प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← स्थानकं १७ काठकसंहिता (विस्वरः)
स्थानकम् १८
[[लेखकः :|]]
स्थानकं १९ →
चमाः।

अथाष्टादशं स्थानकम् ।

चमाः ।
अग्निस्तिग्मेन शोचिषा यँसद्विश्वं न्यत्रिणम् । अग्निर्नो वँसते रयिम् ॥
य इमा विश्वा भुवनानि जुह्वदृषिर्होता न्यसीदत् पिता नः ।
स आशिषा द्रविणमिच्छमानः परमच्छदवराँ आविवेश ॥
विश्वकर्मा विमना यो व्योमा धाता विधाता परमो न संवृक् ।
सं नो महानि संमिषो महन्तां यत्र सप्तर्षीन् पर एकमाहुः ।।
त आयजन्त द्रविणा समस्मा ऋषयः पूर्वे जनिमानि भूना ।
असूर्ता सूर्ते रजसि न सत्ता ये भूतानि समकृण्वन्निमानि ॥
यो नः पिता जनिता यो विधाता यौ नस्सतो अभ्या सन्निनाय ।
यो देवानां नामधा एको अस्ति तँ संप्रश्नं भुवना यन्त्यन्या ॥
न तं विदाथ य इदं जजानान्यद्युष्माकमन्तरं बभूव ।
नीहारेण प्रावृता जल्प्या चासुतृप उक्थशासश्चरन्ति ।।
विश्वकर्मा चेदजनिष्ट देव आदिद्गन्धर्वो अभवद् द्वितीयः ।
तृतीयः पिता जनितौषधीनामपां गर्भं व्यदधात् पुरुत्रा ॥
परो दिवा पर एना पृथिव्या परो देवेभिरसुरैर्यदस्ति ।
कँ स्विद्गर्भं प्रथमं दध्रं आपो यत्र देवास्समपश्यन्त विश्वे ।।
तमिद्गर्भं प्रथमं दध्र आपो यत्र देवास्समपश्यन्त विश्वे ।
अजस्य नाभा अध्येकमर्पितं तत्रेदं विश्व भुवनमधि श्रितम् ॥१॥

चक्षुषः पिता मनसा हि धीरो घृतमेने अजनन्नम्नमाने ।
यदिद् द्यावापृथिवी अप्रथेतामादिदन्ता अददृहन्त पूर्वे ॥
किं स्विद्वनं क उ स वृक्ष आसीद्यतो द्यावापृथिवी निष्टतक्षुः ।
मनीषिणो मनसा पृच्छतेदु तद्यदध्यतिष्ठद्भुवनानि धारयन् ।।
किं स्विदासीदारम्भणमधिष्ठानं कतमत् स्वित् कथासीत् ।
यदिद्भूमिं जनयन् विश्वकर्मा वि द्यामौर्णोन्महिना विश्वचक्षाः ।।
यो विश्वचक्षुरुत विश्वतोमुखो विश्वतोहस्त उत विश्वतस्पात् ।
सं बाहुभ्यां नमते सं यजत्रैर्द्यावापृथिवी जनयन् देव एकः ॥
या ते धामानि परमाणि यावमा या मध्यमा विश्वकर्मन्नुतेमा ।
शिक्षा सखिभ्यो हविषा स्वधावस्स्वयं यजस्व तन्वं जुषाणः ।।
विश्वकर्मन् हविषा वावृधानस्स्वयं यजस्व तन्वँ स्वाहिते ।
मुह्यन्त्वन्ये अभितो जनास इहास्माकं मघवा सूरिरस्तु ।।
विश्वकर्मन् हविषा वर्धनेन त्रातारमिन्द्रमकृणोरवध्यम् ।
तस्मै विशस्समनमन्त पूर्वीरयमुग्रो विहव्यो यथासत् ।।
वाचस्पतिं विश्वकर्माणमूतये मनोयुजं वाजे अद्याहुवेम ।
स नो नेदिष्ठँ हवनान्यागमद्विश्वशंभूरवसे साधुकर्मा ॥२॥

उदेनमुत्तरां नयाग्ने घृतेनाहुतः । रायस्पोषेण सँसृज प्रजया च बहुं कृधि ।।
इन्द्रेमं प्रतरं कृधि सजातानामसद्वशी । समेनं वर्चसा सृज देवेभ्यो भागदा असत् ॥
यस्य कुर्मो गृहे हविरग्ने तं वर्धया त्वम् । तस्मै देवा अधिब्रुवन्नयं च ब्रह्मणस्पतिः ।।
उदु त्वा विश्वे देवा अग्ने भरन्तु चित्तिभिः । स नो भव शिवस्त्वं सुप्रतीको विभावसुः॥
पञ्च दिशो दैवीर्यज्ञमवन्तु देवीरपमतिं दुर्मतिं बाधमानाः ।
रायस्पोषे यज्ञपतिमाभजन्ती रायस्पोषे अधि यज्ञो अस्थात् ॥
समिद्धे अग्ना अधि मामहान उक्थपत्र ईड्यो गृभीतः ।।
तप्तं घर्मं परिगृह्यायजन्तोर्जा यद्यज्ञमशमन्त देवाः ।।
दैव्याय धर्त्रे जोष्ट्रे देवश्रीश्श्रीमनाश्शतपात् परिगृह्य यज्ञमयान् ।।
हरिकेशस्सूर्यरश्मिः पुरस्तात् सविता ज्योतिरुदयानजस्रम् ।
तस्य पूषा प्रसवे याति देवस्संपश्यन् विश्वा भुवनानि गोपाः ।।
देवा देवेभ्यो अध्वरीयन्तो अस्थुर्वीतँ शमितँ शमिता यजध्यै ।
तुरीयो यज्ञो यत्र हव्यमेति ततो वाका आशिषो नो जुषन्ताम् ॥
विमान एष दिवो मध्य आस्त आपप्रिवान् रोदसी अन्तरिक्षम् ।
स विश्वाची अभिचष्टे घृताची अन्तरा पूर्वमपरं च केतुम् ।।
उक्षा समुद्रे अरुणस्सुपर्णः पूर्वस्य योनिं पितुराविवेश ।
मध्ये दिवो निहितः पृश्निरश्मा विचक्रमे रजसः पात्यन्तौ ।।
इन्द्रं विश्वा अवीवृधन् समुद्रव्यचसं गिरः ।
रथीतमं रथीनां वाजानाँ सत्पतिं पतिम् ॥
सुम्नहुर्यज्ञ आ च वक्षत् । यक्षदग्निर्देवो देवाँ आ च वक्षत् ।।
वाजस्य मा प्रसवेनोद्ग्राभेणोदजीगृभम् ।
अथा सपत्नाँ इन्द्रो मे निग्राभेणाधराँ अकः ।।
उद्ग्राभश्च निग्राभश्च ब्रह्म देवाँ अवीवृधत् ।
अथा सपत्नानिन्द्राग्नी मे विषूचीनान् व्यस्यताम् ।।३।।

क्रमध्वमग्निना नाकमुख्यँ हस्तेषु बिभ्रतः ।
दिवः पृष्ठँ स्वर्गत्वा मिश्रा देवेभिराध्वम् ।।
प्राचीमनु प्रदिशं प्रेहि विद्वानग्नेरग्ने पुरो अग्ने भवेह ।
विश्वा आशा दीद्यद्विभाह्यूर्जं नो धेहि द्विपदे चतुष्पदे ॥
पृथिव्या अहमुदन्तरिक्षमारुहमन्तरिक्षाद्दिवमारुहम् ।
दिवो नाकस्य पृष्ठात् स्वर्ज्योतिरगामहम् ॥
स्वर्यन्तो नापेक्षन्त आ द्यां रोहन्ति रोदसी ।
यज्ञं ये विश्वतोधारँ सुविद्वाँसो वितेनिरे ।।
अग्ने प्रेहि प्रथमो देवायतां चक्षुर्देवानामुत मर्त्यानाम् ।
इयक्षमाणा भृगुभिस्सजोषास्स्वर्यन्तु यजमानास्स्वस्ति ।।
नक्तोषासा समनसा विरूपे धापयेते शिशुमेकँ समीची ।
द्यावाक्षामा रुक्मो अन्तर्विभाति देवा अग्निं धारयन् द्रविणोदाः ॥
अग्ने सहस्राक्ष शतमूर्धञ्छततेजश्शतं ते प्राणास्सहस्रं व्यानाः ।
त्वँ साहस्रस्य राय ईशिषे तस्मै ते विधेम वाजाय स्वाहा ।
सुपर्णोऽसि गरुत्मान् । पृष्ठे पृथिव्यास्सीद भासान्तरिक्षमापृण ज्योतिषा दिवमुत्तभान ।
तेजसा दिश उद्दृँह ।।
आजुह्वानस्सुप्रतीकः पुरस्तादग्ने स्वं योनिमासीद साध्या ।
अस्मिन् सधस्थे अध्युत्तरस्मिन् विश्वे देवा यजमानश्च सीदत ।।
ताँ सवितुर्वरेण्यस्य चित्रामाहं वृणे सुमतिं विश्वजन्याम् ।
यामस्य कण्वो अदुहत् प्रपीनाँ सहस्रधारां पयसा महीं गाम् ॥
अग्ने विधेम ते परमे जन्मन् विधेम स्तोमैरवरे सधस्थे ।
यस्माद्योनेरुदारिथ यजा तं प्र त्वे हवींषि जुहुमस्समिद्धे ।।
प्रेद्धो अग्ने दीदिहि पुरो नोऽजस्रया सूर्म्या यविष्ठ । त्वाँ शश्वन्त उपयान्ति वाजाः ॥
सप्त ते अग्ने समिधस्सप्त जिह्वास्सप्तर्षयस्सप्त धाम प्रियाणि ।
सप्त होत्रा अनुविद्वान् सप्त योनींराणपृणस्वा घृतेन ॥४॥

आशुश्शिशानो वृषभो न युध्मो घनाघनः क्षोभणश्चर्षणीनाम् ।
संक्रन्दनोऽनिमिष एकवीरश्शतँ सेना अजयत् साकमिन्द्रः ।।
संक्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना ।
तदिन्द्रेण जयत तत् सहध्वं युधो नर इषुहस्तेन वृष्णा ॥
स इषुहस्तैस्स निषङ्गिभिर्वशी सँस्रष्टा स युध इन्द्रो गणेन ।
सँसृष्टजित् सोमपा बाहुशर्ध्यूर्ध्वधन्वा प्रतिहिताभिरस्ता ।।
बृहस्पते परिदीया रथेन रक्षोहामित्राँ अपबाधमानः ।
प्रभञ्जन् सेनाः प्रमृणो युध जयन्नस्माकमेध्यविता रथानाम् ॥
बलविज्ञायस्थ्रविरः प्रवीरस्सहस्वान् वाजी सहमान उग्रः ।
अभिवीरो अभिषत्वा सहोजिज्जैत्रायणो रथमातिष्ठ गोवित् ।।
गोत्रभिदं गोविदं वज्रबाहुं जयन्तमज्मा प्रमृणन्तमोजसा ।
इमँ सजाता अनुवीरयध्वमिन्द्रँ सखायमनु संव्ययध्वम् ।।
अभि गोत्राणि सहसा गाहमानोऽदयो वीरश्शतमन्युरिन्द्रः ।
दुश्च्यवनः पृतनाषाडयुध्योऽस्माकँ सेना अवतु प्र युत्सु ।।
इन्द्र एषां नेता बृहस्पतिर्दक्षिणा यज्ञः पुर एतु सोमः ।
देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो यन्तु मध्ये ।।
इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुताँ शर्ध उग्रम् ।
महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात् ॥
अस्माकमिन्द्रस्समृतेषु ध्वजेष्वस्माकं या इषवस्ता जयन्तु ।
अस्माकं वीरा उत्तरे भवन्त्वस्मानु देवा अवता भरेष्वा ।।५।।

शुक्रज्योतिश्च चित्रज्योतिश्च सत्यज्योतिश्च ज्योतिष्माँश्च सत्यश्चर्तपाश्चात्यँहा इदृङ् चान्यादृङ् च सदृङ् च प्रतिसदृङ् च मितश्च संमितश्च सभरा ऋतश्च सत्यश्च ध्रुवश्च धरुणश्च धर्ता च विधर्ता च विधारय ऋतजिच्च सत्यजिच्च सेनजिच्च सुषेणश्चान्तिमित्रश्च दूरेअमित्रश्च गण ईदृक्षास एतादृक्षास ऊ षु णस्सदृक्षासः प्रतिसदृक्षास एतन मितासश्च संमितासो नो अद्य सभरसो मरुतो यज्ञे अस्मिन्निन्द्रं दैवीर्विशो मरुतोऽनुवर्त्मानो यथेन्द्रं दैवीर्विशो मरुतोऽनुवर्त्मानोऽभवन्नेवमिमं यजमानं दैवीश्च विशो मानुषीश्चानुवर्त्मानो भवन्तु ॥६॥

वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसृतिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे स्वश्च मे प्राणश्च मे व्यानश्च मेऽपानश्च मेऽसुश्च मे चित्तं च म आधीतं च मे वाक् च मे मनश्च मे चक्षुश्च मे श्रोत्रं च मे दक्षश्च मे बलं च म ओजश्च मे सहश्च म आत्मा च मे तनूश्च मे शर्म च मे वर्म च मेऽङ्गानि च मेऽस्थानि च मे परूँषि च मे शरीराणि च म आयुश्च मे जरा च मे ज्यैष्ठ्यं च म आधिपत्यं च मे मन्युश्च मे भामश्च मेऽमश्च मेऽम्भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रथिमा च मे वर्ष्मा च मे द्राघ्वा च मे वृद्धं च मे वृद्धिश्च । मे ॥७॥
  
सत्यं च मे श्रद्धा च मे जगच्च मे धनं च मे क्रीडा च मे मोदश्च मे वशश्च मे त्विषिश्च मे सूक्तं च मे सुकृतं च मे जातं च मे जनिष्यमाणं च मे वित्तं च मे वेद्यं च मे भूतं च मे भविष्यच्च मे सुगं च मे सुपथं च म ऋद्धं च म ऋद्धिश्च मे क्लृप्तं च मे क्लृप्तिश्च मे मतिश्च मे सुमतिश्च मे शं च मे मयश्च मे प्रियं च मेऽनुकामश्च मे कामश्च मे सौमनसश्च मे भगश्च मे द्रविणं च मे भद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मे यन्त च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे संविच्च मे ज्ञात्रं च मे विश्वं च मे महश्च मे सूश्च मे प्रसूश्च मे सीरं च मे लायश्च मे ॥८॥

ऋतं च मेऽमृतं च मेऽयक्ष्मं च मेऽनामयच्च मे जीवातुश्च मे दीर्घायुत्वं च मेऽनमित्रं च मेऽभयं च मे सुगं च मे शयनं च मे सूषाश्च मे सुदिनं च म ऊर्क् च मे सूनृता च मे पयश्च मे रसश्च मे घृतं च मे मधु च मे सग्धिश्च मे सपीतिश्च मे कृषिश्च मे वृष्टिश्च मे जैत्रं च म औद्भिदं च मे रयिश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे ।। विभु च मे प्रभु च मे पूर्णं च मे पूर्णतरं च मे कुयवं च मेऽक्षितिश्च मेऽन्नं च मेऽक्षुच्च मे व्रीहयश्च मे यवाश्च मे माषाश्च मे तिलाश्च मे नीवारश्च मे श्यामाकाश्च मेऽणवश्च मे प्रियङ्गवश्च मे गोधूमाश्च मे मसूराश्च मे मुद्गाश्च मे खल्वाश्च मे॥९॥

अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यं च मेऽयश्च मे सीसं च मे त्रपु च मे श्यामं च मे लोहितायसं च मेऽग्निश्च म आपश्च मे वीरुधश्च म ओषधयश्च मे कृष्टपच्यं च मेऽकृष्टपच्यं च मे ग्राम्याश्च मे पशव आरण्याश्च मे वित्तं च मे वित्तिश्च मे भूतं च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मेऽर्थश्च म एमश्च म इत्या च मे गतिश्च मेऽग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे धाता च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मेऽन्तरिक्षं च म इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे समाश्च म इन्द्रश्च मे नक्षत्राणि च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे ॥१०॥

अँशुश्च मे रश्मिश्च मेऽदाभ्यश्च मेऽधिपतिश्च म उपाँशुश्च मेऽन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म आश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्थी च म आग्रायणश्च मे क्षुल्लकवैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वतीयश्च मे महेन्द्रीयश्च मे सावित्रश्च मे सारस्वतश्च मे पात्नीवतश्च मे हारियोजनश्च मे स्रुचश्च मे चमसाश्च मे वायव्यानि च मे द्रोणकलशश्च मे पूतभृच्च मेऽपूतभृच्च मे ग्रावाणश्च मेऽधिषवणे च मेऽवभृथश्च मे स्वगाकारश्च मेऽग्निश्च मे घर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मेऽश्वमेधश्च मे पृथिवी च मेऽदितिश्च मे दितिश्च मे द्यौश्च मे शक्वरीरङ्गुलयो दिशश्च मे यज्ञेन कल्पन्तां व्रतं चर्तुश्च संवत्सरश्च तपश्चाहोरात्रे ऊर्वष्टीवे बृहद्रथन्तरे च मे यज्ञेन कल्पेताम् ।।११।।
  
त्रियविश्च मे त्रियवी च मे दित्यवाट् च मे दित्यौही च मे पञ्चाविश्च मे पञ्चावी च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाट् च मे तुर्यौही च मे पष्ठवाट् च मे पष्ठौही च म उक्षा च मे वशा च मेऽनड्वाँश्च मे धेनुश्च म ऋषभश्च मे वेहच्च म एका च मे तिस्रश्च मे तिस्रश्च मे त्रयस्त्रिँशच्च मे चतस्रश्च मेऽष्टौ च मेऽष्टौ च मेऽष्टाचत्वारिंशच्च मे ।। वाजश्च प्रसवश्चापिजश्च क्रतुश्च वाक्पतिश्च वसुश्च स्वमौर्ध्नो मूर्धा वैयशनो व्यश्वाँ अन्त्योऽन्त्यो भौवनौ भुवनस्य पतिः प्रजापतिरियं ते राण्मित्रो यन्तासि यमन ऊर्जे त्वा वृष्ट्यै त्वा प्रजानां त्वाधिपत्यायायुर्यज्ञेन कल्पतां मनो यज्ञेन कल्पतां प्राणो यज्ञेन कल्पतां चक्षुर्यज्ञेन कल्पतां श्रोत्रं यज्ञेन कल्पतां वाग्यज्ञेन कल्पतामात्मा यज्ञेन कल्पतां ब्रह्मा यज्ञेन कल्पतां पृष्ठं यज्ञेन कल्पतां यज्ञो यज्ञेन कल्पतामृक् च साम च स्तोमश्च यजुश्च बृहच्च रथन्तरं च स्वर्देवा अगन्म प्रजापतेः प्रजा अभूवन्नमृता अभूम वेट् स्वाहा ॥१२॥

वाजस्य नु प्रसव इति षट् ॥
विश्वे अद्य मरुतो विश्व ऊती विश्वे भवन्त्वग्नयस्समिद्धाः ।
विश्वे मा देवा अवसागमन्निह विश्वमस्तु द्रविणं वाजे अस्मिन् ॥
आ मा वाजस्य वाजस्य नु ।।
वाजो मा सप्त प्रदिशश्चतस्रो वा परावतः ।
वाजो मा विश्वैर्देवैर्धनसाता इहावतु ।।
वाजो मे अद्य प्रसुवाति दानं वाजो देवान् हविषा वर्धयाति ।
वाजस्य हि प्रसवे नन्नमीति विश्वा आशा वाजपतिर्जयेयम् ॥
वाजः पुरस्तादुत मध्यतो नो वाजो देवानृतुभिः कल्पयाति ।
वाजस्य हि प्रसवे नन्नमीति सर्वा आशा वाजपतिर्भवेयम् ।।
सं मा सृजामि पयसा पृथिव्यास्सं मा सृजाम्यद्भिरोषधीभिः ।
सोऽहं वाजँ सनाम्यग्नेः ।।
पयः पृथिव्यां पय ओषधीषु पयो दिव्यन्तरिक्षे पयो धाः ।
पयस्वतीः प्रदिशस्सन्तु मह्यम् ॥१३॥

ऋताषाडृतधामाग्निर्गन्धर्वस्तस्यौषधयोऽप्सरसो मुदा नाम स न इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वट् ताभ्यस्स्वाहा वट् सुषुम्णस्सूर्यरश्मिश्चन्द्रमा गन्धर्वस्तस्य नक्षत्राण्यप्सरसो बेकुरयो नाम स न इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वट् ताभ्यस्स्वाहा वट् सँहितो विश्वसामा सूर्यो गन्धर्वस्तस्य मरीचयोऽप्सरस आयुवो नाम स न इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वट् ताभ्यस्स्वाहा वड् भुज्युस्सुपर्णो यज्ञो गन्धर्वस्तस्य दक्षिणा अप्सरसस्स्तवा नाम स न इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वट् ताभ्यस्स्वाहा वट् प्रजापतिर्विश्वकर्मा मनो गन्धर्वस्तस्यर्क्सामान्यप्सरस एष्टयो नाम स न इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वट् ताभ्यस्स्वाहा वडिषिरो विश्वव्यचा वातो गन्धर्वस्तस्यापोऽप्सरस ऊर्जो नाम स न इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वट् ताभ्यस्स्वाहा वट् ।। स नो भुवनस्य पते यस्य त उपरि गृह विराट्पते । अस्मै ब्रह्मणेऽस्मै क्षत्राय महि शर्म यच्छ स्वाहा । समुद्रोऽसि नभस्वानार्द्रदानुश्शंभुर्मयोभूरभि मा वाहि स्वाहा मारुतोऽसि मरुतां गणश्शंभुर्मयोभूरभि मा वाहि स्वाहावस्युरसि दुवस्वाञ्छंभुर्मयोभूरभि मा वाहि स्वाहा ॥१४॥

अग्निं युनज्मि शवसा घृतेन दिव्यँ सुपर्णं वयसा बृहन्तम् ।
तेन वयं पतेम ब्रध्नस्य विष्टपँ स्वो रुहाणा अधि नाक उत्तमे ।।
इमौ ते पक्षा अजरौ पतत्रिणो याभ्यां रक्षाँस्यपहँस्यग्ने ।
ताभ्यां वयं पतेम सुकृतामु लोकं यत्रर्षयो जग्मुः प्रथमाः पुराणाः ॥
इन्दुर्दक्षश्श्येन ऋतावा हिरण्यपक्षश्शकुनो भुरण्युः ।
महान् सधस्थे ध्रुव आ निषत्तो नमस्ते अस्तु मा मा हिँसीः ॥
दिवो मूर्धासि पृथिव्या नाभिरूर्गपामोषधीनाम् ।
विश्वायुश्शर्म सप्रथा नमस्पथे विश्वस्य मूर्धन्नधितिष्ठसि श्रितः ।।
समुद्रे ते हृदयमन्तरायुरुद्नो देह्युदधिं भिन्धि ।
दिवः पर्जन्यादन्तरिक्षात् पृथिव्यास्ततो मा वृष्ट्याव ॥ ॥१५॥

समास्त्वाग्न ऋतवो वर्धयन्तु संवत्सरा ऋषयो यानि सत्या ।
सं दिव्येन दीदिहि रोचनेन विश्वा आभाहि प्रदिशः पृथिव्याः ॥
सं चेध्यस्वाग्ने प्र च बोधयैनमुच्च तिष्ठ महते सौभगाय ।
मा च रिषदुपसत्ता ते अग्ने ब्रह्माणस्ते यशसस्सन्तु मान्ये ॥
त्वामग्ने वृणते ब्राह्मणा इमे शिवो अग्ने संवरणे भवा नः ।
सपत्नहाग्ने अभिमातिजित्स्वे गये जागृह्यप्रयुच्छन् ।।
इहैवाग्ने अधिधारया रयिं मा त्वा निक्रन् पूर्वचितो निकारिणः ।
क्षत्रमग्ने सुयममस्तु तुभ्यमुपसत्ता वर्धतां ते अनिष्टृतः ।।
क्षत्रेणाग्ने स्वेन संरभस्व मित्रेणाग्ने मित्रधेये यतस्व ।
सजातानां मध्यमेष्ठेयाय राज्ञामग्ने विहव्यो दीदिहीह ।।
अति निहो अति स्रिधो अत्यचित्तिमति निर्ऋतिमद्य ।
विश्वा ह्यग्ने दुरिता तर त्वमथास्मभ्यँ सहवीरं रयिं दाः ॥
अनाधृष्यो जातवेदा अनिष्टृतो विराडग्ने क्षत्रभृद्दीदिहीह ।
विश्वा अमीवाः प्रमुञ्चन्मानुषेभ्यश्शिवेभिरद्य परिपाहि नो वृधे ।।
अमुत्रभूयादध यद्यमस्य बृहस्पते अभिशस्तेरमुञ्चः ।।
प्रत्यौहतामश्विना मृत्युमस्माद्देवानामग्ने भिषजा शचीभिः ।
उद्वयं तमसस्परि ज्योतिष्पश्यन्त उत्तरम् ।
देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥
बृहस्पते सवितर्बोधयैनँ सँशितं चित्संतरां सँशिशाधि ।
वर्धयैनं महते सौभगाय विश्व एनमनुमदन्तु देवाः ।।
क्षत्रभृदग्निरनिभृष्टतेजास्सहस्रियो द्योततामिध्यमानः ।
वर्ष्मन् पृथिव्या अधि जातवेदा उदन्तरिक्षमारुहदगन् द्याम् ॥१६॥

ऊर्ध्वा अस्य समिधो भवन्त्यूर्ध्वा शुक्रा शोचीँष्यग्नेः ।
द्युमत्तमा सुप्रतीकस्य सूनोः ॥
तनूनपादसुरो विश्ववेदा देवो देवेषु देवः ।
पथो अनक्ति मध्वा घृतेन मध्वा यज्ञं नक्षति प्रीणानः ॥
नराशँसो अग्ने सुकृद्देवस्सविता विश्ववारः । अच्छायं यन्ति शवसा घृताचीः ॥
ईडाना वह्निं नमसाग्निँ स्रुचो अध्वरेषु प्रयत्सु । स यक्षदस्य महिमानमग्नेः ।।
स्तनी मन्द्रस्सुप्रयक्षुः । वसुचेतिष्ठो वसुधातमश्च ॥
द्वारो देवीरन्वस्य विश्वा व्रता ददन्ते अग्नेः । उरुव्यचसो धाम्ना पत्यमानाः ।।
ते अस्य योषणे दिव्यो न योनिरुषासानक्ताग्नेः । इमं यज्ञमवतामध्वरं नः ।।
दैव्या होतारोर्ध्वमिममध्वरं नोऽग्नेर्जिह्वयाभिगृणीतम् । कृणुतं नस्स्विष्टम् ॥
तिस्रो देवीर्बहिरेदँ सदन्त्विडा सरस्वती भारती महीर्गृणानाः ।।
तन्नस्तुरीपमद्भुतं पुरुक्षु । त्वष्टः पोषाय विष्य नाभिमस्मे ।।
वनस्पतेऽवसृज रराणस्त्मना देवेषु । अग्निर्हविश्शमिता सूदयाति ॥
अग्ने स्वाहा कृणुहि जातवेद इन्द्राय हव्यम् । विश्वे देवा हविरिदं जुषन्ताम् ॥१७॥

येनर्षयस्तपसा सत्रमासतेन्धाना अग्निं स्वराभरन्तः ।
तस्मिन्नहं निदधे नाके अग्निं यमाहुर्मनवस्स्तीर्णबर्हिषम् ।।
तं पत्नीभिरनुगच्छेम देवाः पुत्रैर्भ्रातृभिरुत वा हिरण्यैः ।
नाकं गृह्णानास्सुकृतस्य लोके तृतीये पृष्ठे अधि रोचने दिवः ।।
आ वाचो मध्यमरुहद्भुरण्युरयमग्निस्सत्पतिश्चेकितानः ।
पृष्ठे पृथिव्या निहितो दविद्युतदधस्पदं कृणुतां ये पृतन्यवः ।।
अयमग्निर्वीरतमो वयोधास्सहस्रियो द्योततामप्रयुच्छन् ।
विभ्राजमानस्सरिरस्य मध्य उपप्रयाहि दिव्यानि धामन् ॥
संप्रच्यवध्वमुप संप्रयाताग्ने पथो देवयानान् कृणुध्वम् ।
पुनः कृण्वन्ता पितरा युवानान्वाताँसीत् त्वयि तन्तुमेतम् ॥
उद्बुध्यस्वाग्ने प्रतिजागृहि त्वमिष्टापूर्ते सँसृजेथामयं च ।
अस्मिन् सधस्थे अध्युत्तरस्मिन् विश्वे देवा यजमानश्च सीदत ॥
येन सहस्रं वहसि येनाग्ने सर्ववेदसम् । तेनेमं यज्ञं नो वह स्वर्देवेषु गन्तवे ।।
अयं ते योनिर्ऋत्वियो यतो जातो अरोचथाः ।
तं जानन्नग्न आरोह ततो नो वर्धया रयिम् ॥
इष्टो यज्ञो भृगुभिर्द्रविणोदा यतिभिराशीर्वाँ अथर्वभिः ।
इष्टो अग्निराहुतस्स्वाहाकृतः पिपर्तु नः । इष्टँ हविस्स्वगेदं देवेभ्यो नमः ।।१८॥

जुह्वँ संमार्ष्टि यज्ञमुखं वै जुहूर्यज्ञमुखमेवालभते जुह्वा वै देवा विराजमह्वयँस्तज्जुह्वा जुहूत्वमग्निर्वै विराडग्निमेवैतद्विराजँ ह्वयति च्छन्दाँसि वै देवेभ्योऽपाक्रामन् यज्ञे भागधेयमिच्छमानानि न वो भागधेयानि हव्यं वक्ष्याम इति तेभ्य एतच्चतुर्गृहीतं प्रायच्छन्ननुवाक्यायै याज्यायै देवतायै वषट्काराय यच्चतुर्गृहीतेन जुहोति च्छन्दाँस्येव भागधेयवन्ति करोति सावित्राणि जुहोति प्रसूत्या एति वा एतद्यज्ञमुखाद्यदनाग्नेयमग्रे यज्ञस्य क्रियते यदष्टौ कृत्वो गृहीत्वाष्टा एतानि जुहोत्यष्टाक्षरा गायत्री गायत्रोऽग्निस्तेन यज्ञमुखान्नैति प्रसूत्यै सावित्राणि युञ्जते मन इति मनस्वन्ति मनो ह्यग्रे युज्यते मनसा यज्ञस्तायतेऽग्निर्ज्योतिरिति ज्योतिष्मत् सविता वा एतत् पृथिव्या ज्योतिस्समभरद्यदेवास्यात्र न्यक्तं तदेतेन संभरति षडृचो भवन्ति षड्वा ऋतव ऋतुष्वेव प्रतितिष्ठति द्वे यजुषी द्विपाद्यजमानः प्रतिष्ठित्यै यदि कामयेत देवतां यज्ञयशसेनाहुत्यार्पयेयमित्यृचमन्ततः कुर्याद्देवतामेव यज्ञयशसेनाहुत्यार्पयति यदि कामयेत यजमानं यज्ञयशसेनाहुत्यार्पयेयमिति यजुरन्ततः कुर्याद्यजमानमेव यज्ञयशसेनाहुत्यार्पयत्यृचा स्तोमँ समर्धयेति समृद्ध्यै गायत्रेण रथन्तरं बृहद्गायत्रवर्तनीतीयं वै रथन्तरमसौ बृहद्व्यष्ट्या आहुत्या वा अभिक्रममन्वभिक्रम्य यजमानो वसीयान् भवत्याहुत्या अपक्रममन्वपक्रम्य पापीयान् भवति सकृत् सर्वाण्यनुद्रुत्योत्तमेन जुहुयादाहुत्या एवाभिक्रममन्वभिक्रामति वसीयान् भवत्येकैकेन जुहुयाद्यदि कामयेत सदृङ् यजमानस्स्यादिति यजूँष्येव नाना वीर्याणि करोत्यष्टा एतानि भवन्त्याहुतिर्नवमी त्रिवृतमेव यज्ञमुखँ संपादयति त्रिवृद्धि यज्ञमुखमूर्ध्वस्तिष्ठञ्जुहोत्यूर्ध्वो हि तिष्ठन् वीर्यावत्तरः पूर्णया स्रुचा जुहोति पूर्णः प्रजापतिः प्रजापतिमेवाप्नोति ॥१९॥
  
त्वँ ह्यग्ने प्रथमो मनोतास्या धियो अभवो दस्म होता ।
त्वँ सीं वृषन्नकृणोर्दुष्टरीतु सहो विश्वस्मै सहसे सहध्यै ।।
अधा होता न्यसीदो यजीयानिडस्पद इषयन्नीड्यस्सन् ।
तं त्वा नरः प्रथमं देवयन्तो महो राये चितयन्तो अनुग्मन् ।
वृतेव यन्तं बहुभिर्वसव्यैस्त्वे रयिं जागृवाँसो अनुग्मन् ।
रुशन्तमग्निं दर्शतं बृहन्तं वपावन्तं विश्वहा दीदिवाँसम् ।।
पदं देवस्य नमसा व्यन्तश्श्रवस्यवश्श्रव आपन्नमृक्तम् ।
नामानि चिद्दधिरे यज्ञियानि भद्रायां ते रणयन्त संदृष्टौ ॥
त्वां वर्धन्ति क्षितयः पृथिव्यां त्वां राय उभयासो जनानाम् ।
त्वं त्राता तरणे चेत्यो भूः पिता माता सदमिन्मानुष्याणाम् ॥
सपर्येण्यस्स प्रियो विक्ष्वग्निर्होता मन्द्रो निषसादा यजीयान् ।
तं त्वा वयं दम अ दीदिवाँसमुप ज्ञुबाधो नमसा सदेम ।।
तं त्वा वयं सुध्यो नव्यमग्ने सुम्नायव ईमहे देवयन्तः ।
त्वं विशो अनयो दीद्यानो दिवो अग्ने बृहता रोचनेन ॥
विशां कविं विश्पतिं शश्वतीनां नितोशनं वृषभं चर्षणीनाम् ।
प्रेतीषणिमिषयन्तं पावकं राजन्तमग्निं यजतं रयीणाम् ।।
सो अग्न ईजे शशमे च मर्तो यस्त आनट् समिधा हव्यदातिम् ।
य अहुतिं परि वेदा नमोभिर्विश्वेत् स वामा दधते त्वोतः ।।
अस्मा उ ते महि महे विधेम नमोभिरग्ने समिधोत हव्यैः ।।
वेदी सूनो सहसो गीर्भिरुक्थैरा ते भद्रायाँ सुमतौ यतेम ।।
आ यस्ततन्थ रोदसी वि भासा श्रवोभिश्च श्रवस्यस्तरुत्रः ।
बृहद्भिर्वाजैस्स्थविरेभिरस्मे रेवद्भिरग्ने वितरं विभाहि ॥
नृवद्वसो सदमिद्धेह्यस्मे भूरि तोकाय तनयाय पश्वः ।
पूर्वीरिषो बृहतीरारे अघा अस्मे भद्रा सौश्रवसानि सन्तु ।।
पुरूण्यग्ने पुरुधा त्वाया वसूनि राजन् वसुता ते अश्याम् ।
पुरूणि हि त्वे पुरुवार सन्त्यग्ने वसु विधते राजनि त्वे ॥२०॥

होता यक्षद्बृहस्पतिं छागस्य हविष आवयदद्य मध्यतो मेद उद्भृतं पुरा द्वेषोभ्यः पुरा पौरुषेय्या गृभो घसन्नूनं घासे अज्राणां यवसप्रथमानाँ सुमत्क्षराणाँ शतरुद्रियाणामाग्निष्वात्तानां पीवोपवसनानां पार्श्वतश्शोणितश्शितामत उत्सादतोऽङ्गादङ्गादवत्तानां करदेवं बृहस्पतिर्जुषताँ हविर्होतर्यज होता यक्षदश्विना छागस्य हविष आत्तां घस्तां करत एवमश्विना जुषेताँ हविर्होतर्यज होता यक्षत् सरस्वतीं मेष्या हविष आवयद् घसत् करदेवँ सरस्वती जुषताँ हविर्होतर्यज होता यक्षदिन्द्रं मेषस्य हविष आवयद् घसत् करदेवमिन्द्रो जुषताँ हविर्होतर्यज ॥
देवेभ्यो वनस्पते हवीँषि हिरण्यपर्ण प्रदिवस्ते अर्थम् ।
प्रदक्षिणिद्रशनया नियूयर्तस्य वक्षि पथिभी रजिष्ठैः ॥
होता यक्षद्वनस्पतिमभि हि पिष्टतमया रभिष्ठया रशनयाधित यत्र बृहस्पतेश्छागस्य हविषः प्रिया धामानि यत्राश्विनोश्छागस्य हविषः प्रिया धामानि यत्र सरस्वत्या मेष्या हविषः प्रिया धामानि यत्रेन्द्रस्य मेषस्य हविषः प्रिया धामानि यत्र वनस्पतेः प्रिया पाथाँसि यत्र देवानामाज्यपानां प्रिया धामानि यत्राग्नेर्होतुः प्रिया धामानि तत्रैतान् प्रस्तुत्येवोपस्तुत्येवोपावस्रक्षद्रभीयस इव कृत्वी करदेवं देवो वनस्पतिर्जुषताँ हविर्होतर्यज ।।
वनस्पते रशनयाभिधाय पिष्टतमया वयुनानि विद्वान् ।
वहा देवत्रा दिधिषो हवाँषि प्र च दातारममृतेषु वोचः ।।
पिप्रीहि देवाँ उशतो यविष्ठ विद्वाँ ऋतूँ ऋतुपते यजेह ।
ये दैव्या ऋत्विजस्तेभिरग्ने त्वँ होतॄणामस्यायजिष्ठः ॥
होता यक्षदग्निँ स्विष्टकृतमयाडग्निरग्नेः प्रिया धामान्ययाट् सोमस्य प्रिया धामान्ययाड् बृहस्पतेश्छागस्य हविषः प्रिया धामान्ययाडश्विनोश्छागस्य हविषः प्रिया धामान्ययाट् सरस्वत्या मेष्या हविषः प्रिया घामान्ययाडिन्द्रस्य मेषस्य हविषः प्रिया धामान्ययाङ्वनस्पतेः प्रिया पाथाँस्ययाड् देवानामाज्यपानां प्रिया धामानि यक्षग्नेर्होतुः प्रिया धामानि यक्षत् स्वं महिमानमायजतामेज्या इषः कृणोतु सो अध्वराञ्जातवेदा जुषताँ हविर्होतर्यज । आ देवानामिडामग्ने ॥
अग्निँ सुदीतिँ सुदृशं गृणन्तो नमस्यामस्त्वेड्य जातवेदः ।
त्वां दूतमरतिं हव्यवाहं देवा अकृण्वन्नमृतस्य नाभिम् ॥२१॥ [१५३८] ॥

इति श्रीयजुषि काठके चरकशाखायामिठिमिकायां चमा नामाष्टादशं स्थानकं संपूर्णम् ॥१८॥


॥ संपूर्णा च इठिमिका ॥