← स्थानकं १९ काठकसंहिता (विस्वरः)
स्थानकम् २०
[[लेखकः :|]]
स्थानकं २१ →
अपेतवीतम्

अथ विंशं स्थानकम् ।

अपेतवीतम् ।
अपेत वीत वि च सर्पतात इति देवयजनमध्यवस्यति यो वा अस्या अधिपतिं देवयजनमनिर्याच्याग्निं चिनुते यमाय तेऽग्नयश्चीयन्ते यमोऽस्या अधिपतिर्यममेवास्या अधिपतिं देवयजनं निर्याच्यात्मनेऽग्निं चिनुत इष्वग्रेण ह वा अस्या अनामृतमिच्छन्तो न विविदुर्यदेतेन देवयजनमध्यवस्यत्यस्या एवानामृतेऽग्निं चिनुत उवाच ह सनाच्छव एतन्मा कतिपयथं यजुरायतनादचुच्यवदिति दिवः प्रिये धामन्नाग्निश्चेतव्य ऊषा वै दिवः प्रियं धाम् यदूषानुपवपति दिव एव प्रिये धामन्नग्निं चिनुत इष्टका वा एता वैश्वानरीररिमिता यत् सिकता यत् सिकता उपवपति ता एवावरुन्द्धेऽग्नेर्वा एषा वैश्वानरस्य प्रिया तनूर्यत् सिकता यत् सिकता उपवपति तामेवावरुन्द्धेऽयँ सो अग्निरित्येतद्विश्वामित्रस्य सूक्तमेतेन वै विश्वामित्रोऽग्नेः प्रियं धामावारुन्द्धाग्नेरेवैतेन प्रियं धामावरुन्द्धे चतस्रः प्राचीरुपदधाति चत्वारि वै च्छन्दाँसि छन्दोभिर्देवास्स्वर्गं लोकमायँस्तेषां दिशस्समव्लीयन्त त एता दिश्या अपश्यँस्ताभिर्दिशोऽदृँहन् यद् द्वे पुरस्तात् समीची उपदधाति द्वे पश्चाद्दिशां विधृत्या अष्टा एता उपदधात्यष्टाक्षरा गायत्री गायत्री स्वर्गं लोकमञ्जसा वेद स्वर्गस्य लोकस्य प्रज्ञात्या अष्टा एता उपदधात्यष्टाक्षरा गायत्री गायत्रोऽग्निर्यावानेवाग्निस्तं चिनुतेऽष्टा एता उपधाय त्रयोदश लोकं प्रणयोपदधाति ता एकविँशतिस्संपद्यन्त एकविँशो वै स्तोमानां प्रतिष्ठा प्रतिष्ठा गार्हपत्य एकविँशस्यैव प्रतिष्ठामनु गार्हपत्येन प्रतितिष्ठति प्रत्यग्निं चिक्यानस्तिष्ठति य एवं वेद पञ्चचितीकं चिन्वीत प्रथमं चिन्वानः पाङ्क्तो वै यज्ञः पाङ्क्ताः पशवो यज्ञं चैव पशूँश्चावरुन्द्धे त्रिचितीकं चिन्वीत द्वितीयं चिन्वानस्त्रय इमे लोका एष्वेव लोकेष्वृध्नोत्येकचितीकं चिन्वीतोत्तमं चिन्वान एकवृदेव स्वर्गं लोकमेति पञ्च चितयः पञ्च पुरीषाण तद्दश दशाक्षरा विराडन्नं विराड्विराज्येवान्नाद्ये प्रतितिष्ठत्यस्थि वा इष्टका माँसं पुरीषं यदिष्टकां पुरीषेणाभ्यूहति तस्मादस्थि माँसेन च्छन्नं न दुश्चर्मा भवति य एवं वेद समितँ संकल्पेथामिति संनिवपति क्षत्रं वा एता अग्नीनां यश्चोखायाँ भ्रियते यश्च चीयते ब्रह्मणा क्षत्रँ समेति ब्रह्म यजुर्ब्रह्मणैवैनौ संनिवपति चतुर्भिस्संनिवपति चत्वारि वै छन्दाँसि च्छन्दोभिरेवैनौ संनिवपत्येषा वा अग्नेः प्रिया तनूर्यच्छन्दाँसि प्रिययैवैनौ तन्वा सँशास्ति यत्संन्युप्य विहरति तस्माद्ब्रह्मणा क्षत्रँ समेति ब्रह्मणा व्येति मातेव पुत्रं पृथिवीं पुरीष्यमित्यृतुभिरेवैनं दीक्षयित्वर्तुभिर्विमुञ्चति प्रजापतिर्विश्वकर्मा विमुञ्चत्विति प्रजापतिमेवास्या विमोक्तारं करोति ।।१॥

अथैता नैर्ऋतीस्तिस्रः कृष्णास्तुषपक्वा यत् कृष्णा एष हि तं वर्णस्सचते यं निर्ऋतिर्गृह्णात्येतद्वै निऋत्या भागधेयं यत्तुषा रूपेण चैव भागधेयेन च निर्ऋतिं निरवदयते यदस्य पारे रजस इति वैश्वानर्यादत्ते स्वदयत्येवेमां दिशँ हरन्त्येताँ हि तं दिशँ हरन्ति यं निर्ऋतिर्गृह्णात्येषा वै निर्ऋत्या दिक् स्वायामेव दिशि निर्ऋतिं निरवदयते स्वकृत इरिण उपदधात्येतद्वा अस्या निर्ऋतिगृहीतं यत्रैवास्या निर्ऋतिगृहीतं निर्ऋतिं निरवदयते । पराचीरुपदधाति पराचीमेव निर्ऋतिं निरवदयते तिस्र उपदधाति त्रेधाविहितो वै पुरुषो यावानेवास्यात्मा तस्मान्निर्ऋतिं निरवदयते यं ते देवी निर्ऋतिराबबन्धेति शिक्यमधिन्यस्यति नैर्ऋतो वै पाशो निर्ऋतिपाशादेवैनं मुञ्चति पितृलोकं वा एते निगच्छन्ति ये दक्षिणा नैर्ऋतीभिश्चरन्ति देवलोक आहवनीयो यदाहवनीयमुपतिष्ठते देवलोकमेवोपावर्तते त्रिष्टुभोपतिष्ठते वीर्यं वै त्रिष्टुब् वीर्यमेवास्मिन् दधात्येकयैकधैवास्मिन् वीर्यं दधाति ॥२॥
  
यावान् पुरुष ऊर्ध्वबाहुस्तावता वेणुना विमिमीत एतावद्वै पुरुषे वीर्यं वीर्येणैवैनं विमिमीते त्रीन् पुरुषान् प्राञ्चं मिमीते चतुरस्तिर्यञ्चं तस्मात् सप्त पुरुषानभ्यग्निचिदन्नमत्ति त्रीन् परस्तात् त्रीनवस्तादात्मा सप्तमोऽरत्निमात्रं पक्षयोरुपदधाति प्रादेशमात्रं पुच्छे पुरुषेण वै यज्ञस्संमितो यज्ञपुरुषासंमितं तस्मात् पक्षप्रवयाँसि वयाँसि षड्गवेन कृषति षड्वा ऋतव ऋतुभिरेव तिस्रस्तिस्रस्सीतास्सं पादयति त्रिवद्ध्यग्निस्ता द्वादश संपद्यन्ते ॥ द्वादश मासास्संवत्सरस्संवत्सरस्यैव विधामनुविधीयतेऽथो ऋतुभिरेव कृष्ट्वा संवत्सरे प्रतितिष्ठतीयं वा अग्नेरतिदाहादबिभेत् सैतद् द्विगुणं कृष्टं चाकृष्टं चाकुरुत यत् कृष्टं चाकृष्टं च भवत्यस्या अनतिदाहायाथो द्विगुणेनैवास्या वीर्यमुद्यच्छत एतावन्तो वै पशवो द्विपादश्च चतुष्पादश्च तानेतदग्नौ प्रतिदधाति यदुदीच उत्सृजेद्रुद्राय पशूनपिदध्यादपशुस्स्याद्यद्दक्षिणा पितृभ्यो निधूवेद्यत प्रतीचो रक्षाँसि हन्युर्दक्षिणा प्राचस्सूर्यमभ्युत्सृजति सूर्यो वै पशूनां प्राणः प्राणमेवैनानभ्युत्सृजत्योषधीनामृम्भिरोषधीनां फलानि वपति रूपेणैवान्नमवरुन्द्धेऽन्नस्यान्नस्य वपति सर्वमेवान्नमवरुन्द्धे यस्य न वपति तेन व्यृध्यते यस्य न वपेत् तन्मनसा ध्यायेत् तेनैव तदवरुन्द्धे चतुर्दशभिर्वपति सप्त वै ग्राम्या ओषधयस्सप्तारण्यास्ता एवोभयीरवरुन्द्धेऽन्नमर्कोऽर्कोऽग्निरर्क एवैतदर्कश्चीयते कृष्टे वपति कृष्टे ह्याशिष्ठमोषधयः प्रतितिष्ठन्त्यनुसीतं प्रजात्यै द्वादशसु सीतासु वपति द्वादश मासास्संवत्सरस्संवत्सरेणैवास्मा अन्नं पचति ॥३॥

दिग्भ्यो लोष्टान् समस्यति दिग्भ्य ऊर्जँ संभरत्यूर्ज्येवाग्निं चिनुते यां जनतां द्विष्यात् तस्या दिश आहरेदिषमूर्जमहमित आदीतीषमेवास्या ऊर्जमादत्ते क्षोधुका भवत्युत्तरवेदिं निवपत्युत्तरवेद्याँ ह्यग्निश्चीयतेऽथो यज्ञपरुरेव नान्तरेति पशवो वा उत्तरवेदिः पशूनेवावरुन्द्धेऽग्ने तव श्रवो वय इति षडृचेन निवपति षड्वा ऋतवस्संवत्सरस्संवत्सरोऽग्निर्वैश्वानरो रूपेणैव वैश्वानरमवरुन्द्धेऽष्टाक्षरा प्रथमा ष्टाशफाः पशवः पशूनेवावरुन्द्ध ऊनातिरिक्ता मिथुनाः प्रजात्यै समुद्रं वै नामैतत् प्रजापतेश्छन्दस्समुद्रात् पशवः प्रजायन्ते पशूनां प्रजात्या इन्द्रो वै वृत्राय वज्रं प्राहरत् स त्रेधाभवत् स्फ्यस्तृतीयं यूपस्तृतीयं रथस्तृतीयं यदशीर्यत ताश्शर्कराः पशुर्वा अग्निर्वज्रश्शर्करा यच्छर्कराभिः परिमिनोति वज्रेणैवास्मै पशून् परिगृह्णाति तस्मात् पशवो वज्रेण विधृतास्तस्मात् स्थेयानस्थेयसो नादत्ते दशभिर्दशभिः परिमिनुयादन्नकामस्य दशाक्षरा विराडन्नं विराड्विराज्येवान्नाद्ये प्रतितिष्ठति नवभिर्नवभिरभिचरतस्त्रिवृद्वज्रो वज्रमेव भ्रातृव्याय प्रहरति सप्तभिस्सप्तभिः पशुकामस्य सप्त प्राणाः प्राणेभ्योऽधि पशवः प्रजायन्ते पशूनां प्रजात्या अपरिमित्य शर्करास्सिकता व्यूहेद्यं कामयेतापशुस्स्यादित्यपरिगृहीतमेवास्य रेतः परासिञ्चत्यपशुर्भवति परिमित्य शर्करास्सिकता व्यूहेद्यं कामयेत पशुमान् स्यादिति परिगृहीतमेवास्मै रेतस्सिञ्चति पशुमान् भवति च्छन्दाँसि वा अग्नेर्योनिस्सोमो रेतोधा यच्छन्दोभिर्न्युप्य सौम्य व्यूहति योना एव रेतो दधाति व्यूहति तस्माद्योनौ गर्भा वर्धन्ते समानप्रभृतयो भवन्ति नानोदर्कास्तस्मात् समानाद्योनेर्नानारूपाः प्रजायन्ते गायत्र्या ब्राह्मणस्य व्यूहेद्गायत्रो हि ब्राह्मणस्त्रिष्टुभा राजन्यस्य त्रैष्टुभो हि राजन्यो जगत्या वैश्यस्य जागतो हि वैश्यो यथाछन्दसमेव ॥४॥

उपाँश्वन्वाहानिरुक्तो वा एतर्ह्यग्निर्यर्ह्यव्यावृत्तस्तस्मादुपाँश्वन्वाह च्छन्दाँस्यन्वाह च्छन्दोभिर्वा अग्निरुत्तरवेदिमानशे तस्माच्छन्दाँस्यन्वाह सूर्यस्य वा एतदध्वानं यन्ति यदश्वं प्राञ्चं च प्रत्यञ्चं चाक्रमयन्ति तस्मादसा आदित्यः प्राङ् चैति प्रत्यङ् च प्राजापत्योऽश्वो यदश्वमाक्रमयति प्रजापतिनैवैनं चिनुतेऽपां पृष्ठमसि योनिरग्नेरिति पुष्करपर्णमुपदधाति स्व एवैनं योनौ चिनुते शान्त्या अनुद्दाहाय ।। वर्धमानो महाँ आ च पुष्कर इति वर्धते ह्येष यो भवति दिवो मात्रया वरिणा प्रथस्वेति प्रथयत्येव ब्रह्म जज्ञानं प्रथमं पुरस्तादिति रुक्ममुपदधाति ब्रह्ममुखाभिर्ै् प्रजापतिः प्रजाभिरार्ध्नोदृद्ध्या एकविंशतिनिर्बाधो भवति प्रतिष्ठित्या एकविँशतिर्देवलोकास्तेभ्य एव भ्रातृव्यं निर्बाधतेऽधस्तान्निर्बाधान् कुर्याद्भ्रातृव्यस्य निगृहीत्यै न पृथिव्यां नान्तरिक्षे न दिव्यग्निश्चेतव्यो यत् पृथिव्यां चिन्वीतौषधीश्शुचा निर्दहेद्यदन्तरिक्षे वयाँसि यद्दिवि दिवममृतँ हिरण्यं यद्रुक्ममुपदधात्यमृत एवाग्निं चिनुते ॥ हिरण्यगर्भस्समवर्तताग्र इति पुरुषँ हिरण्ययमुपदधाति यजमानलोकमेवैतेन दधाराथो मध्येज्योतिषमेवाग्निं चिनुते द्रप्सश्चस्कन्देत्यभिमृशति होत्रास्वेवैनँ सत्ये प्रतिष्ठापयति सर्पशीर्षैरुपतिष्ठते मृत्यव एवैनं परिदधात्यथो या सर्पे त्विषिस्तामेवावरुन्द्धे यदुपदध्यात् प्रमायुकस्स्याद्यत् समीचीनमितरैश्शीर्षैरुपदध्याद्ग्राम्यान् पशून् दँशुकास्स्युर्यद्विषूचीनमारण्यान् यजुरेव वदेत् तेनैव तां त्विषिमवरुद्धे तेन शान्तमेतस्माद्ध वै पुराग्निचितमददृक्षन्त सर्वा ह्येतास्त्विषीरवारुद्ध याग्नौ या सर्पे या सूर्येऽथैतद्वामदेवस्य राक्षोघ्नं यज्ञमुखे यज्ञमुखे वै यज्ञं रक्षाँसि जिघाँसन्ति रक्षसामपहत्यै पञ्चर्चं पाङ्क्तोऽग्निर्यावानेवाग्निस्तस्माद्रक्षाँस्यपहन्ति सर्वा दिशोऽनुपरिचारं जुहोति दिग्भ्य एवं रक्षाँसि हन्ति स्रुचा उपदधातीमे एवैतदुपधत्ते तूष्णीमुपदधाति न हीमे यजुषाप्तुमर्हत्यात्मा वै पुरुषो बाहू स्रुचौ यत् स्रुचा उपदधाति सात्मत्वाय दक्षिणतो वै देवानां रक्षाँस्याहुतीर्निष्कावमादँस्तानि कार्ष्मर्येणान्तरदधत यत् कार्ष्मर्यमयीर्दक्षिणत उपदधाति रक्षसामन्तर्हित्यै । घृतेन पूरयति वज्रो वै कार्ष्मर्यो वज्रो घृतं वज्र एव वज्रं दधाति गायत्र्योपदधाति गायत्रो वा अग्निर्गायत्रच्छन्दास्स्वेनैवैनं छन्दसा समर्धयति दध्नौदुम्बरीं पूरयत्यन्नं वै दध्यूर्गुदुम्बरोऽन्न एवोर्जं दधाति त्रिष्टुभोपदधात्यैन्द्री वै त्रिष्टुबन्नमिन्द्रियमिन्द्रियमेवान्नाद्यमवरुन्द्ध इयं वै कार्ष्मर्यमय्यसा औदुम्बरी यदौदुम्बरीमुत्तरामुपदधाति तस्मादसा अस्या उत्तरा मूर्धन्वती मूर्धैवैताभ्यां क्रियते विराज्यग्निचेतव्यस्स्रुग्वै विराङ् यत् स्रुचा उपदधाति विराज्येवाग्निं चिनुते ॥५॥

यां वा अविद्वानध्वर्युरिष्टकां प्रथमामुपदधाति तया यजमानस्य प्राणमपिदधाति प्रजायाश्च पशूनां च स्वयमातृण्णा भवति प्राणानामुत्सृष्ट्यै स्वर्गस्य लोकस्यानुक्शात्यै प्राजापत्योऽश्वो यदश्वमुपधापयति प्रजापतिनैवैनं चिनुत इयं वै स्वयमातृण्णेमामेवैतदुपधत्ते यदि मन्येत पूर्वो मातिक्रान्तो भ्रातृव्य इति प्राचीमुदूहेद्य एवैनं पूर्वोऽतिक्रान्तो भ्रातृव्यस्तमनया प्रणुदते यदि मन्येत पश्चान्मे भ्रातृव्य इति प्रतीचीमपोहेद्य एवास्य पश्चाद्भ्रातृव्यस्तमनयापनुदते प्र श्रेयाँसं भ्रातृव्यं नुदते प्रति पापीयाँसं नुदते। यदि मन्येत सदृङ् मयेति विचालयेद्या वा इयं प्रजा व्यधूनुत परा ता अभवन्नियमेवैनं विधुनुतेऽथैषा दूर्वेष्टका पशुर्वा अग्निर्न पशव आयवसे रमन्ते पशुभ्य एवैतदायतनं करोति पशूनां धृत्यै काण्डात् काण्डात् प्ररोहन्तीति प्रतिष्ठित्यै सहस्रेण शतेन चेति सहस्रवती प्रजापतिना संमिता गच्छति साहस्रीं पुष्टिं पशूनां य एवं विद्वानेतामुपधत्तेऽथैषा वामभृदेतया वै देवा असुराणां वामं पशूनवृञ्जत वाममेवैतया पशून् भ्रातृव्यस्य वृङ्क्ते द्वियजुर्भवति भ्रातृव्यलोकमेव द्वियजुषा वङ्क्ते द्वितीये हि लोके भ्रातव्यो हिरण्यशीर्ष्णी भवति हिरण्यज्योतिरेव स्वर्गं लोकमेति ।। प्रबाहुक्वाचा आहतौ भवतस्तस्मात् प्रबाहुगक्ष्या अथैते रेतस्सिचा असौ वै स्वराडियं विराडुत्तानायाँ स्त्रियां पुमान् रेतस्सिञ्चत्यसा अस्यां रेतसिञ्चतीयं प्रजनयत्यग्निरत्ति सरेतसमग्निं चिनुते प्रजायतेऽत्यन्नं य एवं विद्वानेते उपधत्ते स्वराडसीति दक्षिणत उपदधाति तस्माद्दक्षिणतः पुमान् स्त्रियमुपशये यदि पूर्ववयसे चिन्वीतोभे सह प्रथमायां चित्यामुपदध्यात् समीची एवास्मै रेतस्सिञ्चतोऽन्यतरामुपदध्याद्यं द्विष्यात् तस्य रेतसैवैनं व्यर्धयति यद्युत्तरवयसे चिन्वीत प्रथमायामन्यां चित्यामुपदध्यादुत्तमायामन्यां रेत एव सिक्तमाभ्यां परिगृह्णात्यृतव्ये उपदधात्यृतूनां विधृत्यै द्वे द्वे उपदधाति द्वौ द्वौ ह्यृतवोऽथैषा त्र्यालिखिता देवाश्च वा असुराश्च समावदेव यज्ञेऽकुर्वत यदेव देवा अकुर्वत तदसुरा अकुर्वत ते देवा एतां त्र्यालिखितामपश्यँस्तामुत्तरलक्ष्माणमुपादधत तदसुरा नान्ववायँस्ततो देवा अभवन् परासुरा अभवन् य एवं विद्वानेतामुत्तरलक्ष्माणमुपधत्ते भ्रातृव्यस्यानन्ववायाय भवत्यात्मना परास्य भ्रातृव्यो भवत्यधरलक्ष्माणमुपदध्याद्यं द्विष्यात् तस्यासुरयोनिमेवैनमनुपराभावयतीमे वै लोकास्त्र्यालिखितेमानेवैतया लोकानाप्नोति यस्या मृद उखां कुर्वन्ति तस्या एतां कुर्यात् तेनैवास्य सर्वा इष्टका ज्योतिष्मतीर्यजुष्मतीर्भवन्ति ।।६।।

मेधो वा एष पशूनां यत् कूर्मो यत् कूर्ममुपदधात्येतमेवैनं मेधमभिसंजानानाः पशव उपतिष्ठन्ते जीवन्तमुपदधाति स हि मेध्यश्चतुष्पाद्भवति चतस्रो दिशो दिक्ष्वेव प्रतितिष्ठति मही द्यौः पृथिवी च न इति द्यावापृथिव्योरेवैतया रूपे दाधार दध्ना च मधुना चाभ्यनक्त्यपां वा एष ओषधीनां रसो यन्मधु यन्मधुनाभ्यनक्त्यपामेवौषधीनां रसमवरुन्द्धे मेधो वा एष पशूनामूर्ग्दधि यद्दध्नाभ्यनक्ति पशूनामेव मेध ऊर्जं दधातीष्टकचिद्वा अन्योऽग्निः पशुचिदन्यो यज्जीवन्तं कूर्ममुपदधाति तेनैवैनं पशुचितं करोत्येष वै स्वर्गस्य लोकस्योत्तमपदी यथा क्षेत्रवित् प्रजानन्नञ्जसान्यान्नयत्येवमेवैनमेष स्वर्गं लोकमभिनयति ॥ विष्णोर्नाभा अग्निश्चेतव्यो योऽनाभिमग्निं चिनुते यजमानस्य नाभिमनुप्रविशति स एनं निर्दहत्येषा वै विष्णोर्नाभिर्यदुलूखलमुपदधाति विष्णोरेव नाभा अग्निं चिनुत औदुम्बरं भवत्यूर्ग्वा उदुम्बर ऊर्जमेव मध्यतो दधाति यजमाने च प्रजासु च तस्मान्मध्यतः प्रजा ऊर्गूर्जयति ॥ प्रादेशमात्रं भवत्येतावती हि विष्णोर्नाभिर्वैष्णव्या कर्मण्यभ्योपदधाति कर्म ह्येतत् क्रियतेऽथैषोखौजो वा एतद्वीर्यँ संभ्रियते यदुखौज एव वीर्यमवरुन्द्ध एषां वा एतल्लोकानां ज्योतिरवरुन्द्धे ज्योतिर्मध्यतो दधाति मध्येज्योतिषमग्निं चिनुते तस्मान्मध्यतो ज्योतिरुपासते सिकताभिः पूरयति स्वेनायतनेनाग्नेर्वा एतद्वैश्वानरस्य भस्म यत् सिकता रूपेणैव वैश्वानरमवरुन्द्धे यदूनामुपदध्यात् क्षोधुको यजमानस्स्यात् पूर्णमुपदधात्यक्षोधुको यजमानो भवत्यनुपदस्वदन्नमत्ति घृतेन पूरयत्येतद्वा अग्नेः प्रियं धाम यद्घृतं प्रियेणैवैनं धाम्ना समर्धयति ।।७।।

एकविँशतिं माषान् प्रतिन्युष्य पुरुषशीर्षमाहरत्यमेध्या वै माषा अमेध्यं पुरुषशीर्षममेध्येनैवामेध्यं क्रीणात्येकविँशतिर्भवन्त्येकविँशो वै पुरुषो यावानेवास्यात्मा तं क्रीणाति सप्तधातृण्णां वल्मीकवपां प्रतिनिदधाति व्यृद्धं वा एतत् प्राणैस्सप्त शीर्षण्याः प्राणाः प्राणैरेवैनत् समर्धयति यमगाथा गायति यमलोकादेवैनद्वृङ्क्ते तिस्रो गायति त्रय इमे लोका एभ्य एवैनल्लोकेभ्यो वृङ्क्ते तस्माद्गायते न देयं गाथा ह्येव तद्वृङ्क्तेऽप वा एतस्मादिन्द्रियं क्रामति प्राणाश्शीर्षन वीर्यं चक्षुश्श्रोत्रं वाग्व्यृद्धेन्द्रियं वा एतदमेध्यं मृतशीर्षमिति वा एतदाहुर्मेध्यँ हिरण्यं यद्धिरण्यशल्कैः प्रत्यस्यति मेध्यमेवैनद्यज्ञियं करोत्युखायामपिधाय प्रत्यस्यति प्रतिष्ठामेवैनद्गमयित्वा प्राणैस्समर्धयति सहस्रदा असि सहस्राय त्वेति पुरुषशीर्षमुपदधाति पुरुषो ह त्वै सहस्रं पशून् यच्छति सहस्रमन्ये पशवो यन्मध्ये पुरुषशीर्षमुपदधाति सयत्वायाथैतानि पशुशीर्षाण्येता ह वै साहस्रीरिष्टकास्सोमदक्षः कौश्रेयश्श्यामपर्णायोपदधौ ततो वै साहस्रीं पुष्टिं पशूनां जगाम गच्छति साहस्रीं पुष्टिं पशूनां य एवं विद्वानेता उपधत्ते पुरस्तात् प्रतीचीनमश्वस्य शिर उपदधाति पश्चात् प्राचीनमृषभस्य गोअश्वानेवास्मिन् समीचो दधाति समीचीनान्युपदध्याद्यं कामयेत पशुमान् स्यादिति समीच एवास्मिन् पशून् दधाति विषूचीनान्युपदध्याद्यं कामयेतापशुस्स्यादिति विमुखानेवास्मात् पशून् करोति ।। नान्तरा पशुशीर्षाणि व्ययादध्वर्युर्यविष्ठो वै नामैषोऽग्निः प्राणानस्य युवेत प्रमीयेतैकमुपधायैतैस्सर्वैरुपतिष्ठेत तद्वा सर्वतोऽनुपरिहारँ सादयेत् तेनैव सर्वाण्युपधीयन्ते नार्तिमार्छत्यध्वर्युर्न भ्रेषं न्येत्येतावन्तो वै पशवो द्विपादश्च चतुष्पादश्च तानेतच्छुचार्पयत्यमुमारण्यमनु ते दिशामीति ग्राम्येभ्य एव पशुभ्य आरण्यान् पशुञ्शुचमनुत्सृजति तस्मादेते समावत् पशूनां प्रजायमानानां कनिष्ठाश्शुचा ह्येत ऋताः ।।८।।

पशुर्वा अग्निः पशोरेष योनिर्विक्रियते रेतोऽपस्या यदपस्या उपदधाति योना एव रेतो दधाति यदा वै पशुस्संवर्ततेऽथ जायते पशवश्छन्दस्या यदपस्या अनु च्छन्दस्या उपदधाति पशूनां प्रजात्यै पञ्चोपदधाति पाङ्क्ताः पशवो यावानेव पशुस्तं प्रजनयतीयं वा अग्नेतिदाहादबिभेत् सैता अपस्या असृजत ता उपाधत्त यदपस्या उपधीयन्तेऽस्या अनतिदाहायोवाच हेयमददित्स ब्रह्मणान्नं यस्यैता उपधीयन्त इत्यत्ति ब्रह्मणान्ंत य एवं विद्वानेता उपधत्ते पञ्च पुरस्तात् प्रतीचीरुपदधाति तस्मात् पुरस्तात् प्रत्यङ् पशुर्जायते पञ्च दक्षिणत उदीचीस्तस्माद्दक्षिणतः पुमान् स्त्रियमुपशये ॥ पञ्च पश्चात् प्राचीस्तस्मात् पश्चात् प्राचीनं रेतो धीयते पञ्चोत्तराच्छन्दस्याः पशवो वै छन्दस्या उत्तरादायतनाः पशवः पशूनेव प्रजातान् स्वमायतनमभिपर्यूहति पशूनामहिँसायै नोत्तरादपस्या उपदध्याद्यदुपदध्यादभीपतः प्रजा वरुणो गृह्णीयादपस्या अनु प्राणभृत उपदधाति रेतस्येव सिक्ते प्राणं मनश्चक्षुश्श्रोत्रं वाचं दधाति तस्मात् प्राणन् पश्यञ्शृण्वन् वदन् पशुर्जायतेऽयं पुरो भूरिति याः प्राणवतीस्ताः पुरस्तादुपदधाति प्राणमेव पुरस्ताद्दधाति तस्मात् प्राङ् पशुः प्राणित्ययं दक्षिणा विश्वकर्मेति या मनस्वतीस्ता दक्षिणतो मन एवं दक्षिणतो दधाति तस्माद्दक्षिणोऽर्धो मनस्वितरस्तस्माद्दक्षिणतो मन उपचरन्त्ययं पश्चाद्विश्वव्यचा इति याश्चक्षुष्मतीस्ताः पश्चाच्चक्षुरेव पश्चाद्दधाति तस्मात् प्राङ् पशुः पश्यतीदमुत्तरात् स्वरिति याश्श्रोत्रवतीस्ता उत्तराच्छ्रोत्रमेवौत्तराद्दधाति तस्मादुत्तरात् पशुर्भूयश्शृणोतीयमुपरि मतिरिति या वाङ्मतीस्ता मध्ये वाचमेव मध्यतो दधाति तस्मान्मध्यतो वाग्वदत्यक्ष्णयोपदधाति तस्मादक्ष्णयाङ्गानि पशवो हरन्तो यन्ति याः पुरस्तादुपदधात् ताभिर्वसिष्ठ आर्ध्नोद्या दक्षिणतस्ताभिर्भरद्वाजो याः पश्चात् ताभिर्जमदग्निर्या उत्तरात् ताभिर्विश्वामित्रो या मध्ये ताभिर्विश्वकर्मा य एवमेतासामृद्धिं वेदर्ध्नोति य एवमासां क्लृप्तिं वेद कल्पतेऽस्मै ये एवमासां बन्धुतां वेद बन्धुमान् भवति य एवमासां निदानं वेद निदानवान् भवति य एवमासामायतनं वेदायतनवान् भवति य एवमासां प्रतिष्ठां वेद गच्छति प्रतिष्ठां निदानवानायतनवान् भवति य एवं वेद ॥९॥

अथैता आश्विनीरुत्सन्नयज्ञो वा एष यदग्निः को ह तद्वेद यावदेतस्य न क्रियते यावन्न चीयते तदेताभिः कल्पयति तद्भिषज्यति पञ्चैता उपदधाति पाङ्क्तोऽग्निर्यावानेवाग्निस्तस्मै भेषजं करोत्यग्नेरेवैताभिर्दिशः कल्पयत्यदित्यास्त्वा पृष्ठे सादयामीतीमानेवैतया लोकान् दाधारर्तव्या उपदधात्यृतूनां क्लृप्त्यै पञ्चोपदधाति पञ्च वा ऋतवो यावन्त एवर्तवस्तान् कल्पयति समानप्रभृतयो भवन्ति समानोदर्कास्समानप्रभृतयो ह्यृतवस्समानोदर्का एकया व्याहृत्या व्यावर्तयति तस्मादृतवो व्यावर्तन्ते ।। तस्मात् समानस्य संवत्सरस्य नानारूपाण्याश्विनीरन्वृतव्या उपदधाति रेतस्येव हित ऋतूनुपदधाति तस्माद्रेतो हितमृतूननु प्रजायत ऋतव्या अनु वायव्या उपदधात्यृतुष्वेव प्राणं दधाति तस्मादेते समानाः परियन्तो न जीर्यन्ति तस्मादृतूननु वायुरावरीवर्ति वायव्या अन्वपस्या उपदधाति तस्माद्वायुर्वृष्टिं वहति वृष्टिमेवैताभिरवरुन्द्धे यदेकधोपदध्यादेकमृतुं वर्षेदनुपरिहारँ सादयति तस्मादृतुमृतुं वर्षत्यपस्या अनु वयस्या उपदधाति पशवो वै वयस्या यदपस्या अनु वयस्या उपदधाति तस्मात् पशवो नानामनसो नानाव्रता अप एवाभि समनसोऽपस्या उपधाय वयस्या उपदध्याद्यं कामयेत पशुमान् स्यादिति संज्ञानं वा एतत् पशूनां यदापः पशूनामेव संज्ञानेऽग्निं चिनुते पशुमान् भवति वयस्या उपधायापस्या उपदध्याद्यं कामयेतापशुस्स्यादिति पशूनामेवासंज्ञानेऽग्निं चिनुतेऽपशुर्भवति।। चतस्रः पुरस्तादुपदधाति तस्मात् पुरस्तात् पशुरणीयाँस्तस्माच्चत्वारि चक्षुषो रूपाणि द्वे शुक्ले द्वे कृष्णे मूर्धन्वतीस्तस्मात् पुरस्तात् पशूनां मूर्धा पञ्च पञ्चाभितः पशोस्सयत्वाय तस्मात् प्राङ् पशुः प्रवणो बस्तो वय इति दक्षिणत उपदधाति वृष्णिर्वय इत्युत्तरादँसा एवास्योपदधाति व्याघ्रो वय इति दक्षिणे पक्षे सिँहो वय इत्युत्तरस्मिन् पक्षयोरेव वीर्यं दधाति व्याघ्रो वय इति पूर्वाँ सिँहो वय इत्यपरां तस्मात् पुरो व्याघ्रो जायते पश्चात् सिँहः पुरुषो वय इति मध्ये तस्मात् पुरुषः पशूनामधिपतिः ॥१०॥

इन्द्राग्नी अव्यथमानामिष्टकां दृँहतं युवमित्योजो वै वीर्यमिन्द्राग्नी अन्तरिक्षमेषा चितिश्शिथिलमिवान्तरिक्षं प्रजा अन्तरिक्षं प्रजास्वेवौजो वीर्यं दधाति स्वयमातृण्णा भवति प्राणानामुत्सृष्ट्यै स्वर्गस्य लोकस्यानुक्शात्यै प्राजापत्योऽश्वो यदश्वमुपघ्रापयति प्रजापतिनैवैनं चिनुतेऽथैता दिश्या देवानां वै स्वर्गं लोकं यतां तेषां दिशस्समव्लीयन्त त एता दिश्या अपश्यँस्ताभिर्दिशोऽदृँहन् यदेता उपधीयन्ते दिशां विधृत्यै राज्ञ्यसि प्राची दिगिति तस्मादेषा दिशां राज्ञी विराडसि दक्षिणा दिगिति तस्मादेषा दिशां विराजति सम्राडसि प्रतीची दिगिति तस्मादत्र साम्राज्यँ स्वराडस्युदीची दिगिति तस्मादत्र स्वाराज्यमधिपत्न्यसि बृहती दिगिति तस्मादेषा दिशामधिपत्न्येतान्येव सर्वाणि भवति य एवं विद्वानेता उपधत्त आयुर्मे पाहीति दश पुरस्तादुपदधाति नव वै पुरुषे प्राणा नाभिर्दशमी प्राणानेवास्मिन् दधाति ज्योतिर्मे यच्छेत्युत्तमां ज्योतिरेवोत्तमं दधाति तस्माद्वाक् प्राणानां ज्योतिरुत्तमं दशैता उपदधाति दशाक्षरा विराड्विराट् छन्दसां ज्योतिश्चक्षुर्ज्योतिश्चक्षुरेव प्रजानां पुरस्ताद्दधाति मा छन्द इति दक्षिणत उपदधाति तस्माद्दक्षिणावृतो मासाः पृथिवी छन्द इति पश्चात् प्रतिष्ठित्या अग्निर्देवतेत्युत्तरादोजो वा अग्निरोज एवोत्तराद्दधाति तस्मादुत्तरादभिप्रयायी जयति द्वादश दक्षिणत उपदधाति द्वादश पश्चाद् द्वादशोत्तरात् ताष्षट्त्रिंशत् संपद्यन्ते षट्त्रिँशदक्षरा बृहती बृहती छन्दसाँ स्वाराज्यमानशे स्वराज्यं गच्छति य एवं विद्वानेता उपधत्ते षट्त्रिंशदेताष्षट्त्रिँशदक्षरा बृहती बार्हताः पशवोऽन्तरिक्षमेषा चितिः पशवोऽन्तरिक्षं पशुष्वेव पशून् दधात्यादित्यधामानो वा अन्ये प्राणा अङ्गिरोधामानोऽन्ये ये पुरस्तात् त आदित्यधामानो ये पश्चात् तेऽङ्गिरोधमानो मूर्धासि राडिति पुरस्तादुपदधाति य आदित्यधामानः प्राणास्ताँस्तद्दाधार यन्त्री राडिति पश्चाद्येऽङ्गिरोधमानः प्राणास्ताँस्तद्दाधार सप्त पुरस्तादुपदधाति सप्त पश्चात् तस्मादधरः प्राण उत्तरेषां प्राणानामर्धभाक् प्रजापतिः प्रजास्सृष्ट्वा तासामकामयत मूर्धा स्यामिति स एता मूर्धन्या अपश्यत् ताभिर्निरजिहीत तासां मूर्धाभवत् तन्मूर्धन्यानां मूर्धन्यात्वं मूर्धेव समानानां भवति य एवं विद्वानेता उपधत्ते ॥११॥

आशुस्त्रिवृदिति पुरस्तादुपदधाति यज्ञमुखं वै त्रिवृद्यज्ञमुखमेव पुरस्ताद्वियातयति व्योमा सप्तदश इति दक्षिणतोऽन्नं वै सप्तदशस्सप्तदशँ संवत्सरमन्नमनुप्रजायतेऽन्नमेव दक्षिणतो भवति तस्माद्दक्षिणेन हस्तेन पुरुषोऽन्नमत्ति यत् सप्तदशवतीर्दक्षिणत उपदधाति तस्माद्दक्षिणं पक्षं वयाँस्यनुपरिप्लवन्त एकविँशवतीं पश्चात् प्रतिष्ठित्यै पश्चाद्धि वयाँसि प्रतितिष्ठन्ति पञ्चदशवतीमुत्तरादोजो वै पञ्चदश ओज एवोत्तराद्दधाति तस्मादुत्तरादभिप्रयायी जयत्यग्नेर्भागोऽसि दीक्षाया आधिपत्यमिति पुरस्ताद् द्वौ त्रिवृता अभिपूर्वमेव यज्ञमुखे वियातयति पञ्चदशवतीर्दक्षिणतस्सप्तदशवतीमुत्तरात् पक्षयोस्सयत्वायान्नं वै सप्तदशो यत् सप्तदशवतीमुभयत उपदधात्यन्नमेवोभयतो दधाति तस्मादुभाभ्याँ हस्ताभ्यां परिगृह्य पुरुषोऽन्नमत्त्येकविँशवती भवति प्रतिष्ठित्या अग्नेर्भागोऽसि दीक्षाया आधिपत्यमित्येतदेतद्वै देवा एताभिरस्पृण्वन्नेतदेतदेवैताभिस्स्पृणोति ता एतास्स्पृतयो नामेष्टका एकयास्तुवत प्रजा अधीयन्तेत्येतदेतद्वै देवा एताभिरसृजन्तैतदेवैताभिस्सर्वमवरुन्द्धेऽर्क्यस्य वा एषा विधामनु विधीयतेऽन्नमर्कोऽग्निरत्त्यन्नं यस्यैषैवं विदुषो विधीयते ॥१२॥

देवाश्च वा असुराश्च समावदेव यज्ञेऽकुर्वत यदेव देवा अकुर्वत तदसुरा अकुर्वत ते देवा एतां चतुर्थी चितिमपश्यँस्तामन्यथानूच्यान्यथोपादधत तदसुरा नान्ववायँस्ततो देवा अभवन् परासुरा अभवन् य एवं विद्वानेतां चतुर्थीं चितिमुपधत्ते भ्रातृव्यस्यानन्ववायाय भवत्यात्मना परस्य भ्रातृव्यो भवत्याशुस्त्रिवृदिति पुरस्तादुपदधाति यज्ञमुखं वै त्रिवृद्यज्ञमुखमेव पुरस्ताद्दधाति व्योमा सप्तदश इति दक्षिणतोऽन्नं वै सप्तदशोऽन्नमेव दक्षिणतोऽवरुन्द्ध एकविँशवतीं पश्चात् प्रतिष्ठित्यै पञ्चदशवतीमुत्तरादोजो वै पञ्चदश ओज एवोत्तराद्दधाति तस्मादुत्तरादभिप्रयायी जयति प्रतूर्तिरष्टादश इति पुरस्ताद् द्वौ त्रिवृता अभिपूर्वमेव यज्ञमुखे दधात्यभीवर्तस्सविँश इति दक्षिणतोऽन्नं वै सविँशोऽअन्नमेव दक्षिणतोऽवरुन्द्धे वर्चो द्वाविँश इति पश्चाद्यद् द्वे द्विपाद्यजमानः प्रतिष्ठित्यै यद्विँशतिर्द्वे विराजा अन्नं विराड् विराज्येवान्नाद्ये प्रतितिष्ठति तपो नवदश इत्युत्तरात् तस्मात् सव्यो हस्तयोस्तपस्वितरो बाहुकुचनं निगच्छति योनिश्चतुर्विँश इति पुरस्ताद्यज्ञमुखं वै चतुर्विँशो यज्ञमुखमेव पुरस्ताद्दधाति गर्भाः पञ्चविँश इति दक्षिणतोऽन्नं वै पञ्चविँशोऽन्नमेव दक्षिणतोऽवरुन्द्धे यद्दश दशाक्षरा विराडन्नं विराज्येवान्नाद्ये प्रतितिष्ठति ॥ यत् पञ्चदश यज्ञः पञ्चदशो वज्रमेवोपरिष्टाद्दधाति रक्षसामपहत्या ओजस्त्रिणव इति पश्चादिमे वै लोकास्त्रिणव एष्वेव लोकेषु प्रतितिष्ठति संभरणस्त्रयोविँश इत्युत्तरात् तस्मात् सव्यो हस्तयोस्संभार्यतरः क्रतुरेकत्रिँश इति पुरस्ताद्वाग्वा एकत्रिँशो वाचमेव यज्ञमुखे दधाति ब्रध्नस्य विष्टपं चतुस्त्रिँश इति दक्षिणतोऽसौ वा आदित्यो ब्रध्नस्य विष्टपं ब्रह्मवर्चसमसा आदित्यो ब्रह्मवर्चसमेव दक्षिणतोऽवरुन्द्धे प्रतिष्ठा त्रयस्त्रिँश इति पश्चात् त्रयस्त्रिँशद्देवता देवतास्वेव प्रतितिष्ठति नाकष्षट्त्रिँश इत्युत्तरात् स्वर्गो वै लोको नाकस्स्वर्ग एवं लोके यजमानं प्रतिष्ठापयति ।।१३।।

एह्यू षु ब्रवाणि ते ।।
यत्रो क्व च ते मनो दक्षं दधस उत्तरम् । तत्रा सदः कृणवसे ।।
नहि ते पूर्तमक्षिपद्भुवन्नेमानां वसो । अथा दुवो वनवसे ।।
आग्निरगामि भारतो वृत्रहा पुरुचेतनः । दिवोदासस्य सत्पतिः ।।
स हि विश्वाति पार्थिवा रयिं दाशन्महित्वना । वन्वन्नवातो अस्तृतः ।।
स प्रत्नवन्नवीयसाग्ने द्युम्नेन संयता । बृहत् ततन्थ भानुना ।।
अग्न आयाहि वीतये गृणानो हव्यदातये । नि होता सत्सि बर्हिषि ।।
अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् । अस्य यज्ञस्य सुक्रतुम् ।।
अग्निर्वृत्राणि जङ्घनदग्निनाग्निस्समिध्यतेऽग्निँ स्तोमेन बोधयाग्निर्मूर्धा प्रेद्धो अग्नेऽग्निँ होतारं मन्ये ।।
एभिर्नो अर्कैर्भवा नो अर्वाङ स्वर्ण ज्योतिः । अग्ने विश्वेभिस्सुमना अनीकैः ॥
अध ह्यग्ने क्रतोर्भद्रस्य दक्षस्य साधोः । रथीर्ऋतस्य बृहतो बभूथ ॥
अग्ना यो मर्त्यो दुवो धियं जुजोष धीतिभिः । भसन्नु ष प्र पूर्व्य इषं वुरीतावसे ॥
अग्नेस्स्तोमं मनामहे सिध्रमद्य दिवस्पृशः । देवस्य द्रविणस्यवः ॥१४॥

वैश्वानरो न ऊतये ॥ पृष्टो दिवि ॥
पर्जन्याय प्रगायत दिवस्पुत्राय मीढुषे । स नो यवसमिच्छतु ॥
इदं वचः पर्जन्याय स्वराजे हृदो अस्त्वन्तरं तज्जुजोषत् ।
मयोभुवो वृष्टयस्सन्त्वस्मै सुपिप्पला ओषधीर्देवगोपाः ।।
समिधो अग्न आज्यस्य व्यन्तु तनूनपादग्न आज्यस्य वेत्विडो अग्न आज्यस्य व्यन्तु बर्हिरग्न आज्यस्य वेतु दुरो अग्न आज्यस्य व्यन्तु दुरो अग्न आज्यस्य व्यन्त्विडो अग्न आज्यस्य व्यन्तु बर्हिरग्न आज्यस्य वेतु दुरो अग्न आज्यस्य व्यन्तूषासानक्ताग्न आज्यस्य वीतां दैव्या होताराग्न आज्यस्य वीतां तिस्रो देवीरग्न आज्यस्य व्यन्तु ॥ स्वाहाग्निँ स्वाहा सोमँ स्वाहाग्निँ स्वाहा सोमँ स्वाहा सवितारँ स्वाहा सरस्वतीँ स्वाहा पूषणँ स्वाहा मरुतस्स्वतवसस्स्वाहा विश्वान् देवान् स्वाहा द्यावापृथिवी स्वाहाग्निँ होतारँ स्वाहा देवा आज्यपा जुषाणा आज्यस्य व्यन्तु त्वमग्ने सप्रथा असि त्वँ सोम महे भगमग्निर्मूर्धा भुवो यज्ञस्य वृषा सोम या ते धामानि तद्विश्वा रूपाणि पावका न
आ नो दिवः पूषा गा अन्वेतु नश्शुक्रं ते अन्यत् ।।
  इहेह वस्स्वतवसो मरुतस्सूर्यत्वचः । शर्मा सप्रथा आवृणे ।।
प्र चित्रमर्कं गृणते तुराय मारुताय स्वतवसे भरध्वम् ।
ये सहाँसि सहसा सहन्ते रेजते अग्ने पृथिवी मखेभ्यः ।।
 विश्वे देवा ये के च ज्मा मही द्यौर्घृतवती पिप्रीहि देवाना देवानां देवं बर्हिर्वसुवने वसुधेयस्य वेतु देवीर्द्वारो वसुवने वसुधेयस्य व्यन्तु देवी उषासानक्ता वसुवने वसुधेयस्य वीतां देवी जोष्ट्री वसुवने वसुधेयस्य वीतां देवी ऊर्जाहुती वसुवने वसुधेयस्य वीतां देवा दैव्या होतारा वसुवने वसुधेयस्य वीतां देवीस्तिस्रस्तिस्रो देवीर्वसुवने वसुधेयस्य व्यन्तु देवो नराशँसो वसुवने वसुधेयस्य वेतु देवो अग्निस्स्विष्टकृच्छं नो भवन्तु वाजे वाजे ॥१५॥ [१६२९]


॥ इति श्रीयजुषि काठके चरकशाखायां मध्यामिकायामपेतवीतं नाम विशं स्थानकं संपूर्णम् ॥२०॥