← स्थानकं १८ काठकसंहिता (विस्वरः)
स्थानकम् १९
[[लेखकः :|]]
स्थानकं २० →
सावित्रा।

अथ मध्यमिका।

एकोनविंशं स्थानकम् ।

सावित्रा ।
सावित्रैरभ्रिमादत्ते प्रसूत्या इयं वै गायत्र्यन्तरिक्षं त्रिष्टुब् द्यौर्जगती दिशोऽनुष्टुप् छन्दोभिरेवैनामेभ्यो लोकेभ्य आवर्तयत्युभयतः क्ष्णुद्भवत्यन्यतःक्ष्णुतेन्वै फालेनेयदन्नं क्रियतेऽन्नमर्कोऽर्कोऽग्निरन्नस्यार्कस्यावरुद्ध्या अरत्निमात्रीं कुर्यात् पुरुषेण वै यज्ञस्संमितो यज्ञपुरुषासंमितां व्याममात्रीं कुर्यादेतावद्वै पुरुषे वीर्यं वीर्येण संमितामपरिमितां कुर्यादपरिमितस्यावरुद्ध्यै यो वृक्षः फलग्रहिस्तस्य कुर्यादेष वै वनस्पतीनां वीर्यवत्तमस्सवीर्यत्वाय कल्माषीं वैणवीँ सुषिरां कुर्यादग्निर्वे देवेभ्योऽपाक्रामत् स वेणुं प्राविशत् स एतानि वर्माण्यनह्यत यानि परूँष्येतं लोकमन्वचरद्यत् सुषिस्स यत्र यत्रावसत् तन्निरदहत् तत् कल्मषमभवद्यत् कल्माषी वैणवी सुषिरा भवति सा ह्याग्नेयीतमा समृद्ध्या अथो यदेवास्यात्र न्यक्तं तस्यावरुद्ध्यै ॥१॥

अग्निर्वै देवेभ्योऽपाक्रामत् स यत्र यत्रागच्छत् तं प्रजापतिरन्वपश्यत् प्राजापत्योऽश्वो यदश्वेन यन्त्यग्नेरेवानुक्शात्या एतेन वै देवा असुरानुत्तममभ्यभवन् यदश्वेन यन्ति भ्रातृव्यस्याभिभूत्या एतं वै रक्षाँसि नातरन् यदश्वेन यन्ति रक्षसामतीर्त्या अश्वं पूर्वं नयन्ति गर्दभमपरं पापवसीयसस्य व्यावृत्त्यै तस्मात् पुण्यं पूर्वं यन्तं पापीयान् पश्चादन्वेति गर्दभेन संभरति तस्मादेष समावत् पशूनां रेतो दधानानां कनिष्ठोऽग्निर्ह्यस्य रेतो निरदहद्यदेतेनास्यामूर्जमर्कँ संभरति तस्मादेषोऽस्यां जीविततमः ॥ प्रतूर्तं वाजिन्नाद्रव युञ्जाथां रासभं युवमित्यश्वगर्दभयोरेवैष योगे योगे तवस्तरं वाजे वाजे हवामहे सखाय इन्द्रमूतय इत्यूत्यै हि वाजायाग्निश्चीयते प्रतूर्वन्नह्यवक्रामन्नशस्तीरिति बहुर्वै भवतो भ्रातृव्यो भवत्येष योऽग्निं चिनुते वज्र्यश्वः पाप्माशस्तिर्भ्रातृव्यो वज्रेणैव पाप्मानं भ्रातृव्यमवक्रामति रुद्रस्य गाणपत्ये मयोभूरेहीति रौद्रा वै पशवो रुद्रमेव पशून्निर्याच्यात्मने कर्म कुरुत उर्वन्तरिक्षं वीहित्यन्तरिक्षदेवत्यो ह्येष एतर्हि पूष्णा सयुजी सहेति पूषा वा अध्वनाँ संनेता समष्ट्यै॥ पृथिव्यास्सधस्थादग्निं पुरीष्यमङ्गिरस्वदाभरेति पुरीषायतनो वा अग्निरङ्गिरस एतमग्रे देवताभिस्समभरन् सायतनमेवैनं देवताभिस्संभरत्यग्निं पुरीष्यमङ्गिरस्वदच्छेम इति ब्रूयाद्येन संगच्छेत सर्वो वै पुरुषोऽग्निमान्वाजमेवास्य वृङ्क्ते प्रजापतये प्रोच्याग्निश्चेतव्यो राज्ञे प्रोच्य स हि प्राजापत्यतम इयं वाव प्रजापतिस्तस्या एष कर्णो यद्वल्मीको यद्वल्मीकवपामुद्धत्याभिमन्त्रयते प्रजापतय एव प्रोच्याग्निं चिनुते शृण्वन्त्येनमग्निं चिक्यानमसा अग्निमचेष्टेति कर्णो हि कर्णायाह ॥२॥

अन्वग्निरुषसामग्रमख्यदित्यनुक्शात्या आगत्य वाज्यध्वानँ सर्वा मृधो विधूनुत इति मृध एवैतयापहत आक्रम्य वाजिन् पृथिवीमग्निमिच्छ रुचा त्वमित्यैच्छद्वा एतं पूर्वया प्रजापतिरविन्ददुत्तरयेच्छत्येव पूर्वया विन्दत्युत्तरया द्यौस्ते पृष्ठं पृथिवी सधस्थमिति वज्री वा अश्वः प्राजापत्यो लोमाभिरुभयादतः पशूनति दद्भिरन्यतोदतो वज्रेणैव भ्रातृव्यमवगृह्णाति यत्र वै यज्ञस्यानुरूपं क्रियते तत् पशवोऽनुरूपा जायन्ते ।। उत्क्रामोदक्रमीदित्यनुरूपाभ्यामुत्क्रमयति तस्मात् पशवोऽनुरूपा जायन्ते द्वाभ्यां द्विपाद्यजमानः प्रतिष्ठित्यै यां वा अनग्ना अध्वर्युराहुतिं जुहोत्यन्धोऽध्वर्युर्भवति रक्षाँसि यज्ञं घनन्त्यग्निर्वै वरुणानीरभ्यकामयत तस्य तेजः परापतत् तद्धिरण्यमभवद्यद्धिरण्यमुपास्य जुहोत्यग्निमत्येव जुहोति समृद्ध्यै नान्धोऽध्वर्युर्भवति रक्षाँसि यज्ञं घ्नन्ति जिघर्म्यग्निं मनसा घृतेनेति मनो वै वाचः क्षेपीयो मनसैवाहुतिमाप्नोति प्रतिक्षियन्तं भुवनानि विश्वेति तस्मादेष सर्वाः प्रजाः प्रत्यङ् क्षियते व्यचिष्ठमन्नं रभसं विदानमित्यन्नमेवास्मै स्वदयत्या त्वा जिघर्मि वचसा घृतेनेति पूर्वमेवोदितमनुवदत्यरक्षसा मनसा तज्जुषेथा इति रक्षसामपहत्यै मर्यश्रीस्स्पृहयद्वर्णो अग्निरित्यपचितिमेवास्मिन् दधाति द्वाभ्यां जुहोति द्विपाद्यजमानः प्रतिष्ठित्यै ॥ यज्ञमुखे यज्ञमुखे वै यज्ञं रक्षाँसि जिघाँसान्ति यत् परिलिखति रक्षसामपहत्यै तिसृभिः परिलिखति त्रय इमे लोका एभ्य एव लोकेभ्यो रक्षाँस्यपहन्ति परि वाजपतिः कविरिति गायत्र्या परिलिखति ब्रह्म वै गायत्री ब्रह्मणैवैनं परिगृह्णाति परि त्वाग्ने पुरं वयमित्यनुष्टुभा वाग्वा अनुष्टुप् सर्वाणि च्छन्दाँसि परिभूर्वाचैव सर्वाणि च्छन्दाँसि परिगृह्णाति त्वमग्ने द्युभिरिति त्रिष्टुभा वीर्यं वै त्रिष्टुब् वीर्येणैवैनं परिगृह्णात्यनुष्टुभा मध्यतः परिलिखति वाग्वा अनुष्टुब् वाचमेव मध्यतो दधाति तस्मान्मध्यतो वाग्वदति तेजो वै गायत्री यज्ञोऽनुष्टुबिन्द्रियं त्रिष्टुप् तेजसा चैवेन्द्रियेण च यज्ञमुभयत आत्मन् परिगृह्णाति ॥३॥

सावित्राभ्यां खनति प्रसूत्यै धूममेव पूर्वेण विन्दति ज्योतिरुत्तरेण द्वाभ्यां द्विपाद्यजमानः प्रतिष्ठित्या अपां पृष्ठमसि योनिरग्नेरिति पुष्करपर्णमादत्तेऽपाँ ह्येतत् पृष्ठं योनिरग्नेः पुष्करपर्णेन संभरति स्वेनैवैनं योनिना संभरति शान्त्या अनुद्दाहाय कृष्णाजिनेन संभरति यज्ञो वै कृष्णाजिनं यज्ञेनैव यज्ञँ संभरत्यस्कन्दाय न हि यज्ञे यज्ञस्स्कन्दत्येतद्वै ब्रह्मणो रूपं यत् कृष्णाजिनं ब्रह्मणा चैवैनमृक्सामाभ्यां च संभरति शर्म च स्थो वर्म च स्थ इति सँस्तृणातीयं वै पुष्करपर्णमसौ कृष्णाजिनमिमे एवैतत् सँस्तृणात्यच्छिद्रे बहुले उभे इत्यच्छिद्रे हीमे बहुले उभे व्यचस्वती इति तस्मादिमे व्यचस्वती भर्तमग्निं पुरीष्यमिति पुरीष्यो ह्येष संवसाथाँ स्वर्विदौ समीची उरसा त्मनेति तस्मादिमे नाना सती समीची अग्निमन्तर्भरिष्यन्ती ज्योतिष्मन्तमजस्रमिदिति ज्योतिरेवास्मिन्नजस्रं दधाति पुरीष्योऽसि विश्वभरा इति पुरीष्यो ह्येष विश्वभरा अथर्वा त्वा प्रथमो निरमन्थदग्न इति प्रजापतिर्वा अथर्वा प्रजापतिरेतमग्रेऽमन्थत् प्रजापतिरेवैनं जनयति तमु त्वा दध्यङ्ङृषिरिति दध्यङ् वा आथर्वणस्तेजस्व्यासीत् तेनैवैनँ संभरति तमु त्वा पाथ्यो वृषेति पूर्वमेवोदितमनुवदति चतसृभिस्संवपति । चत्वारि वै छन्दाँसि च्छन्दोभिरेवैनँ संवपति गायत्रीभिर्ब्राह्मणस्य संवपेद्गायत्रो हि ब्राह्मणस्त्रिष्टुब्भी राजन्यस्य त्रैष्टुभो हि राजन्यो जगतीभिर्वैश्यस्य जागतो हि वैश्यो यथाछन्दसमेवोभयीभिस्संवपेद्य कामयेत वसीयान् स्यादिति तेजो वै गायत्रीन्द्रियं त्रिष्टुप् तेजश्चैवास्मिन्निन्द्रियं च समीची दधात्यष्टाभिस्संवपत्यष्टाक्षरा गायत्री गायत्रोऽग्निर्यावानेवाग्निस्तँ संभरति सीद होतरिति देवता एवास्मिन् सँसादयति नि होतेति मनुष्यानेव सँसीदस्वेति वयाँस्येव जनिष्ट हि जेन्यो अग्रे अह्नामिति देवमनुष्यानेवास्मिन् सँसन्नान् प्रजनयति।।४।।

अपो देवीरुप सृज मधुमतीरित्योषधीनां प्रतिष्ठित्यै तासामास्थानादुज्जिहतामोषधयस्सुपिप्पला इति तस्मादोषधयः फलं गृह्णन्ति सं ते वायुर्मातरिश्वा दधात्विति तस्माद्वायुर्वृष्टिं वहति प्राणो वै वायुः प्राणमेवास्मिन् दधाति तस्मै देव वषडस्तु तुभ्यमिति षड्वा ऋतव ऋतुष्वेव वृष्टिं दधाति तस्मादृतुमृतुं वर्षति यत् प्रत्यक्षं वषट् कुर्याद्यातयामा वषट्कारस्स्याद्यन्न वषट् कुर्याद्रक्षाँसि यज्ञँ हन्युस्तस्मै देव वषडस्तु तुभ्यमिति परोक्षं न यातयामा वषट्कारो भवति न रक्षाँसि यज्ञं घ्नन्ति ।। यदाज्येन जुहुयाच्छुचा पृथिवीमर्पयेदपो निनयति शान्त्या अनुद्दाहाय सुजातो ज्योतिषेत्येतर्हि वा एष जायते यर्हि संभ्रियते जात एवास्मिञ्ज्योतिर्दधाति शर्म वरूथमासदत् स्वरिति ब्रह्म वै शर्म वरूथं ब्रह्मण्येवैनं प्रतिष्ठापयति वासो अग्ने विश्वरूपँ संव्ययस्व विभावस इति च्छन्दाँसि वा अग्नेर्वासश्छन्दोभिरेवैनं परिदधात्यनुष्टुब् वा अग्नेः प्रिया तनूः प्रिययैवैनं तन्वा परिदधाति वेदुको वासो भवति य एवं वेद । वरुणमेनिर्वा एप उपनद्ध उदुतिष्ठ स्वध्वरोर्ध्व ऊ षु ण ऊतये इत्युर्ध्वामेव वरुणमेनिमुत्सुवति द्वाभ्यां द्विपाद्यजमानः प्रतिष्ठित्यै स जातो गर्भो असि रोदस्योरितीमे वै रोदसी अनयोरेष गर्भोऽनयोरेवैनं प्रतिष्ठापयत्यग्ने चारुर्विभृत ओषधीष्विति तस्मादग्निस्सर्वा अन्वोषधीः प्र मातृभ्यो अधि कनिक्रदद्गा इत्योषधयो वा एतस्य मातरस्ताभ्य एवैनमधिप्रणयति स्थिरो भव वीड्वङ्ग इति गर्दभ एव स्थेमानं दधाति तस्मादेष पशूनां भारभारितमश्शिवो भव प्रजाभ्यो मानुषीभ्यस्त्वमङ्गिर इत्यभि वा एष एतर्हि प्रजाश्शोचयति शान्त्यै ।। मा द्यावापृथिवी अभि शुचो मान्तरिक्षं मा वनस्पतीनित्येभ्य एवैनं लोकेभ्यश्शमयति प्रैतु वाजी कनिक्रददिति समष्ट्यै मा पाद्यायुषः पुरेत्यायुरेवास्मिन् दधाति तस्माद्गर्दभस्सर्वमायुरेति तस्माद्गर्दभे प्रमीते बिभ्यति वृषाग्निं वृषणं भरन्निति वृषा ह्येष वृषाणं भरत्यपां गर्भँ समुद्रियमित्यपाँ ह्येष गर्भस्समुद्रियोऽग्न आयाहि वीतय । इत्यग्निना वै देवा इदमग्रे व्यायन् वीत्यै प्रच्युतो वा एष एतर्ह्यायतनादगतः प्रतिष्ठाँ स यजमानं चैवाध्वर्युं च ध्यायत्यृतँ सत्यमृतँ सत्यमितीयं वा ऋतमसौ सत्यमनयोरेवैनं प्रतिष्ठापयत्योषधयः प्रतिगृह्णीताग्निमेतँ शिवमायन्तमभ्यत्र युष्मानित्योषधयो वा एतस्य भागधेयं ताभिरेवैनँ सम्यञ्चं दधात्यथो याभ्य एनं प्रच्यावयति तास्वेनं प्रतिष्ठापयति । पुष्पवतीस्सुपिप्पला इति तस्मादोषधयः फलं गृह्णन्ति द्वाभ्यामुपावहरति द्विपाद्यजमानः प्रतिष्ठित्यै वि पाजसेति वि स्रंसयति वरुणमेनिमेव विष्यत्यापो हि ष्ठा मयोभुव इत्यप उपसृजत्यापश्शान्ताश्शान्ताभिरेवास्य शुचँ शमयति तिसृभिस्त्रिवृद्वा अग्निर्यावानेवाग्निस्तस्य शुचँ शमयत्यजलोमैस्सँसृजत्येषा वा अग्नेः प्रिया तनूर्यदजा प्रिययैवैनं तन्वा सँसृजति शर्कराभिर्धृत्या अर्म्यैः कपालैस्सँसृजत्यारण्यानेव पशूञ्शुचार्पयति यद्ग्राम्यैस्सँसृजेद् ग्राम्यान् पशूञ्शुचार्पयेत् तस्मादेते समावत् पशूनां प्रजायमानानां कनिष्ठाश्शुचा ह्येत ऋताः ॥५॥

मित्रस्सँसृज्य पृथिवीमिति वरुणमेनिर्वा एषा मित्रेणैव वरुणमेनिमुपैति रुद्रस्सँसृज्य पृथिवीँ सँसृष्टां वसुभी रुद्रैरित्येताभिर्वा एतां देवताभिः प्रजापतिस्समसृजत् ताभिरेवैनाँ सँसृजति प्रान्यैर्यच्छत्यन्वन्यैर्मन्त्रयते मिथुनमेव करोत्यथो मध्यत एव यज्ञस्याशिषमवरुन्द्धे मखस्य शिरोऽसीति यज्ञो वै मखो यज्ञस्यैव शिरः करोति वसवस्त्वा कुर्वन्तु गायत्रेण च्छन्दसेत्येताभिर्वा एतां देवताभिः प्रजापतिरकरोत् ताभिरेवैनां करोति त्र्युद्धं करोति त्रय इमे लोका इमानेव लोकानाप्नोति पञ्चोद्धिं करोति पाङ्क्तो यज्ञो यज्ञमेवावरुन्द्धे ।। धारया मयि प्रजामित्याशीरेवैषा छन्दसां दोहोऽरत्निमात्रीं कुर्यात् पुरुषेण वै यज्ञस्संमितो यज्ञपुरुषासंमितां यावद्बाहुभ्यां पर्याप्नुयात् तावतीं कुर्यादेतावद्वै पुरुषे वीर्यं वीर्येण संमितां प्रादेशमात्रीं कुर्यादेतावद्वै मुखं मुखं देवानामग्निर्मुखेन संमितामपरिमितां कुर्यादपरिमितस्यावरुद्ध्यै चतुस्स्तनां कुर्याददित्या दोहाय षट्स्तनामृतूनां दोहायाष्टास्तनां गायत्र्या दोहाय द्विस्तनां द्यावापृथिव्योर्दोहाय नवाश्रिमभिचरणीयां कुर्यात् त्रिवृद्वज्रो वज्रमेव भ्रातृव्याय प्रहरत्यदित्या रास्नास्यदितिस्ते बिलं गृह्णात्विति यजुषा बिलं करोत्ययजुषा हि मनुष्याः कुर्वन्ति मानुषेणेवैनां पात्रेण व्यावर्तयन्ति यद्वा एषा पुरा पक्तोर्भिद्येतार्तिं यजमान आर्छेद्धन्येतास्य यज्ञः कृत्वाय सा महीमुखामिति देवताभ्य एवैनाँ संप्रयच्छति वसवस्त्वा धूपयन्तु गायत्रेण च्छन्दसेत्येताभिर्वा एतां देवताभिः प्रजापतिरधूपयत् ताभिरेवैनां धूपयत्यश्वशकेन धूपयति प्राजापत्यो वा अश्वो यज्ञः प्रजापतिस्सयोनित्वाय सप्तभिर्धूपयति शिरो वा एतद्यज्ञस्य यदुखा सप्त प्राणाश्शीर्षन्नेव प्राणान् दधाति तस्मात् सप्त शीर्षण्याः प्राणाः ॥६॥

अदितिस्त्वा देवी विश्वदेव्यावतीतीयं वा अदितिरदित्यैवादित्यां खनत्यस्या अक्रूरंकाराय न हि स्वस्स्वँ हिनस्ति देवानां त्वा पत्नीरिति देवानां वा एतां पत्नीरग्रेऽत्रादधुस्ताभिरेवैनां दधाति धिषणास्त्वेति विद्या वै धिषणा विद्ययैवैनामभीन्द्धे वरुत्रीस्त्वेति होत्रा वै वरुत्रीर्हौत्राभिरेवैनाँ श्रपयति ग्नास्त्वेति च्छन्दाँसि वै ग्नाश्छन्दोभिरेवैनां पचति जनयस्त्वाच्छिन्नपत्रा इति देवानां वै पत्नीर्जनयस्ता एतामग्रेऽपचँस्ताभिरवैनां पचति ।। द्विष्पचन्त्वित्याह तस्माद् द्विस्संवत्सरस्य सस्यं पच्यते षड्भिः पचति षड्वा ऋतव ऋतुभिरेतां देवानां पत्नीरपचँस्तैरेवैनां पचति वरुणमेनिर्वा एषाभीद्धा मित्रस्य चर्षणीधृत इति मित्रेणैव वरुणमेनिमुपैति देवस्त्वा सवितोद्वपत्विति सावित्र्योद्वपति प्रसूत्या अव्यथमाना पृथिव्यामाशा दिश आपृणेति तस्मादग्निस्सर्वा दिशो विभात्युत्तिष्ठ बृहती भवोर्ध्वा तिष्ठ ध्रुवा त्वमिति दृँहत्येवैनां यद्वा एषा भिद्येतार्तिं यजमान आर्छेद्धन्येतस्य यज्ञो मित्रैतां त उखां परिददामीति ब्रह्म वै मित्रो ब्रह्मण एवैनां परिददाति ॥ यदि भिद्येत तैः कपालैस्सँसृज्यान्यां कुर्यात् सैव ततो यज्ञस्य निष्कृतिर्वसवस्त्वाच्छृन्दन्तु गायत्रेण च्छन्दसेति च्छन्दोभिर्वा एषा क्रियते छन्दोभिर्धूप्यते छन्दोभिः पच्यते । छन्दाँस्येव च्छन्दोभिराच्छृन्दन्ति स्वेनायतनेनासुर्यं वै पात्रमनाच्छृणं यदाच्छृणत्ति देवत्रैव करोत्यजक्षीरेणाच्छृणत्ति सा ह्याग्नेयीतमा समृद्ध्या अथो परमेणैव पयसा ।।७।।

अथैतेऽग्निभ्यः कामेभ्यः पशव आलभ्यन्ते कामा वा अग्नयस्सर्वानेवैतैः कामानभिजयति सर्वान् कामान् स्पृणोति यत् पशून्नालभेतानवरुद्धा अस्य पशवस्स्युर्यत् संस्थापयेद्यातयामानि शीर्षाणि स्युर्यन्न सँस्थापयेद्यज्ञं विच्छिन्द्याद्यत् पशूनालभते तेनैव पशूनवरुन्द्धे यत् पर्यग्निकृतानुत्सृजति शीर्ष्णामयातयामत्वायैकेन सँस्थापयति यज्ञस्य संतत्या अविच्छेदाय प्राजापत्येन यज्ञो वै प्रजापतिर्यज्ञ एवं यज्ञं प्रतिष्ठापयति न यज्ञं विच्छिनत्त्यैन्द्रा वा एते पशवो ये मुष्करा यदैन्द्रास्सन्तोऽग्निभ्य आलभ्यन्ते देवताभ्यस्समदं करोत्याग्नेयीस्त्रिष्टुभो याज्यानुवाक्याः कुर्यादैन्द्रीर्वै त्रिष्टुभस्तेनैवैन्द्राः क्रियन्ते न देवताभ्यस्समदं करोत्यथैष वायव्यश्वेतस्तूपरस्सर्वान् वा एष पशून् प्रत्यालभ्यते यत्तूपरोऽश्वं तेन पशूनां प्रत्यालभ्यते यच्छ्मश्रुणः पुरुषं तेन यदष्टाशफोऽष्टाशफान् पशूँस्तेन नियुत्वती याज्यानुवाक्ये कुर्याद्यजमानस्य धृत्या अनुन्मादाय यन्न नियुत्वती स्यातामुद्वा माद्येद्यजमानः प्र वा पतेद्वायुमती शुक्रवती वायुर्वा अग्नेस्तेजस्तस्माद्यद्र्यङ्वातो वाति तदग्निरन्वेति स्वमेव तत् तेजोऽन्वेति वायुर्वै पशूनां प्रियं धाम प्राणो वायुर्यद्वायव्य एतमेवैनमभिसंजानानाः पशव उपतिष्ठन्ते वायव्या कार्या३ प्राजापत्या३ इति मीमाँसन्ते यद्वायव्यां कुर्यात् प्रजापतेरियाद्यत् प्राजापत्यां वायोरियाद्य एवं कश्चाग्नौ पशुरालभ्यते तस्याग्नये वैश्वानराय पुरोडाशं कुर्याद्यद्वायव्यः पशुस्तेन वायोर्नैति यत् प्राजापत्यः पुरोडाशस्तेन प्रजापतेर्नैति यद् द्वादशकपालो द्वादशमासस्संवत्सरस्संवत्सरोऽग्निर्वैश्वानरस्तेन वैश्वानरत्वान्नैति ॥८॥

आग्नावैष्णवमेकादशकपालं निर्वपत्यग्निर्वै सर्वा देवता विष्णुर्यज्ञो देवताश्चैव यज्ञं चालभते मुखं वै देवानामग्निः परोऽन्तो विष्णुर्यज्ञस्यैवान्तौ समग्रहीदथादित्येभ्यो घृते चरुरादित्या वा इत उत्तमा अमुं लोकमायन्नादित्या इमाः प्रजा आदित्यानां नेदिष्ठिनीस्स्वामेव देवतामुपैति घृते भवति घृतभागा ह्यादित्या अथाग्नये वैश्वानराय द्वादशकपालस्संवत्सरो वा अग्निर्वैश्वानरो द्वादशमासस्संवत्सरस्संवत्सरस्याप्त्यै ।। योऽयोनिमग्निं चिनुते यजमानस्य योनिमनु प्रविशति स एनं निर्दहति संवत्सरो वा अग्निर्वैश्वानरस्संवत्सरोऽग्नेर्योनिर्यदग्नये वैश्वानराय योनिमन्तमेवैनं चिनुत एषा वा अग्नेः प्रिया तनूर्या वैश्वानरी यदग्नये वैश्वानराय प्रियाया एवास्य तन्वे हविष्कृत्वा प्रियां तन्वमादत्ते कामो वा अग्निर्वैश्वानरो यदग्नये वैश्वानराय निर्वपत्यश्नुते तं कामं यस्मै कामाय दीयते यद् द्वादशकपालो द्वादशमासस्संवत्सरो या वै प्रजा भ्रँशन्ते संवत्सरात् ता भ्रँशन्ते याः प्रतितिष्ठन्ति संवत्सरे ताः प्रतितिष्ठन्ति संवत्सर एव प्रतिष्ठायाग्निं बिभर्ति ॥९॥

षडाधीतयजूँषि जुहोति षड्वा ऋतव ऋतुभिरेवैनं दीक्षयत्यृतुभिरस्या वीर्यमुद्यच्छते सप्तैतानि जुहोति सप्त प्राणाः प्राणैरेवैनं दीक्षयति नाना जुहोति तस्मान्नानावीर्याः प्राणाश्चक्षुश्श्रोत्रं वागनुष्टभोत्तमं जुहोति वाग्वा अनुष्टुब् वाचमेवोत्तमां दधाति तस्माद्वाक् प्राणानामुत्तमा विहितं वदत्यनुष्टुब् वै सर्वाणि च्छन्दाँसि पशवश्छन्दाँस्यन्नं पशवः पशूनेवान्नाद्यमवरुन्द्धे यज्ज्योतिषि प्रवृणक्ति भूतं तेनावरुन्द्धे यदङ्गारेषु भविष्यत् तेनाङ्गारेषु प्रवृज्या भविष्यद्धि भूयो भूतान्मा सु भित्था मा सु रिष इति दृँहत्येवैनामरिष्टा त्वमुदिहि यज्ञे अस्मिन्निति समष्ट्यै द्वाभ्यां प्रवृणक्ति द्विपाद्यजमानः प्रतिष्ठित्यै ॥ परीध्या बुभूषतो गर्भो दीक्षितोऽत इव वा एष भवत्यत एवैनं जनयति मथित्वा गतश्रेरवदध्याद्भूतो हि स स्वामेव देवतामुपैत्यन्यत आहृत्यावदध्याद्यं कामयेत भ्रातृव्यमस्मै जनयेयमिति भ्रातृव्यमेवास्मै जनयति भृज्जनादवदध्यादन्नकामस्य भृज्जने वा अन्नं क्रियते सयोन्येवान्नमवरुन्द्धे यो वृक्ष उपरि दीप्येत तस्यावदध्यात् स्वर्गकामस्यैष वा अग्नीनाँ स्वर्ग्यस्स्वर्गस्य लोकस्य समष्ट्यै द्र्वनस्सर्पिरासुतिरिति कृमुकं लिखितं घृतेनाक्त्वावदधात्यग्नेर्वै प्रिया तनूस्तया कृमुकं प्राविशत् तेजो घृतं प्रियामेवास्य तन्वं तेजसा समनक्ति मुञ्जानवदधात्यूर्ग्वै मुञ्जा ऊर्जमेवास्मा अपिदधाति परस्या अधि संवत इत्यौदुम्बरीमूर्ग्वा उदुम्बर ऊर्जमेवास्मा अपिदधाति परमस्याः परावत इति वैकङ्कतीमग्नेर्वै सृष्टस्य विकङ्कतं भा आर्छत् तदेवावरुन्द्धे यदग्ने कानि कानि चेति न ह स्म वै पुराग्निरपरशुवृक्णं दहति तदस्मा एताभिः प्रयोग ऋषिरस्वदयद्यदेताभिस्समिध आदधातीध्ममेवास्मै स्वदयति स्वदितमस्यान्नं भवति य एवं वेद च्छन्दाँसि वा अग्नेर्योनिर्यच्छन्दोभिरादधाति स्वेनैवैनं योनिनानुबिभर्ति रात्रीं रात्रीमप्रयावं भरन्त इत्याशिषमेवाशास्ते नाभा पृथिव्यास्समिधानो अग्निमिति पृतना एवैतया जयति । यास्सेना अभीत्वरीरित्यग्निं वै जातं रक्षाँस्यजिघाँसँस्ते देवा एता ऋचोऽपश्यँस्ताभिरस्माद्रक्षाँस्यपाघ्नन् यदेताभिस्समिध आदधाति रक्षसामपहत्या अथैतन्मालिम्लवं देवाश्च वा असुराश्चास्पर्धन्त ते देवा एतन्मालिम्लवमपश्यँस्तेनासुरानभ्यभवन् यदेतेन समिध आदधाति भ्रातृव्यस्याभिभूत्यै तस्माद्याँ समामग्निं चिन्वन्ति ग्राहुकास्स्तेनं भवन्ति यास्सेना अभीत्वरीरित्यौदुम्बरीं देवा वै यत्रोर्जं व्यभजन्त तत उदुम्बरोऽजायत जातायैवास्मा ऊर्जमपिदधाति दँष्ट्राभ्यां मलिम्लूनग्न इत्याश्वत्थीमेष वै वनस्पतीनाँ सपत्नसाहो विजित्यै यर्हि दँष्ट्राभ्यामिति ब्रूयाद्यं द्विष्यात् तं मनसा ध्यायेन्मनो वै वाचः क्षेपीय आहुतिमेवैनं भूतामग्नयेऽपिदधाति ये जनेषु मलिम्लव इति वैकङ्कतीमग्नेर्वै सृष्टस्य विकङ्कतं भा आर्छत् तदेवावरुन्द्धे यो अस्मभ्यमरातीयादिति शमीमयीँ शान्त्यै निन्दाद्यो अस्मान् दिप्साच्चेति तस्मादग्निचितो नाश्लीलं कीर्तयेत् सँशितं मे ब्रह्मेति ब्रह्मणैव क्षत्रँ सँश्यति क्षत्रेण ब्रह्म तस्माद्ब्रह्मपुरोहितं क्षत्रमत्यन्यानि क्षत्राणि तस्माद्ब्रह्म क्षत्रवदत्यन्यान् ब्राह्मणानुदेषां बाहू अतिरमुद्वर्चो अथो बलमित्याशिषमेवाशास्ते क्षिणोमि ब्रह्मणामित्रानुन्नयामि स्वाँ अहमिति यथायजुः ॥१०॥

दृशानो रुक्म उर्विया व्यद्यौदिति रुक्मं प्रतिमुञ्चेत मृत्युर्वा अग्निरमृतँ हिरण्यममृतेनैव मृत्योरन्तर्धत्त एकविँशतिनिर्बाधो भवति प्रतिष्ठित्या एकविँशतिर्देवलोकास्तेभ्य एव भ्रातृव्यं निर्बाधते बहिष्टान्निर्बाधं कुर्यादस्मादेवैनं लोकान्निर्बाधत उभयतः पर्यस्यति प्रतिमुञ्चमान उभाभ्यामेवैनं लोकाभ्यां निर्भजति नक्तोषासेत्यहोरात्राभ्यामेवैनं परिगृह्णाति देवा अग्निं धारयन् द्रविणोदा इति प्राणा वै देवा द्रविणोदाः प्राणैरेवैनं दाधार षडुद्यामँ शिक्यं भवति षड्वा ऋतव ऋतुभिरेवैनं परिगृह्णाति द्वादशोद्यामं भवति द्वादश मासास्संवत्सरस्संवत्सरेणैवैनं परिगृह्णाति मौञ्जं भवत्यूर्ग्वै मुञ्जा ऊर्जैनं परिगृह्णाति ।। नाधोनाभि बिभृयादग्निरस्य रेतो निर्दहेदूर्ध्वं नाभ्या बिभृयादूर्ध्वं नाभ्यास्सदेवमग्निस्सर्वा देवतास्सदेव एव देवता बिभर्ति विश्वा रूपाणीति सावित्र्या प्रतिमुञ्चते प्रसूत्या आसीनः प्रतिमुञ्चते तस्मादासीनाः प्रजाः प्रजायन्ते सुपर्णोऽसि गरुत्मानित्यग्नेर्वा एते संभारा अग्निमेवैतैस्संभरत्येतद्वा अग्नेः प्रियं धाम तदेवावरुन्द्धे दिवं गच्छ स्वः पतेति स्वर्गस्य लोकस्य समष्ट्या असुराणां वा इमे लोका आसँस्ते देवा विष्णुमब्रुवन् यावदयं कुमारो विक्रमते तावन्नो दत्तेति स सकृदेवेमां व्यक्रमत गायत्रीं छन्दस्सकृदन्तरिक्षं त्रिष्टुभं छन्दस्सकृद्दिवं जगतीं छन्दस्सकृद्दिशोऽनुष्टुभं छन्दस्ते देवा इमांल्लोकानसुराणामविन्दन्त ततो देवा अभवन् परासुरा अभवन् य एवं विद्वान् प्रक्रमान् प्रक्रामतीमानेव लोकान् भ्रातृव्यस्य विन्दते भवत्यात्मना परास्य भ्रातृव्यो भवत्यक्रन्ददग्निरित्येतया वै वत्सप्रीर्भालन्दनोऽग्नेः प्रियं धामावारुन्द्धाग्नेरेवैतया प्रियं धामावरुन्द्धेऽग्नेऽभ्यावर्तिन्नग्ने अङ्गिरः पुनरूर्जा सह रय्येति पुनरेति तस्माद्ग्राम्याः पशवस्सायमरण्याद्ग्राममायान्ति चतसृभिश्चतुष्पादा हि पशवो दक्षिणा पर्यावर्तते तस्माद्दक्षिणोऽर्ध आत्मनो वीर्यावत्तर आ त्वाहार्षमित्या ह्येनं हरति विशस्त्वा सर्वा वाञ्छन्त्वस्मे राष्ट्रमधिश्रयेति यं कामयेत राष्ट्रँ स्यादिति तं मनसा ध्यायेद्राष्ट्रमेव भवत्युदुत्तमं वरुण पाशमस्मदिति शुनश्शेपो वा एतामाजीगर्तिर्वरुणगृहीतोऽपश्यत् तया वै स वरुणपाशादमुच्यत वरुणपाशमेवैतया प्रमुञ्चतेऽग्रे बृहन्नुषसामूर्ध्वो अस्थादिति । पाप्मा वै तमः पाप्मानमेवैतयापहते हँसश्शुचिषदिति साप्तान्येवैत्या प्रीणाति सदित्यभिपूर्वमेवैनँ सति प्रतिष्ठापयत्यासन्द्याँ सादयति सूयते वा एषोऽग्नीनां य उखायां भ्रियते तस्मादासन्द्याँ सादयति यदधस्सादयेत् प्रपादुका गर्भास्स्युरुपरि सादयति गर्भाणां धृत्या अप्रपादाय तिसृभिरुपतिष्ठते त्रयः प्राणाः प्राणो व्यानोऽपानस्तानेव यजमाने दधाति त्रय इमे लोका एष्वेव लोकेष्वृध्नोति ।।११।।

अथैतद्वात्सप्रमेतेन वै वत्सप्रीर्भालन्दनोऽग्नेः प्रियं धामावारुन्द्धाग्नेरेवैतेन प्रियं धामावरुन्द्ध एतेन वै स ऋषीणामधिवादमपाजयत् पाप्मानमेवैतेनाधिवादमपजयत्येतेन वै सोऽभिशस्तीरजयदभिशस्तीरेव जयति य एवं विद्वानेतेनोपतिष्ठते यत् प्रक्रमान् प्रक्रामति यामं तेन दाधार यदुपतिष्ठते क्षेमं तेन पूर्वेद्युः प्रक्रामत्यपरेद्युरुपतिष्ठते तस्माद्यामेऽन्यासां प्रजानां मनः क्षेमेऽन्यासां तस्माद्यायावरः क्षेमस्येशे तस्माद्यायावरः क्षेम्यमध्यवस्यत्येकादशं भवत्येकादशाक्षरा त्रिष्टुब् वीर्यं त्रिष्टुब् वीर्यमेवावरुन्द्धे । एकेषं वै पुरान आसीत् तत एतदृषयोऽग्नये द्वीपमाधानमपश्यँस्तस्माद् द्वीषमग्नय आधानं कुर्वन्ति तामिदमनुकृतिं द्वीषमनः क्रियत उदु त्वा विश्वे देवा इति प्राणा वै विश्वे देवाः प्राणैरेवैनमुद्यच्छते मनुष्या वै विश्वे देवा मनुष्यैरेवैनमुद्यच्छतेऽग्ने भरन्तु चित्तिभिरिति यस्मा एवैनं चित्तायोद्यच्छते तेनैनँ समर्धयति प्रेदग्ने ज्योतिष्मान् याहीत्यभि वा एष एतर्हि प्रजाश्शोचयति शान्त्या अक्रन्ददग्निरित्यनुमन्त्रयेत यदि क्ष्वेदेत्क्रन्दतव ह्यनसा वहन्ति तस्मादनस्वी च रथी चातिथीनामपचिततमा अन्नपते अन्नस्य नो देहीत्यन्नमेवास्मै स्वदयत्यनमीवस्य शुष्मिण इत्ययक्ष्मस्येत्येवैतदाह प्र प्रदातारं तारिष ऊर्जं नो देहि द्विपदे चतुष्पद इत्याशिषमेवाशास्ते समिधाग्निं दुवस्यतेति घृतेनाक्त्वा समिधमादधाति यथा ब्राह्मणायातिथये सर्पिष्वन्तं पचत्येवमेव तद्गायत्र्या ब्राह्मणस्यादध्याद्गायत्रो हि ब्राह्मणस्त्रिष्टुभा राजन्यस्य त्रैष्टुभो हि राजन्यो जगत्या वैश्यस्य जागतो हि वैश्यो यथाछन्दसमेवापो देवीः प्रतिगृह्णीत भस्मैतदित्यप्सु भस्म प्रवपत्यापो वा अग्नेर्योनिस्स्वमेवैनं योनिं गमयति तिसृभिस्त्रिवृद्वा अग्निर्यावानेवाग्निस्तं प्रतिष्ठां गमयति परा वा एषोऽग्निं वपति योऽप्सु भस्म प्रवपति सँसृज्य मातृभिष्ट्वं ज्योतिष्मान् पुनरासद इति ज्योतिरेवास्मिन् दधात्यूर्जा वा एष पशुभिर्व्यृध्यते योऽप्सु भस्म प्रवपति पुनरूर्जा सह रय्येति पुनरेवोर्जं पशूनवरुन्द्धे बोधा मे अस्य वचसो यविष्ठेति तस्मात् प्रजास्सुषुपुषीः प्रबुध्यन्ते स बोधि सूरिर्मघवेति तस्मात् पशवः प्रेत्वानश्चरित्वा पुनरेत्य यथालोकं निषीदन्ति द्वाभ्यां द्विपाद्यजमानः प्रतिष्ठित्यै ॥१२॥

देवं बर्हिस्सुदेवं देवैस्स्यात् सुवीरं वीरैर्वस्तोर्वृज्येताक्तोः प्रभ्रियेतात्यन्यान् राया बर्हिष्मतो मदेम वसुवने वसुधेयस्य वेतु यज देवीर्द्वारस्संघाते वीड्वीयमञ्छिथिरा ध्रुवा देवहूतौ वत्स ईमेनास्तरुण आमिमीयात् कुमारो वा नवजातो मैना अर्वा रेणुककाटः प्रणग्वसुवने वसुधेयस्य व्यन्तु यज देवी उषासानक्ताद्यास्मिन् यज्ञे प्रयत्यह्वेतामपि नूनं दैवीर्विशः प्रायासिष्टाँ सुप्रीते सुधिते वसुवने वसुधेयस्य वीतां यज देवी जोष्ट्री वसुधिती ययोरन्याघा द्वेषाँसि यूयवदान्या वक्षद्वसु वार्याणि यजमानाय वसुवने वसुधेयस्य वीतां यज देवी ऊर्जाहुती इषमूर्जमन्या वक्षत् सग्धिँ सपीतिमन्या नवेन पूर्वं दयमानास्स्याम पुराणेन नवं तामूर्जमूर्जाहुती ऊर्जयमाने अधातां वसुवने वसुधेयस्य वीतां यज - देवा दैव्या होतारा पोतारा नेष्टारा हताघशँसा आभरद्वसू वसुवने वसुधेयस्य वीतां यज देवीस्तिस्रस्तिस्रो देवरिडा सरस्वती भारती द्यां भारत्यादित्यैरस्पृक्षत् सरस्वतीमं रुद्रैर्यज्ञमावीदिहैवेडया वसुमत्या सधमादं मदेम वसुवने वसुधेयस्य व्यन्तु यज देवो नराशँसस्त्रिशीर्षा षडक्षश्शतमिदेनँ शितिपृष्ठा आदधति सहस्रमीं प्रवहन्ति मित्रावरुणेदस्य होत्रमर्हतो बृहस्पतिस्स्तोत्रमश्विनाध्वर्यवं वसुवने वसुधेयस्य वेतु यज देवो वनस्पतिर्वर्षप्रावा घृतनिर्णिग्द्यामग्रेणास्पृक्षदान्तरिक्षं मध्येनाप्राः पृथिवीमुपरेणादृँहीद्वसुवने वसुधेयस्य वेतु यज देवं बर्हिर्वारितीनां निधेधासि प्रच्युतीनामप्रच्युतं निकामधरणं पुरुस्पार्हं यशस्वदेना बर्हिषान्या बर्हीँष्यभिष्याम वसुवने वसुधेयस्य वेतु यज देवो अग्निस्विष्टकृत्सुद्रविणा मन्द्रः कविस्सत्ययजी होता होतुर्होतुरायजीयानग्ने यान् देवानयाड्याँ अपप्रेर्ये ते होत्रे अमत्सत तान् समनैषीर्होत्रां देवंगमां दिवि देवेषु यज्ञमेरयेमँ स्विष्टकृच्चाग्ने होताभूर्वसुवने वसुधेयस्य नमोवाके वीहि यजाग्निमद्य होतारमवृणीतायं यजमानः पचन् पक्तीः पचन् पुरोडाशान् बध्नन् बृहस्पतये छागं सूपस्था अद्य देवो वनस्पतिरभवद्बृहस्पतये छागेन बध्नन्नश्विभ्यां छागँ सूपस्था अद्य देवो वनस्पतिरभवत् सरस्वत्यै मेष्या बध्नन्निन्द्राय मेषँ सूपस्था अद्य देवो वनस्पतिरभवदिन्द्राय मेषेणाक्षँस्तान्मेदस्तः प्रतिपचताग्रभीषतावीवृधन्त पुरोडाशैस्त्वामद्यर्ष आर्षेयर्षीणां नपादवृणीतायं यजमानो बहुभ्य आ संगतेभ्य एष मे देवेषु वसु वार्यायक्ष्यत इति ता या देवा देवदानान्यदुस्तान्यस्मा आ च शास्वा च गुरस्वेषितश्च होतरसि भद्रवाच्याय प्रेषितो मानुषस्सूक्तवाकाय सूक्तं ब्रूहि ॥१३॥

अग्न आयूँष्यग्ने पवस्वाग्ने पावक रोचिषा ॥
स नः पावक दीदिवोऽग्ने देवाँ इहावह । उप यज्ञँ हविश्च नः ॥
अग्निश्शुचिव्रततम उदग्ने शुचयस्तव सुत्रामाणं महीमू षु ।।
तं हि शश्वन्त ईडते स्रुचा देवं घृतश्च्युता । अग्निँ हव्याय वोढवे ।।
अग्नि दूतं पुरो दधे ।।
स हव्यवाडमर्त्य उशिग् दूतश्चनोहितः । अग्निर्धिया समृण्वति ॥
अग्निँ स्तोमेन बोधय समिधानो अमर्त्यम् । हव्या देवेषु नो दधत् ॥
प्रेद्धो अग्न इमो अग्ने ।
पीपिवाँसँ सरस्वतस्स्तनं यो विश्वदर्शतः । धुक्षीमहि प्रजामिषम् ॥
ये ते सरस्वन्नूर्मयो मधुमन्तो घृतश्च्युतः । तेभिर्नोऽविता भव ॥
दिव्यँ सुपर्णं वायसं बृहन्तमपां पतिं वृषभमोषधीनाम् ।
अभीपतो वृष्ण्या तर्पयन्तँ सरस्वन्तमवसे जोहवीमि ॥
यस्य व्रतमुपतिष्ठन्त आपो यस्य व्रते पशवो यन्ति सर्वे ।
यस्य व्रते पुष्टिपतिर्निविष्टस्तँ सरस्वन्तमवसे जोहवीमि ॥१४॥ {१५८०] ॥


इति श्रीयजुषि काठके चरकशाखायां मध्यमिकायां सावित्रा नामैकोनविंशं स्थानकं संपूर्णम् ॥१९॥