← स्थानकं २१ काठकसंहिता (विस्वरः)
स्थानकम् २२
[[लेखकः :|]]
स्थानकं २३ →
स्वर्गम्

अथ द्वाविंशं स्थानकम् ।

स्वर्गम् ।
स्वर्गाय वै लोकाय देवरथो युज्यते कामाय मनुष्यरथोऽग्निं युनज्मि शवसा घृतेनेति देवरथमेव युनक्ति स एनं युक्तस्स्वर्गं लोकमभिवहति यत् सर्वाभिर्युञ्ज्याद्युक्तोऽस्याग्निस्स्यादप्रतिष्ठिता आहुतयस्तिसृभिर्युनक्ति त्रिवृद्वा अग्निर्यावानेवाग्निस्तं युनक्ति तस्मिन् युक्ते यज्ञस्समाधीयते द्वाभ्यां नापियुनक्त्याहुतीनां प्रतिष्ठित्यै द्वाभ्यां यज्ञायज्ञीयस्य स्तोत्रेऽभिमृशत्येतावान् वै यज्ञो यावानेवाग्निष्टोमो भूमा त्वा अस्यात ऊर्ध्वं क्रियते यावानेव यज्ञो यावानग्निष्टोमस्तमन्ततस्स्वर्गं लोकमनुसमारोहति ।। सं वा एतमेता अग्नी तपतो यश्चाग्निष्टोमो यश्च वैश्वानरोऽपस्वतीभ्यामभिमृशति शान्त्यै द्वाभ्यां द्विपाद्यजमानः प्रतिष्ठित्यै समास्त्वाग्न ऋतवो वर्धयन्त्विति समाभिरेवर्तून्वर्धयत्यृतुभिस्सँवत्सरँ सं दिव्येन दीदिहि रोचनेनेति तस्मादग्निस्सर्वा दिशो विभाति प्रत्यौहतामश्विना मृत्युमस्मादित्यामयाविन एतान् कुर्यान्मृत्युमेवास्मात् प्रतिनुदत्युद्वयं तमसस्परीति पाप्मा वै तमः पाप्मानमेवैतयापहते ज्योतिष्पश्यन्त उत्तरमित्यसौ वा आदित्यो ज्योतिरुत्तमममुष्यैवादित्यस्य सायुज्यं गच्छति ।। या अपस्वतीस्ताः कुर्याच्छान्त्यै चतुर्विँशतिं चतुर्विँशतिस्संवत्सरस्यार्धमासा न वै संवत्सरस्तिष्ठते नास्य श्रीस्तिष्ठते यस्यैताः क्रियन्तेऽथैता आप्रियः प्रजापतिः प्रजास्सृष्ट्वा स रिरिचान इवामन्यत स एता आप्रीरपश्यत् ताभिरात्मानमाप्रीणीत यज्ञः प्रजापतिर्यदाप्रियो भवन्ति यज्ञमेवाप्रीणात्यूनातिरिक्ता मिथुनाः प्रजात्यै लोमशं वै नामैतत् प्रजापतेश्छन्दो लोमशाः पशवः प्रजायन्ते पशूनां प्रजात्यै सर्वाणि वा एता रूपाणि सर्वाणि रूपाण्यग्नौ चित्ये क्रियन्ते तस्मादेता अग्नेश्चित्यस्य भवन्ति ॥१॥

यथा वै पुनराधेय एवं पुनश्चितिर्यो वा अग्न्याधेयेन नर्ध्नोति पुनराधेयँ स आधत्ते यद्यग्निना चित्येन नर्ध्नुयात् पुनश्चितिं चिन्वीतर्ध्नोत्येवात्मा वै प्रथमा चितिः प्रजा द्वितीया नपात् तृतीया तृतीयमग्निं चिन्वानो मध्यमायामेताश्चित्यामुपदध्यादनुसंतत्यै नपात् को वै नामैषोऽग्निरत्त्यन्नं य एवं विद्वानेता उपधत्तेऽष्टा एता उपदधात्यष्टाक्षरा गायत्री गायत्र्यामेव प्रतितिष्ठति यां वा अनिष्टकेऽग्निचिदाहुतिं जुहोति स्रवति सा ताँ स्रवन्तीं यज्ञोऽनु परास्रवति यज्ञं यजमानो यदेता उपधीयन्त आहुतीनां प्रतिष्ठित्यै ॥ ताः प्रतितिष्ठन्तीर्यज्ञोऽनु प्रतितिष्ठति यज्ञं यजमानोऽष्टा उ ता उपदधात्यष्टाक्षरा गायत्री गायत्रोऽग्निर्यावानेवाग्निस्तं चिनुतेऽष्टा एता उपधाय पुरीषेणाभ्यूहत्यष्टाक्षरा गायत्री ब्रह्म गायत्री ब्रह्मणैवैनं चिनुते गायत्र्या छन्दसैकादश लोकंपृणयोपधाय पुरीषेणाभ्यूहत्येकादशाक्षरा त्रिष्टुब् वीर्यं त्रिष्टुब् वीर्येणैवैनं चिनुते त्रिष्टुभा छन्दसा द्वादश लोकंपृणयोपधाय पुरीषेणाभ्यूहति द्वादशाक्षरा जगती जागताः पशवः पशुभिरेवैनं चिनुते ॥ जगत्या छन्दसा तिस्रश्चितयस्त्रीणि पुरीषाणि तत् षट् संपद्यते षड्वा ऋतव ऋतुष्वेव प्रतितिष्ठति तदाहुरुत्तरवेदिर्वावैषा योऽस्य पूर्वोऽग्निश्चितस्स्यात् तमन्ववसाय यजेतेति यथा दीप्यमाने भूयोऽभ्यादधात्येवमेवास्मिंस्तदधि पूर्वं तेजो दधाति तदाहुः कश्श्रेयाँसं विषुप्तं बोधयितुमर्हतीति यद्यजत आहुत्यैवैनं वर्धयति गृहान् वा एतत् कुरुते यदग्निं चिनुते यद्वा अन्यतो विन्दते गृहाँस्तदाहरति यदीष्ट्या यजेत यदि पशुना यदि सोमेन योऽस्य पूर्वोऽग्निश्चितस्स्यात् तमन्ववसाय यजेत यथान्यतो वित्त्वा गृहानाहर त्येवमेव तत् ॥२॥

संवत्सरमुख्यं भृत्वा द्वितीये संवत्सरे पर्येते आग्नेयमष्टाकपालं निर्वदैन्द्रमेकादशकपालं वैश्वदेवं द्वादशकपालं बार्हस्पत्यं चरुं वैष्णवं त्रिकपालं तृतीये संवत्सरे पर्येतेऽभिजिता यजेत यदष्टाकपालोऽष्टाक्षरा गायत्र्याग्नेयं गायत्रं प्रातस्सवनं प्रातस्सवनमेव तेन दाधार गायत्रीं छन्दो यदेकादशकपाल एकादशाक्षरा त्रिष्टुबैन्द्रं त्रैष्टुभं माध्यन्दिनँ सवनं माध्यन्दिनमेव तेन सवनं दाधार त्रिष्टुभं छन्दो यद् द्वादशकपालो द्वादशाक्षरा जगती वैश्वदेवं जागतं तृतीयसवनं तृतीयसवनमेव तेन दाधार जगतीं छन्दो यद्बार्हस्पत्यो ब्रह्म वै बृहस्पतिर्ब्रह्म वै तेन दाधार यद्वैष्णवो यज्ञो वै विष्णुर्यज्ञमेव तेन दाधार यदभिजिता यजतेऽभिजित्यै यत् संवत्सरमुख्यं बिभर्तीमं तेन लोकँ स्पृणोति यद् द्वितीयं चिनुतेऽन्तरिक्षं तेन स्पृणोति यद्यजतेऽमुं तेन लोकँ स्पृणोत्येतं वै पर आङ्नारः कक्षीवाँ औशिजस्त्रसदस्युः पौरुकुत्सः प्रजाकामा अचिन्वत ततो वै ते सहस्रँ सहस्रं पुत्रानविन्दन्त प्रथत एव तं भूमानं गच्छति यं तेऽगच्छन् य एवं विद्वानेतं चिनुते ॥३॥
  
प्रजापतिर्वा एतमग्रेऽग्निमचिनुतर्तुभिस्संवत्सरं वसन्तेन पूर्वार्धं ग्रीष्मेन दक्षिणं पक्षं वर्षाभिरुत्तरँ शरदा पुच्छँ हेमन्तेन मध्यं ब्रह्मणा वावास्य तत् पूर्वार्धमचिनुत क्षत्रेण दक्षिणं पक्षं विशोत्तरं पशुभिः पुच्छमाशया मध्यमेतावद्वावास्ति यावदेवास्ति तत् स्पृणोति शृण्वन्त्येनमग्निं चिक्यानमत्त्यन्नं रोचते का प्रथमा चितिः किं पुरीषमित्याहुर्ब्रह्मवादिन इयं वाव प्रथमा चितिरोषधयः पुरीषमन्तरिक्षं द्वितीया वयाँसि पुरीषं द्यौस्तृतीया नक्षत्राणि पुरीषं यज्ञश्चतुर्थी दक्षिणा पुरीषमात्मा पञ्चमी प्रजा पुरीषं यत् त्रिचितीकं चिन्वीत यज्ञं दक्षिणामात्मानं प्रजामन्तरियात् तस्मात् पञ्चचितीकश्चेतव्यो यत् तिस्रश्चितयस्त्रिवृद्ध्यग्निर्यद् द्वे द्विपाद्यजमानस्त्रय इमे लोका एष्वेव लोकेष्वृध्नोति ।।४।।

सजूरब्द आयवोभिस्सजूरुषा अरुणीभिस्सस्सूर एतशेन सजोषा अश्विना दँसोभिस्सजूर्वैश्वानर इडया घृतेन स्वाहा ।
चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः ।।
आप्रा द्यावापृथिवी अन्तरिक्षँ सूर्य आत्मा जगतस्तस्थुषश्च ।।
युक्ष्वा हि देवहूतमाँ अश्वाँ अग्ने रथीरिव । नि होता पूर्व्यस्सदः ।।
अग्ने युक्ष्वा हि ये तवाश्वासो देव साधवः । अरं वहन्त्याशवः ॥ अग्नेर्यान्यस्यग्नेरग्नियान्यसि वायोर्यान्यसि वायोर्वायुयान्यसि देवानां यान्यसि देवानां देवयान्यस्यन्तरिक्षस्य यान्यस्यन्तरिक्षयान्तरिक्षयान्यस्यन्तरिक्षसदस्यन्तरिक्षे सीद ॥ यवा आयवा ऊमा एवा अब्दस्सगरस्सुमेकस्सलिलाय त्वा मृदीकाय त्वा सतीकाय त्वा केताय वा प्रचेतसे त्वा दिवे त्वा ज्योतिषे त्वा विवस्वते त्वादित्येभ्यस्त्वर्चे त्वा रुचे त्वा भासे त्वा ज्योतिषे त्वा सूर्याय त्वा पुरोवातसनिरस्यभ्रसनिरसि विद्युत्सनिरसि स्तनयित्नुसनिरसि वृष्टिसनिरसि प्राच्या त्वा दिशाग्निना देवतया गायत्रेण च्छन्दसाग्नेश्शिर उपदधामि गायत्रेण च्छन्दसा छन्दसाग्नेश्शीर्ष्णाग्नेश्शिर उपदधामि । दक्षिणया त्वा दिशेन्द्रेण देवतया त्रैष्टुभेन च्छन्दसाग्नेः पार्श्वमुपदधामि त्रैष्टुभेन च्छन्दसा छन्दसाग्नेः पार्श्वेनाग्नेः पार्श्वमुपदधामि प्रतीच्या त्या दिशा सवित्रा देवतया जागतेन च्छन्दसाग्नेः पुच्छमुपदधामि जागतेन च्छन्दसा छन्दसाग्नेः पुच्छेनाग्नेः पुच्छमुपदधाम्युदीच्या त्वा दिशा मित्रावरुणाभ्यां देवतयानुष्टुभेन च्छन्दसाग्नेः पार्श्वमुपदधाम्यानुष्टुभेन च्छन्दसा छन्दसाग्नेः पार्श्वेनाग्नेः पार्श्वमुपदधाम्यूर्ध्वया त्वा दिशा बृहस्पतिना देवतया पाङ्क्तेन च्छन्दसाग्नेः पृष्ठमुपदधामि पाङ्तेवशन च्छन्दसा छन्दसाग्नेः पृष्ठेनाग्नेः पृष्ठमुपदधामि ॥ संयच्च प्रचेताश्चाग्नेस्सोमस्य सूर्यस्य ते तेऽधिपतयस्ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दधाम्युग्रा च भीमा च पितॄणां यमस्येन्द्रस्य ते तेऽधिपतयस्ते यं द्विष्मो यश्च ना द्वेष्टि तमेषां जम्भे दधामि ध्रुवा च पृथिवी च सवितुर्मरुतां वरुणस्य ते तेऽधिपतयस्ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दधामि यन्त्री च यमनी च मित्रावरुणयोर्मित्रस्य धातुस्ते तेऽधिपतयस्ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दधामि प्राची च प्रतीची च वसूनां रुद्राणामादित्यानां ते तेऽधिपतयस्ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दधामि ।।५।।

सजूरब्द आयवोभिरिति संवत्सरो वा अब्दो मासा आयवा उषा अरुणीस्सूर एतश इमे अश्विना संवत्सरोऽग्निर्वैश्वानरः पशव इडा पशवो घृतँ संवत्सरं पशवोऽनु प्रजायन्ते संवत्सरादेवास्मै पशून् प्रजनयति दर्भस्तम्बे जुहोति यद्वा अस्या अनामृतं यद्वीर्यं तदेतदुत्सर्पति यदेवास्या अनामृतं यद्वीर्य तस्मिञ्जुहोति नाग्निं चिक्यानः प्रमीयते यस्यैवं जुह्वति चित्रं देवानामुदगादनीकमिति पुरुषशीर्षे जुहोत्यहर्वै मित्रो रात्री वरुण एतावद्वावास्ति यावदेवास्ति तत् स्पृणोति सौर्यर्चा जुहोति तस्मात् पुरुष एवँ सूर्यं प्रत्यङ् पशूनां न्यञ्चोऽन्ये यत् समान्यर्चा द्विर्जुहोति तस्मात् समानस्य पुरुषस्य द्वौ पादौ । यो ह वा अग्निं योग आगते न युनक्ति न युञ्जानेषु युङ्क्ते युक्ष्वा हि देवहूतमाँ अग्ने युक्ष्वा हि ये तवेत्यग्निमेवैतद्योग आगते युनक्ति युङ्क्ते युञ्जानेषु य एवं वेद द्वाभ्यां युनक्त्यस्थूरि द्वयं यो ह वा अग्निं विमोक आगते न विमुञ्चति न विमुञ्चमानेषु विमुञ्चते मातेव पुत्रं पृथिवी पुरीष्यमित्यग्निमेवैतद्विमोक आगते विमुञ्चति वि विमुञ्चमानेषु मुञ्चते य एवं वेदाथैतास्संयानीरेता वै देवतास्स्वर्ग्यास्ताभिरेव स्वर्गं लोकमेत्येषा वै गायत्री ज्योतिष्पक्षा तयैव स्वर्गं लोकमेति । यथा नावोदकादुदकमभिसंयात्येवं वा एताभिरग्निचिदमुत्र यथालोकँ संयाति तत् संयानीनाँ संयानीत्वमथैतान्यृतुनामान्यृतूनेवावरुन्द्धे सुमेक इति संवत्सरो वै सुमेकस्संवत्सरमेवावरुन्द्धेऽथैता आदित्येष्टका आदित्या वा एतस्य तेज आददते योऽग्निं चिक्यानो नेव रोचते यदेता उपधीयन्ते यथा दीप्यमाने भूयोऽभ्यादधात्येवमेवास्मिंस्तदधि पूर्वं तेजो दधाति नास्यादित्यास्तेज आददते यथासौ देवेष्वेवं मनुष्येषु भवत्यथैता घृतेष्टकास्तेजो वा अग्निस्तेजो घृतं तेजस्येव तेजो दधात्यथैता वृष्टिसनयो वृष्टिमेवैताभिरवरुन्द्ध एताभिर्वा अग्निचितेऽमुत्र यथाकामं वर्षति तद्वृष्टिसनीनां वृष्टिसनित्वमथैता आत्मैतद्ध वा उवाच शङ्ख कौष्यः पुत्रमग्निं चिकिवाँसमचैरग्नी३मित्यचैषँ ही३त्यथ कथा न सर्वात्मागा इति तद्धि नूनं न विदांचकृमेति यदेता उपधीयन्ते सात्मानमेवाग्निं चिनुते पुनर्नितुन्ना भवन्ति प्राण एव प्राणमुपसंदधात्यथैषा षष्ठी चितिर्योऽग्निं चिक्यानो नेव प्रतितिष्ठेत् स एताँ षष्ठीं चितिमुपदधीत षड्वा ऋतवस्संवत्सर ऋतुष्वेव संवत्सरे प्रतितिष्ठत्येता वै देवतास्स्वर्याषडस्ताभिरेव स्वर्गं लोकमेत्येता वै देवता अभिचरणीया यं द्विष्यात् तं ब्रूयादमुं वै जम्भे दधामीत्येताभ्य एवैनं देवताभ्य आवृश्चति ताजक् प्रधन्वति ।।६।।

अग्निना वै देवास्स्वर्गं लोकमायँस्तान् पराच आवृत्तान् पश्चादन्ववेत्य रक्षाँस्यजिघाँसँस्ते देवा एता वितृण्णीरपश्यँस्ताभी रक्षाँस्यपाघ्नत यद् द्वे पुरस्तादुपदधाति द्वे पश्चाच्चक्षुरेवोभयतो दधाति रक्षसामपहत्यै स्वयमातृण्णा भवन्ति प्राणानामुत्सृष्ट्यै स्वर्गस्य लोकस्यानुक्शात्यै चतस्रस्तस्माच्चत्वारि चक्षुषो रूपाणि द्वे शुक्ले द्वे कृष्णे स्वर्गाय वै लोकायाग्निश्चीयते यदेकादशिनीं कुर्याद्वज्रेण पुरस्तादवगृह्णीयादस्वर्यस्स्याद्यदनेकादशिनीमनवरुद्धा अस्य पशवस्स्युरेकयूप एकादश पशूनालभेत तेनैव स्वर्ग्यस्तेन पशूनवरुन्द्धे । न पक्षसंमितां मिनुयाद्यत् पक्षसंमितां मिनुयात् कनीयाँसं यज्ञक्रतुमुपेयात् पापीयस्यस्यात्मनः प्रजा स्यादेतद्ध वा उवाच जातश्शाकायन्यश्शङ्खं कौष्यं पक्षसंमितामेकादशिनीममेष्टेति श्रुत्वा कनीयाँसं यज्ञक्रतुमुपागात् पापीयस्यस्यात्मनः प्रजा भविष्यतीति ततो वै तं पराभूतं मन्यन्ते वेदिसंमितां मिनुयाज्जायाँसमेव यज्ञक्रतुमुपैति नास्यात्मनः प्रजा पापीयसी भवति कस्मै कमग्निश्चीयत इत्याहुर्देवा मा वेदन्निति वा अग्निश्चीयते य एवं विद्वानग्निं चिनुते विदुरेतं देवाः कस्मै कमग्निश्चीयत इत्याहुर्गृहा मेऽसन्निति वा अग्निश्चीयते य एवं विद्वानग्निं चिनुते गृहवान् भवति कस्मै कमग्निश्चीयत इत्याहुरन्नमदानीति वा अग्निश्चीयते य एवं विद्वानग्निं चिनुतेऽत्त्यन्नं व्रतं चरेदग्निं चित्वा प्रथमं चित्वा न रामामुपेयाद् द्वितीयं चित्वा नान्येषाँ स्त्रियस्तृतीयं चित्वा न काञ्चन रेतो वा एतन्निधत्ते यदग्निं चिनुते यदुपेयाद्रेतसा व्यृध्येत तदाहुर्ये एवामू रेतस्सिचा इष्टके ते अग्निचितो रेतो बिभृतस्तस्मादुपेत्येति सहस्रेष्टकं चिन्वीत प्रथमं चिन्वानस्सहस्रसंमितो ह्ययं लोको द्वे सहस्रे द्वितीयं चिन्वानोऽन्तरिक्षेण संमितं त्रीणि सहस्राणि तृतीयं चिन्वानस्त्रय इमे लोका एभिर्लोकैस्संमितं प्रजापतिर्वा उख्यमग्निमबिभस्तेन प्रजा असृजत ता अनुप्राविशत् सोऽब्रवीत् स एव मे प्रजानामृध्नवद्यो मेतस्संचिनवदित्यग्निः प्रजापतिर्यदग्निं चिनुते प्रजापतिमेव संचिनोत्यृध्नोति तच्चित्यस्य चित्यत्वं तं वसुभ्यः प्रायच्छत् तेन वसवस्त्रीणि च शतानि त्रयस्त्रिँशतं चासृजन्त ते वसवो रुद्रेभ्यः प्रायच्छँस्तेन रुद्रास्त्रीणि च शतानि त्रयस्त्रिँशतं चासृजन्त तं रुद्रा आदित्येभ्यः प्रायच्छँस्तेनादित्यास्त्रीणि च शतानि त्रयस्त्रिँशतं चासृजन्तोखा सहस्रतमी य एवमुखाँ सहस्रतमीं वेद गच्छति साहस्रीं पुष्टिं पशूनाम् ॥७॥
   
यथारूपमग्निश्चेतव्यो यो वै यथारूपमग्निं चिनुते नास्यापरूपं जायते गायत्र्या प्रथमां चितिं संचितामभिमृशेत् त्रिष्टुभा द्वितीयां जगत्या तृतीयामनुष्टुभा चतुर्थीं पङ्क्या पञ्चमीं यथारूपमेवाग्निं चिनुते नास्यापरूपं जायते प्राणो वै प्रथमा चितिर्व्यानो द्वितीयापानस्तृतीया प्राणापानैरेवैनँ समिन्द्ध इडाया वा एषा विभक्तिः पशव इडा पशुभिरेवैनं चिनुते प्रजापतये प्रोच्याग्निश्चेतव्यो यो वै प्रजापतयेऽप्रोच्याग्निं चिनुत आर्तिमार्छत्यश्वा अभितस्तिष्ठेताँ श्याव उत्तराच्छ्वेतो दक्षिणतस्ता आलम्बमिष्टकामिष्टकामुपदध्यादेतद्वै प्रजापते रूपं प्राजापत्योऽश्वः प्रजापतय एवं प्रोच्याग्निं चिनुते नार्तिमाछति ॥ हिरण्यपात्रं मधोः पूर्णं ब्रह्मणे ददाति मधव्यो भवति शतमानँ शतायुर्वै पुरुषश्शतवीर्य आयुरेव वीर्यमवरुन्द्धे चित्रं देवानामुदगादनीकमिति चित्रवत्यावेक्षते चित्रमेव भवति मध्यन्दिनेऽश्वमवघ्रापयत्यसौ वा आदित्य इन्द्र एष प्रजापतिः प्राजापत्योऽश्वः प्रत्यक्षमेवैनमृध्नोति योऽग्नेराप्तिं वेदाप्नोति तं कामं यस्मै कामायाग्निश्चीयते प्रयास्यन्नग्निं चितमुपतिष्ठेत दीक्षया त्वापँ तपसा त्वापँ सुत्यया त्वापमवभृथेन त्वापं वशया त्वापमिति तत् पञ्च संपद्यते पञ्च वा ऋतव ऋतवस्संवत्सरस्संवत्सरोऽग्निर्वैश्वानर आप्नोति तं कामं यस्मै कामायाग्निश्चीयते ।। एकेष्टकेत्याहुर्ब्रह्मवादिनो वागेवैकेष्टकेति ब्राह्मण एवैकेष्टकेतीम् एव लोका एतद्ध स्म वा आहुश्शर्कराख्यातिस्र एव वयमिष्टका अग्निं चित्यं विद्मेमानेव लोकानिति ससत्योऽग्निश्चेतव्यो भूरिति प्रथमां वितृण्णीमभिमृशेद्भुवरिति द्वितीयाँ स्वरिति तृतीयामेतद्वै वाचस्सत्यँ ससत्यमेवाग्निं चिनुते ससत्यमग्निमचेष्टा३मुपसत्या३मित्याहुर्ब्रह्मवादिनस्स ह त्वै ससत्यं चिनुते य एवं चिनुते कस्यै देवताया अग्निश्चीयत इत्याहुर्ब्रह्मवादिनः प्रजापत्य एव तस्य किँ हविरित्यात्मैव ॥८॥

आपो वा इदमासन् सलिलमेव स प्रजापतिः पुष्करपर्णे वातो भूतोऽलेलीयत स प्रतिष्ठां नाविन्दत स एतमपां कुलायमपश्यत् स एतं प्रजापतिरपां मध्येऽग्निमचिनुत सेयमभवत् ततः प्रत्यतिष्ठदियं वावाग्निस्तस्माद्यदस्यां खनन्त्यभीष्टकां तृन्दन्त्यभि शर्करां यां पुरस्तादुपादधात् तच्छिरोऽभवत् सा प्राची दिग्यां दक्षिणत उपादधात् स दक्षिणः पक्षोऽभवत् सा दक्षिणा दिग्यां पश्चादुपादधात् तत् पुच्छमभवत् सा प्रतीची दिग्यामुत्तरादुपादधात् स उत्तरः पक्षोऽभवत् सोदीची दिग्यां मध्य उपादधात् तत् पृष्ठमभवत् सोर्ध्वा दिगियं वावाग्निः पञ्चेष्टको य एवं वेद प्रजायते गच्छति प्रतिष्ठामाग्नेयो वै ब्राह्मणस्तस्माद्ब्राह्मणाय सर्वासु दिक्ष्वर्धुकँ स्वाँ ह्येव दिशमन्वेति सर्वा ह वा इयं वयोभ्यो नक्तं दृशे दीप्यते तस्मादिमां वयाँसि नक्तं नाध्यासतेऽपां वा एष कुलायस्तस्मादेतमापः प्रहारुका अपाँ ह्येष कुलायः ॥९॥

यदि मन्येत पूर्वो मातिक्रान्तो भ्रातृव्य इति बाहिष्पवमानस्य पुरस्तादष्टौ लोकंपृणयोपदध्यान्माध्यन्दिनस्य पवमानस्य पुरस्तादेकादशार्भवस्य पवमानस्य पुरस्ताद् द्वादशायं वाव यः पवते स पवमानो वायुरग्नस्तेजो य एवैनं पूर्वोऽतिक्रान्तो भ्रातृव्यस्तं तेजसा प्रणुदते यदि मन्येत पश्चान्मे भ्रातृव्य इति पश्चादेतेषां पवमानानामुपदध्यादयं वाव यः पवते स पवमानो वायुरग्नेस्तेजो य एवास्य पश्चाद्भ्रातृव्यस्तं तेजसापनुदते प्र श्रेयाँसं भ्रातृव्यं नुदते प्रति पापीयाँसं नुदते ।। स एष सवनचित् प्रजापतिर्वा उख्यमग्निमबिभस्तस्य शिरः प्रावर्तत तेन देवा अश्राम्यँस्तस्यैतच्छिरः प्रत्यदधुर्यदुखा तत् संवत्सरमरोहदग्निः प्रजापतिर्यत् संवत्सरमुख्यं बिभर्ति प्रजापतेरेव शिरः प्रतिदधाति तस्मात् संवत्सरमुख्यो भर्तव्यो यदर्वाक् संवत्सरादरुश्चिदेव सः ।।
येन देवा ज्योतिषोर्ध्वा उदायन् येनादित्या वसवो येन रुद्राः ।
येनाङ्गिरसो महिमानमानशुस्तेनैतु यजमानस्स्वस्ति ।
इति घृतेनाक्त्वा समिधमादधाति समिद्धिरेवैषाथो यजमानायैवैतत् स्वस्त्ययनं क्रियते ।।
येऽग्नयः पुरीषिण आविष्टाः पृथिवीमनु । तेषामसि त्वमुत्तमः प्र नो जीवातवे सुव ।।
इति स्वमग्निं चितमुपातिष्ठेत सर्वमायुरेत्युप त्वाग्ने दिवे दिव इत्येतेन त्रिय्यृचेनान्येषामाशीरेव सा ॥१०॥

यर्हि धिष्ण्या उपधीयन्ते तर्हि बार्हस्पत्याभिस्तिसृभिस्तिस्रो दक्षिणत उपदधात्यथ यामीभिस्तिसृभिस्तिस्रः पूर्वा अथ रौद्रीभिस्तिसृभिस्तिस्र उत्तराद्दक्षिणतः पशुश्रपणस्याथ वारुणीभिस्तिसृभिस्तिस्रोऽवभृथे दक्षिणतो वै देवानां यज्ञं रक्षाँस्यजिघाँसँस्तानि ब्रह्मणापाघ्नत ब्रह्म बृहस्पतिर्यद्बार्हस्पत्या दक्षिणत उपधीयन्ते रक्षसामपहत्या अथ यामीरेताभिर्वा असिताय देवलायेमे लोका अर्वाञ्चश्च पराञ्चश्च प्राभुर्यस्यैता उपधीयन्ते समस्मा इमे लोका अर्वाञ्चश्च पराञ्चश्च भान्त्यथ रौद्रीरेष वै रुद्रः पशुश्रपण एवेश्वरो वा एष एतमतोऽनूत्थाय हन्तोर्यद्रौद्रीरुपदधाति तेनैव रुद्रँ शमयत्यथ वारुणीरापो वै वरुण ईश्वरो वा एष एतमवभृथादनूदेत्य वरुणो ग्रहीतोर्यद्वारुणीरुपदधाति निर्वरुणत्वाय ॥११॥

यद्युख्ये भ्रियमाणेऽयं देवः प्रजा अभिमन्येत या आग्नेयीर्भिषग्वतीस्ताभिस्तिसृभिस्तिस्रस्समिध आदध्यादेष वावैतत् प्रजा अभिमन्यते यद्भिषग्वतीभिरादधाति भेषजमेव करोति शान्तिरेव सा यद्युख्ये भ्रियमाणे कामयेत वर्षेदिति यास्सौरी रश्मिवतीस्ताभिस्तिसृभिस्तिस्रस्समिध आदध्यादेष वावैतत् प्रजाश्शुचार्पयति यर्हि पर्जन्यो न वर्षति यद्रश्मिवतीभिरादधाति वृष्टिमेव निनयति ताजक् प्रवर्षति ।। यद्युख्ये भ्रियमाणे कामयेत न वर्षेदिति यास्सौरीर्भ्राजस्वतीस्ताभिस्तिसृभिस्तिस्रस्समिध आदध्याद्भ्राज एवं करोति न ताँ समां वर्षति यद्युख्ये भ्रियमाणे नश्येदेताभिश्चतसृभिरुपतिष्ठेताग्नेऽभ्यावर्तिन्नग्ने अङ्गिरः पुनरूर्जा सह रय्येति विन्दत्येव ।।१२।।

प्राचीनवँशं कुर्वन्ति प्राची देवानां दिग्देवलोकमेवोपावर्तते पुर आदित्योऽसा अमुमेवादित्यमुपोत्क्रामति परिश्रिते याजयन्ति देवलोकमेव परिगृह्य तस्मिन्नेनं दीक्षयन्त्येति वा एषोऽस्माल्लोकद्योऽमुं लोकं गच्छत्यन्तर्हित इव वा इतोऽसौ लोकस्स्रक्तिष्वतीरोकान् कुर्यात् तेनास्माल्लोकान्नैत्याग्नावैष्णवमेकादशकपालं निर्वपत्यग्निर्वै सर्वा देवता विष्णुर्यज्ञो देवताश्चैव यज्ञं चालभ्य दीक्षामुपैति पवित्रं वा अग्निर्यज्ञो विष्णुः पवित्रपूत एव यज्ञमालभते यदष्टाकपालस्तेनाग्नेयो यत् त्रिकपालस्तेन वैष्णवस्तेनोभयस्मान्नैत्याग्नावैष्णवमेकादशकपालं निर्वपत्यग्निर्वै देवानामवमो विष्णुः परमो यथा तेजन्या अन्तौ संगृह्णात्येवमेवैतदुभयतस्संगृह्य मध्यतो देवता आवपते पुरोडाशस्स्याद्ब्रह्मवर्चसकामस्य शिरो वा एतद्यज्ञस्य यत् पुरोडाशो ब्रह्मवर्चसं पुरोडाशो ब्रह्मवर्चसी भवति चरुर्घृते स्यात् प्रजाकामस्य वा पशुकामस्य वा मिथुनं वा एतद्यद्घृतं च तण्डुलाश्च धेन्वा घृतं पयोऽनङुहस्तण्डुला मिथुनमेव यज्ञमुखे दधाति प्रजननाय यतो वा एतद्रूपं यच्चरुरेजतेव ह्येति दीक्षितोऽमुं लोकममुँ ह्येष लोकमभिदीक्षते यञ्चरुर्भवति संमृद्ध्या आङ्क्तेऽभ्यङ्क्तेऽश्नाति वासः परिधत्त एता वै पुरुषस्य तन्वस्सर्वतनूरेव भूत्वा दीक्षामुपैति च्छिद्रो वै पुरुषोऽन्तरादमेध्यो यदश्नति मेध्यत्वायैवाच्छिद्रत्वायैवमिव वा अमुष्मिंल्लोके यथा दीक्षमाणो यथा मन्येतेत्थं मे नोपतप्स्यतीति तथा व्रतयेदथो यतः कनीयो दीक्षितस्सन् व्रतयिष्यन् स्यात् तथा प्राश्नीयात् केशश्मश्रु वपते नखान्निकृन्तते दतो धावतेऽमृतं वा एतत् पुरुषस्यामेध्यममेध्यमेवापहत्य मेधमुपैति स्नात्यङ्गिरसो वा अप्सु दीक्षां निधाय स्वर्गं लोकमायन् यत् स्नाति तामेव दीक्षामालभते ग्रीवादघ्ने स्नेयं ग्रीवादघ्ने हि ते तां निधायायन यावत्येव कियति चाद्भिश्चेत् स्नाति तेनैव तां दीक्षामालभते न वहन्तीभिस्स्नायाद्यद्वहन्तीभिस्स्नायात् क्षत्रं यश ऋच्छेन्न कूप्याभिस्स्नायाद्यत् कूप्याभिस्स्नायद्विशं यश ऋच्छेत् स्थावराभिस्नेत्यमेता वा अपां दीक्षिताः पशुमतीर्यास्स्थावरा लोमशास्संतता लोमशाः पशवो यजमानमेव यशसार्पयति तीर्थे स्नेयं तीर्थमेव समानानां भवति ॥१३॥

समिद्दिशामाशया नस्स्वर्विन्मधुरतो माधवः पात्वस्मान् ।
अग्निर्देवो दुष्टरीतुरदब्ध इदं ब्रह्म जिवन्तु पात्वस्मान् ।।
रथंतरँ सामभिः पात्वस्मान् गायत्री छन्दसां विश्वरूपा ।
त्रिवृद्विष्ठया स्तोमो अह्नाँ समुद्रो वात इदमोजः पिपर्तु ।।
उग्रा दिशामभिभूतिर्वयोधाश्शुचिश्शुक्रो अहन्योजस्ये ।
इन्द्राधिपत्यैः पिपृतादतो नो महि क्षत्रं विश्वतो धारयेदम् ॥
बृहत् साम क्षत्रभृद्वृद्धवृष्ण्यं त्रिष्टुभौजश्शुभितमुग्रवीरम् ।
इन्द्र स्तोमेन पञ्चदशेनौज इदं वातेन सगरेण रक्ष ।।
प्राची दिशाँ सहाशया नो विश्वे देवाः प्रावृषाह्नाँ स्वर्वित् ।
इदं क्षत्रं दुष्टरमस्त्वोजोऽनाधृष्टँ सहस्रियँ सहस्वत् ॥
वैरूपेण साम्ना तच्छकेयं जगत्यैनं विक्ष्वावेशयामि ।
विश्वे देवास्सप्तदशेन मध्यमिदं क्षत्रँ सलिलं वातमुग्रम् ॥
यन्त्री दिशां क्षत्रमिदं दाधारोपस्थाशा मित्रवतीदमोजः ।
मित्रावरुणा शरदाह्नां जिगत्नू अदब्धक्षत्रमिदमस्त्वोजः ॥
वैराजे सामन्नधि मे मनीषानुष्टुभा संभृतं दुष्टरँ सहः ।।
इदं क्षत्रं मित्रवदार्द्रदान्वोजो मित्रावरुणा रक्षतमाधिपत्यैः ॥
सम्राड् दिशाँ सहसाम्नी सहस्वत्यृतुर्हेमन्तो विष्ठया पिपर्तु नः ।
अवस्युवाता बृहती न शक्वरीमं यज्ञमवतु या घृताची ॥
स्वर्वती सुदुघा या पयस्वतीमं यज्ञमवतु या घृताची ।
त्वं नो गोपा अवितोत यन्ता बृहस्पते याम्यां युङ्ग्धि वाचम् ॥
ऊर्ध्वा दिशां रन्तिराशौषधीनाँ संवत्सरेण सविता नो अह्नाम् ।
रेवत् सामातिच्छन्दा उ च्छन्दोऽजातशत्रुस्सुहवो न एधि ।।
स्तोम त्रयस्त्रिँशे भुवनस्य पत्नि विवस्वद्वाते अभि नो गृणीहि ।
घृतवती सवितुराधिपत्ये पयस्वती रन्तिराशा नो अस्तु ।।
हिरण्यगर्भो यः प्राणतः ।।
विराड् दिशां विष्णुपत्न्यघोरास्येशाना सहसो या मनोता ।
विश्वव्यचा इषयन्ती सुभूता शिवा नो अस्त्वदितिरुपस्थे ।।
विष्टम्भो दिवो धरुणः पृथिव्या अस्येशाना सहसो विष्णुपत्नी ।
बृहस्पतिर्मातरिश्वोत वायुस्संध्वाना वाता अभि नो गृणन्तु ।।
वैश्वानरो न ऊतये पृष्टो दिव्यन्विदनुमते त्वं यत् ते नाम ॥१४॥

अग्नेर्मन्वे प्रथमस्य प्रचेतसो यं पाञ्चजन्यं बहवस्समिन्धते ।
विश्वस्यां विशि प्रविविशानमीमहे स नो मुञ्चत्वँहसः ।।
यस्येदं प्राणन्निमिषद्यदेजति यस्य जातं जनमानं च केवलम् ।
स्तौम्यग्निं नाथितो जोहवीमि स नो मुञ्चत्वँहसः ।।
इन्द्रस्य मन्वे प्रथमस्य प्रचेतसो वृत्रघ्स्स्तोमा उप मामिहागुः ।
यो दाशुषस्सुकृतो हवमुप गन्ता स नो मुञ्चत्वँहसः ।।
यस्संग्रामं जयति सं वशी युधा यः पुष्टानि सँसृजति त्रयाणि ।
स्तौमीन्द्रं नाथितो जोहवीमि स नो मुञ्चत्वँहसः ।।
वायोस्सवितुर्विदथानि मन्महे या आत्मन्वद्बिभृथो यौ च रक्षथः ।
यौ विश्वस्याधिपा बभूवथुस्तौ नो मुञ्चतमागसः ।।
उप श्रेष्ठा न आशिषो देवयोर्धर्मे अस्थिरन् ।
स्तौमि वायुँ सवितारं नाथितो जोहवीमि तौ नो मुञ्चतमागसः ।।
मन्वे वां मित्रावरुणा तस्य वित्तँ सत्यौजसा दृहणा यं नुदेथे ।
या राजाना सरथं याथ उग्रा तौ नो मुञ्चतमागसः ।।
यो वां रथ ऋजुरश्मिस्सत्यधर्मा मिथूचरन्तमुपयाति दूषयन् ।
स्तौमि मित्रावरुणा नाथितो जोहवीमि तौ नो मुञ्चतमागसः ॥
रथीतमौ रथीनाँ हुव ऊतये शुभं गमिष्ठा सुयमेभिराशुभिः ।
ययोर्वां देवौ देवेष्वनिषितमोजस्तौ नो मुञ्चतमागसः ।।
यदयातं वहतुँ सूर्यायास्त्रिचक्रेण सँसदमिच्छमानौ ।
स्तौमि देवा अश्विना नाथितो जोहवीमि तौ नो मुञ्चतमागसः ।।
मरुतां मन्वे अधि नो ब्रुवन्तु प्रेमां वाचं विश्वामवन्तु विश्वे ।
आशून् हुवे सुयमानूतये ते नो मुञ्चन्त्वेनसः ।।
तिग्ममायुधमीडितँ सहस्वद्दिव्यँ शर्धः पृतनासु जिष्णु ।
स्तौमि देवान्मरुतो नाथितो जोहवीमि ते नो मुञ्चन्त्वेनसः ।।
विश्वेषां देवानां मन्वे अधि नो ब्रुवन्तु प्रेमां वाचं विश्वामवन्तु विश्वे ।
आशून् हुवे सुयमानूतये ते नो मुञ्चन्त्वेनसः ।।
यदिदमभिदासति पौरुषेयाद्दैव्यादेवेष्टिरस्तु द्विपदश्चतुष्पदः ।
स्तौमि विश्वान् देवान्नाथितो जोहवीमि ते नो मुञ्चन्त्वेनसः ॥
अन्विदनुमते त्वं यत् ते नाम वैश्वानरो न ऊतये पृष्टो दिवि ।।
ये अप्रथेताममितेभिरोजोभिर्ये प्रतिष्ठे अभवतां वसूनाम् । ते नो मुञ्चतमँहसः ॥
उर्वी रोदसी वरिवः कृणुतं क्षेत्रस्य पत्नी अधिवोचतं नः ।
स्तौमि द्यावापृथिवी नाथितो जोहवीमि ते नो मुञ्चतमँहसः ॥१५॥ [१७७४]


॥ इति श्रीयजुषि काठके चरकशाखायां मध्यमिकायां स्वर्गं नाम द्वाविंशं स्थानकं संपूर्णम् ॥२२॥