प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← स्थानकं १६ काठकसंहिता (विस्वरः)
स्थानकम् १७
[[लेखकः :|]]
स्थानकं १८ →
ध्रुवक्षितिः।

अथ सप्तदशं स्थानकम् ।

ध्रुवक्षितिः ।
ध्रुवक्षितिर्ध्रुवयोनिर्ध्रुवासि ध्रुवं योनिमासीद साध्या ।
उख्यस्य केतुं प्रथमं जुषाणाश्विनाध्वर्यू सादयतामिह त्वा ।
कुलायिनी घृतवती पुरंधिस्स्योने सीद सदने पृथिव्याः ।
अभि त्वा रुद्रा वसवो गृणन्त्विमा ब्रह्म पीपिहि सौभगायाश्विनाध्वर्यू सादयतामिह त्वा॥
स्वैर्दक्षैर्दक्षपितेह सीद देवानाँ सुम्ने बृहते रणाय ।
पितेवैधि सूनव आ सुवस्स्वावेशया तन्वा संविशस्वाश्विनाध्वर्यू सादयतामिह त्वा ।।
अग्नेः पुरीषमस्यप्सो नाम तां त्वा विश्वे अभिगृणन्तु देवाः ।
स्तोमपृष्ठा घृतवतीह सीद प्रजावदस्मे द्रविणायजस्वाश्विनावध्वर्यू सादयतामिह त्वा ।।
अदित्यास्त्वा पृष्ठे सादयाम्यन्तरिक्षस्य धर्त्रीँ विष्टम्भनीं दिशाम् ॥
अधिपत्नीं भुवनानामूर्मिर्द्रप्सो अपामसि ।।
विश्वकर्मा त ऋषिरश्विनाध्वर्यू सादयतामिह त्वा ।। सजूर्ऋतुभिस्सजूर्विधाभिस्सजूर्देवैस्सजूर्देवैर्वयोनाधैरग्नये त्वा वैश्वानरायाश्विनावध्वर्यू सादयतामिह त्वा ।। सजूर्ऋतुभिस्सजूर्विधाभिस्सजूर्वसुभिस्सजू रुदैस्सजूरादित्यैस्सजूर्विश्वैर्देवैर्वयोनाधैरग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयतामिह त्वा ॥ प्राणं मे पाहि व्यानं मे पाह्यपानं मे पाहि चक्षुर्म उर्विया विभाहि श्रोत्रं मे श्लोकयापः पिन्वौषधींर्जिन्व द्विपादव चतुष्पात् पाहि दिवो वा वृष्टिमेरय ।।१।।

त्रियविर्वयो गायत्री छन्दौ दित्यवाड् वयस्त्रिष्टुप् छन्दः पञ्चाविर्वयो विराट् छन्दस्त्रिवत्सो वय उष्णिहा छन्दस्तुर्यवाड् वयोऽनुष्टुप् छन्दः पष्ठवाड्वयो बृहती छन्द उक्षा वयः ककुप् छन्दो धेनुर्वयो जगती छन्दोऽनड्वान् वयः पङ्क्तिश्छन्द ऋषभो वयस्सतोबृहती छन्दो बस्तो वयो युवलं छन्दो वृष्णिर्वयो विशालं छन्दो व्याघ्रो वयोऽनाधृष्यं छन्दस्सिँहो वयश्छदिश्छन्दः पुरुषो वयस्तन्द्रं छन्दः क्षत्रं वयो मयन्दं छन्दो विष्टम्भो वयोऽधिपतिश्छन्दो मूर्धा वयः प्रजापतिश्छन्दो विश्वकर्मा वयः परमेष्ठी छन्दः ॥२॥

इन्द्राग्नी अव्यथमानामिष्टकां दृँहतं युवम् ।
पृष्ठेन द्यावापृथिवी अन्तरिक्षं च विबाधसे ॥
राज्ञ्यसि प्राची दिग्विराडसि दक्षिणा दिक्सम्राडसि प्रतीची दिक्स्वराडस्युदीची दिगधिपत्न्यसि बृहती दिगायुर्मे पाहि प्राणं मे पाहि व्यानं मे पाह्यपानं मे पाहि चक्षुर्मे पाहि श्रोत्रं मे पाहि मनो मे पिन्व वाचं मे जिन्वात्मानं मे पाहि ज्योतिर्मे यच्छ मा छन्दः प्रमा छन्दः प्रतिमा छन्दोऽस्रीवयश्छन्दः पङ्क्तिश्छन्दः उष्णिहा छन्दोऽनुष्टुप्छन्दो विराट् छन्दो बृहती छन्दो गायत्री छन्दस्त्रिष्टुप् छन्दो जगती छन्दः पृथिवी छन्दोऽन्तरिक्षं छन्दो द्यौश्छन्दस्समा छन्दो नक्षत्राणि छन्दो वाक् छन्दो मनश्छन्दः कृषिश्छन्दो हिरण्यं छन्दो गौश्छन्दोऽजा छन्दोऽश्वश्छन्दोऽग्निर्देवता वातो देवता सूर्यो देवता चन्द्रमा देवता वसवो देवता रुद्रा देवतादित्या देवता मरुतो देवता विश्वे देवा देवतेन्द्रो देवता वरुणो देवता बृहस्पतिर्देवता मूर्धासि राड् ध्रुवासि धरुणा धर्त्र्यसि धरण्यायुषे त्वा वर्चसे त्वा कृष्यै त्वा क्षेमाय त्वा यन्त्री राड्यन्त्र्यसि यमनी ध्रुवासि धरित्रीषे त्वोर्जे त्वा रय्यै त्वा पोषाय त्वा ।।३।।

आशुस्त्रिवृद्भान्तः पञ्चदशो व्योमा सप्तदशः प्रतूर्तिरष्टादशस्तपो नवदशोऽभीवर्तस्सविँशो धरुण एकविँशो वर्चो द्वाविँशस्संभरणस्त्रयोविँशो योनिश्चतुर्विँशो गर्भाः पञ्चविँश ओजस्त्रिणवः क्रतुरेकत्रिँशः प्रतिष्ठा त्रयस्त्रिँशो ब्रध्नस्य विष्टपं चतुस्त्रिँशो नाकष्षट्त्रिँशो वीवर्तो अष्टाचत्वारिँशो धर्त्रं चतुष्टोमोऽग्नेर्भागोऽसि दीक्षाया आधिपत्यं ब्रह्म स्पृतं त्रिवृत्स्तोम इन्द्रस्य भागोऽसि विष्णोराधिपत्यं क्षत्रँ स्पृतं पञ्चदशस्स्तोमो नृचक्षसां भागोऽसि धातुराधिपत्यं जनित्रँ स्पृतँ सप्तदशस्स्तोमो मित्रस्य भागोऽसि वरुणस्याधिपत्यं दिवो वृष्टिर्वातस्पृत एकविँशस्स्तोमो वसूनां भागोऽसि रुद्राणामाधिपत्यं चतुष्पात् स्पृतं चतुर्विँशस्स्तोम आदित्यानां भागोऽसि मरुतामाधिपत्यं गर्भास्स्पृताः पञ्चविँशस्स्तोमोऽदित्या भागोऽसि पूष्ण आधिपत्यमोजस्स्पृतं त्रिणवस्स्तोमो देवस्य सवितुर्भागोऽसि बृहस्पतेराधिपत्यँ समीचीर्दिशस्स्पृताश्चतुष्टोमस्स्तोमो यवानां भागोऽस्ययवानामाधिपत्यं प्रजास्स्पृताश्चतुश्चत्वारिंशस्स्तोम ऋभूणां भागोऽसि विश्वेषां देवानामाधिपत्यं भूतं निशान्तं त्रयस्त्रिंशसस्तोमः ॥४॥

एकयास्तुवत प्रजा अधीयन्त प्रजापतिरधिपतिरासीत् तिसृभिरस्तुवत ब्रह्मासृज्यत ब्रह्मणस्पतिरधिपतिरासीत् पञ्चभिरस्तुवत भूतान्यसृज्यन्त भूतानां पतिरधिपतिरासीत् सप्तभिरस्तुवत सप्तर्षयोऽसृज्यन्त धाताधिपतिरासीन्नवभिरस्तुवत पितरोऽसृज्यन्तादितिरधिपत्न्यासीदेकादशभिरस्तुवतार्तवा असृज्यन्तर्तवोऽधिपतय आसँस्त्रयोदशभिरस्तुवत मासा असृज्यन्त संवत्सरोऽधिपतिरासीत् पञ्चदशभिरस्तुवत क्षत्रमसृज्यतेन्द्रोऽधिपतिरासीत् सप्तदशभिरस्तुवत पशवोऽसृज्यन्त बृहस्पतिरधिपतिरासीन्नवदशभिरस्तुवत शूद्रार्या असृज्येतामहोरात्रे अधिपत्नी आस्तामेकविंशत्यास्तुवतैकशफाः पशवोऽसुज्यन्त वरुणोऽधिपतिरासीत् त्रयोविंशत्यास्तुवत क्षुद्राः पशवोऽसृज्यन्त पूषाधिपतिरासीत् पञ्चविंशत्यास्तुवतारण्याः पशवोऽसृज्यन्त वायुरधिपतिरासीत् सप्तविंशत्यास्तुवत द्यावापृथिवी व्यैतां वसवो रुद्रा अनुव्यायँस्त एवाधिपतय आसन्नवविँशत्यास्तुवत वनस्पतयोऽसृज्यन्त सोमोऽधिपतिरासीदेकत्रिँशतास्तुवत प्रजा असृज्यन्त यवाश्चायवाश्चाधिपतय आसँस्त्रयस्त्रिँशतास्तुवत भूतान्यशाम्यत् प्रजापतिः परमेष्ठ्यधिपतिरासीत् ॥५॥

अग्ने जातान् प्रणुदा नस्सपत्नान् प्रत्यजाताञ्जातवेदो नुदस्व ।
अधि नो ब्रूहि सुमना अहेडञ्शर्मन्ते स्याम त्रिवरूथ उद्भौ ॥
सहसा जातान् प्रणुदा नस्सपत्नान् प्रत्यजाताञ्जातवेदो नुदस्व ।
अधि नो ब्रूहि सुमनस्यमानो वयँ स्याम प्रणुदा नस्सपत्नान् ।। चतुश्चत्वारिंशस्स्तोमो वर्चो द्रविणँ षोडशसस्तोम ओजो द्रविणम् ॥ पृथिव्याः पुरीषमस्यप्सो नाम तां त्वा विश्वे अभिगृणन्तु देवाः ।। स्तोमपृष्ठा घृतवतीह सीद प्रजावदस्मे द्रविणायजस्व ।।
एवश्छन्दो वरिवश्छन्दश्शम्भूश्छन्दः परिभूश्छन्द आच्छच्छन्दो मनश्छन्दो व्यचश्छन्दस्सिन्धुश्छन्दस्समुद्रं छन्दस्सरिरं छन्दः ककुप्छन्दस्त्रिककुप्छन्दः काव्यं छन्दोऽङ्कुपं छन्दः क्षुरो भ्रजश्छन्दोऽक्षरपङ्क्तिश्छन्दः पदपङ्क्तिश्छन्दो विष्टारपङ्क्तिश्छन्द आच्छच्छन्दः प्रच्छच्छन्दस्संयच्छन्दो वियच्छन्दो बृहच्छन्दो रथन्तरं छन्दो निकायं छन्दो वीवधश्छन्दो गिरश्छन्दो भ्राजश्छन्दस्सँस्तुप्छन्दोऽनुष्टुप्छन्द एवश्छन्दो वरिवश्छन्दो वयश्छन्दो वयस्कृच्छन्दो विशालं छन्दो विष्पर्धाश्छन्दश्छदिश्छन्दो दूरोहणं छन्दस्तन्द्रं छन्दो अङ्कङ्कं छन्दः ।।६।।

रश्मिरसि क्षयाय त्वा क्षयं जिन्व प्रेतिरसि धर्मणे त्वा धर्म जिन्वान्वितिरसि दिवे त्वा दिवं जिन्व संधिरस्यन्तरिक्षाय त्वान्तरिक्षं जिन्व प्रतिधिरास पृथिव्यै त्वा पृथिवीं जिन्व विष्टम्भोऽसि वृष्ट्यै त्वा वृष्टिं जिन्व प्रवास्यह्ने त्वाहर्जिन्वानुवासि रात्र्यै त्वा रात्रीं जिन्वोशिगसि वसुभ्यस्त्वा वसूञ्जिन्व प्रकेतोऽसि रुद्रेभ्यस्त्वा रुद्राञ्जिन्व सुदितिरस्यादित्येभ्यस्त्वादित्याञ्जिन्वौजोऽसि पितृभ्यस्त्वा पितॄञ्जिन्व तन्तुरसि प्रजाभ्यस्त्वा प्रजा जिन्व पृतनाषाडसि पशुभ्यस्त्वा पशूञ्जिन्व रेवदस्योषधीभ्यस्त्वौषधीर्जिन्वाभिजिदसि युक्तग्रावेन्द्राय त्वेन्द्रं जिन्वाधिपतिरसि प्राणाय त्वा प्राणं जिन्व धरुणोऽस्यपानाय त्वापानं जिन्व सँसर्पोऽसि चक्षुषे त्वा चक्षुर्जिन्व वयोधा असि श्रोत्राय त्वा श्रोत्रं जिन्व त्रिवृदसि त्रिवृते त्वा सवृदसि सवृते त्वा प्रवृदसि प्रवृते त्वानुवृदस्यनूवृते त्वा सँरोहोऽसि विरोहोऽसि प्ररोहोऽस्यनूरोहोऽसि वसुकोऽसि वस्यष्टिरसि वेषश्रीरसि देवस्य सवितुः प्रसवे बृहस्पतये स्तुत ॥७॥

राज्ञ्यसि प्राची दिग्वसवस्ते देवा अधिपतयोऽग्निर्हेतीनां प्रतिधर्ता त्रिवृत्त्वा स्तोमः पृथिव्याँ श्रयत्वाज्यमुक्थमव्यथाय स्तभ्नातु रथन्तरँ साम प्रतिष्ठित्या अन्तरिक्षमृषयस्त्वा प्रथमजा देवेषु दिवो मात्रया वरिणा प्रथन्तु विधर्ता चायमधिपतिस्ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु विराडसि दक्षिणा दिग्रुद्रास्ते देवा अधिपतय इन्द्रो हेतानां प्रतिधर्ता पञ्चदशस्त्वा स्तोमः पृथिव्याँ श्रयतु प्रउगमुक्थमव्यथाय स्तभ्नातु बृहत् साम प्रतिष्ठित्या अन्तरिक्षमषयस्त्वा प्रथमजा देवेषु दिवो मात्रया वरिणा प्रथन्तु विधर्ता चायमधिपतिस्ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु सम्राडसि प्रतीची दिगादित्यास्ते देवा अधिपतयस्सोमो हेतीनां प्रतिधर्ता सप्तदशस्त्वा स्तोमः पृथिव्याँ श्रयतु मरुत्वतीयमुक्थमव्यथाय स्तभ्नातु वैरूपँ साम प्रतिष्ठित्या अन्तरिक्षमृषयस्त्वा प्रथमजा देवेषु दिवो मात्रया वरिणा प्रथन्तु विधर्ता चायमधिपतिस्ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु स्वराडस्युदीची दिङ् मरुतस्ते देवा अधिपतयो वरुणो हेतीनां प्रतिधर्तैकविँशस्त्वा स्तोमः पृथिव्याँ श्रयतु निष्केवल्यमुक्थमव्यथाय स्तभ्नातु वैराजँ साम प्रतिष्ठित्या अन्तरिक्षमृषयस्त्वा प्रथमजा देवेषु दिवो मात्रया वरिणा प्रथन्तु विधर्ता चायमधिपतिस्ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्त्वधिपत्न्यसि बृहती दिग्विश्वे ते देवा अधिपतयो बृहस्पतिर्हेतीनां प्रतिधर्ता त्रिणवत्रयस्त्रिँशौ त्वा स्तोमौ पृथिव्याँ श्रयतां वैश्वदेवाग्निमारुते उक्थे अव्यथाय स्तभ्नीताँ शाक्वररैवते सामनी प्रतिष्ठित्या अन्तरिक्षमृषयस्त्वा प्रथमजा देवेषु दिवो मात्रया वरिणा प्रथन्तु विधर्ता चायमधिपतिस्ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च साद्यन्तु ॥८॥

अयं पुरो हरिकेशस्सूर्यरश्मिस्तस्य रथकृत्सश्च रथौजाश्च सेनानीग्रामण्यौ पुञ्जिगस्थला च कृतस्थला चाप्सरसौ यातुधाना हेती रक्षाँसि प्रहेतिस्ते नः पान्तु ते नोऽवन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दधाम्ययं दक्षिणा विश्वकर्मा तस्य रथस्वनश्च रथेचित्रश्च सेनानीग्रामण्यौ मेनका च सहजन्या चाप्सरसौ दङ्क्ष्णवः पशवो हेतिः पौरुषेयो वधः प्रहेतिस्ते नः पान्तु ते नोऽवन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दधाम्ययं पश्चाद्विदद्वसुस्तस्य रथप्रोतश्चासमरथश्च सेनानीग्रामण्यौ प्रम्लोचन्ती चानुम्लोचन्ती चाप्सरसौ व्याघ्रा हेतिस्सर्पाः प्रहेतिस्ते नः पान्तु ते नोऽवन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दधाम्ययमुत्तरात् संयद्वसुस्तस्य तार्क्ष्यश्चारिष्टनेमिश्च सेनानीग्रामण्यौ विश्वाची च घृताची चाप्सरसा आपो हेतिर्वातः प्रहेतिस्ते नः पान्तु ते नोऽवन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दधाम्ययमुपर्यर्वाग्वसुस्तस्य सेनाजिच्च सुषेणश्च सेनानीग्रामण्या उर्वशी च पूर्वचित्तिश्चाप्सरसा अवस्फूर्जद्धेतिर्विद्युत् प्रहेतिस्ते नः पान्तु ते नोऽवन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दधामि ।।९।।

आयोस्त्वा सदने सादयाम्यवतश्छायायां नमस्समुद्राय नमस्समुद्रस्य चक्षसे ॥ प्रोथदश्वो न यवसेऽविष्यन् यदा महस्संवरणे व्यस्थात् ।
आदस्य वातो अनुवाति शोचिरध स्म ते व्रजनमस्तु कृष्णम् ।।
प्रजापतिस्त्वा सादयतु पृथिव्याः पृष्ठे ज्योतिष्मतीं विश्वस्मै प्राणाय व्यानायापानाय विश्वं ज्योतिर्यच्छाग्निष्टेऽधिपतिर्विश्वकर्मा त्वा सादयत्वन्तरिक्षस्य पृष्ठे ज्योतिष्मतीं विश्वस्मै प्राणाय व्यानायापानाय विश्वं ज्योतिर्यच्छ वायुष्टेऽधिपतिः परमेष्ठी त्वा सादयतु दिवः पृष्ठे ज्योतिष्मतीं विश्वस्मै प्राणाय व्यानायापानाय विश्वं ज्योतिर्यच्छ सूर्यस्तेऽधिपतिर्मधुश्च माधवश्च वासन्तिका ऋतू अग्नेरन्तश्श्लेषोऽसि ।।
कल्पेतां द्यावापृथिवी कल्पन्तामाप ओषधयः ।
कल्पन्तामग्नयः पृथङ् मम ज्येष्ठ्याय सव्रताः ।।
येऽग्नयस्समनसोऽन्तरा द्यावापृथिवी ।
इमे वासन्तिका ऋतू अभिकल्पमाना इन्द्रामव देवा अभिसंविशन्तु ॥
शुक्रश्च शुचिश्च ग्रैष्मा ऋतू नभश्च नभस्यश्च वार्षिका ऋतू इषश्चोर्जश्च शारदा ऋतू सहश्च सहस्यश्च हैमन्तिका ऋतू तपश्च तपस्यश्च शैशिरा ऋतू अग्नेरन्तश्श्लेषोऽसि ।।
कल्पेता द्यावापृथिवी कल्पन्तामाप ओषधयः ।
कल्पन्तामग्नयः पृथङ् मम ज्यैष्ठ्याय सव्रताः ।।
येऽग्नयस्समनसोऽन्तरा द्यावापृथिवी ।
इमे शैशिरा ऋतू अभिकल्पमाना इन्द्रमिव देवा अभिसंविशन्तु ॥
सहस्रस्य प्रमासि सहस्रस्य प्रतिमासि सहस्रस्योन्मासि साहस्रोऽसि सहस्राय त्वेमा मे अग्न इष्टका धेनवस्सन्त्वेका च दश च दश च शतं च शतं च सहस्रं च सहस्रं चायुतं चायुतं च प्रयुतं च प्रयुतं च नियुतं च नियुतं चार्बुदं चार्बुदं च न्यर्बुदं च समुद्रश्च मध्यं चान्तश्च परार्धश्च ता मे अग्न इष्टका धेनवस्सन्त्वृतवस्स्थर्तावृध ऋतुष्ठास्स्थर्तुस्पृशो घृतश्चुतो मधुश्चुत ऊर्जस्वतीस्स्वधायिनीर्विराजो नाम कामदुघास्ता मे अग्न इष्टका धेनवस्सन्तु ॥१०॥

तत् पुरुषाय विद्महे महादेवाय धीमहि । तन्नो रुद्रः प्रचोदयात् ।।
नमस्ते रुद्र मन्यवे बाहुभ्यामुत ते नमः । उतो त इषवे नमः ॥
या ते रुद्र शिवा तनूरघोरापापकाशिनी ।
तया नस्तन्वा शंतमया गिरिशन्ताभिचाकशीहि ।।
यामिषुं गिरिशन्त हस्ते बिभर्ष्यस्तवे ।
शिवां गिरित्र तां कुरु मा हिंसीः पुरुषं जगत् ॥
शिवेन वचसा त्वा गिरिशाच्छा वदामसि ।
यथा नस्सर्वमिज्जगदयक्ष्मँ सुमना असत् ॥
अध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक् ।
अहीँश्च सर्वाञ्जम्भय सर्वाश्च यातुधान्योऽधराचीः परासुव ।
असौ यस्ताम्रो अरुण उत बभ्रुस्सुमङ्गलः ।।
ये चेमे रुद्रा अभितो दिक्षु श्रितासहस्रशोऽवैषाँ हेड ईमहे ।।
असौ योऽवसर्पति नीलग्रीवो विलोहितः । उतैनं गोपा अदृश्रन्नुतैनमुदहार्यः ।
उतैनं विश्वा भूतानि स दृष्टो मृडयाति नः ॥
नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे ।
अथो ये अस्य सत्वानोऽहं तेभ्योऽकरं नमः ॥
प्रमुञ्च धन्वनस्त्वमुभयोरार्त्न्योर्ज्याम् । याश्च ते हस्त इषवः परा ता भगवो वप ।।
विज्यं धनुः कपर्दिनो विशल्यो बांणवानुत । अनेशन्नस्येषव आभूरस्य निषङ्गथिः ॥
या ते हेतिर्मीढुष्टम हस्ते बभूव ते धनुः । तयास्मान् विश्वतस्त्वमयक्ष्मेण परिभुज ।।
परि ते धन्वनो हेतिस्मान् वृणक्तु विश्वतः ।
अथो य इषुधिस्तवारे अस्मन्निधेहि तम् ॥
नमाँसि त आयुधायानातताय धृष्णवे ।
उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने ॥
अवतत्य धनुस्त्वं सहस्राक्ष शतेषुधे ।
निशीर्य शल्यानां मुखं शिवो नस्सुमना भव ।।
या त इषुश्शिवतमा शिवं बभूव ते धनुः ।
शिवा शरव्या या तव तया नो मृड जीवसे ॥११॥

नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमश्शष्पिञ्जराय त्विषीमते पथीनां पतये नमो नमो बभ्लुशाय व्याधिनेऽन्नानां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो भवस्य हेत्यै जगतस्पतये नमो नमो रुद्रायाततायिने क्षेत्राणां पतये नमो नमस्सूतायाहन्त्वाय वनानां पतये नमो नमो रोहिताय स्थपतये वृक्षाणां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनां पतये नमो नम आक्रन्दयत उच्चैर्घोषाय सत्त्वानां पतये नमो नमः कृत्संवीताय धावते पत्तीनां पतये नमो नमस्सहमानाय निव्याधिन आव्याधिनीनां पतये नमो नमो निषङ्गिणे ककुभाय स्तेनानां पतये नमो नमो वञ्चते परिवञ्चते स्तायूनां पतये नमो नमो निचराय परिचरयारण्यानां पतये नमो नमो निषङ्गिण इषुधिमते तस्कराणां पतये नमो नमस्सृकायिभ्यो जिघाँसद्भ्यो मुष्णतां पतये नमो नमोऽसिमद्भ्यो नक्तं चरद्यःं प्रकृन्तानां पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमः॥१२॥

नम इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नम इषुमद्भ्यो धन्वायिभ्यश्च वो नमो नम आतन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्योऽस्यद्भ्यश्च वो नमो नमो विसृजद्भ्यो विध्यद्भ्यश्च वो नमो नमस्स्वपद्यो्भ जाग्रद्भ्यश्च वो नमो नमश्शयानेभ्य आसीनेभ्यश्च वो नमो नमस्तिष्ठद्भ्यो धावद्य््श्च वो नमो नमस्समभाभ्यस्सभापतिभ्यश्च वो नमो नमोऽश्वभ्योऽश्वपतिभ्यश्च वो नमो नम अव्याधिनीभ्यो विविध्यद्भ्यश्च वो नमो नम उगणाभ्यस्तृँहतीभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमः कृच्छ्रेभ्यः कृच्छ्रपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमस्सेनाभ्यस्सेनानीभ्यश्च वो नमो नमो रथिभ्यो वरूथिभ्यश्च वो नमो नमो महद्भ्योऽर्भकेभ्यश्च वो नमो नमो युवभ्य आशिनेभ्यश्च वो नमो नमः क्षत्तृभ्यस्संग्रहीतृभ्यश्च वो नमो नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च वो नमो नमश्श्वनिभ्यो मृगयुभ्यश्च वो नमो नमःश्वभ्यश्श्वपतिभ्यश्च वो नमो नमो भवाय च रुद्राय च नमश्शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमो व्युप्तकेशाय च कपर्दिने च नमस्सहस्राक्षाय च शतधन्वने च ॥१३॥

नमो गिरिशाय च शिपिविष्ठाय च नमो मीढुष्टमाय चेषुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च सवृध्वने च नमोऽग्र्याय च प्रथमाय च नम आशवे चाजिराय च नमश्शीभाय च शीघ्राय च नम ऊर्म्याय चावस्वन्याय च नमो नद्याय च द्वीप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च नमो मध्यमाय चापगल्भाय च नमो बुध्न्याय च जघन्याय च नमस्सोभ्याय च प्रतिसर्याय च नम आशुषेणाय चाशुरथाय च नमो बिल्मिने च कवचिने च नमो वार्मिणे च वरूथिने च नमश्शूराय चावभेदिने च नमश्श्रुताय च श्रुतसेनाय च नमो याम्याय च क्षेम्याय च नम उर्वर्याय खल्याय च नमश्श्लोक्याय चावसान्याय च नमश्श्रवाय च प्रतिश्रवाय च नमो वन्याय च कक्ष्याय च नमो दुन्दुभ्याय चाहनन्याय च नमो धृष्णवे च प्रमृशाय च नमो निषङ्गिणे चेषुधिमते च नमस्तीक्ष्णेषवे चायुधिने च नमस्स्वायुधाय च सुधन्वने च ।।१४।।

नमस्सृत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमो नाद्याय च वैशन्ताय च नमः कुल्याय च सरस्याय च नमः कूप्याय चावट्याय च नमो वर्ष्याय चावर्ष्याय च नमो मेध्याय च विद्युत्याय च नमो वीध्र्याय चातप्याय च नमो वात्याय च रेष्म्याय च नमो वास्तव्याय च वास्तुपाय च नमस्सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च नमश्शंगवे च पशुपतये च नम उग्राय च भीमाय च नमो हन्त्रे च हनीयसे च नमोऽग्रेवधाय च दूरेवधाय च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमश्शंभवे च मयोभवे च नमश्शंकराय च मयस्कराय च नमशिवाय च शिवतराय च नमः किँशिलाय च क्षयणाय च नम इरिण्याय च प्रपथ्याय च नमः पुलस्तिने च कपर्दिने च नमो गोष्ठ्याय च गृह्याय च नमस्तल्प्याय च गेह्याय च नमः पार्याय चावार्याय च नमः प्रतरणाय चोत्तरणाय च नमस्तीर्थ्याय च कूल्याय च नमः फेन्याय च शष्प्याय च नमस्सिकत्याय च प्रवाह्याय च नमो ह्रदव्याय च निवेष्याय च नमः काट्याय च गह्वरेष्ठाय च नमश्शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः पाँसव्याय च रजस्याय च नमस्सूर्म्याय चौर्म्याय च नमः पर्ण्याय च पर्णशादाय च नम आखिदते च प्रखिदते च नमोऽभिघ्नते चापगुरमाणाय च नम आखिदाय च विखिदाय च ।।१५।।

नमो वः किरिकेभ्यो देवानाँ हृदयेभ्यो नमो विचिन्वत्केभ्यो नमो विक्षीणकेभ्यो नम आनिर्हतेभ्यः ॥
द्रापे अन्धसस्पते दरिद्र नीललोहित । आसां प्रजानामेषां पुरुषाणामेषां पशूनाम् ।
मा भैमी रौङ् मा नः किंञ्चनाममत् ।।
इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतीः ।
यथा नश्शमसद् द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे अस्मिन्ननातुरम् ।।
या ते रुद्र शिवा तनूश्शिवा विश्वाह भेषजी ।
शिवा रुतस्य भेषजी तया नो मृड जीवसे ।।
परि णो रुद्रस्य हेतिर्वृणक्तु परि त्वेषस्य दुर्मतिरघायोः ।
अव स्थिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय मृड ।।
मीढुष्टम शिवतम शिवो नस्सुमना भव ।
परमे वृक्ष आयुधं निधय कृत्तिं वसान उच्चर पिनाकं बिभ्रदुच्चर ॥
विकिरिड विलोहित नमस्ते अस्तु भगवः ।
यास्ते सहस्रं हेतयोऽन्येऽस्मन्निवपन्तु ताः।।
सहस्रधा सहस्राणि हेत्यस्तव बाह्वोः । तासामीशानो भगवः पराचीना मुखा कुरु ।।
असंख्याता सहस्राणि ये रुद्रा अधि भूम्याम् ।
तेषाँ सहस्रयोजनेऽव धन्वानि तन्मसि ।।
येऽस्मिन् महत्यर्णवेऽन्तरिक्षे भवा अधि ।
तेषाँ सहस्रयोजनेऽव धन्वानि तन्मसि ॥
ये नीलग्रीवाश्शितिकण्ठा दिवं रुद्रा उपश्रिताः ।
तेषाँ सहस्रयोजनेऽव घन्वानि तन्मसि ।।
ये नीलग्रीवाश्शितिकण्ठाश्शर्वा अधः क्षमाचराः ।
तेषाँ सहस्रयोजनेऽव धन्वानि तन्मसि ।।
ये वनेषु शष्पिञ्जरा नीलग्रीवा विलोहिताः ।
तेषाँ सहस्रयोजनेऽव धन्वानि तन्मसि ॥
येऽन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् ।
तेषाँ सहस्रयोजनेऽव धन्वानि तन्मसि ।।
ये भूतानामधिपतयो विशिखासः कपर्दिनः ।
तेषाँ सहस्रयोजनेऽव धन्वानि तन्मसि ।।
ये पथीनां पथिरक्षय ऐडमृदा यव्युधः ।
तेषाँ सहस्रयोजनेऽव धन्वानि तन्मसि ॥
ये तीर्थानि प्रचरन्ति सृकावन्तो निषङ्गिणः ।
तेषाँ सहस्रयोजनेऽव धन्वानि तन्मसि ।।
य एतावन्तो वा भूयाँसो वा दिशो रुद्रा वितस्थिरे ।
तेषाँ सहस्रयोजनेऽव धन्वानि तन्मसि ।।
नमो अस्तु रुद्रेभ्यो ये दिवि येषां वर्षमिषवस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वास्तेभ्यो नमो अस्तु ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दधामि । नमो अस्तु रुद्रेभ्यो येऽन्तरिक्षे येषां वात इषवस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वास्तेभ्यो नमो अस्तु ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दधामि । नमो अस्तु रुद्रेभ्यो ये पृथिव्यां येषामन्नमिषवस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशो र्ध्वस्तेभ्यो नमो अस्तु ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दधामि ॥१६॥

अश्मन्नूर्जं पर्वते शिश्रियाणामद्भ्य औषधीभ्यो वनस्पतिभ्योऽधि संभृताम् ।
तां न ऊर्जं धत्त मरुतस्संरराणा अश्मन्ते क्षुद्यं द्विष्मस्तं ते शुगृच्छतु ।।
समुद्रस्य त्वावकयाग्ने परिव्ययामसि ।
अन्याँस्ते अस्मत् तपन्तु हेतयः पावको अस्मभ्यं शिवो भव ।।
हिमस्य त्वा जरायुणाग्ने परिव्ययामसि ।
अन्याँस्ते अस्मत् तपन्तु हेतयः पावको अस्मभ्यँ शिवो भव ॥
उप ज्मन्नुप वेतसेऽवतर नदीष्वा । अग्ने पित्तमपामसि मण्डूकि ताभिरागहि ।
सेमं नो यज्ञं पावकवर्णँ शिवं कृधि ।।
अपामिदं न्ययनँ समुद्रस्य विमोचनम् ।
अन्याँस्ते अस्मत् तपन्तु हेतयः पावको अस्मभ्यँ शिवो भव ।।
अग्ने पावक रोचिषा मन्द्रया देव जिह्वया । आ देवान् वक्षि यक्षि च ।।
पावकया यश्चितयन्त्या कृपा क्षामा रुरुच उषसो न केतुना ।
तुरो न यामन्नेतशस्य नू रण आ यो घृणे न ततृषाणो अजरः ।।
नमस्ते हरसे शोचिषे नमस्ते अस्त्वर्चिषे ।।
अन्याँस्ते अस्मत् तपन्तु हेतयः पावको अस्मभ्यं शिवो भव ।।
नृषदे वेड्वनृषदे वेडप्सुषदे वेड् बर्हिषदे वेट् स्वर्विदे वेट् ॥
ये देवा देवानां यज्ञिया याज्ञियानाँ संवत्सरीणमुप भागमासते ।
अहुतादो हविषो यज्ञे अस्मिन् स्वयं पिबन्तु मधुनो घृतस्य ।
ये देवा देवेभ्यो अधि देवत्वमायन् ये ब्रह्मणः पुरएतारो अस्य ।
येभ्यो नर्ते पवते धाम किंचन न ते दिवो न पृथिव्या अधि स्नुषु ।।
प्राणदा व्यानदा अपानदा वर्चोदा वरिवोदाः ।
अन्याँस्ते अस्मत् तपन्तु हेतयः पावको अस्मभ्यँ शिवो भव ॥१७॥

स आ नो योनिँ सदतु प्रेष्ठो बृहस्पतिर्विश्ववारो यो अस्ति ।
कामो रायस्सुवीर्यस्य तं दात् पर्षन्नो अति सश्चतो अरिष्टान् ॥
तँ शग्मासो अरुषासो अश्वा बृहस्पतिँ सहवाहो वहन्ति ।
सहश्चिद्यस्य नीलवत् सधस्थं नभो न रूपमरुषं वसानाः ।।
बृहस्पतिः प्रथमं जायमानः ।।
तमा नो अर्कममृताय जुष्टमिमे धासुरमृतासः पुराजाः ।
शुचिक्रन्दं यजतं पस्त्यानां बृहस्पतिमनर्वाणँ हुवेम ।।
स हि शुचिश्शतपत्रस्स शुन्ध्युर्हिरण्यवाशीरिषिरस्स्वर्षाः ।
बृहस्पतिस्स स्वावेश ऋष्वः पुरू सखिभ्य आसुतिं करिष्ठः ॥
एवा पित्रे विश्वदेवाय वृष्णे यज्ञैर्विधेम नमसा हविर्भिः ।
बृहस्पते सुप्रजा वीरवन्तो वयँ स्याम पतयो रयीणाम् ।।
प्र वां दँसाँस्यश्विना अवोचमस्य पतिस्स्याँ सुगवस्सुवीरः ।
उत पश्यन्नश्नुवन् दीर्घमायुरस्तमिवेज्जरिमाणं जगम्याम् ॥
अतारिष्म तमसस्पारमस्य प्रति स्तोमं देवयन्तो दधानाः ।
पुरुदँसा पुरुतमा पुराजामर्त्या हवते अश्विना गीः ।।
यो ह स्य वां रथिरा वस्त उस्रा रथो युजानः परियाति वर्तिः ।
तेन नश्शं योरुषसो व्युष्टौ न्यश्विना वहतं यज्ञे अस्मिन् ॥
त्रिबन्धुरेण त्रिवृता रथेन त्रिचक्रेण सुवृता यातमर्वाक् ।।
पिन्वतं गा जिन्वतमर्वतो नो वर्धयतमश्विना वीरमस्मे ।
सरस्वतीं देवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने ।
सरस्वतीं सुकृतो अह्वयन्त सरस्वती दाशुषे वार्यं दात् ॥
सरस्वत्यभि नो नेषि वस्यो मापस्फरीः पयसा मा न आधक् ।
जुषस्व नस्सख्या वेश्या च मा त्वत्क्षेत्राण्यरणानि गन्म ।।
इमा जुह्वाना ।।
पावीरवी कन्या चित्रायुस्सरस्वती वीरपत्नी धियं धात् ।
माभिरच्छिद्रँ शरणँ सजोषा दुराधर्षं गृणते शर्म यँसत् ।।
इन्द्रस्सुत्रामा । तस्य वयम् ॥
त्रातारमिन्द्रमवितारमिन्द्रँ हवे हवे सुहवँ शूरमिन्द्रम् ।
ह्वयामि शक्रं पुरुहूतमिन्द्रँ स्वस्ति नो मघवा धात्विन्द्रः ॥
उग्रो जज्ञे वीर्याय स्वधावाञ्चक्रिरपो नर्यो यत् करिष्यन् ।।
जग्मिर्युवा नृषदनमवोभिस्त्राता न इन्द्र एनसो महश्चित् ।।
अध स्मा ते चर्षणयो यदेजानिन्द्र त्रातोत भवा वरूता ।
अस्माकासो ये नृतमासो अर्य इन्द्र सूरयो दधिरे पुरो नः ।।
स्वस्तये वाजिभिश्च प्रणेतः ॥१८॥

युवँ सुराममश्विना नमुचा आसुरे सचा । विपिपाना शुभस्पती इन्द्रं कर्मस्वावतम् ॥
होता यक्षदश्विना सरस्वतीमिन्द्रँ सुत्रामाणँ सोमानाँ सुराम्णां जुषन्तां व्यन्तु पिबन्तु सोमान् सुराम्णो होतर्यज ।।
पुत्रमिव पितरा अश्विनोभेन्द्रावतं काव्यैर्दँसनाभिः ।
यत् सुरामं व्यपिबश्शचीभिस्सरस्वती त्वा मघवन्नभिष्णक् ।
आ देवो यातु सविता सुरत्नोऽन्तरिक्षप्रा वहमानो अश्वैः ।
हस्ते दधानो नर्या पुरूणि निवेशयञ्च प्रसुवञ्च भूम ।।
अस्मभ्यं तद्दिवो अद्भ्यः पृथिव्यास्त्वया दत्तं काम्यं राध आगात् ।
शं यत् स्तोतृभ्य आपये भवात्युरुशँसाय सवितर्जरित्रे ।।
एवा वन्दस्व वरुणं बृहन्तं नमस्या धीरममृतस्य गोपाम् ।
स नश्शर्म त्रिवरूथं वियँसत् पातं नो द्यावापृथिवी उपस्थे ।।
तत्त्वा यामि ॥
यदत्र शिष्टं रसिनस्सुतस्य यस्येन्द्रो अपिबच्छचीभिः ।
तेनाहमद्य मनसा सुतस्य सोमं राजानामिह भक्षयामि ॥
इषिरेण ते मनसा सुतस्य भक्षीमहि पित्र्यस्येव रायः ।
अहानीव सूर्यो वासराणि प्रा ण आयुर्जीवसे सोम तारीः ।।
नाना हि देवैश्चकृपे सदो वां मा सँसृक्षाथां परमे व्योमन् ।
सुरा त्वमसि शुष्मिणी सोम एष मा माँ हिँसिष्टं यत् स्वं योनिमाविशाथः ॥
त्वँ सोम सुरया संविदानः प्रजामन्यः क्षत्रमन्यः पिपर्तु ।
युवं नो अत्र वरिवः कृणुतं वयँ स्याम पतयो रयीणाम् ।।
इन्द्राग्नी मैतं निर्ह्वेथां यँ सोमं पपिमा वयम् ।
इहैषो अस्तु भक्षितश्शिवश्शिवाभिरूतिभिः ॥
द्वे सृती अशृणवं पितॄणामहं देवानामुत मर्त्यानाम् ।
ताभ्यामिदं विश्वं भुवनँ समेति यदन्तरा पितरं मातरं च ।।
यस्ते राजन् वरुण द्रुहः पाशो गायत्रच्छन्दाः पृथिवीमन्वाविवेश ब्रह्मणि प्रतिष्ठितस्तं त एतदवयजे तस्मै स्वाहा यस्ते राजन् वरुण द्रुहः पाशस्त्रिष्टुप् छन्दा अन्तरिक्षमन्वाविवेश क्षत्रे प्रतिष्ठितस्तं त एतदवयजे तस्मै स्वाहा यस्ते राजन् वरुण द्रुहः पाशो जगच्छन्दा दिवमन्वाविवेश विशि प्रतिष्ठितस्तं त एतदवयजे तस्मै स्वाहा यस्ते राजन् वरुण द्रुहः पाशोऽनुष्टुप् छन्दा दिशोऽन्वाविवेश पशुषु प्रतिष्ठितस्तं त एतदवयजे तस्मै स्वाहा ॥१९॥[१४०४] ॥


 
इति श्रीयजुषि काठके चरकशाखायामिठिमिकायां ध्रुवक्षितिर्नाम सप्तदशं स्थानकं संपूर्णम् ॥१७॥