोऽसि सपत्नहा गायत्रं छन्द आरोह पृथिवीमनुविक्रमस्व विष्णोः क्रमोऽस्यभिमातिहा त्रैष्टुभं छन्द आरोहान्तरिक्षमनुविक्रमस्व विष्णोः क्रमोऽस्यरातीयतो हन्ता जागतं छन्द आरोह दिवमनुविक्रमस्व विष्णोः क्रमोऽसि शत्रूयतो हन्तानुष्टुभं छन्द आरोह दिशोऽनुविक्रमस्व ।।
अक्रन्ददग्निस्स्तनयन्निव द्यौः क्षामा रेरिहद्वीरुधस्समञ्चन् ।
सद्यो जज्ञानो वि हीमिद्धो अख्यदा रोदसी भानुना भात्यन्तः ॥
अग्नेऽभ्यावर्तिन्नभि नो निवर्तस्वायुषा वर्चसा प्रजया धनेन सन्या मेधया ॥
अग्ने अङ्गिरश्शतं ते सन्त्वावृतस्सहस्रं त उपावृतः ।।
अधा पोषस्य पोषेण पुनर्नो नष्टमाकृधि पुनर्नो रयिमाकृधि ।
पुनरूर्जा निवर्तस्व पुनरग्न इषायुषा । पुनर्नः पाह्यँहसः ।।
सह रय्या निवर्तस्वाग्ने पिन्वस्व धारया । विश्वप्न्या विश्वतस्परि ॥
आ त्वाहार्षमन्तरभूर्ध्रुवस्तिष्ठाविचाचलत् । विशस्त्वा सर्वा वाञ्छन्त्वस्मे राष्ट्रमधिश्रय ।।
उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमँ श्रथाय ।
अथा वयमादित्य व्रते तवानागसो अदितये स्याम ॥
अग्रे बृहन्नुषसामूर्ध्वो अस्थान्निर्जगन्वान् तमसो ज्योतिषागात् ।
अग्निर्भानुना रुशता स्वङ्ग आ जातो विश्वा सद्मान्यप्राः ॥
हँसश्शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् ।
नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतम् ।।
सीद त्वं मातुरस्या उपस्थे विश्वान्यग्ने वयुनानि विद्वान् ।
मैनां तपसा मार्चिषाभिशोचोऽन्तरस्याँ शुक्रज्योतिर्विभाहि ॥
अन्तरग्ने रुचा त्वमुखायाँ सदने स्वे । तस्यास्त्वँ हरसा तपञ्जातवेदश्शिवो भव ।।
शिवो भूत्वा मह्यमग्नेऽथो सीद शिवस्त्वम् ।
शिवाः कृत्वा दिशस्सर्वास्स्वं योनिमिहासदः ॥८॥

दिवस्परि प्रथमं जज्ञे अग्निरस्मद्द्वितीयं परि जातवेदाः ।
तृतीयमप्सु नृमणा अजस्रमिन्धान एनं जनते स्वाधीः ।।
विद्मा ते अग्ने त्रेधा त्रयाणि विद्मा ते सद्म विभृतं पुरुत्रा ।
विद्मा तमुत्सं यत आजगन्थ विद्मा ते नाम परमं गुहा यत् ।।
समुद्रे त्वा नृमणा अप्स्वन्तर्नृचक्षा ईधे दिवो अग्न ऊधन् ।
तृतीये त्वा रजसि तस्थिवाँसमृतस्य योनौ महिषा अहिन्वन् ॥
अक्रन्ददग्निस्स्तनयन्निव द्यौः क्षामा रेरिहद्वीरुधस्समञ्जन् ।
सद्यो जज्ञानो वि हीमिद्धो अख्यदा रोदसी भानुना भात्यन्तः ॥
उशिक् पावको अरतिस्सुमेधा मर्त्येष्वग्निरमृतो निधायि ।
इयर्ति धूममरुषो भरिभ्रदुच्छुक्रेण शोचिषा द्यामिनक्षन् ।
श्रीणमुदारो धरुणो रयीणां मनीषाणां प्रार्पणस्सोमगोपाः ।
वसुस्सूनुस्सहसो अप्सु राजा विभात्यग्र उषसामिधानः ॥
विश्वस्य जज्ञे भुवनस्य राजा रोदसी अपृणाज्जायमानः ।
वीडुं चिदद्रिभिनत् परायञ्जना यदग्निमयजन्त पञ्च ॥
यस्ते अद्य कृणवद्भद्रशोचेऽपूपं देव घृतवन्तमग्ने ।
प्र तं नय प्रतरं वस्यो अच्छाभि द्युम्नं देवहितं यविष्य्ध ।।
आ तं भज सौश्रवसेष्वग्न उक्थ आभज शस्यमाने ।
प्रियस्सूर्ये प्रियो अग्ना भवात्युज्जातेन भिनददुज्जनित्वैः ।।
दृशानो रुक्म उर्विया व्यद्यौद् दुर्मर्षमायुश्श्रिये रुचानः ।
अग्निरमृतो अभवत् सहोभिर्यदेनं द्यौरजनयत् सुरेताः ।।
त्वामने यजमाना अनु द्यून् विश्वा वसु दधिरे वार्याणि ।
त्वया सह द्रविणमिच्छमाना व्रजं गोमन्तमुशिजो अपव्रन् ।।९॥

उदु त्वा विश्वे देवा अग्ने भरन्तु चित्तिभिः ।
स नो भव शिवस्त्वँ सुप्रतीको विभावसुः ।।
प्रेदग्ने ज्योतिष्मान् याहि शिवेभिरर्चिभिष्ट्वम् ।।
बृहद्भिर्भानुभिर्भासन् मा हिँसीस्तन्वा प्रजाः ॥
अक्रन्ददग्निस्स्तनयन्निव द्यौः क्षामा रिहद्वीरुधस्समञ्जन् ।
सद्यो जज्ञानो वि हीमिद्धो अख्यदा रोदसी भानुना भात्यन्तः ।
अन्नपते अन्नस्य नो देह्यनमीवस्य शुष्मिणः ।।
प्र प्र दातारं तारिष ऊर्जं नो धेहि द्विपदे चतुष्पदे ॥
समिधाग्निं दुवस्यत घृतैर्बोधयतातिथिम् ।
आस्मिन् हव्या जुहोतन ।
प्र प्रायमग्निर्भरतस्य शृण्वे वि यत् सूर्यो न रोचते बृहद्भाः ।
अभि यः पूरुं पृतनासु तस्थौ दीदाय दैव्यो अतिथिश्शिवो नः ॥
आपो देवीः प्रतिगृह्णीत भस्मैतत् स्योने कृणुध्वँ सुरभा उ लोके ।
तस्मै नमन्तां जनयस्सुपत्नीर्मातेव पुत्रं बिभृता स्वेनम् ॥
अप्स्वग्ने सधिष्टव सौषधीरनु रुध्यसे । गर्भे संजायसे पुनः ॥
गर्भो अस्योषधीनां गर्भो वनस्पतीनाम् ।
गर्भो विश्वस्य भूतस्याग्ने गर्भो अपामसि ।।
प्रसद्य भस्मना योनिमपश्च पृथिवीमग्ने । सँसृज्य मातृभिष्ट्वं ज्योतिष्मान् पुनरासदः ॥
पुनरासद्य सदनमपश्च पृथिवीमग्ने । शेषे मातुर्यथोपस्थेऽन्तरस्याँ शिवतमः ॥
पुनरूर्जा सह रय्या ॥
बोधा मे अस्य वचसो यविष्ठ मंहिष्ठस्य प्रभृतस्य स्वधावः ।
निन्दति त्वो अनु त्यो गृणाति वन्दारुं ते तन्वं वन्दे अग्ने ।।
स बोधि सूरिर्मघवा वसुदावा वसुपतिः । युयोध्यस्मद् द्वेषाँसि ॥१०॥

अपेत वीत वि च सर्पतातो येऽत्र स्थ पुराणा ये च नूतनाः ।।
अदाद्यमोऽवसानं पृथिव्या अक्रन्निमं पितरो लोकमस्मै ॥
संज्ञानमसि कामधरणं मयि ते कामधरणं भूयादग्नेर्भस्मास्यग्नेः पुरीषमसि चितस्स्थ परिचित ऊर्ध्वश्रितश्श्रयध्वम् ।।
अयँ सो अग्निर्यस्मिन् सोममिन्द्रस्सुतं दधे जठरे वावशानः ।
सहस्रिणं वाजमत्यं न सप्तिँ ससवान् सन् स्तूयसे जातवेदः ॥
अग्ने दिवो अर्णमच्छा जिगास्यच्छा देवाँ ऊचिषे धिष्ण्या ये ।
यास्त्वावस्तादुपतिष्ठन्त आपो या वा परो रोचने सूर्यस्य ।।
अग्ने यत् ते दिवि वर्चः पृथिव्यां यत् पर्वतेष्वोषधीष्वप्सु ।
येनान्तरिक्षमुर्वाततन्थ त्वेषस्स भानुरर्णवो नृचक्षाः ।।
पुरीष्यासो अग्नयः प्रवणेन सजोषसः ।
जुषन्ताँ हव्यमाहुतमनमीवा इषो महीः ॥
इडामग्ने पुरुदँसँ सनिं गोश्शश्वत्तमँ हवमानाय साध ।
स्यान्नस्सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ।।
अयं ते योनिर्ऋत्वियो यतो जातो अरोचथाः ।।
तं जाननग्न आरोह ततो नो वर्धया रयिम् ॥
चिदसि तया देवतयाङ्गिरस्वद् ध्रुवा सीद परिचिदसि तया देवतयाङ्गिरस्वद् ध्रुवा सीद ॥
समितँ संकल्पेथाँ संप्रियौ रोचिष्णू सुमनस्यमानौ ।
इषमूर्जमभिसंवसानौ ॥
सं वां मनाँसि सं व्रता समु चित्तान्याकरम् ।
अग्ने पुरीष्याधिपा भव त्वं न इषमूर्जं यजमानाय धेहि ।।
अग्ने त्वं पुरीष्यो रयिमान् पुष्टिमाँ असि ।
शिवाः कृत्वा दिशस्सर्वास्स्वं यानिमिहासदः ॥
भवतं नस्समनसौ समोकसा अरेपसौ ।
मा हिँसिष्टं यज्ञपतिं मा यज्ञं जातवेदसौ शिवौ भवतमद्य नः ।।
मातेव पुत्रं पृथिवी पुरीष्यमग्निँ स्वे योना अभारुखा ।
तां विश्वे देवा ऋतुभिस्संविदानाः प्रजापतिर्विश्वकर्मा विमुञ्चतु ॥११॥

यदस्य पारे रजसश्चित्रं ज्योतिरजायत । तन्नः पर्षदति द्विषोऽग्ने वैश्वानर द्युमत् ।।
असुन्वन्तमयजमानमिच्छ स्तेनस्येत्यां तस्करस्यान्विहि ।
अन्यमस्मदिच्छ सा त इत्या नमो देवि निर्ऋते तुभ्यमस्तु ।।
यत् ते अस्मिन् घोर आसन् जुहोम्येषां बन्धानामवसर्जनाय कम् ।
या त्वा जनो भूमिरिति प्रमन्दते निर्ऋतिरिति त्वाहं परि वेद विश्वतः ।।
नमस्सु ते निर्ऋते तिग्मतेजोऽयस्मयं विशृता बन्धमेतम् ।
यमेन त्वं यम्या संविदानोत्तमे नाके अधि रोहयैनम् ॥
यं ते देवी निर्ऋतिराबबन्ध पाशं ग्रीवास्वविचर्त्यम् ।
तं ते विष्याम्यायुषो नु मध्येऽधा विषितः पितुमद्धि प्रमुक्तः ।।
निवेशनस्संगमनो वसूनां विश्वा रूपाभिचष्टे शचीभिः ।
देव इव सविता सत्यधर्मेन्द्रो न तस्थौ समरे पथीनाम् ।।
सीरा युञ्जन्ति कवयो युगा वितन्वते पृथक् । धीरा देवेषु सुम्नया ।।
युनक्त सीरा वि युगा तनोत कृतो योनिर्वपतेह बीजम् ।
गिरा च श्रुष्टिस्सभरा असन्नो नेदीय इत् सृण्यः पक्वमायत् ॥
पूषा युनक्तु सविता युनक्तु बृहस्पतिस्सविता देवो अग्निः ।।
शुनँ सुफाला वितुदन्तु भूमिँ शुनं कीनाशा अभियन्तु वाहैः ।
शुनासीरा हव्यजुष्टिं जुषाणेदं बीजमवतमुप्यमानम् ।।
लाङ्गलं पवीरवँ सुशेवँ सोमपित्सरु ।
उदिद्वपति गामविं प्रस्थावद्रथवाहनं प्रफर्व्यं च पीवरीम् ॥
घृतेन सीता मधुना समज्यतां विश्वैर्देवैरनुमतं मरुद्भिः ।
ऊर्जो भागं मधुमत् पिन्वमानास्मान् सीते पयसाभ्याववृत्स्व ।।
विमुच्यध्वमघ्न्या देवयाना अगन्म तमसस्पारम् । ज्योतिरापाम ।।
कामं कामदुघे धुक्ष्व मित्राय वरुणाय च ।
इन्द्रायाश्विभ्यां पूष्णे प्रजाभ्य ओषधीभ्यः ॥१२॥

या ओषधयः प्रथमजा देवेभ्यस्त्रियुगं पुरा । मनै नु बभ्रूणामहँ शतं धामानि सप्त च॥
शतं वो अम्ब धामानि सहस्रमुत वो रुहः ।
अधा शतक्रतवो यूयमिमं मे अगदं कृत।।
पुष्पवतीः प्रसूमतीः फलिनीरफला उत । अश्वा इव सजित्वरीर्वीरुधः पारयिष्णवः ॥
ओषधीरिति मातरस्तद्वो देवीरुपब्रुवे । रपाँसि विघ्नतीरित रक्षश्चातयमानाः ।।
अश्वत्थे वो निषदनं पर्णे वो वसतिष्कृता । गोभाज इत्किलासथ यत् सनवाथ पूरुषम्॥
अश्वावतीँ सोमावतीमूर्जयन्तीमुदोजसम् । आवित्सि सर्वा ओषधीरस्मा अरिष्टतातये॥
यदोषधयस्समग्मत राजानस्समिता इव । विप्रस्स उच्यते भिषग्रक्षोहामीवचातनः ।।
उच्छुष्मा ओषधीनां गावो गोष्ठादिवेरते । धनँ सनिष्यन्तीनामात्मानं तव पूरुष ॥
अति विश्वाः परिष्ठास्स्तेन इव व्रजमक्रमुः । ओषधयः प्राचुच्यवुर्यत् किंचित् तन्वो रपः ।।
यास्त आतस्थुरात्मानमाविविशुः परुष्परुः ।
तास्ते यक्ष्मं विबाधन्तामुग्रो मध्यमशीरिव ॥
यदहं वाजयन्निमा ओषधीर्हस्त आदधे ।
आत्मा यक्ष्मस्य नश्यति पुरा जीवगृभो यथा ॥
निष्कृतिर्नाम वो माताथो त्वमसि निष्कृतिः ।
सराः पतत्रिणीस्स्थ यदामयति निष्कृत ।।
साकं यक्ष्म प्रपत चाषेण किकिदीविना ।
साकं वातस्य ध्राज्या साकं नश्य निहाकया ।
अन्या वो अन्यामवत्वन्यान्यस्या उपावत ।
तास्सर्वस्संविदाना इदं मे प्रावता वचः ॥
अवपतन्तीरवदन् दिवोऽन्तेभ्यस्परि । यं जीवमश्नवामहै न स रिष्याति पूरुषः ॥
याः फलिनीर्या अफला अकोशाः कोशिनीश्च याः ।
बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वँहसः ।।
याश्चेदमुपशृण्वन्ति याश्च दूरं परागताः । बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वंहसः ॥
यास्सोमराज्ञीर्वरुणस्य राज्ञो यासां विश्वे देवा अधिपतयश्च सर्वे ।
या अन्तरिक्षे दिवि याः पृथिव्यां ता नस्स्तुता ओषधीः पारयन्तु ॥१३॥

मा नो हिँसीज्जनिता यः पृथिव्या यो दिवँ सत्यधर्मा व्यानट् ।
यश्चापश्चन्द्राः प्रथमो जजान कस्मै देवाय हविषा विधेम ।।
अभ्यावर्तस्व पृथिवि यज्ञेन पयसा सह । वपां ते अग्निरिषितो अरोहत् ।।
अग्ने यत् ते शुक्रं यच्चन्द्रं यत् पूतं यच्च यज्ञियम् । तद्देवेभ्यो भरामसि ।।
इषमूर्जमहमित आद्यृतस्य योनिं महिषस्य धाराम् ।
आ नो गोषु विशत्वा तनूषु जहामि सेदिमनिराममीवाम् ॥
अग्ने तव श्रवो वयो महि भ्राजन्त्यर्चयो विभावसो ।
बृहद्भानो शवसा वाजमुक्थ्यं दधासि दाशुषे कवे ॥
पावकवर्चाश्शुक्रवर्चा अनूनवर्चा उदियर्षि भानुना ।
पुत्रः पितरा विचरन्नुपावसि पृणक्षि रोदसी उभे ।।
ऊर्जो नपाज्जातवेदस्सुशस्तिभिर्मन्दस्व धीतिभिर्हितः ।।
त्वे विश्वे संदधुर्भूरिवर्पसश्चित्रोतयो वामजाताः ।।
इरज्यन्नग्ने प्रथयस्व जन्तुभिरस्मे रायो अमर्त्य ।
स दर्शतस्य वपुषो विराजसि पृणक्षि सानसिं रयिम् ॥
ऋतावानं महिषं विश्वदर्शतमग्निँ सुम्नाय दधिरे पुरो जनाः ।
श्रुत्कर्णँ सप्रथस्तमं त्वा युजा विप्रासो मानुषा युगा ।।
निष्कर्तारमध्वरस्य प्रचेतसं क्षयन्तँ शवसे महे ।
रातिं वामस्य सुभगां महीमिषं पृणक्षि दर्शतं क्रतुम् ॥
आप्यायस्व समेतु ते विश्वतस्सोम वृष्ण्यम् । भवा वाजस्य संगथे ॥
सं ते पयाँसि समु यन्तु वाजास्सं वृष्ण्यान्यभिमातिषाहः ।।
आप्यायमानो अमृताय सोम दिवि श्रवाँस्युत्तमानि धिष्व ॥१४॥
अपां पृष्ठमसि योनिरग्नेस्समुद्रमभितः पिन्वमानम् ।
वर्धमानो महाँ आ च पुष्करे दिवो मात्रया वरिणा प्रथस्व ।।
ब्रह्म जज्ञानं प्रथम पुरस्ताद्वि सीमतस्सुरुचो वेन आवः ।
स बुध्न्या उपमा अस्य विष्ठास्सतश्च योनिमसतश्च वि वः ।।
हिरण्यगर्भस्समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् ।
स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ।।
द्रप्सश्चस्कन्द पृथिवीमनु द्यामिमं च योनिमनु यश्च पूर्वः ।
समानं योनिमनु संचरन्तं द्रप्सं जुहोम्यनु सप्त होत्राः ॥
नमो अस्तु सर्पेभ्यो ये के च पृथिव्यामधि ।
ये अन्तरिक्षे ये दिवि तेभ्यस्सर्पेभ्यो नमः ॥
येषु वा यातुधाना ये वा वनस्पतीरनु ।
येऽवटेषु शेरते तेभ्यस्सर्पेभ्यो नमः ॥
ये वादो रोचने दिवो ये वा सूर्यस्य रश्मिषु ।
येऽप्सु सदाँसि चक्रिरे तेभ्यस्सर्पेभ्यो नमः ॥
कृणुष्व पाजः प्रसितिं ने पृथ्वी याहि राजेवामवाँ इभेन ।
तृष्वीमनु प्रसितिं द्रूणानोऽस्तासि विध्य रक्षसस्तपिष्ठैः ॥
तव भ्रमास आशुया पतन्त्यनुस्पृश धृषता शोशुचानः ।
तपूँष्यग्ने जुह्वा पतङ्गानसंदितो विसृज विष्वगुल्काः ।।
प्रति स्पशो विसृज तूर्णितमो भवा पायुर्विशो अस्य अदब्धः ।
यो नो दूरे अघशँसो यो अन्त्यग्ने माकिष्टे व्यथिरादधर्षीत् ।।
उदग्ने तिष्ठ प्रत्यातनुष्व न्यमित्राँ ओषतात्तिग्महेते ।
यो नो अरातिँ समिधान चक्रे नीचा तं धक्ष्यतसं न शुष्कम् ॥
ऊर्ध्वो भव प्रतिविध्याध्यस्मदाविष्कृणुष्व दैव्यान्यग्ने ।
अव स्थिरा तनुहि यातुजूनां जामिमजामिं प्रमृणीहि शत्रून् ।।
अग्नेस्त्वा तेजसा सादयामीन्द्रस्य त्वौजसा सादयामि ।।
अयमग्निस्सहस्रिणो वाजस्य शतिनस्पतिः । मूर्धा कवी रयीणाम् ॥
भुवो यज्ञस्य रजसश्च नेता यत्रा नियुद्भिस्सचसे शिवाभिः ।।
दिवि मूर्धानं दधिषे स्वर्षा जिह्वामग्ने चकृषे हव्यवाहम् ॥१५॥
ध्रुवासि धरुणास्तृता विश्वकर्मणा मा त्वा समुद्र उद्वधीन्मा सुपर्णोऽव्यथमाना पृथिवीं दृँह प्रथोऽसि पृथिव्यसि भूरसि भूमिरस्यदितिरसि तया देवतयाङ्गिरस्वद ध्रुवा सीद ॥
काण्डात् काण्डात् प्ररोहन्ती परुषस्परुषस्परि ।
एवा नो दूर्वे प्रतनु सहस्रेण शतेन च ॥
या शतेन प्रतनोषि सहस्रेण विरोहसि । तस्मै ते देवीष्टके विधेम हविषा वयम् ॥
यास्ते अग्ने सूर्ये रुचो दिवमातन्वन्ति रश्मिभिः ।
ताभिर्नो अद्य सर्वाभी रुचे जनाय नस्कृधि ।।
या वो देवास्सूर्ये रुचो गोष्वश्वेषु या रुचः ।
इन्द्राग्नी ताभिस्सर्वाभी रुचं नो धत्त बृहस्पते ॥
 विराड़ ज्योतिरधारयत् स्वराड् ज्योतिरधारयदषाढासि सहमाना सहस्वारातिं सहस्व पृतनायतस्सहस्रवीर्यासि सा मा जिन्व ।।
 मही द्यौः पृथिवी च न इमं यज्ञं मिमिक्षताम् । पिपृतां नो भरीमभिः ।।
 विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे । इन्द्रस्य युज्यस्सखा ।।
सरित् स्रवन्ति सरितो न धेना अन्तर्हृदा मनसा यश्चिकित्रे ।
घृतस्य धारा अभिचाकशीमि हिरण्ययो वेतसो मध्ये अग्नेः ।
ऋचे त्वा रुचे त्वा भासे त्वा ज्योतिषे त्वाभूदिदं विश्वस्य भुवनस्य वाजिनमग्नेर्वैश्वानरस्य चाग्निर्ज्योतिषा ज्योतिष्मान् रुक्मो वर्चसा वर्चस्वान् ध्रुवासि धरुणा सहस्रदा असि सहस्राय त्वा ॥१६॥

आदित्यं गर्भं पयसा समञ्जन् सहस्रस्य प्रतिमां विश्वरूपम् ।।
परिवृङ्धि हरसा माभिमँस्थाश्शतायुषं कृणुहि चीयमानः ॥
वातस्य जूतिं वरुणस्य नाभिमश्वं जज्ञानँ सरिरस्य मध्ये ।
शिशुं नदीनाँ हरिमद्रिबुध्नमग्ने मा हिँसीः परमे व्योमन् ।।
अजस्रमिन्द्रमरुषं भुरण्युमग्निमीडे पूर्वचित्तिं नमोभिः ।
स पर्वभिर्ऋतुशः कल्पमानस्स गां मा हिँसीरदितिं विराजम् ॥
वरुत्रीं त्वष्टुर्वरुणस्य नाभिमविं जज्ञानां रजसः परस्मात् ।
महीँ साहस्रीमसुरस्य मायां तामग्ने हेडः परि ते वृणक्तु ।।
यो अग्निरग्नेस्तपसोऽधि जातश्शोकात् पृथिव्या उत वा दिवस्परि ।
येन प्रजा विश्वकर्मा जजान तमग्ने हेडः परि ते वृणक्तु ।।
इमं मा हिँसीर्द्विपादं पशूनाँ सहस्राक्ष मेध आ चीयमानः ।
मयुं पशुं मेधमग्ने जुषस्व तेन चिन्वानस्तन्वो निषीद ॥
मयुं ते क्षुद्यं द्विष्मस्तं ते शुगृच्छतु ।।
इमं मा हिँसीकशफं पशूनां कनिक्रदं वाजिनं वाजिनेषु ।
गौरमारण्यमनु ते दिशामि तेन चिन्वानस्तन्वो निषीद ।।
गौरं ते क्षुद्यं द्विष्मस्तं ते शुगृच्छतु ।।
इमँ साहस्रँ शतधारमुत्सं व्यच्यमानँ सरिरस्य मध्ये ।
घृतं दुहानामदितिं जनायाग्ने मां हिंसीः परमे व्योमन् ।।
गवयमारण्यमनु ते दिशामि तेन चिन्वानस्तन्वो निषीद ॥
गवयं ते क्षुद्यं द्विष्मस्तं ते शुगृच्छतु ।।
इममूर्णायुं वरुणस्य नाभिं त्वचं पशूनां द्विपदां चतुष्पदाम् ।
त्वष्टुः प्रजानां प्रथमं जनित्रमग्ने मा हिँसीः परमे व्योमन् ॥
मेषमारण्यमनु ते दिशामि तेन चिन्वानस्तन्वो निषीद ।।
मेषं ते क्षुद्यं द्विष्मस्तं ते शुगृच्छतु ।।
अजो ह्यग्नेरजनिष्ट शोकात् सो अपश्यज्जनितारमग्रे ।
तेन देवा देवतामग्रमायँस्तेन रोहमायन्नुप मेध्यासः ॥
शरभमारण्यमनु ते दिशामि तेन चिन्वानस्तन्वो निषीद ॥
शरभं ते क्षुद्यं द्विष्मस्तं ते शुगृच्छतु ॥१७॥

अपां त्वेमन् सादयाम्यपां त्वोद्मन् सादयाम्यपां त्वा भस्मनि सादयाम्यपां त्वा ज्योतिषि सादयाम्यपां त्वायने सादयाम्यर्णवे त्वा सदने सादयामि समुद्रे त्वा सदने सादयामि सरिरे त्वा सदने सादयाम्यपां त्वा क्षये सादयाम्यपां त्वा सधिषि सादयाम्यपां त्वा सदने सादयाम्यपां त्वा सधस्थे सादयाम्यपां त्वा योनौ सादयाम्यपां त्वा पुरीषे सादयाम्यपां त्वा पाथिषि सादयामि गायत्रेण त्वा छन्दसा सादयामि त्रैष्टुभेन जागतेनानुष्टुभेन पाङ्क्तेन त्वा छन्दसा सादयामि ॥१८॥
   
अयं पुरो भूस्तस्य प्राणो भौवायनो वसन्तः प्राणायनो गायत्री वासन्ती गायत्र्या गायत्रं गायत्रादुपाँशुरुपाँशोस्त्रिवृत् त्रिवृतो रथन्तरं वसिष्ठ ऋषिः प्रजापतिगृहीतया त्वया प्राणं गृह्णामि प्रजाभ्योऽयं दक्षिणा विश्वकर्मा तस्य मनो वैश्वकर्मणं ग्रीष्मो मानसस्त्रिष्टुब् ग्रैष्मी त्रिष्टुभस्स्वारँ स्वारादन्तर्यामोऽन्तर्यामात् पञ्चदशः पञ्चदशाद्बृहद्भरद्वाज ऋषिः प्रजापतिगृहीतया त्वया मनो गृह्णामि प्रजाभ्योऽयं पश्चाद्विश्वव्यचास्तस्य चक्षुर्वैश्वव्यचसं वर्षाणि चाक्षुषाणि जगती वार्षी जगत्या ऋक्सममृक्समाच्छुक्रश्शुक्रात् सप्तदशस्सप्तदशाद्वैरूपं जमदग्निर्ऋषिः प्रजापतिगृहीतया त्वया चक्षुर्गृह्णामि प्रजाभ्य इदमुत्तरात् स्वस्तस्य श्रोत्रँ सौवँ शरच्छौत्र्यनुष्टुप् शारद्यनुष्टुभ ऐडमैडान्मन्थी मन्थिन एकविँशं एकविँशाद्वैराजं विश्वामित्र ऋषिः प्रजापतिगृहीतया त्वया श्रोत्रं गृह्णामि प्रजाभ्य इयमुपरि मतिस्तस्या वाङ् मात्या हेमन्तो वाच्यः पङ्क्तिर्हैमन्ती पङ्क्त्या निधनवन्निधनवत आग्रायण आग्रायणात् त्रिणवत्रयस्त्रिँशौ त्रिणवत्रयस्त्रिँशाभ्याँ शाक्वररैवते विश्वकर्मर्षिः प्रजापतिगृहीतया त्वया वाचं गृह्णामि प्रजाभ्यः ।।
लोकं पृण च्छिद्रं पृणाथो सीद ध्रुवा त्वम् ।
इन्द्राग्नी त्वा बृहस्पतिरस्मिन् योना असीषदन् ।
ता अस्य सूददोहसस्सोमँ श्रीणन्ति पृश्नयः ।
जन्मन् देवानां विंशस्त्रिष्वा रोचने दिवः ॥१९॥

समिद्धो अद्य मनुषो दुरोणे देवो देवान् यजसि जातवेदः ।
आ च वह मित्रमहश्चिकित्वान्त्वं दूतः कविरसि प्रचेताः ॥
तनूनपात् पथ ऋतस्य यानान्मध्वा समञ्जन् स्वदया सुजिह्व ।
मन्मानि धीभिरुत यज्ञमृन्धन् देवत्रा च कृणुह्यध्वरं नः ॥
आजुह्वान ईड्यो वन्द्यश्चा याह्यग्ने वसुभिस्सजोषाः ।
त्वं देवानामसि यह्व होता स एनान्यक्षीषितो यजीयान् ।।
प्राचीनं बर्हिः प्रदिशा पृथिव्या वस्तोरस्या वृज्यते अग्रे अह्नाम् ।
व्यु प्रथते वितरं वरीयो देवेभ्यो अदितये स्योनम् ।।
व्यचस्वतीरुर्विया विश्रयन्तां पतिभ्यो न जनयश्शुम्भमानाः ।
देवीर्द्वारो बृहतीर्विश्वमिन्वा देवेभ्यो भवत सुप्रायणाः ।।
आ सुष्वयन्ती यजते उपाके उषसानक्ता सदतां नि योनौ ।
दिव्ये योषणे बृहत सुरुक्मे अधि श्रियँ शुक्रपिशं दधाने ।।
दैव्या होतारा प्रथम सुवाचा मिमाना यज्ञं मनुषो यजध्यै ।
प्रचोदयन्ता विदथेषु कारू प्राचीनं ज्योतिः प्रदिशा दिशन्ता ।।
आ नो यज्ञं भारती तूयमेत्विडा मनुष्वदिह चेतयन्ती ।
तिस्रो देवीर्बर्हिरेदँ स्योनँ सरस्वती स्वपसस्सदन्तु ।।
य इमे द्यावापृथिवी जनित्री रूपैरपिँशद्भुवनानि विश्वा ।
तमद्य होतरिषितो यजीयान् देवं त्वष्टारमिह यक्षि विद्वान् ।।
उपावसृज त्मन्या समञ्जन् देवानां पाथ ऋतुथा हवींषि ।
वनस्पतिश्शमिता देवो अग्निस्स्वदन्तु हव्यं मधुना घृतेन ।।
सद्यो जातो व्यमिमीत यज्ञमग्निर्देवानामभवत् पुरोगाः ।
अस्य होतुः प्रदिश्यृतस्य वाचि स्वाहाकृतँ हविरदन्तु देवाः ॥२०॥
 
अग्निर्होता नो अध्वरे वाजी सन् परिणीयते । देवो देवेषु यज्ञियः ॥
परि त्रिविष्ट्यध्वरं यात्यग्नी रथीरिव । आ देवेषु प्रयो दधत् ॥
परि वाजपतिः कविरग्निर्हव्यान्यक्रमीत् । दधद्रत्नानि दाशुषे ।।
अजैदग्निरसनद्वाजं नि देवो देवेभ्यो हव्यवाट् प्राञ्जोभिर्हिन्वानो धेनाभिः कल्पमानो यज्ञस्यायुः प्रतिरन्नुप प्रेष्य होतर्हव्या देवेभ्यो दैव्याश्शमितार उत च मनुष्या आरभध्वमुपनयत मेध्या दुर आशासाना मेधपतये मेधं प्रास्मा अग्निं भरत स्तृणीत बर्हिरन्वेनं माता मन्यतामनु पितानु भ्राता सगर्भ्यो ऽनु सखा सयूथ्यः ॥ उदीचीनाँ अस्य पदः कृणुतात् सूर्यं चक्षुर्गमयताद्वातं प्राणमन्ववसृजतादन्तरिक्षमसुं पृथिवीँ शरीरमेकधास्य त्वचमाच्छ्यतात् पुरा नभ्या अपिशसो वपामुत्खिदतादन्तरेवोष्माणं वारयध्वाच्छ्येनमस्य वक्षः कृणुतात् प्रशसा बाहू शला दोषणी कश्यपेवाँसाच्छिद्रे श्रेणी कवषोरूस्रे कपर्णाष्ठीवन्ता षड्विँशतिरस्य वङ्क्रयस्ता अनुष्ठुयोच्च्यावयाद्गात्रं गात्रमस्यानूनं कृणुतादूवध्यगोहं पार्थिवं खनतादस्ना रक्षस्सँसृजताद्वनिष्टुमस्य मा राविष्टोरूकं मन्यमाना नेद्वस्तोके तनये रविता रवदध्रिगो शमीध्वँ सुशमि शमीध्वँ शमीध्वमध्रिगो ।
जुषस्व सप्रथस्तमं वचो देवप्सरस्तमम् । हव्या जुह्वान आसनि ।।
इमं नो यज्ञममृतेषु धेहीमा हव्या जातवेदो जुषस्व ।
स्तोकानामग्ने मेदसो घृतस्य होतः प्रशान प्रथमो निषद्य ।।
घृतवन्तः पावक ते स्तोकाश्चोोततन्ति मेदसः ।
स्वधर्मन् देववीतये श्रेष्ठं नो धेहि वार्यम् ।।
तुभ्यँ स्तोको घृतश्चुतोऽग्ने विप्राय सन्त्य ।
ऋषिश्श्रेष्ठस्समिध्यसे यज्ञस्य प्राविता भव ।।
तुभ्यँ श्चोतन्त्यध्रिगो शचीवस्स्तोकासो अग्ने मेदसो घृतस्य ।
कविशस्तो बृहता भानुनागा हव्या जुषस्व मेधिर ॥
ओजिष्ठं ते मध्यतो मेद उद्भृतं प्र ते वयं ददामहे ।
श्चोतन्ति ते वसो स्तोका अधि त्वचि प्रति तान् देवशो विहि ॥
होता यक्षद्बृहस्पतिं छागस्य वपाया मेदसो जुषताँ हविर्होतर्यज होता यक्षदश्विना छागस्य वपाया मदसो जुषेताँ हविर्होतर्यज होता यक्षत् सरस्वतीं मेष्या वपाया मेदसो जुषताँ हविर्होतर्यज होता यक्षदिन्द्रं मेषस्य वपाया मेदसो जुषताँ हविर्होतर्यज ॥२१॥ [१२८९) ॥


इति श्रीयजुषि काठके चरकशाखायामिठिमिकायामग्निवीशिका नाम षोडशं स्थानकं संपूर्णम् ॥१६॥