← स्थानकं २० काठकसंहिता (विस्वरः)
स्थानकम् २१
[[लेखकः :|]]
स्थानकं २२ →
पञ्चचूडम्

अथैकविंशं स्थानकम् ।

पञ्चचूडम् ।
अग्नेर्भागोऽसि दीक्षाया आधिपत्यमिति पुरस्तादुपदधाति यज्ञमुखं वा अग्निर्यज्ञमुखं दीक्षा यज्ञमुखं त्रिवृद्यज्ञमुखमेव पुरस्ताद्दधाति नृचक्षसां भागोऽसि धातुराधिपत्यमिति दक्षिणतो ये वै विद्वाँसस्ते नृचक्षसोऽन्नं धाता प्रजननँ सप्तदशः प्रजाभ्य एव प्रजाताभ्योऽन्नमपिदधाति तस्माज्जातोऽन्नमभ्यायच्छति मित्रस्य भागोऽसि वरुणस्याधिपत्यमिति पश्चात् प्राणो वै मित्रोऽपानो वरुणः प्राणापाना एत्र यजमाने दधातीन्द्रस्य भागोऽसि विष्णोराधिपत्यमित्युत्तरादोजो वा इन्द्र ओजो विष्णुरोजः पञ्चदश ओज एवोत्तराद्दधाति तसादुत्तरादभिप्रयायी जयति ।। वसूनां भागोऽसि रुद्राणामाधिपत्यमिति पुरस्ताद्यज्ञमुखं वै वसवो यज्ञमुख रुद्रा यज्ञमुखं चतुर्विंशो यज्ञमुखमेव पुरस्ताद्दधात्यादित्यानां भागोऽसि मरुतामाधिपत्यमिति दक्षिणतोऽन्नं वा आदित्या अन्नं मरुतोऽन्नं पञ्चविंशोऽन्नमेव दक्षिणतोऽवरुन्धेषिऽदित्या भागोऽसि पूष्ण आधिपत्यमिति पश्चात् प्रतिष्ठा वा अदितिः प्रतिष्ठा पूषा प्रतिष्ठा त्रिणवः प्रतिष्ठित्यै देवस्य सवितुर्भागोऽसि बृहस्पतेराधिपत्यमित्युत्तराद्ब्रह्म वै बृहस्पतिर्ब्रह्म चतुष्ष्टोमो ब्रह्मवर्चसमेवोत्तराद्दधाति सवितृमती भवति तस्मादुदीची ब्राह्मणेभ्यस्सनिः प्रसूता धर्त्रं चतुष्ष्टोम इति पुरस्ताद्यज्ञमुखं वै चतुष्ष्टोमो यज्ञमुखमेव पुरस्ताद्दधाति । यवानां भागोऽस्ययवानामाधिपत्यमिति दक्षिणतो मासा वै यवा अन्नं मासा अन्नमेव दक्षिणतोऽवरुन्द्ध ऋभूनां भागोऽसि विश्वेषां देवानामाधिपत्यमिति पश्चात् त्रयस्त्रिँशद्देवता देवतास्वेव प्रतितिष्ठति वीवर्तो अष्टाचत्वारिँश इत्युत्तरात् तस्माद्धस्तौ समावद्वीर्या अर्क्यस्य वा एषा विधामनु विधीयतेऽन्नमर्कोऽर्कोऽग्निरत्त्यन्नं यस्यैषैवं विदुषो विधीयते या मुख्यास्ताः पुरस्तादुपदधात्यास्य मुख्यो जायते य एवं वेद या अन्नवतीस्ता दक्षिणत आस्यान्नादो जायते य एवं वेद याः प्रतिष्ठावतीस्ताः पश्चाद्गच्छति प्रतिष्ठां य एवं वेद या ओजस्वतीस्ता उत्तरादास्य बली जायते य एवं वेद य एवमेतासामृद्धिं वेदर्ध्नोति ॥१॥

अग्ने जातान् प्रणुदा नस्सपत्नानिति पुरस्तादुपदधाति य एवैनं पूर्वोऽतिक्रान्तो भ्रातृव्यस्तं तया प्रणुदति सहसा जातानिति पश्चाद्य एवास्य पश्चाद्भ्रातृव्यस्तं तयापनुदते प्र श्रेयाँसं भ्रातृव्यं नुदते प्रति पापीयाँसं नुदते चतुश्चत्वारिँशस्स्तोम इति दक्षिणतष्षोडशस्स्तोम इत्युत्तराद्वज्रो वै षोडशो वज्रस्त्रिष्टुप् त्रैष्टुभश्चतुश्चत्वारिँशस्सव्यापग्रहणो वज्रो दक्षिणाविसर्जनो भ्रातृव्यमेव पराणुद्य तस्मै वज्रमनुविसृजति चतुश्चत्वारिँशस्स्तोम इति दक्षिणत उपदधाति ब्रह्मवर्चसं वै चतुश्चत्वारिँशो ब्रह्मवर्चसमेव दक्षिणतोऽवरुन्द्धे षोडशस्स्तोम इत्युत्तरादोजो वै षोडश ओज एवोत्तराद्दधाति तस्मादुत्तरादभिप्रयायी जयति । पृथिव्याः पुरीषमसीति मध्ये पुरीषं वा आत्मनो मध्यँ सात्मानमेवाग्निं चिनुते ता एता अभ्रातृव्या नामेष्टका नास्य भ्रातृव्यो भवति य एवं विद्वानेता उपधत्तेऽथैता विराजो विराजमेव पशुषूत्तमां दधाति तस्मात् पशुमानुत्तमां वाचं वदति दशदशोपदधाति सयत्वाय देवा वै स्वर्गं लोकं यन्तस्तेषां यानि च्छन्दाँस्यनिरुक्तानि स्वर्ग्याण्यासँस्तैस्सह स्वर्गं लोकमायँस्तान्यृषयोऽनुप्राजिज्ञासन्त तानीष्टकाभिर्निरमिमत तानीमानि च्छन्दाँसि यान्ययज्ञवाहानि यान्येव देवानां छन्दाँस्यनिरुक्तानि स्वर्ग्याणि तैस्सह स्वर्गं लोकमेति य एवं विद्वानेता उपधत्ते ।। अथैते स्तोमभागा बृहस्पतिर्वा एतां यज्ञस्य प्रतिष्ठामाहरद्यदेत उपधीयन्ते यज्ञस्य प्रतिष्ठित्यै बृहस्पतिर्वा एतत् तेजो यज्ञस्य समभरद्यदेत उपधीयन्ते सतेजसमेवाग्निं चिनुते प्रजापतिः प्रजा असृजत तास्स्तोमभागैरेवासृजत यदेत उपधीयन्ते प्रजननाय दक्षिणतो वै देवानां यज्ञोऽव्लीयत तँ स्तोमभागैः प्रत्युदस्तभ्नुवन् यदेते दक्षिणत उदञ्च उपधीयन्ते यज्ञस्य प्रत्युत्तब्ध्यै सप्त सप्तोपदधाति सवीर्यत्वाय त्रीन्मध्ये प्रतिष्ठित्या अथैता नाकसदो नाकसद्भिर्वै देवास्स्वर्गं लोकमायन् यदेता उपधीयन्ते स्वर्गस्य लोकस्याभिजित्यै ।। न वा अमुं लोकं जग्मुषे किञ्चनाकं तन्नाकसदां नाकसत्त्वं ता एतास्सर्वपृष्ठा नामेष्टका यदेव किञ्च पृष्ठा नामेष्टका यदेव किञ्च पृष्ठानां तेजस्तदवरुन्द्धे य एवं विद्वानेता उपधत्तेऽथैताः पञ्चचूडा यजमानायतनं वै पत्न्यो यन्नाकसत्सु पञ्चचूडा उपदधाति नाक एवं यजमानं प्रतिष्ठापयत्यप्सरसो वा एता एतद्रूपं कृत्वा पत्न्यो भूत्वामुष्मिंल्लोके यजमानमुपशेरते पश्चात् प्राचीमेकामुपदधाति तस्माद् पश्चात् प्राची पत्न्यन्वास्ते तनुपानीर्वा एता यजमानस्य सर्वमायुरेति य एवं विद्वानेता उपधत्ते एता वै देवतास्स्वर्ग्यास्ताभिरेव स्वर्गं लोकमेत्येता वै देवता अभिचरणीया यं द्विष्यात् तं ब्रूयादमुं वो जम्भे दधामीत्येताभ्य एवैनं देवताभ्य आवृश्चति ताजक् प्रधन्वति ॥२॥

आयोस्त्वा सदने सादयामीत्यायुरेवोत्तमं दधाति तस्मादायुः प्राणानामुत्तमँ स्वयमातृण्णा भवति प्राणानामुत्सृष्ट्यै स्वर्गस्य लोकस्यानुक्शात्यै प्राजापत्योऽश्वो यदश्वमुपघ्रापयति प्रजापतिनैवैनं चिनुतेऽथैषा विकर्णी देवानां वा एषा विक्रान्तिर्यद्विकर्णी देवानामेवैनं विक्रान्तिमनु विक्रमयति वायुमती प्राणो वै वायुरायुस्स्वयमातृण्णायुश्चैवास्मिन् प्राणं च समीची दधाति सं वा एनमेतदिन्द्धे यच्चिनोति दीपयति वायुमत्या संवत्सरमुख्यं भृत्वाग्निं चिन्वीत् ।। संवत्सरो वा अग्निर्वैश्वानरस्तस्याहोरात्राणीष्टका आप्तेष्टकमेवैनं चिनुत ऋध्नोति यन्नैवं चिनुयात् प्रिययैनं तन्वा व्यर्धयेद्यदेवं चिनुते प्रिययैवैनं तन्वा समर्धयति सतनूरेवैतद्वैश्वानरश्चीयत ऋतव्या उपदधात्यृतूनां विधृत्यै द्वे द्वे उपदधाति द्वौ द्वौ ह्यृतवश्चतस्रो मध्यमायां चित्यामुपदधात्यन्तरिक्षमिव वा एषा या मध्यमा चितिश्शिथिलमिवान्तरिक्षं चतस्रो दिशो दिक्ष्वेव प्रतितिष्ठत्यृतुभ्यो वा एता देवा निरमिमत तदृतव्यानामृतव्यात्वमायन्तमायन्तमृतुं प्रतितिष्ठति य एवं विद्वानेता उपधत्ते ।। नानाप्रभृतयो भवन्ति समानोदर्कास्तस्मात् समानस्य संवत्सरस्य नाना रूपाण्यवकामुपधायेष्टकामुपधात्यग्नेर्वा एषा वैश्वानरस्य योनिर्यदवका स्व एवैना योना उपदधाति शान्त्या अनुद्दाहायर्ध्नोति य एवं विद्वानेता उपधत्तेऽथैता विश्वज्योतिषः प्राणभृतो वा एता यजमानस्य प्राणमेव प्रथमया दाधार व्यानं द्वितीययापानं तृतीययैता वै देवतास्स्वर्ग्यास्ताभिरेव स्वर्गं लोकमेत्येता वै देवता ज्योतिष्मतीरग्निरेवास्यास्मिंल्लोके ज्योतिर्भवति वायुरन्तरिक्षे सूर्यो दिवि सर्वेऽस्मा इमे लोका ज्योतिष्मन्तो भवन्त्यधिपतिवतीर्भवन्त्याधिपत्यमेवैताभिर्गच्छति लोकं पृण च्छिद्रं पृणेति यदेवास्योनं यच्छिद्रं तदापूरयत्यथो सीद ध्रुवा त्वमिति दृँहत्येवैनामिन्द्राग्नी त्वा बृहस्पतिरित्योजो वै वीर्यमिन्द्राग्नी ओजसैवैनं वीर्येण चिनुते ता अस्य सूददोहस इति तस्मात् परुषि परुषि सूदस्सोमँ श्रीणन्ति पृश्नय इत्यन्नं पृश्न्यन्नमेवावरुन्द्धे त्रिष्वारोचने दिव इति त्रीणि सवनानि सवनेष्वेवैनं चिनुतेऽनुष्टुबनुचरा भवति प्राणो वा अनुष्टुप् तस्मात् प्राणस्सर्वाण्यङ्गान्यनुसंचरति वाग्वा अनुष्टुब् यदेवास्यात्र न क्रियते यन्न चीयते तद्वाचा कल्पयति तद्भिषज्यति ॥३॥

या आग्नेयीर्गायत्रीर्मूर्धन्वतीस्ताभिस्तिसृभिस्तिस्रः पूर्वार्ध उपदधात्यथ त्रिष्टुब्भिरथ जगतीभिरथानुष्टुब्भिरथ पङ्क्तिभिरथ यत् किञ्चाग्नेयं छन्दस्तिस्र एकेन च्छन्दसा तिस्र एकेन सर्वमग्निमनूपदधात्येताँ ह वै यज्ञसेनश्चैत्रश्चितिं विदांचकार तया ह वै स आनर्धर्ध्नोति य एवं विद्वानेता उपधत्ते पशवो वै छन्दाँसि वामं देवानां पशूनेव वामं भ्रातृव्यस्य वृङ्क्ते ॥ आत्मा वा आहवनीयो भ्रातृव्यो धिष्ण्यो यद्गार्हपत्य उपदध्याद्भ्रातृव्ये वामं पशून् दध्यादाहवनीय उपदधात्यात्मन्नेव वामं पशून् धत्ते सैषोत्तरवेदिर्नाम चितिस्तस्मादेता उत्तमायां चित्यामुपधीयन्त उत्तमस्समानानां भवति य एवं विद्वानेता उपधत्ते पशुर्वा अग्निरग्निमुखान् प्रजापतिः पशूनसृजत यत् पञ्च चितयस्तस्मात् पाङ्क्ताः पशव उच्यन्ते यत् तिस्रस्त्रिवृद्ध्यग्निर्यद् द्वे द्विपाद्यजमानः प्रतिष्ठित्यै द्व्यक्षरं लोम द्व्यक्षरं चर्म द्व्यक्षरं माँसं द्व्यक्षरमस्थि द्व्यक्षरो मज्जा तद्दश दशाक्षरं विराट् तस्माद्वैराजाः पशव उच्यन्ते यो जानुदघ्नस्स गायत्रचिद्यो नाभिदघ्नस्स त्रिष्टुप् चिद्यः पुरुषमात्रस्स जगच्चिच्छ्येनचितं पक्षिणं चिन्वीत स्वर्गकामश्श्येनो वै वयसां क्षेपिष्ठस्स्वर्गस्य लोकस्य समष्ट्या अलजचितं पक्षिणं चतुस्सीतं चिन्वीत प्रतिष्ठाकामश्चतस्रो दिशो दिक्ष्वेव प्रतितिष्ठति ।। कङ्कचितँ शीर्षण्वन्तं चिन्वीत यः कामयेत सशीर्षामुष्मिँल्लोके स्यामिति सशीर्षैवामुष्मिँल्लोके भवति ।। प्रउगचितं चिन्वीत यदि मन्येत पूर्वो मातिक्रान्तो भ्रातृव्य इति प्रउगचिता वै देवा असुरान् प्राणुदन्त य एनान् पूर्वेऽतिक्रान्ता आसन् य एवैनं पूर्वोऽतिक्रान्तो भ्रातृव्यस्तं तेन प्रणुदत उभयतःप्रउगं चिन्वीत यदि मन्येत पश्चान्मे भ्रातृव्य इति य एवास्य पश्चाद्भ्रातृव्यस्तं तेनापनुदते प्र श्रेयाँसं भ्रातृव्यं नुदते प्रति पापीयाँसं नुदते ।। रथचक्रचितं चिन्वीताभिचरन् रथचक्रचितं ह स्म वै देवा असुरेभ्यो वज्रमियद्भ्यस्त्वेत्यभ्यवसृजन्ति वज्रमेव भ्रातृव्याय प्रहरति स्तृणुत एनँ समूह्यं चिन्वीत पशुकामः पशवो वै पुरीषं पशूनेवास्मै समूहति सर्वत उत्तरवेदिं निर्वपति पशवो वा उत्तरवेदिः पशूनेवावरुन्द्धे ॥ परिचाय्यं चिन्वीत सजातकामः परीव वै सजाता विशन्ति सजातैरेवैनं परिचिनोति ।। द्रोणचितं चिन्वीतान्नकामः पात्रेण वा अन्नमद्यते तेनैव मुखेनान्नमत्ति ॥ श्मशानचितं चिन्वीत यः कामयेत पितृलोक ऋध्नुयामिति श्मशानचिता वै यमोऽमुष्मिंल्लोक आर्ध्नोत् पितृलोक एवर्ध्नोति ॥ गायत्रचितं पक्षिणं चिन्वीत स्वर्गकामोऽग्निर्वै तत् पक्षी भूत्वा स्वर्गं लोकमपतद्यदाहुर्गायत्री पक्षिणी भूत्वा स्वर्गं लोकमपतदिति स्वर्गस्य लोकस्य समष्ट्या अन्येऽग्नय ऊर्ध्वाश्चीयन्ते न्यञ्चोऽन्ये य ऊर्ध्वाश्चीयन्ते तेऽमुष्मै लोकाय ये न्यञ्चस्तेऽस्मै यदूर्ध्वस्तिष्ठन् हिरण्यशल्कैः प्रोक्षति तेनैवैनमूर्ध्वं चिनुते स्वर्गस्य लोकस्य समष्ट्यै ।।४।।

दीक्षया विराडाप्तव्या तिस्रो रात्रीर्दीक्षितस्स्यात् त्रिपदा विराड्विराजमेवाप्नोति षड् रात्रीर्दीक्षितस्स्यात् षड्वा ऋतव ऋतवस्संवत्सरस्संवत्सरो विराड्विराजमेवाप्नोति दश रात्रीर्दीक्षितस्स्याद्दशाक्षरा विराड्विराजमेवाप्नोति द्वादश रात्रीर्दीक्षितस्स्याद् द्वादश मासास्संवत्सरस्संवत्सरो विराड्विराजमेवाप्नोति त्रयोदश रात्रीर्दीक्षितस्स्यात् त्रयोदश मासास्संवत्सरस्संवत्सरो विराड्विराजमेवाप्नोति पञ्चदश रात्रीर्दीक्षितस्स्यात् पञ्चदशार्धमासस्य रात्रयोऽर्धमासशस्संवत्सर आप्यते संवत्सरो विराड्विराजमेवाप्नोति चतुर्विँशतिं रात्रीर्दीक्षितस्स्याच्चतुर्विंशतिस्संवत्सरस्यार्धमासा अर्धमासशस्संवत्सर आप्यते संवत्सरो विराड्विराजमेवाप्नोति मासं दीक्षितस्स्याद्यो मासस्स संवत्सरस्संवत्सरो विराड्विराजमेवाप्नोति चतुरो मासो दीक्षितस्स्याच्चतुरो वा एतं मासो वसवोऽबिभरुस्ते पृथिवीमजयन् गायत्रीं छन्दोऽष्टौ रुद्रास्तेऽन्तरिक्षमाजयँस्त्रिष्टुभं छन्दो द्वादशादित्यास्ते दिवमजयञ्जगतीं छन्दस्ततो वै ते व्यावृतमगच्छञ्छ्रैष्ठ्यं देवानां तस्माद् द्वादश मासो भृत्वग्निं चिन्वीत द्वादश मासास्संवत्सरस्संवत्सरोऽग्निर्वैश्वानरस्तस्याहोरात्रणीष्टका आप्तेष्टकमेवैनं चिनुत ऋध्नोति व्यावृतमेवं गच्छति श्रैष्ठ्यँ समानानां गायत्रं पुरस्ताद्गायति शिरो वैदेवानां गायत्रं गायत्रोऽग्निस्तस्माद्गायत्रं पुरस्ताद्गायत्याग्निपावमान्यामयं वाव यः पवते स प्राणो मुखं देवानामग्निर्मुखत एवं प्राणं दधाति तस्मान्मुखतः प्राणो रथन्तरमुत्तराद्गायति बृहद्दक्षिणतः पक्षा एवास्योपदधातीयं वै रथन्तरमसौ बृहदाभ्यामेवैनं परिगृह्णाति यज्ञायज्ञीयं पुच्छे गायति श्रोण्यां वामदेव्यमात्मा वै यज्ञायज्ञीयं तनूर्वामदेव्यँ सात्मानमैवैनँ सतनूं चिनुते हृदयमपिकक्षे तस्मादपिकक्षे हृदयमनृचं भवति तस्मादनस्थकँ हृदयमर्क्यैः परिगायत्यर्को व अग्निरर्कमेवार्क्यैः परिगायति शान्त्यै ॥५॥

संवत्सरो वा अन्तरा तमस्स्वर्गं लोकं ज्योतिष्मतीरेतास्साहस्रीरिष्टका यद्धिरण्यशल्कैः प्रोक्षति ज्योतिषैवास्मै संवत्सरं विवासयति सहस्रस्य प्रमासि सहस्रस्य प्रतिमासीति सहस्रसंमिता हीमे लोका घ्नन्ति वा एतदग्नेर्यदस्यात्र न क्रियते यन्न चीयतेऽमृतँ हिरण्यं यद्धिरण्यशल्कैः प्रोक्षत्यमृतेनैवास्य तन्वं पृणक्तीमा मे अग्न इष्टका धेनवसन्त्विति धेनूरेवैनाः कुरुते ता एनं कामदुघा अमुष्मिंल्लोक उपतिष्ठन्ते रुद्रं वै देवा यज्ञान्निरभजन् स देवानायतयाभिपर्यावर्तत ते देवा एतच्छतरुद्रियमपश्यँस्तैनैनमशमयन् यच्छतरुद्रियं जुहोति तेनैवैनं शमयति ॥ जानुघ्नेऽग्रे जुहोत्यस्या एव रुद्रमवयजतेऽथ नाभिदघ्नेऽन्तरिक्षादेव रुद्रमवयजतेऽथ पुरुषमात्रेऽयुष्या एवं रुद्रमवयजत इत एवोर्ध्वं रुद्रमवयजतेऽथ पुरुषमात्रेऽथ नाभिदघ्नेऽथ जानुदघ्नेऽमृत एवार्वाञ्चं रुद्रमवयजते तत् षट् संपद्यते षड्वा ऋतव ऋतुभ्य एव रुद्रं निरवयजते गवीधुकासक्तुभिर्वा जर्तिलैर्वा कुसयसर्पिषा वा मृगक्षीरेण वा जुहोति यद्ग्राम्येण जुहुयाद्ग्रामावचारिणं रुद्रं कुर्यादारण्येनैवारण्यमभि रुद्रं निरवयजतेऽर्कपर्णेन जुहोत्यर्को वा अग्निरर्केणैवैनमर्कादधि निरवयजत उत्तरस्य पक्षस्य या चरमेष्टका तस्यां जुहोत्येषा वै रुद्रस्य दिक् स्वायामेव दिशि रुद्रं प्रतिहृत्यावयजते पशुर्वा अग्निरेतर्हि वा एष जायते यर्हि चीयते यथा वत्सो जातस्स्तनं प्रेप्सत्येवं वा एष एतर्हि भागधेयं प्रेप्सति स यजमानं चैवाध्वर्युं च ध्यायति यच्छतरुद्रियं जुहोति भागधेयेनैवैनँ शमयत्यङ्गिरसो स्वर्गं लोकं यन्तस्तेऽजायां घर्मं प्रासिञ्चन् सा शोचन्ती पर्णं परामृशत् सोऽर्कोऽभवत् तदर्कस्यार्कत्वं यदर्कपर्णेन जुहोति सयोनित्वाय यं द्विष्यात् तस्य संचरे पशूनां न्यस्येद्यः प्रथमः पशुराक्रामति त आर्तिमार्छन्ति या उत्तमस्ता यजमानं वाचयेदेता वै देवतास्स्वर्ग्यास्ताभिरेव स्वर्गं लोकमेत्येता देवता अभिचरणीया यं द्विष्यात् तं ब्रूयादमुं वो जम्भे दधामीत्येताभ्य एवैनं देवताभ्य आवृश्चति ताजक् प्रधन्वति ॥६॥
  
अश्मन्नूर्जं पर्वते शिश्रियाणामित्यद्भिः परिषिञ्चति प्रजापतेर्वा एष रसो यदापः प्रजापतेरेवैनं रसेन तर्पयति स एनं तृप्तः प्रीतोऽक्षुध्यन्नुपतिष्ठतेऽश्मन्ते क्षुद्यं द्विष्मस्तं ते शुगृच्छत्विति यमेव द्वेष्टि तमस्य क्षुधा च शुचा चार्पयति त्रिः परिषिञ्चति त्रय इमे लोका एभ्य एवैनं लोकेभ्यश्शमयति त्रिः पुनरपरिषिञ्चन् पर्येति तत् षट् संपद्यते षड्वा ऋतव ऋतुभ्य एवैनँ शमयति यद्यभिचरेत् त्रिः पुनरपरिषिञ्चन् परीत्य या दक्षिणा श्रोणिस्तस्यां प्रक्षिणीयादिदमहममुमामुष्यायणममुष्य पुत्रं प्रक्षिणामीति यैवाग्नौ शुक्तामादाय तयैनमर्पयति तं भिद्यमानमन्वार्तिमार्च्छति यन्नाम गृह्णाति मूलमेवास्य च्छिनत्ति ॥ वरुणमेनिर्वा एप संचितो मण्डूकेन विकर्षति मण्डूकस्यायुषा व्येति न ग्राम्यान् पशून् हिनस्ति नारण्याँस्तस्मादेतं वसन्ता च प्रावृषि चाभिगच्छति शुचा ह्येष ऋतोऽवकया च वेतसशाखया च विकर्षत्यपां वा एतच्छरो यदवकोपामेतत् पुष्यं यद्वेतस आपश्शान्ताश्शान्ताभिरेवास्य शुचँ शमयति तिसृभिस्त्रिवृद्वा अग्निर्यावानेवाग्निस्तस्य शुचँ शमयति प्रजापतिः प्रजा असृजत ता अक्षुध्यँस्ताभ्योऽन्नं प्रायच्छत् ता अब्रुवन्नोऽभूदित्यन्नं पावकं यत् पावकवतीर्भवन्त्यन्नाद्याय कमस्मा अग्निश्चिक्यानाय भवति सप्तभिर्विकर्षयति सप्त वै छन्दाँसि च्छन्दोभिरेवास्य शुचँ शमयत्यष्टाभिर्विकर्षत्यष्टाक्षरा गायत्री गायत्रोऽग्निर्यावानेवाग्निस्तस्य शुचँ शमयति ।। संलुप्योत्करेऽध्यस्यत्येषा वा अस्याँ शुक्छुच्येवास्य शुचं दधाति यं द्विष्यात् तमभ्यस्येच्छुचैवैनमर्पयति पञ्चगृहीत आज्ये पञ्च हिरण्यशल्कानवास्यति तेजो वै हिरण्यमायुर्घृतं तेजसैवास्यायुर्व्याघारयत्यथो पङ्क्त्यैवाहुत्याग्निमालभते नमस्ते हरसे शोचिष इत्यधिक्रामति नमस्कृत्य हि श्रेयाँसमुपचरन्त्यक्ष्णया व्याघारयत्यजामित्वाय नृषदे वेडिति प्रतिष्ठित्यै हुतादो वा अन्ये देवा अहुतादोऽन्येऽग्निचिदत्त्यैतानुभयानवरुन्द्धे यज्जुहोति चाव चोक्षति तानेव प्रीणाति तानवरुन्द्धे तेऽस्योभये प्रीता यज्ञे भवन्ति ॥ गुरुमुष्टिनावोक्षति स हि प्राजापत्यतमस्तेनास्य न हुतं भवति नाहुतं कृष्णाजिनस्योपानहौ कुरुते ब्रह्मणो वा एतद्रूपं यत् कृष्णाजिनं मृत्युरग्निर्ब्रह्मणैव मृत्योरन्तर्धत्तेऽन्तर्मृत्योर्धत्तेऽन्तरन्नाद्यादन्यतरामुपानहं कुर्वीतान्तर्मृत्योर्धत्तेऽवान्नाद्यं रुन्द्धे प्राणैर्वा एष पशुभिर्व्यृध्यते योऽग्निं चिनुते तं प्रथमोऽधिक्रामति प्राणदा व्यानदा इति प्राणैरेवैनं समर्धयति वर्चोदा वरिवोदा इति प्रजा वै वर्चः पशवा वरिवः प्रजया चैवैनं पशुभिश्च समर्धयति प्राणदा अपानदा इत्यवरोहति रूपेणैव द्वाभ्यां द्विपाद्यजमानः प्रतिष्ठित्यै ।।७।।

इन्द्रो वै वृत्रमहँस्तँ हतष्षोडशभिर्भोगैरसिनात्सोऽग्निना पाप्मनो भोगानपिदह्य वैश्वकर्मणाभ्यां पाप्मनो निरमुच्यत यदाग्नेय्या जुहोत्याग्निनैव पाप्मनो भोगानपिदह्य वैश्वकर्मणाभ्यां पाप्मनो निर्मुच्यत एकैकया जुहुयाद्यदि कामयेत चिरं पाप्मनो मुच्येतेति चिरमेव पाप्मनो मुच्यते सकृत् सर्वाननूद्रुत्योत्तमया जुहुयाद्यदि कामयेताजिरं पाप्मनो मुच्येतेत्यजिरमेव पाप्मनो मुच्यते ॥ षोडशं भवति षोडशकलः पुरुषो यावानेवास्यात्मा तं पाप्मनो मुञ्चत्यथो षोडशभिर्हि स तं भोगैरसिनान्नानासूक्ताभ्यां जुहोति सूक्तयोर्नानावीर्यत्वाय समिध आदधाति भागधेयमेवास्मा अपिदधाति यथा जनमेष्यतेऽवसं करोत्येवमेवैतदग्नय आतिथ्यं क्रियते तिस्र आदधाति त्रिवृद्ध्यग्निर्यावानेवाग्निस्तस्मा आतिथ्यं करोत्यौडुम्बरीर्भवन्त्यूर्ग्वा उडुम्बर ऊर्जमेवास्मा अपिदधाति घृतेनानक्त्येतद्वा अग्नेः प्रियं धाम यद् घृतं प्रियमेवास्मै धामातिथ्यं करोत्युदु त्वा विश्वे देवा इति प्राणा वै विश्वे देवाः प्राणैरेवैनमुद्यच्छते मनुष्या वै विश्वे देवा मनुष्यैरेवैनमुद्यच्छतेऽग्ने भरन्तु चित्तिभिरिति यस्मा एवैनं चित्तायोद्यच्छते तेनैनँ समर्धयति ।। पञ्च दिश इति दिश एवैनमनुप्रणयति द्वे परिगृह्यवती भवतो रक्षसामपहत्यै हरिकेशस्सूर्यरश्मिरिति सावित्री प्रसूत्यै देवा देवेभ्यो अध्वरीयन्तो अस्थुरित्याशिषामेवैष दोहो विमान एष इति स्वर्गस्यैवैष लोकस्य विमान उक्षा समुद्रो अरुणस्सुपर्ण इत्यश्मानमाग्रीध्रे सादयत्यनारम्भणमिव वा एतदनायतनमिव यदन्तरिक्षमन्तरिक्षमाग्नीध्रं यदाग्नीध्रे सादयत्यायतनमेव करोति मध्ये दिवो निहितः पृश्निरश्मेत्यन्नं पृश्न्यन्नमेवावरुन्द्धे द्वाभ्याँ सादयति द्विपाद्यजमानः प्रतिष्ठित्यै ॥ षड्भिराग्नीध्राद्यन्ति षड्वा ऋतव ऋतुभिरेव चतसृभिरा पुच्छाच्चत्वारि वै छन्दाँसि च्छन्दोभिरेवेन्द्रमितीन्द्रियमेवावरुन्द्धेऽवीवृधन्निति वृद्धिमेवोपैति वाजा इत्यन्नं वै वाजा अन्नमेवावरुन्द्धेऽनुष्टुभा वैश्वदेव्या यन्ति वाग्वा अनुष्टुब् वैश्वदेवी वाक् सर्वाणि वा एषा रूपाणि सर्वाणि रूपाण्यग्नौ चित्ये क्रियन्ते तस्मादेतया यन्ति सुम्नहूरिति यज्ञो वै सुम्नं यज्ञमेवावरुन्द्धे वाजस्य मा प्रसवेनोद्ग्राभेनोदजीगृभमिति ब्रह्म वा उद्ग्राभो ब्रह्म निग्राभोऽसा आदित्य उद्यन्नुद्ग्राभ एष निम्रोचन्निग्राभो ब्रह्मणैवात्मानमुद्गृह्णाति ब्रह्मणा भ्रातृव्यमवगृह्णात्यथा सपत्नानिन्द्राग्नी मे विषूचीनान् व्यस्यतामित्योजो वै वीर्यमिन्द्राग्नी ओजसैव वीर्येण भ्रातृव्यं विनुदते ॥८॥

क्रमध्वमग्निना नाकमिति स्वर्गस्य लोकस्याक्रमः प्राचीमनु प्रदिशं प्रेहि विद्वानिति देवलोकमेवोपावर्तते विश्वा आशा दीद्यद्विभाहीति तस्मादग्निस्सर्वा दिशो विभाति पृथिव्या अहमुदन्तरिक्षमारुहमन्तरिक्षाद्दिवमारुहमित्येषामेवैते लोकानाँ संक्रमास्स्वर्यन्तो नापेक्षन्त इति स्वर्गस्य लोकस्य समष्ट्या अग्ने प्रेहि प्रथमो देवायतामिति देवेषु चैव मनुष्येषु च चक्षुर्दधातीयक्षमाना भृगुभिस्सजोषा इति स्वर्गमेवैनं लोकं गमयति पञ्चभिरधिक्रामति पाङ्क्तोऽग्निर्यावानेवाग्निस्तस्मै नमस्कृत्याधिक्रामति ॥ नक्तोषासाग्ने सहस्राक्षेति सँहिताभ्यां जुहोत्यहोरात्रे एव संदधाति तस्मादहोरात्रे सँहिते कृष्णायाश्वेतवत्साया जुहोत्यह्नैवास्मै रात्रीं प्रदापयति नानारूपा वै पशवो नानाव्रतास्त एतदेव प्रत्तिमरूपयत् पयसा जुहोत्येतदेवैनमभिसंजानानाः पशव उपतिष्ठन्ते दध्ना स्वयमातृण्णायां जुहोत्यसौ वै स्वयमातृण्णोर्ग्दध्यमुष्यामेवोर्जं दधाति तस्मादमुतोऽर्वाचीमूर्जमुपजीवन्ति सुपर्णोऽसि गरुत्मानिति गायत्र्या सादयत्यस्यामेवैनमाक्रमयति भासान्तरिक्षमापृणेति त्रिष्टुभान्तरिक्षमेवैनमाक्रमयत्याजुह्वानस्सुप्रतीकः पुरस्तादिति जगत्यामुष्यामेवैनमाक्रमयत्येताभिरेवैनं देवताभिस्सयुजं कृत्वा प्रतिष्ठापयति तिसृभिस्त्रिवृद्वा अग्निर्यावानेवाग्निस्तं प्रतिष्ठां गमयति ॥ ताँ सवितुरिति सावित्र्यादधाति प्रसूत्या औदुम्बरीमूर्ग्वा उदुम्बर ऊर्जमेवास्मा अपिदधात्यग्निं वा ह वा अग्निचिद्दुहेऽग्निर्वाग्निचितं दुहे कण्वो ह वा एतस्य श्रायसो दोहं विदांचकार यथा गां प्रत्तां दुह एवमेवैतयाग्निमग्निचिद्दुहेऽग्ने विधेम त इत्यृद्ध्यै वैकङ्कतीमग्नेर्वै सृष्टस्य विकङ्कतं भा आर्छत् तदेवावरुन्द्धे प्रेद्धो अग्ने दीदिहि पुरो न इति शमीमयीँ शान्त्यै विराजैषा वै सूर्मी कर्णकवत्येताँ ह वै सोमदक्षः कौश्रेयस्सत्त्रिणः पप्रच्छ विद यूयँ सूर्मी३ङ्कर्णकवती३मिति यैवारण्ये तां विद्मेति पशवो वा एतस्याः कर्णः पशूनेवावरुन्द्धे ॥ एताँ ह स्म वै देवा असुरेभ्यो वज्रँ शतघ्रीमियद्भ्यस्त्वेत्यभ्यवसृजन्ति वज्रमेव भ्रातृव्याय प्रहरति स्तृण्वत एनं सप्त ते अग्ने समिध इति साप्तान्येवैतया प्रीणाति पूर्णया सुचा जुहोति यथा वत्साय जाताय स्तनमपिदधात्येवमेवास्मा एतद्भागधेयमपिदधाति दध्ना पुरस्ताज्जुहोत्याज्येनोपरिष्टादूर्ग्वै दधि तेज आज्यमूर्जं चैवास्मिँस्तेजश्च समीची उत्तमे दधात्यथो इमे एवास्मै प्रदापयति ।।९।।

अथैतदप्रतिरथमेतेन वै देवा असुरानप्रत्यभ्यजयँस्तदप्रतिरथस्याप्रतिरथत्वमप्रत्येवैतेन भ्रातृव्यमभिजयत्येषा वै गायत्री ज्योतिष्पक्षा तयैव स्वर्गं लोकमेति दशर्चं भवति दशाक्षरा विराडन्नं विराज्येवान्नाद्ये प्रतितिष्ठत्येतेन ह स्म वै भरद्वाजः प्रतर्दनँ संनह्यन्नेति ततो वै स राष्ट्रमभवद्यं कामयेत राष्ट्रँ स्यादिति तमेतेन संनह्यन्नियाद् राष्ट्रमेव भवति तदेतद्भुवनच्यवं नाम हविरास्थानादास्थानादेवैतेन भ्रातृव्यं नुदते संग्रामे कुर्यात् तैजनो वा बान्धुको वेध्मस्स्याद्यद्यङ्गाराः प्रतिवेष्टन्ते प्रत्यमित्राणाँ सेना वेष्टतेऽथाग्नये वैश्वानराय द्वादशकपालस्संवत्सरो वा अग्निर्वैश्वानर एषा संवत्सरस्य प्रिया तनूर्या वैश्वानरी यदग्नये वैश्वानराय प्रियाया एवास्य तन्व आतिथ्यं करोति ॥ क्षत्रं वैश्वानरो विण्मरुतो यद्वैश्वानरं मारुता अनुहूयन्ते क्षत्रायैव विशमनुनियुक्त्युच्चैर्वैश्वानरस्य यजत्युपाँशु मारुताञ्जुहोति तस्मात् क्षत्रं विशमतिवदति पशुर्वा अग्निरग्निमुखान् प्रजापतिः पशूनसृजत पशवो मरुतो यद्वैश्वानरं मारुता अनुहूयन्ते पशूनां प्रजात्यै यत् प्राङ् पर्यावर्तेत देवविशा मुह्येद्यद्दक्षिणा पितृदेवत्यस्स्याद्यत् प्रत्यङ् रक्षसाँ स्याद्यदुदङ् मानुषस्स्यादृजुः प्रतिष्ठितो होतव्यो यजमानस्य प्रतिष्ठित्या अथैते मारुतास्सप्त सप्तकपालास्सप्त सप्त हि मरुतो सप्तधा गणा गणेन गणमनूद्द्रुत्य जुहोति गणश एव मरुतस्तर्पयति । योऽरण्येऽनुवाक्यो गणस्तेन मध्ये जुहोति क्षत्रं वा एष मरुतां विडितरे क्षत्रमेव विशो मध्यमेष्ठं करोति यदि कामयेत विशा क्षत्रँ हन्यामिति योऽरण्येऽनुवाक्यो गणस्तमितरैर्गणैर्मोहयेद्विशैव क्षत्रँ हन्ति यदि कामयेत क्षत्रेण विशँ हन्यामिति त्रिष्टुभौ याज्यानुवाक्ये कुर्यादोजो वै वीर्यं त्रिष्टुबोज एव वीर्यं विश आदाय तां क्षत्रायापिदधाति यं कामयेत क्षत्रान्नुदेयेति योऽरण्येऽनुवाक्यो गणस्तेनाग्निष्ठं रथवाहनं विचालयेदेतद्वै राजन्यस्य क्षत्रं बिभर्ति क्षत्रमेव मरुतां क्षत्रेणैवैनं क्षत्रान्नुदत इन्द्रं दैवीर्विशो मरुतोऽनुवर्त्मान इत्येतद्वै देवानामनुवर्त्म देवानामेवानुवर्त्मना यजमानायानुवर्त्म करोति सं वा एनमेतदिन्द्धे यच्चिनोति दीपयति मरुन्नामैः ॥१०॥
    
वसोर्धारां जुहोति वसोर्मे धारासदिति वा एषा हूयते घृतस्य वा एषा धारामुष्मिंल्लोके यजमानमुपतिष्ठते संततं जुहोत्यन्नाद्यस्य संतत्या अविच्छेदाय यं द्विष्यात् तस्य विच्छिन्द्यादन्नाद्यमेवास्य विच्छिनत्ति घृतेन जुहोति तेजो वै घृतं तेजो वसोर्धारा तेजस्येव तेजो दधात्यक्लृप्तस्य वा एषा क्लृप्त्यै हूयतेऽनवरुद्धस्यावरुद्ध्या अनभिजितस्याभिजित्यै प्राणश्चापानश्चेति प्राणापाना एव यजमाने दधात्यन्नं च चक्षुश्चेत्येतद्वा अन्नस्य रूपं रूपेणैवान्नमवरुन्द्धे द्वादशैतानि द्वादशानि जुहोति द्वादश मासास्संवत्सरस्संवत्सरेणैवान्नाद्यमवरुन्द्धे ॥ अग्निश्चापश्चेत्येषा वा अन्नस्य योनिस्सयोन्येवान्नमवरुन्द्धेऽर्धेन्द्राणि जुहोति देवतानामवरुन्यैध्जु यदर्धेन्द्राणि जुहोति तस्मादिन्द्रो देवतानां भूयिष्ठभागिन्द्रमुत्तरं करोतीन्द्रिय एव यजमानं प्रतिष्ठापयत्यँशुश्च रश्मिश्चेति यज्ञमुखं वा अँशुश्च रश्मिश्च यज्ञमुखमेवावरुन्द्धे स्रुचश्च चमसाश्चेत्येतानि वै यज्ञस्य रूपाणि रूपैरेव यज्ञमवरुन्द्धेऽवभृथश्च स्वगाकारश्चेति प्रतिष्ठित्या अग्निश्च घर्मश्चेतद्वा अग्नेर्ब्रह्मवर्चस्यं तदेवावरुन्द्धे त्रियविश्च त्रियवी चेत्येतावन्ति वै पशूनां वयाँसि सवयस एव पशूनवरुन्द्ध एका च तिस्रश्चेति मनुष्यच्छन्दसं वा एका च तिस्रश्च मनुष्यच्छन्दसमेवावरुन्द्धे चतस्रश्चाष्टौ चेति देवच्छन्दसं वै चतस्रश्चाष्टौ च देवच्छन्दसमेवावरुन्द्धे ।। युग्मदयुजौ स्तोमौ मिथुनौ प्रजात्यै मिथुनमेव द्व्युत्तरेण करोति प्र चतुरुत्तरेण जनयत्येका च तिस्रश्चेत्या त्रयस्त्रिंशतो जुहोति त्रयस्त्रिंशद्देवता देवता एवावरुन्द्धे चतस्रश्चाष्टौ चेत्यष्टाचत्वारिंशतोऽष्टाचत्वारिंशदक्षरा जगती जागताः पशवः पशूनेवावरुन्द्धेऽस्मिन्नेव लोके मनुष्यच्छन्दसेनर्ध्नोत्यमुष्मिन् देवच्छन्दसेनोभौ लोका आजयति वाजश्च प्रसवश्चेति त्रयोदशैता व्याहृतयस्त्रयोदशमासस्संवत्सरोऽन्तत एव संवत्सरं रोहत्यायुर्यज्ञेन कल्पतामिति यज्ञस्यैवैषा क्लृप्तिर्ऋक् च साम चेत्यन्नाद्यं वै वसोर्धारान्नाद्यमेव वसोर्धारयावरुध्यान्नादो भूत्वा स्तोमश्च यजुश्चेति देवक्षत्रं वै स्तोमश्च यजुश्चान्तत एव देवक्षत्रं प्रावस्यति ॥११॥

देवा वै वाजप्रसव्य आजिमयुस्तदग्निरुदजयद्यद्वाजप्रसव्यं जुहोत्यन्नाद्यस्योज्जित्या अन्नस्यान्नस्य जुहोति सर्वमेवान्नमवरुन्द्धे यस्य न जुहोति तेन व्यृध्यते यस्य न जुहुयात् तदिध्मेऽपि प्रोक्षेत् तेनैव तदवरुन्द्ध औदुम्बरेण स्रुवेण जुहोत्यूर्ग्वा उदुम्बर ऊर्जैवान्नाद्यमवरुन्द्धेऽग्नेर्वा एषोऽभिषेकस्तस्मादग्निचिद्वर्षति न धावेद्यद्धावत्यन्नाद्याद्धावत्यथैते राष्ट्रभृतः क्षत्रं वा एषोऽग्नीनां यच्चीयत एते वा एतस्य राष्ट्रं बिभ्रति तद्राष्ट्रभृतां राष्ट्रभृत्त्वं तैरेवास्मै राष्ट्रँ संप्रयच्छति षडेते षड्वा ऋतव ऋतुभिरेवास्मै राष्ट्रँ संप्रयच्छत्यथो ऋतुष्वेव प्रतितिष्ठति । मिथुना आहुतयः प्रजात्यै द्वादश द्वादश मासास्संवत्सरस्संवत्सरेणैवास्मै राष्ट्रँ संप्रयच्छत्यथो संवत्सर एव प्रतितिष्ठति रथमुखे त्रयोदशीं जुहोति वज्रो वै रथो वज्रेणैव दिशोऽभिजयति ता दिशोऽभिजिता रथेनेयते वातहोमञ्जुहोति वातमेवावरुन्द्धेऽग्निचितँ ह त्वा एषोऽमुष्मिँल्लोकेऽभिपवते त्रिर्जुहोति त्रय इमै लोक एभ्य एव लोकेभ्यो वातमवरुन्द्ध इमेऽस्मै लोका वातं धुन्वन्त्यञ्जलिना जुहोति हस्तावदानो वै वायुर्न वै वायुमवदानैराप्तुमर्हत्येकधैवैनमाप्नोति समुद्रोऽसि नभस्वानित्येतानि वै वातस्य रूपाणि रूपैरेव वातमवरुन्द्धे ॥ प्राणो गायत्री गायत्रँ हविर्धानं व्यानस्त्रिष्टुप् त्रैष्टुभमाग्नीध्रमपानो जगती जागतँ सदो मध्ये दिवो निहितः पृश्निरश्मेत्यसुर्वाव स पृश्निरश्मासुमेव प्राणापानयोर्व्यवदधाति प्राणापानयोर्विधृत्या एकविँशतिँ होत्रीय उपदधात्येकविँशो वै स्तोमानां प्रतिष्ठा प्रतिष्ठित्या एकादश ब्राह्मणाच्छँस्य एकादशाक्षरा त्रिष्टुब् वीर्यं त्रिष्टुब् वीर्यमेवावरुन्द्धेऽष्टा अष्टा इतरेष्वष्टाक्षरा गायत्री गायत्र्यामेव प्रतितिष्ठति षण्मार्जालीये षड्वा ऋतव ऋतव एतं दक्षिणा पर्यहरन् पितर ऋतवस्तस्मादत्र षडुपधीयन्ते ॥१२॥

इयं वामस्य मन्मनश्शुचिं नु स्तोमं मरुतो यद्ध वो दिवो या वश्शर्मेमं मे वरुण तत्त्वा यामि कया नश्चित्रः ।।
कया तच्छृण्वे शच्या शचिष्ठो यया कृणोति मुहु काचिदृष्वः ।
पुरु दाशुषे विचयिष्ठो अँहोऽथा दधाति द्रविणं जरित्रे ॥
उदुत्तमं मुमुग्धि नो वि पाशं मध्यमं चृत । अवाधमानि जीवसे ।।
उदुत्तमं वरुण पाशमस्मत् त्वं नो अग्ने स त्वं नो अग्ने ॥
अनेकवन्तमूतयेऽग्निं धीभिर्हवामहे । स नः पर्षदति द्विषः ॥
सैनानीकेन सुविदत्रो अस्मे यष्टा देवाँ आयजिष्ठस्स्वस्ति ।
अदब्धो गोपा उत नः परस्पा अग्ने द्युमदुत रेवद्दिदीहि ॥
सांतपना इदँ हविर्मरुतस्तज्जुजुष्टन । युष्माकोती रिशादसः ॥
यो नो मर्तो मरुतो दुर्हृणायुस्तिरश्चित्तानि वसवो जिघाँसति ।
द्रुहः पाशं प्रति षू मुचीष्ट तपिष्ठेन तपसा हन्तना तम् ॥
गृहमेधा रिशादसो मरुतो मापभूतन । प्रमुञ्चन्तो नो अँहसः ॥
प्र बुध्न्या व ईरते महाँसि प्र नामानि प्रयज्यवस्तिरध्वम् ।
सहस्रियं दम्यं भागमेतं गृहमेधीयं मरुतो जुषध्वम् ॥
क्रीडं वश्शर्धो मारुतमनर्वाणं रथेशुभम् । कण्वा अभिप्रगायत ॥
अत्यासो न ये मरुतस्स्वञ्चो यक्षदृशो न शुभयन्त मर्याः ।
ते हर्म्येष्ठाश्शिशवो न शुभ्रा वत्सासो न प्रक्रीडिनः पयोधाः ॥
इन्द्राग्नी श्नथद्वृत्रमा तू न इन्द्र त्वं महाँ इन्द्र ।।
विश्वकर्मन् हविषा वावृधानस्स्वयं यजस्व पृथिवीमुत द्याम् ।
मुह्यन्त्वन्ये अभितो जनास इहास्माकं मघवा सूरिरस्तु ।
वाचस्पतिं विश्वकर्माणमूतये मनोजुवं वाजे अद्याहुवेम ।
स नो नेदिष्ठं हवनानि जोषद्विश्वशंभूरवसे साधुकर्मा ॥१३॥

उशन्तस्त्वा हवामह उशन्तस्समिधीमहि ।
उशन्नुशत आवह पितॄन् हविषे अत्तवे ॥
त्वँ सोम प्रचिकितो मनीषा त्वं रजिष्ठमनुनेषि पन्थाम् ।
तव प्रणीती पितरो न इन्दो देवेषु रत्नमभजन्त धीराः ॥
त्वया हि नः पितरस्सोम पूर्वे कर्माणि चक्रुः पवमान धीराः ।।
वन्वन्नवातः परिधीरपोर्णु वीरेभिरश्वैर्मघवा भवा नः ।।
त्वँ सोम पितृभिस्संविदानोऽनु द्यावापृथिवी आततन्थ ।
तस्मै त इन्दो हविषा विधेम वयँ स्याम पतयो रयीणाम् ॥
बर्हिषदः पितर ऊत्यर्वागिमा वो हव्या चकृमा जुषध्वम् ।
त आ गतवसा शंतमेनाथा नश्शं योररपा दधात ॥
आहं पितॄन् सुविदत्राँ अवित्सि नपातं च विक्रमणं च विष्णोः ।
बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस्त इहागमिष्ठाः ॥
उपहूताः पितरस्सोम्यासो बर्हिष्येषु निधिषु प्रियेषु ।
त आगमन्तु त इह श्रुवन्त्वधि बुवन्तु तेऽवन्त्वस्मान् ॥
अग्निष्वात्ताः पितर एह गच्छत सदस्सदस्सदत सुप्रणीतयः ।
अत्ता हवीँषि प्रयतानि बर्हिष्यथा रयिं सर्ववीरं दधातन ।।
अग्निष्वात्ता ऋतावृधः पितरो मृडता सु नः । प्रमुञ्चन्तु नो अँहसः ।।
अग्निष्वात्तानृतुमतो हवामहे नराशँसे सोमपीथं य आनशुः ।
त आगमन्तु त इह श्रुवन्त्वधि ब्रुवन्तु तेऽवन्त्वस्मान् ।।
स पूर्वया निविदा कव्यतायोरिमाः प्रजा अजनयन् मनूनाम् ।
विवस्वता चक्षसा द्यामपश्च देवा अग्निं धारयन् द्रविणोदाः ।
यो अग्निः कव्यवाहनः पितॄन्यक्षदृतावृधः । प्रेदु हव्यानि वोचति देवेभ्यश्च पितृभ्य आ।।
त्वदग्ने काव्या त्वन्मनीषास्त्वदुक्ता जायन्ते राध्यानि ।
त्वदेति द्रविणं वीरपेशा इत्थाधिये दाशुषे मर्त्याय ।।
वायुरग्रेगाः प्र याभिर्यासि ।।
सीरा युञ्जन्ति कवयो युगा वितन्वते पृथक् । धीरा इन्द्राय सुम्नया ।
शुनँ हुवेम मघवानमिन्द्रमस्मिन् भरे नृतमं वाजसातौ ।
शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ।।
उदु त्यं चित्रं देवानाम् ।।
इन्द्रं वयँ शुनासीरमस्मिन् यज्ञे हवामहे । इह देवँ सुराधसम् ॥
इन्द्रं वयं धनपतिँ सूनुमन्वारभामहे । स नः पितेव पुत्रेभ्य ईशानश्शर्म यच्छतु ॥१४॥ [१७०६) ॥


इति श्रीयजुषि काठके चरकशाखायां मध्यमिकायां पञ्चचूडं नामैकविंशं स्थानकं संपूर्णम् ॥२१॥